ललिता सहस्रनाम: सौभाग्यभास्कर भाष्य (भास्करराय मखी प्रणीत मूर्धन्य शाक्त भाष्य)
Lalita Sahasranama with Saubhagya Bhaskara Commentary
भास्करराय मखी (सम्पादक: वासुदेव लक्ष्मण पणशीकर) द्वारा
पृष्ठ 56, कुल 272 में से
संदर्भ में पढ़ेंविरहात्सर्वेषामिति लाभात् । 'यतो वा इमानि भूतानि जायन्ते' इति अविशेषश्रुतेश्च ।
अतएव निरुपपदा एवेश्वरेशानादिशब्दाः परशिववाचकाः। अत'श्चेशानो भूतभव्यस्ये'त्या-
दाविव जगन्मातेति क्वचित्प्रतिसंबन्धिनिर्देशेऽपि मातृपदमात्रस्य त्रिपुरसुन्दरीवाचकत्वं न
विहन्यते । यद्वा । हसकलरडेति व्यञ्जनषट्कस्य बालायाः स्वरत्रयेणान्ते योजने कूटत्रया-
त्मको जायमानो मन्त्रो मातेत्युच्यते । 'माया कुण्डलिनी क्रिया मधुमतीति' मन्त्रपाराय-
णोद्धारश्लोके मातृपदस्य तथा वृद्धैर्व्याख्यानादिति मन्त्रोद्धारपरा व्याख्यावगन्तव्या ।
राजशब्दान्तान्तत्वान्डीपि कृते पश्चान्महच्छब्देन समासे 'आन्महत' इत्यात्वे श्रीयुक्ता म-
हाराज्ञीति मध्यमपदलोपसमासे रूपं । नतु महाराजशब्दाट्टित्वान्डीप् । तथात्वे महारा-
ज्ञीत्यापत्तेः । सकलप्रपञ्चजातपालनेऽधिकृतेत्यर्थः । राजशब्दशक्यतावच्छेदकनृपत्वकोटौ
पालनस्य निविष्टत्वात् । तथाच श्रुतिः । 'येन जातानि जीवन्ती'ति । अत्र श्रीविद्यायां
निगूढस्याक्षरत्रयस्योद्धारः । तत्रैकं तावत्षोडशीकलेत्युच्यते । 'सच्छिष्यायोपदेष्टव्या गुरुभ-
क्ताय सा कले'ति वचनात्प्रायेनाधुनिकाैर्बहुभिर्गुुरुमुखाज्ज्ञातं । तच्च 'शिवः शक्तिः काम'
इति विद्योद्धारश्लोके सौन्दर्यलहरीव्याख्यानोल्लेखने प्रकटीकृतं चतुर्लक्षभीमनुषु प्राथ-
मिको मन्त्र इति । इतरद्वयं प्रकाशविमर्शरूपम् । तदुक्तं संकेतपद्धतौ । 'अकारः सर्वव-
र्णाग्य्रः प्रकाशः परमः शिवः । हकारोऽन्त्यः कलारूपो विमर्शाख्यः प्रकीर्तितः' इति ।
अनयोरपि रहस्यत्वादेव 'मध्यविन्दुविसर्गांतः समास्थानमये परे । कुटिलारूपके तस्याः
प्रतिरूपं वियत्कले' त्यादिभिर्गूढार्थैरेव श्लोकैर्योगिनीहृदये स्वरूपनिष्कर्षः कृतः । तत्प्र-
काशनं चास्माभिरविस्ताररहस्यसेतुबन्ध एव कृतमिति नेह प्रतन्यते । राज्ञीत्यंशेन माया-
राज्ञीमन्त्रोद्धारः । अतएव न तच्चप्रत्ययान्तत्वेन प्रयोगः । नृपाधिष्ठितमासनं सिंहासन-
मुच्यते । आसनेषु सिंहः श्रेष्ठमित्यर्थे राजदन्तादित्वात्पूर्वनिपातः । श्रीमत्प्रपंचसाम्राज्यल-
क्ष्मीवच्च तत्सिंहासनंच तस्येश्वरी ईशित्री । सिंहाभिन्नमासनमिति वा । देव्याः सिंहासनारू-
ढत्वात् । तदुक्तं देवीपुराणे नामनिर्वचनाध्याये 'सिंहमारुह्य कन्यात्वे निहतो महिषोऽ-
नया । महिषघ्नी ततो देवी तथा सिंहासनेश्वरी'ति । यद्वा सिंहशब्दो हिंसाार्थकः । त-
दुक्तं वैयाकरणैः । 'हिसिधातोः सिंहशब्दो वशकान्तौ शिवः स्मृतः । वर्णव्यत्ययतः सिद्धौ
पश्यकः कश्यपो यथेति' । तेन सिंहेन हिंसयाऽसनं क्षेपणं निरास इति यावत् । 'असु
क्षेपणे' इतिधातोल्र्युट् । संहार इति समुदायार्थः । तत्रेश्वरी समर्था । तथाच श्रुतिः
'यत्प्रयन्त्यभिसंविशन्तीति' । यद्वा मकारः पंचसंख्यापरः । सन्ति सिंहासनसमाख्याता-
श्वैतन्यभैरव्यादिसंपत्प्रदा भैरव्यंता अष्टौ मन्त्राः । तेषु त्रयं युग्मरूपं द्वयमेकॅकरूपमि-
त्येवं पञ्चैव दिव्यौघभेदेन सिंहासनानि ज्ञानार्णवे कथितानि । 'पञ्चसिंहासनगता कथं
सा त्रिपुरा परा । कथयस्व महेशान कथं सिंहासनं भवेदि'ति पृष्टे । 'प्रथमं शृणु देवेशि
ब्रह्मा सृष्टिकरो यदा । निश्चेतनोऽथ देवेशीं तदा त्रिपुरसुंदरीम् । समाराध्याभवत्कर्ता
सृष्टेस्तु परमेश्वरि । ब्रह्माणं तं समाराध्य तपसा महता प्रिये । शक्तोऽभूद्देवराजोयं पूर्वस्यां
दिशि पालकः । तदा प्रसन्ना त्रिपुरा पूर्वसिंहासने स्थिते' त्यादिना । तेषां पञ्चसिंहासना-