सामग्री पर जाएँ
सर्वकोश
ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)

Lalita Sahasranama with Saubhagya Bhaskara Commentary

भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा

DevanagariSanskritpublished272 पृष्ठ

पृष्ठ 61, कुल 272 में से

संदर्भ में पढ़ें
पृष्ठ 61

सौभाग्यभास्करव्याख्या । ३३

पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिरदनच्छदा ॥ ६० ॥
शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ॥ ६१ ॥

ब्वादशौ दर्पणं तं परिभवत्यवजानाति । ततोप्यतिशयेन कामेश्वरप्रतिबिम्बग्राहित्वाच्छो-
णत्वाच्च । ईदृशी कपोलभूर्गण्डभित्तिर्यस्याः । नवां नूतनां विद्रुमबिम्बयोः पक्वप्रवालतु-
ण्डीफलयोः श्रियं कान्तिं न्यक्कुरुतोऽधः कुरुतस्ततोऽप्याधिक्येनोन्नत्यात् । तादृशौ रदन-
च्छदावोष्ठौ यस्याः 'सा भवति शुद्धविद्या येदंताहंतयोरभेदमति'रित्युक्तेर्दत्तात्रेयसंहितादिषु
श्रीविद्यायास्तादृशाभेदपरत्वेन व्याख्यानात् सैव शुद्धविद्योच्यते । शुद्धाया अविद्यामलप्र-
तिस्र्पर्धिन्या विद्यायाः षोडशीरुपाय्या अङ्कुराणामिवाकारः स्वरूपं यस्य तेन द्विजपङ्क्तिद्वये-
न दन्तपङ्क्तियुगलेनोज्ज्वला शोभमाना । श्रीमातुर्हि मूलाधारादिभ्यः परापश्यन्त्यादिक्रमेण
वैखर्यात्मना मुखान्निःसृतासती षोडशीविद्या पश्चात्कर्णात्कर्णोपदेशेन विसृताभूत् । तत्र
शब्दब्रह्मरुपस्य बीजस्योच्छूनतावस्था परा स्फुटितावस्था पश्यंती मुकुलिताव्यक्तं दलद्वयं
मध्यमा । सम्यग्विकासेन प्रसृतं मिथः संसृष्टमूलं दलद्वयं वैखरी । तदेव चाङ्कुरपदवा-
च्यम् । तद्दशायां दंतसाम्यमप्यस्त्येव । षोडशाक्षराङ्कुराणां प्रत्यङ्कुरं दलद्वयाद्द्वात्रिंशद्द-
न्तसंख्यासंपत्तिरपि । अतस्तान्यङ्कुराण्येव मूर्तिमन्ति दन्तरूपाणीति तात्पर्यं । द्विजशब्द-
श्लेषेण समासोक्त्यलंकारेणार्थान्तरम् । वेदादयो विद्या हि ब्राह्मणमेवाश्रित्य तिष्ठंति ।
'विद्या ह वै ब्राह्मणमाजगामे' तिश्रुतेः । तेनाप्रतिष्ठाः सत्योऽन्यत्र विस्तारं प्राप्नुवन्ति । अतो-
हेतोर्ब्राह्मणा एव विद्याङ्कुररूपाः । ततश्च शुद्धा निर्मला सती विद्याङ्कुराकारा च सती या-
वद्विजानां ब्राह्मणानां पङ्क्तिस्तद्द्वयेनोज्ज्वला । ब्राह्मणानामप्यम्बामुखान्निःसृतत्वेन तएव
मूर्तिमन्तो दंता इति तात्पर्यम् । यद्वा 'शुद्धविद्या च बाला च द्वादशार्धा मतङ्गिनी'त्या-
दिक्रमेणानुत्तरपर्यन्ता द्वात्रिंशद्दीक्षास्तन्त्रेषु प्रसिद्धास्तद्विजपङ्क्तिपदेनोच्यन्ते । दीक्षाया
अपि जन्मरूपत्वात् । उपनयनापेक्षया द्वितीयत्वाच्च । 'दीक्षा जन्म तृतीयं स्या'दिति
वचनस्य मातुरुदराञ्जन्ममेलनाभिप्रायकत्वेनाविरोधात् । शुद्धविद्या त्र्यक्षरी सैवाङ्कुरमा-
रम्भो यस्याः सा शुद्धविद्याङ्कुरा । अकारेत्यत्राङःपरतोऽकारप्रश्लेषेणाङ्कुरयोरभि-
'विध्यनुत्तरवाचकत्वेनानुत्तरपर्यन्तेत्यर्थः । शुद्धविद्याङ्कुरा च सा आकारा च सा
द्विजपङ्क्तिश्चेति कर्मधारयोत्तरं तस्या द्वयेनोज्ज्वला भासमानेति विग्रहः । संप्रदायक-
मायाताद्द्वात्रिंशद्दीक्षितान्तःकरणैः पुरुषधौरेयैरेव लभ्या नान्यैरिति भावः । 'एलालवङ्गक-
र्पूरकस्तूरीकेसरादिभिः । जातीफलदलैः पूगैर्लाङ्ग्ल्यूषणनागरैः । चूर्णैः खदिरसारैश्च
युक्ता कर्पूरवीटिके'तिलक्षणलक्षितस्य तांबूलस्यामोदं परिमलं समाकर्षन्ति स्वखाभिमु-
ख्येन प्रसारयन्ति या दिशः प्राच्याद्या दश देवतास्ता एवान्तं परिधानं यस्याः सा ।
ताभिर्देवताभिरम्बामुखकमलविगलताम्बूलकवलनापेक्षिणीभिरपि तदलाभात्प्रथमनिःसृ-