ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 59, कुल 272 में से
संदर्भ में पढ़ेंसौभाग्यभास्करव्याख्या । ३१
चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥ ५५ ॥
मित्युकं पुष्पपञ्चकमीश्वरी'ति । तेषां नामानि तु कालिकापुराणे । 'हर्षणं रोचनाख्यं च
मोहनं शोषणं तथा । मारणं चेत्यमी बाणा मुनीनामपि मोहदा' इति । ज्ञानार्णवेतु ।
'क्षोभणं द्रावणं देवी तथाकर्षणसंज्ञकम् । वश्योन्मादौ क्रमेणैव नामानि परमेश्वरी'ति ।
तन्त्रराजे तु । 'मदनोन्मादनौ पश्चात्तथा मोहनदीपनौ । शोषणश्चेति कथिता बाणाः
पञ्च पुरोदिताः' इति । अथायुधमन्त्रोद्धारः । रश्च अगश्च स्वं च तेषां समाहारो रागस्वं ।
अगशब्देन स्थाणुर्हकारः । 'हः शिवो गगनं स्थाणु'रितिकोशात् । स्वं सबिन्दुक ईकारः ।
तेन रेफहकारैकारबिन्दुसमाहारो रूपं सूक्ष्माख्यं यस्य पाशस्येत्यादि । हकारोत्तरमिह रे-
फोऽवगन्तव्यः संप्रदायात् । क्रो च धश्च आ च क्रोधाः । तदुपरि श्रूयमाणः कारप्र-
त्ययो द्वंद्वान्तत्वात् प्रत्येकं संबध्यते । क्रोकारधकाराकारा इत्यर्थः । तेऽङ्कुशेनोज्ज्वलाः
अनुस्वारेण शोभमानाः । कौ शेत इति कुशः अंकाराभिन्नः कुशोऽङ्कुशः । मन इति
थकारस्य संज्ञा । थकाराधिकारे 'दक्षनासाधिपो मन' इति कोशात् । कोदण्डोऽनुस्वारः
'अंकारश्चंचुकोदण्ड' इति कोशात् । मनोरूपः कोदण्डः थकाराभिन्नोंकारः क्रोधाकारेत्या-
दिनामसु दकाररेफककारलकारयकारसकारवकारा आ ई ऊ स्वराः सबिन्दुका विव-
क्षिताः । इतरदविवक्षितं । तेषां यथासंप्रदायं योगे बाणबीजानि सिध्यन्तीति । आयु-
धबीजविभागस्तु गुरुमुखादवगन्तव्यः । निजःस्वकीयो योऽरुणप्रभाया रक्तिमकान्तेः पूरः
प्रवाहस्तस्मिन्मज्जन्ति तदभेदेन भासमानानि ब्रह्माण्डानां मण्डलानि यस्याः सा । प्रातः-
काले सौभाग्यादिन्यासविशेषेषु यादृशं ध्यानं विहितमस्ति तादृशरूपवतीत्यर्थः ॥ ५४ ॥
इदानीं अग्निकुण्डापादानकस्थूलरूपप्रादुर्भावे शीर्षस्य प्रथमत्वाद्देवीमुखाभिन्नवाग्भवकू-
टस्य पंचदश्यां प्रथमत्वाच्च शीर्षमारभ्यैव पादपद्मान्तं वर्णयितुमारभते । चम्पकादिशब्दा
वृक्षे शक्ता अपि तत्तत्पुष्पेष्वपि निरूढलक्ष्णिकाः । 'द्विहीनं प्रसवे सर्व' मित्यभि-
पुराणकोशात् । चम्पकानि चेत्यादि द्वन्द्वः । सौगन्धिकानि कह्लाराणि तैः पुष्पैः लसन्तः
शोभमानाः कचाः शिरोरुहा यस्याः सा । लसच्छब्दोऽन्तर्भावितण्यर्थो वा । तेन पुष्पेषु
स्वीयपरिमलापादकाः कचा इति फलति । तदुक्तं । 'जानासि पुष्पगन्धान्भ्रमर त्वं
ब्रूहि तत्त्वं मे । देव्याः केशकलापे गन्धः केनोपमीयते'ति । कुरुविन्दमणयः पद्मरागा-
ख्याः शोणाः कामानुरागादिबहुगुणशीलाः रत्नविशेषा । तदुक्तं गरुडपुराणे रत्ना-
ध्याये । 'तस्यास्तटेषूज्ज्वलचारुरागा भवन्ति तोयेषु च पद्मरागाः । सौगन्धिकोत्थाः कुरु-
विन्दजाश्च महागुणाः स्फाटिकसंप्रसूताः । सौगन्धिककुरुविन्दस्फटिकाद्यन्तर्गतपाषाणा-
दिप्रभेदास्तद्गर्भे पद्मरागमणीनामुत्पत्तिः । तेषु कुरुविन्दोद्भवैष्वेव । 'बन्धूकगुञ्जाशकलेंद्र-
गोपजपाशशासृक्समवर्णशोभाः । आजिष्णवो दाडिमबीजवर्णास्तथापरे किंशुकवर्णभास'
इति । अत्र तस्या इत्यस्य रावणगङ्गाया इत्यर्थः । 'ये तु रावणगङ्गायां जायन्ते कुरुवि-
न्दकाः । पद्मरागा घनाकारं बिभ्राणाः सुस्फुटार्चिष' इत्युपक्रमात् । गुणातिशयोऽपि