कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)
Kumarasambhavam of Kalidasa with Hindi Commentary
महाकवि कालिदास / पं. सीताराम चतुर्वेदी द्वारा
( १३७ )
सखोति । तस्याः पार्वत्या इयं तदीया सखी वयस्या तम् ।
'वर्ण प्रशस्तिः' इति क्षीरस्वामी । सोऽस्यास्तीति वर्णिने ब्रह्म-
चारिणम् । 'वर्णाद्ब्रह्मचारिणि' इतीनिप्रत्ययः । उवाच ब्रूते स्म ।
किमिति । हे साधो विद्वन् तव कुतूहल चेत् श्रोतुमस्तीति शेषः ।
तर्हि निबोध अवगच्छ । आकर्णयेत्यर्थः 'बुध अवगमने' इति
धातोर्भौवादिकाल्लोट् । श्रोतव्यं कि तदाह—यस्मै लाभायेदं
यदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' इति
वार्तिकनियमात्क्रियाविशेषणम् । एतया पार्वत्या अम्भोजं पद्मम्
उष्णावारणं आतपत्र इव वपुः शरीरं तपः साधनं कृतम् । तपः-
प्रवृत्तिकारणमुच्यते श्रूयतामित्यर्थः ॥ ५२ ॥
PROSE ORDER —तदीया सखी तं वर्णिर्न उवाच, (हे)
साधो, तव चेत् कुतूहलम् (तर्हि) निबोध, एतया यदर्थं अम्भोजं
उष्णावारणमिव वपुः तपः साधनं कृतम् ॥ ५२ ॥
NOTES —तदीया—(तद्+छः+ईय+आ) तस्या इयं
तदीया of her, i e., of Parvati See notes on तदीयं in
the verse 21 वर्णिन्—(वर्ण+इनिः=वर्णिन्) वर्णः
(प्रशस्तिः) अस्यास्तीति वर्णिन्, तं वर्णिर्न to the Brahma-
charin; an ascetic. The word वर्ण means प्रशस्तिः
(freedom from carnal enjoyment—'वर्णः प्रशस्तिः) or
वेदाध्ययनार्थं ब्रह्मचर्यम् (the first stage of life—Brahma-
charya), or a particular colour Cf 'वर्णो द्विजादि-
शुक्लादियज्ञे गुणकथासु च स्तुतौ ना' इति मेदिनी । The suffix
इनि is added to वर्ण by 'वर्णाद्ब्रह्मचारिणि' पा० ५.२.१३४ ।
When the meaning is other than ब्रह्मचारिन् this suffix
will not be added and the form would be वर्णवान् ।
For the meaning of प्रशस्ति Cf. "स्मरणं कीर्त्तनं केलिः
( १३८ )
प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।" एतदष्टविधमैथुनाभावः
प्रशस्तः । ' साधो—साध्नोति परेषां कार्याणि इति साधुः, तस्य
सम्बोधने साधो ( सज्जन ) O one who accomplishes
another's business O sage; noble sir Voc. sing
of साधु कुतूहलं—Curiosity to know about the bride-
groom desired by Parvati निबोध—जानीहि you may
hear or know यदर्थं यस्मै इति यदर्थं for whom. The com-
pound with अर्थ is a नित्यसमास and takes the gender
and number of the noun it qualifies Cf. 'अर्थेन सह
नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम् ।' For the meaning
of नित्यसमास ( अविग्रहो नित्यसमासः अस्वपदविग्रहो वा ) see
notes on क्रियार्थं in verse 33 above. अम्भोजं—अम्भसि
( जले ) जात इति अम्भोजं a lotus Synonyms of अम्भोज
may be had by adding ज to word meaning water.
उष्णवारणं—उष्णस्य वारणं उष्णवारणम् ( छत्रम् ) warding
off the sun ; an umbrella. तपःसाधनं—तपसः साधनं
तपःसाधन a means of practising religious austerities
Just as people use a lotus leaf for warding off the
sun so did Parvati employ her body to practise
penance 52
CHANGE OF VOICE:—तदीयया सख्या स वर्णी ऊचे, (हे)
साधो, चेत् तव कुतूहलं ( तर्हि त्वया ) निबुध्यताम्, एषा यदर्थं
अम्भोजं उष्णवारणमिव वपुः तपःसाधनं कृतवती ॥ ५२ ॥
HINDI TRANSLATION :—उसकी सहेली उस ब्रह्मचारी से
बोली—( हे ) साधु, यदि तुम्हें उत्सुकता हो तो सुनो (या
( १३६ )
जानो ) जिस लिये इसने ( अपने ) शरीर को ( उसी प्रकार )
तप करने का साधन बनाया है जिस प्रकार कमल धूप दूर करने
के लिये बनाया जाता है ॥ ५२ ॥
ENGLISH TRANSLATION —Her friend said to the
ascetic—‘ O sage, if such be thy curiosity, thou mayst
know then, for whom this lady has made her body a
means of practising penance, as one makes a lotus ( a
means of ) warding off the sun 52
PURPORT IN SANSKRIT :—ब्राह्मणजिज्ञासां दृष्ट्वा तस्या
वयस्या ब्राह्मणं प्रत्युवाच—' हे महाशय, यदि ते महती जिज्ञासा
तर्हि मया कथ्यमानं तत्प्रयोजनं शृणु यदर्थे अनया स्वशरीरं तथैव
शीतातपादिसहने नियुक्तं यथा कश्चित्पुरुषस्तापदूरीकरणाय कमल-
दलमेकं प्रयुङ्क्ते ॥ ५२ ॥
इयं महेन्द्रप्रभृतीन्निधिश्रिय-
श्चतुर्दिगीशानवमत्य मानिनी ।
अरूपहार्यं मदनस्य निग्रहात्
पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ५३ ॥
‘दृङ्मनःसङ्गसंकल्पा जागरः कृशताऽरतिः । ह्रीत्यागोन्माद-
मूर्छान्ता इत्यनङ्गदशा दश ।’ इति । तत्रास्याः काश्चिद्दशाः क्रम-
मनादृत्यैव योजयति—इयमित्यादिभिः षड्भिःश्लोकै —
इयमिति । मानिनी इन्द्राणीप्रभृतीरतिशय्य वर्तितव्यमित्य-
भिमानवती इयं पार्वती अधिश्रियः अधिकैश्वर्यान् महेन्द्रप्रभृतीन्
इन्द्रादींश्चतसृणां दिशामीशान् चतुर्दिगीशान् इन्द्रवरुणयम-
कुबेरान् । ‘तद्धितार्थ’—इत्यादिनोत्तरपदसमासः । अवमत्य
( १४० )
अवधूय मदनस्य निग्रहात् निर्वहणाद्धेतोः । अकामुकत्वादित्यर्थः ।
रूपेण सौन्दर्येण हार्यो वशीकरणीयो न भवतीति अरूपहर्यं पिनाकः
पाणौ यस्य तं पिनाकपाणि हरम् । ' प्रहरणार्थेभ्यः परे निष्ठा-
सप्तम्यौ भवतः ' इति साधु । पति भर्तारं आप्तुं इच्छति । एनेन
संकल्पावस्था सूचिता ॥ ५३ ॥
PROSE ORDER :—मानिनी इयं अधिश्रियः महेन्द्रप्रभृतीन्
चतुर्दिगीशान् अवमन्य मदनस्य निग्रहात् अरूपहार्यं पिनाकपाणिं
पतिं आप्तुं इच्छति ॥ ५३ ॥
NOTES :—मानिनी—( मान + इनिः + ङीप् ) मानोऽस्या
अस्तीति मानिना ( अभिमानवती ) a high-minded lady.
अधिश्रियःअधिका श्री. (ऐश्वर्यं) येषां ते, अधिगता वा श्रीः यैस्ते,
तान् अधिश्रियः pre-eminently rich Acc. plural, Adjec-
tive of चतुर्दिगीशान् । महेन्द्रप्रभृतीन्—महाञ्चासौइन्द्रः, महेन्द्रः,
महेन्द्रः प्रभृतिः (आदि ) येषां ते महेन्द्रप्रभृतयः, तान् महेन्द्रप्रभृतीन्
the great Indra and others चतुर्दिगीशान्—( चतुर्दिक् +
ईशान् ) चतसृणां दिशां समाहारः चतुर्दिक, तस्य ईशान्, Or
simply चतसृणां दिशां ईशाः ( स्वामिनः) चतुर्दिगीशाः, तान्
the lords of all the four quarters. Indra, Varuna,
Yama and Kubera are the lords of east, west, south
and north respectively. The compound is an उत्तर-
पदसमास by ‘ तद्धितार्थोत्तरपदसमाहारे च ’ पा० २.१.५१ ।
i. e., words denoting a cardinal point or numerals
may be compounded with any other noun when a
Taddhita termination is to be affixed to the compound
so formed, or when the compound itself becomes
( १४१ )
the first member of another compound or when the
compound forms a proper name अवमन्य—( अव +
√मन्+क्त्वा—ल्यप् ) अनादृत्य having disdained, not
attaching any importance to them. मदनस्य—of Cupid.
निग्रहात्—दण्डनात् by his punishing or destroying
( Cupid ) अरूपहार्यम्--( √हृ+ण्यत् ) हर्तुं शक्यो हार्यः
रूपेण हार्यः रूपहार्यः, न रूपहार्यः अरूपहार्यः तम् who cannot
be conquered by means of beauty When Shiva could
not be allured by Cupid, it is quite appropriate to
say that he could not be conquered by physical
charms This was the reason why Parvati wanted to
win him over by the power of penance पिनाकपाणिम्—
पिनाकः (धनुर्विशेषः ) पाणौ यस्य स पिनाकपाणि ( शिवः ) तं
who holds Pinàka in his hand, i e, Shiva Pinàka is
the proper name of Shiva's bow 'पिनाकोऽस्त्री रुद्रचापे
पांसुवर्षत्रिशूलयोः' इति मेदिनी । The Locatnee of पाणि is
made the second member, instead of the first, of the
compound by 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' । आप्तुं—अधि-
गन्तुं to obtain.
In this and the following five verses the poet
has described some of the ten states of Pàrvati
to which she was subjected because of her attach-
ment for Shiva. These states are known as अनङ्ग-
दशाः i. e, the various states of a person's mind and
body when he is in love with somebody. They
are—'दृङ्मनःसङ्गसङ्कल्पा जागरः कृशताऽरतिः । ह्रीत्यागोन्माद-
कु० सं०—११
( १४२ )
मूर्च्छान्ता इत्यनङ्गदशाः दश ॥' In this verse Parvati's
सङ्कल्प i. e., determination to obtain Shiva has been
suggested. 53.
CHANGE OF VOICE:—मानिन्या अनया अधिश्रियः
महेन्द्रप्रभृतीन् चतुर्दिगीशान् अवमत्य मदनस्य निग्रहात् अरू-
पहार्यः पिनाकपाणिः पतिः आप्तुं इष्यते ॥ ५३ ॥
HINDI TRANSLATION :—अभिमान वाली यह (पार्वती)
अत्यधिक ऐश्वर्यशाली इन्द्रादि चारों दिशाओं के स्वामियों का
अपमान करके, कामदेव को जलाने के कारण सुन्दरता से वश
में न होने वाले (जाने गये) महादेव को पति (रूप में) प्राप्त
करना चाहती है ॥ ५३ ॥
ENGLISH TRANSLATION :—This high-minded lady,
disdaining the lords of the four quarters, the great
Indra and others, highly refulgent, seeks to obtain as
her husband the holder of the Pináka bow (i. e.,
Shiva) who is not to be conquered by beauty (as is
evident) by his destruction of Cupid. 53
PURPORT IN SANSKRIT :—पर्वतराजस्य पुत्री गौरी
इन्द्रादिषु देवेषु कमपि परीतुं न शक्नोति स्म, परमभिमानवती सा
शिवं तेभ्योऽधिकं मन्यमाना ऐश्वर्यशालिन इन्द्रादीन् दिशामीशान्
तिरस्कृत्य सर्वेषामधिपतिं शिवमेव स्वस्वामिनं कर्तुं कामयते,
यो हि शिवः केनापि सौन्दर्येण वशीकर्त्तुमशक्यो यतः सोऽनुपम-
सौन्दर्यशालिनं काममपि भस्मसात् कृतवान् ॥ ५३ ॥
असह्यहुँकारनिवर्त्तितः पुरा
पुरारिप्राप्तमुखः शिलीमुखः ।
( १४३ )
इमां हृदि व्यायतपातमक्षिणो-
द्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ ५४ ॥
असह्येति । पुरा पूर्वं असह्यहुंकारनिवर्तितः असह्येन सोढु-
मशक्येन हुङ्कारेण रौद्रेण निवर्तितः । अतएव पुरारिं हरं अप्रा-
प्तमुखः अप्राप्तफलः विशीर्णमूर्त्ते नष्टशरीरस्य अपि पुष्पधन्वनः
कामस्य शिलीमुखः बाणः इमां पार्वतीं हृदि व्यायतपातं व्यायतः ।
सुदूरावगाढ इति यावत् । तादृक्पातः प्रहारो यस्मिन् कर्मणि
तत्तथा अक्षिणोत् अकर्शत् । दग्धदेहस्यापि मार्गणो लग्नः । ' मृदुः
सर्वत्र बाध्यते ' इति भावः । अनेन ' विवृण्वती शैलसुतापि
भावम् ' ( ३।६८ ) इत्यत्रोक्तं चक्षुः प्रीतिमनःसङ्गाख्यमवस्थाद्वय-
मनन्तरावस्थोपयोगितयानूद्य कार्श्यावस्था सूचिता ॥ ५४ ॥
PROSE ORDER :—पुरा विशीर्णमूर्त्तेः अपि पुष्पधन्वनः
शिलीमुखः असह्यहुङ्कारनिवर्तितः पुरारिं अप्राप्तमुखः इमां हृदि
व्यायतपातं अक्षिणोत् ॥ ५४ ॥
NOTES :—पुरा—पूर्वं formerly This refers to the
time when Cupid vainly tried to allure Shiva and
was ultimately reduced to ashes by him. विशीर्ण-
मूर्त्तेः—( वि+√शॄ+क्तः ) विशीर्णा ( नष्टा ) मूर्त्तिः यस्य स
विशीर्णमूर्त्तिः, तस्य विशीर्णमूर्त्तेः whose body had been
destroyed For विशीर्ण, see notes on this word in
verse 28 above. अपि—still, i. e., though Cupid had
been physically destroyed, his arrow could still
work. पुष्पधन्वनः—( पुष्प+धनुष्+अनङ् ) पुष्पाण्येव धनु-
र्यस्य स पुष्पधन् नः Cf. the Flower-
bowed ; whos of flowers. It is a
( १४४ )
name of the god of love The word धनुष् at the
end of a Bahuvrīhi compound becomes धन्वन् by
the addition of अनङ् by 'धनुषश्च' पा० ५ ४ १३२,
when the compound is a noun the change is
optional, hence its another form is पुष्पधनु । शिली-
मुखः-शिली ( शल्यं ) मुखे यस्य स शिलीमुखः ( बाणः ) an
arrow. It also means 'a black bee' 'अलिबाणौ शिली-
मुखौ' इत्यमर । असह्यहुङ्कारनिवर्तितः । असह्य -(√सह्+यत्)
सोढुं योग्यं सह्यं न सह्यं असह्यं which can not be borne
हुङ्कारः-the sound hum ( हुं ) expressive of menace
or contempt According to some Humkāra is the
weapon of Shiva as Rudra. असह्येन हुङ्कारेण निवर्तितः
असह्यहुङ्कारनिवर्तितः hurled back with the Humkāra
sound. पुरारिं-पुराणां ( दैत्यनगराणां ) अरिं पुरारिम् ( शिवं )
the enemy of the cities, i e Shiva Shiva is known
as पुरारि and त्रिपुरारि because he destroyed the
three cities made of gold, silver and iron, in the
sky, the ethereal region and on earth by the
demon Maya and presided over by himself, Vidyun-
màlı and Tàrakásura अप्राप्तमुखः-अप्राप्तं मुखं ( बाणाग्रं
फलकं ) यस्य सः whose point did not reach ( Shiva ),
because it was returned on its way. इमाम्-पार्वतीम् ।
while Shiva remained invincible, Parvati fell a
victim to the arrows of Cupid. व्यायतपातम्-( वि+
आ+√यम्+क्तः=व्यायतः । √पत्+घञ्=पातः) विशेषेण
आयतः व्यायतः ( अति तीव्रः; दीर्घः ) पातः ( प्रहारः ) यस्मिन्
( १४५ )
कर्मणि यथा भवति तथा व्यायतपातम् with a cruel blow ; so
as to make a deep wound An Adverb to अक्षिपोत्
—विव्याध struck. Imperfect ( लङ् ) of √क्षि
हिंसायाम् ।
In this verse the three states, viz, दृक्सङ्ग
(attachment through eyes ), मनःसङ्ग ( attachment
through mind ) and कृशता (leanness ) of Parvati
have been suggested by the poet. 54
CHANGE OF VOICE :—पुरा विशीर्णमूर्त्तेः अपि पुष्पधन्वनः
शितामुखेन असह्यहुङ्कारनिवर्तितेन पुरारिं अप्राप्तमुखेन इयं हृदि
व्यायतपातं अक्षीयत ॥ ५४ ॥
HINDI TRANSLATION :—पहिले समय में नष्ट शरीर वाले
भी पुष्प के धनुष वाले (कामदेव) के बाण ने, जो कि (शिव
का) न सहने योग्य हुङ्कार से लौटा दिया गया था और महादेव
तक जिसकी नोक नहीं पहुँच पायी थी, इसके हृदय में गहरा घाव
कर दिया ॥ ५४ ॥
ENGLISH TRANSLATION —Formerly, although his
body had been destroyed, the arrow of the Flower-
bowed (i. e., Cupid) which was hurled back with the
Hunkara sound, difficult to be borne (and) whose point
failed to reach the enemy of the cities (i. e., Shiva),
struck her in the heart with a cruel blow. 54
PURPORT IN SANSKRIT —पूर्वस्मिन् काले कन्दर्प शिवं
विजेतुं तस्योपरि स्वबाणममुञ्चत् परं स बाणस्तेन गम्भीरेण
हुंशब्देन परावर्तितः कामश्च दग्धः, ततो नष्टस्यापि कामस्य
बाणः कोमलहृदयामिमां पार्वतीं हृदयेऽतितीव्रतया विव्याध ।
( १४८ )
This verse suggests Parvati's अरति ( indifference
towards worldly pleasures ) or सज्वर ( fever caused by
passion ) 55
CHANGE OF VOICE :—तदा प्रभृति पितुः गृहे उन्मदनया
ललाटिकाचन्दनधूसरालकाया बालया तुषारसंघातशिलातलेष्वपि
जातु निर्वृति न लभ्यते स्म ॥ ५५ ॥
HINDI TRANSLATION .—तभी से लेकर पिता के घर
में उत्कट काम वाली, माथे के तिलक के चन्दन से सफ़ेद
बालों वाली वह युवती बर्फ़ की चट्टानो पर भी सुख न पाती
थी ॥ ५५ ॥
ENGLISH TRANSLATION .—Since then the maiden,
whose passion had been greatly excited, ( and ) whose
curling tresses were whitened by the sandal applied
as a mark on the forehead, never felt at ease even when
reclining on the surfaces of snow-slabs while in her
father's house 55
PURPORT IN SANSKRIT .—तस्मादेव कालात् शिवप्राप्त्यै
समुत्सुका कामेनातितरां पीडिता पार्वती स्वजनकस्य हिमाल-
यस्यापि शीतप्रधाने भवने शान्ति नालभत , हिमशिलासु शयन-
मपि तद्दाहं शमयितुं नाशक्नोत् । तापशान्तये तस्याः मस्तके लिप्तं
चन्दनञ्च क्षणादेव शुष्कं सत् तत्केशान् धूसरवर्णान् अकरोत् ।
गौरी नितरां कामपीडितासीत् तस्यास्तापशान्त्यै कृताश्चन्दनलेपा-
दिरूपा उपचारा व्यर्था एवाभवन् इति भावः ॥ ५५ ॥
उपात्तवर्णे चरिते पिनाकिनः
सबाष्पकण्ठस्खलितैः पदैरियम् ।
( १४६ )
अनेकशः किंनरराजकन्यका
वनान्तसंगीतसखीररोदयत् ॥ ५६ ॥
उपात्तेत्ति । इयं पिनाकिनः शंभोः चरिते त्रिपुरविजयादिवेष्टिते
उपात्तवर्णे प्रारब्धगीतक्रमे । ' गीतक्रमे स्तुतौ वेदे वर्णशब्दः
प्रयुज्यते ' इति हलायुधः । सवाष्पकण्ठस्खलितैः सबाष्पे गद्गदे
कण्ठे स्खलितैः विशीर्णैः पदैः सुप्तिङन्तरूपैः । करणैः वनान्तसंगीत-
सखीः वनान्ते संगीतेन निमित्तेन सखीर्वयस्याः किन्नरराजकन्यकाः
अनेकशः बहुशः अरोदयत् अश्रुमोक्षमकारयत् । हरचरितगान-
जनितमदनवेदनैनां वीक्ष्य किंनर्योऽपि रुरुदुरिति भावः । अत्र
वर्णस्खलनलक्षणकार्यैक्या पुनः पुनस्तत्कारणीभूतमूर्च्छावस्था-
प्रादुर्भावो व्यज्यतेऽन्यथा सखीरोदनानुपपत्तेरिति । द्वादशावस्था-
पक्षे तु प्रलापावस्था व्यज्यते । प्रलापो गुणकीर्त्तनम् ' इत्या-
लंकारिकाः ॥ ५६ ॥
PROSE ORDER :—इयं पिनाकिनः चरिते उपात्तवर्णो ( सति )
सबाष्पकण्ठस्खलितैः पदैः वनान्तसंगीतसखीः किन्नरराजकन्यकाः
अनेकशः अरोदयत् ॥ ५६ ॥
NOTES :—पिनाकिनः—( पिनाक + इनि ) पिनाकः अस्या-
स्तीति पिनाकिन्, तस्य पिनाकिनः of the wielder of the
Pinaka See notes on पिनाकपाणि in verse 53 पिनाकिनः
चरिते the exploits of the Pinaka-holder (i. e., Shiva)
such as the destruction of the three cities of demons
etc उपात्तवर्णे । उपात्तः—( उप+आ+√दा+क्त =उपात्तः )
गृहीतः, आरब्धः begun. Past part of √ दा with आ ' to
take ' वर्णः—गीतक्रमः letters; the arrangement of
words in a song ' शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे
( १५० )
तथा । गीतिक्रमे स्तुतौ वेषे वर्णशब्द प्रयुज्यते । ' इति हलायुधः ।
उपात्तं वर्णः यस्मिन् स उपात्तवर्णः, तस्मिन् begun to be
sung in due order. After this सति is understood.
सबाष्पकण्ठस्खलितैः—बाष्पेण सह वर्त्तमानः सबाष्पः ( गद्गदः )
सबाष्पे कण्ठे स्खलितैः ( अस्पष्टोच्चारितैः ) सबाष्पकण्ठस्खलितैः
faltering ( i e., inarticulate ) in the throat choking
with tears. Evidently Parvati was moved while
singing the heroic feats of Shiva पदैः—by her words.
वनान्तसंगीतसखीः—वनान्ते ( वनप्रदेशे ) संगीते संगीतेन वा
सख्यः वनान्तसंगीतसख्यः, ताः वनान्तसंगीतसखीः ( Acc.
plural ) Companions in the songs sung in the forest
plots संगीत is Past part. from √ गै to sing गै is
changed to गी by 'घुमास्थागापाजहातिसां हलि' पा० ६ ४.६६ ।
किन्नरराजकन्यकाः—किन्नराणां राजा किन्नरराज., किन्नरराजस्य
कन्यकाः किन्नरराजकन्यका, ताः ( Acc. plural ) the daugh-
ters of the Kinnara king किन्नर s in later mythology
are reckoned among the Gandharvas or celestial
choristers and celebrated as musicians In कन्यकाः
( कन्या+कन् ) the कन् suffix is in स्वार्थे ( i e ; its
presence does not cause any change in the meaning
of the word ), so कन्या. एव कन्यकाः । Parvati, being
herself a princess could make friends only with
princesses. अनेकशः—एकं एकं इति एकशः ( एक+शस् ) ; न
एकशः अनेकशः ( बहुश. ) many a time ; in numbers. शस्
is added to numerals when repetition is made by
‘संख्याकवचनाच्च वीप्सायाम्’ पा० ५.४.४३.। अरोदयत्—(√ रुद्
( १५१ )
णिच्+लङ् ) made them weep. Causal Imperfect of
√रुद् ।
In this verse there is a reference to मूर्च्छावस्था
( the state of being unconscious ) or, according to
others प्रलापावस्था ( i. e., singing in praise of one's
beloved ). 56.
CHANGE OF VOICE :—अनया पिनाकिनः चरिते उपात्त-
वर्णे सबाष्पकण्ठस्खलितैः पदैः वनान्तसंगीतसख्यः किन्नरराज-
कन्यकाः अरोद्यन्त ॥ ५६ ॥
HINDI TRANSLATION :—महादेव की वीरता के गीतो के
गाने पर यह अश्रुसहित ( गद्गद ) कण्ठ से अस्पष्ट निकलने
वाले शब्दों के द्वारा वन प्रदेश में साथ गाने वाली अपनी
सहेलियों, किन्नर राजाओं की कन्याओं को बार बार रुलाती
थी ॥ ५६ ॥
ENGLISH TRANSLATION :—She made ˙many a time
the daughters of the Kinnara kings, her companions
in the music ( sung ) in the woods, burst into tears, by
her words, faltering in the throat choking with tears,
while the exploits of the Pinaka-holder were being
sung 56
PURPORT IN SANSKRIT :—शिवप्रीतिमग्ना पार्वती वन-
प्रदेशेषु गत्वा शिवस्तुतिगीतान्यगायत् , परं मध्य एव शिवविषयक-
भावेनाभिभूता गद्गदकण्ठाभूत् गातुञ्चासमर्था अश्रुपूर्णनेत्रावर्तत ।
तस्या इमां करुणां दशाञ्चावलोक्य किन्नराणां राजपुत्र्यस्तत्सख्योऽ-
त्यन्तं अरोदिषुः ॥ ५६ ॥
( १५२ )
त्रिभागशेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा व्यबुध्यत ।
क्व नीलकण्ठ व्रजसीत्यलक्ष्यवा-
गसत्यकण्ठार्पित बाहुबन्धना ॥ ५७ ॥
त्रिभागेति । च कि च इति चार्थः । त्रिभागशेषासु शिष्यते इति
शेषः । कर्मणि घञ् । त्रिभ्यो भागेभ्य शेषास्ववशिष्टासु । यद्वा
रात्रेस्त्रियामत्वेन प्रसिद्धत्वात् तृतीयो भागस्त्रिभागः संख्या शब्दस्य
वृत्तिविषये पूरणार्थत्वमिष्यते । यथा शतांशः सहस्रांश इति ।
त्रिभागः शेषो यासां तासु निशासु क्षणं क्षणमात्रं नेत्रे निमील्य
मीलयित्वा सहसा सद्यः हे नीलकण्ठ क्व व्रजसि कुत्र गच्छसीति
अलक्ष्यवाक् अलक्ष्या निर्विषया वाग्वचनं यस्याः सा तथोक्ता ।
तथा असत्यकण्ठार्पितबाहुबन्धना असत्ये मिथ्याभूते कण्ठे अर्पित
बाहुबन्धन यस्याः सा तथा सती व्यबुध्यत विबुद्धवती । एतेन
जागरोन्मादौ सूचितौ ॥ ५७ ॥
PROSE ORDER :-( किं ) च त्रिभागशेषासु निशासु क्षणं
नेत्रे निमील्य सहसा ( हे ) नीलकण्ठ, क्व व्रजसि इति अलक्ष्यवाक्
असत्यकण्ठार्पितबाहुबन्धना व्यबुध्यत ॥ ५७ ॥
NOTES :-त्रिभागशेषासु—शिष्यते इति शेषः ( √शिष् +
घञ् ) what is left The comp. त्रिभागशेषासु may be
expounded and interpreted in two different ways.
( i ) त्रिभ्यो भागेभ्यः शेषासु त्रिभागशेषासु ( उत्तरपदे द्विगुः )
what was left of nights after their three parts had
passed, i. e. during the fourth part of the
night. In this case the night is divided into four
( १५३ )
parts or quarters. ( ii ) तृतीयो भागः त्रिभाग, त्रिभागः
शेषो यासां ता त्रिभागाः, तासु in the nights of which
only the third part was left Here a night is divided
into three parts or watches, ( Cf The word त्रियामा
त्रयो यामाः यस्याः सा—a night), and the word त्रि is
taken in the sense of the ordinal तृतीय, just as शत
and सहस्र are ordinals in the words शतांशः (=शतत-
मांशः) and सहस्रांशः (=सहस्रतमांशः) । Parvati could
not get sound sleep during the whole of night and
she was generally awakened by her thoughts about
Shiva during the last part of the night. निमील्य—
(नि+√मील् to close+ल्यप्) having shut क्षणं नेत्रे
निमील्य—i e., having slept for a little while. When
preceded by उत्, √मील् means 'to open', e. g.,
उन्मीलन। सहसा—अकस्मात् all of a sudden. नीलकण्ठ—
नील कण्ठो यस्य स नीलकण्ठ, तस्य संबोधने O thou of
azure neck; blue-necked Shiva is called Nīlakantha
because his neck had become black by swallowing
the poison produced at the churning of the ocean
‘क्व व्रजसि’—'where art thou going?' such were
the cries uttered by Parvati in the subconscious
state of her mind. अलक्ष्यवाक्—अविद्यमानं लक्ष्यं यस्याः
सा अलक्ष्या (Adj of वाक्) ; अलक्ष्या वाग् यस्या. सा
अलक्ष्यवाक् (Adj. of Parvati) whose speech was uttered
without a particular aim or without there being
any person present to whom the words could be
( १५४ )
addressed, i.e. whose cries were incoherent. असत्य-
कण्ठार्पितबाहुबन्धना—न सत्यः असत्यः ( अविद्यमानः ); असत्ये
कण्ठे अर्पितं ( दत्तं ) बाह्वो बन्धनं यया सा, having her arms
thrown tight round an imaginary neck. Although
there was no person at the time near about Parvati,
yet she used to address words as if to some person
present there and to throw her arms for embracing
the person imagined to be present. व्यबुध्यत—( वि+
√बुध to get up+लङ्) woke up
This verse is quoted in the Sahityadarpana as
an instance of प्रलाप ( अलक्ष्यवाक् प्रलापः स्याच्चेतसो
भ्रमाद् भृशम् ) । According to Mallinātha it describes
जागर ( absence of sleep ) and उन्माद ( madness, in
which incoherent words are uttered ). 57.
CHANGE OF VOICE :—( किं ) च, त्रिभागशेषासु निशासु
क्षणं नेत्रे निमील्य सहसा ( हे ) नीलकण्ठ ! ( त्वया ) क्व व्रज्यते,
इति अलक्ष्यवाचा असत्यकण्ठार्पितबाहुबन्धनया ( अनया )
व्यबुध्यत ॥ ५७ ॥
HINDI TRANSLATION :—और, रात्रि के तीसरे (या चौथे)
भाग के शेष रह जाने पर, मुहूर्त्तमात्र के लिये आंखों को बन्द
करके ( अर्थात् सो कर ) अकस्मात् 'हे नीलकण्ठ ( शिव ) !
कहां जाते हो ?' इस प्रकार असंगत वाणी बोलती हुई ( तथा )
एक काल्पनिक गले में ही अपने बाहुओं को लपेटती हुई जग
पड़ती थी ॥ ५७ ॥
ENGLISH TRANSLATION —Moreover, at night, when
its third ( or fourth ) part only remained, she, having
( १५५ )
closed her eyes for a moment, all of a sudden woke
up with cries without a listener such as 'O thou of blue
neck, where dost thou go ?' ( and ) having her arms
thrown tight round an imaginary neck 57
PURPORT IN SANSKRIT :—शिवेऽत्यन्तमनुरक्ता पार्वती
दिवानिशं तमेव ध्यायन्ती रात्रावपि गाढनिद्रामलभमाना स्वल्प-
शयनानन्तरमेव अकस्मादेव विबुध्यते स्म, उन्मादाभिभूता
चाविद्यमानमपि शिवं लक्ष्यीकृत्य ' हे शिव ! त्वं कुत्र गच्छसि ?
किमर्थं मत्समीपं नायासि ? ' इत्यादिकमालपन्ती काल्पनिकं
शिवमालिङ्गितुञ्च तस्य ग्रीवां परितः स्वबाहू प्रसारयति
स्म ॥ ५७ ॥
यदा बुधैः सर्वगतस्त्वमुच्यसे
न वेत्सि भावस्थमिमं कथं जनम् ।
इति स्वहस्तोल्लिखितश्च मुग्धया
रहस्युपालभ्यत चन्द्रशेखरः ॥ ५८ ॥
स्वप्नसादृश्यप्रतिकृतिदर्शनतदङ्गस्पृष्टस्पर्शाख्याश्चत्वारो विरहिणा
विनोदाः। तत्र स्वप्नसंदर्शनमुक्त्वा प्रतिकृतिदर्शनमाह-यदेति । यदा
यत इत्यर्थः । ' यदेति हेतौ ' इत्युक्त्वा गणव्याख्यानेऽप्योदा-
हृतत्वात् । त्वं बुधैः मनीषिभिः सर्वगतः सर्वव्यापीति उच्यसे ।
तत इत्यध्याहारः । भावे रत्याख्ये तिष्ठतीति भावस्थम् । त्वय्यनुरा-
गिणमित्यर्थः । इमं जनम् । इममित्यात्मनिर्देशः । कथं न वेत्सि न
जानासि । इति मुग्धया मूढया । अकिञ्चित्करश्चित्रगतोपालम्भ
इत्यजानानयेत्यर्थः । तया स्वहस्तोल्लिखितः स्वहस्तेनोल्लिखि-
तश्चित्रे लिखितः चन्द्रशेखरः रहसि एकान्ते । सखीमात्रसमक्ष-
मित्यर्थः । उपालभ्यत साधिक्षेपमुक्तः च । उक्तसमुच्चयार्थश्च-
( १५६ )
कार । यद्यपि रहसीत्युक्तं तथापि सखीममत्तकरणाल्लज्जात्यागो
व्यज्यत एव ॥ ५८ ॥
PROSE ORDER :—यदा त्वं बुधै सर्वगतः उच्यसे ( ततः )
भावस्थं इमं जनं कथं न वेत्सि ? इति मुग्धया ( अनया )
स्वहस्तोलिखित चन्द्रशेखर रहसि उपालभ्यत ॥ ५८ ॥
NOTES —यदा—when Some books read सदा for
यदा । बुधै —(√बुध्+कः) पण्डितै by the wise सर्वगतः—
सर्व गत ( प्राप्त ) सर्वगत ( सर्वान्तर्यामी ) all-pervading ;
omnipresent The compound is द्वितीयातत्पुरुष by
‘ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नै ’ पा० २।१।२४।
उच्यसे—कथ्यसे is said or known Passive present
second pers. sing of √वच् ‘ to speak ’ भावस्थं—
( √स्था + क ) भावे (अनुरागे) तिष्ठतीति भावस्थः, तम्
( त्वदनुरागिणम् ) being in love ( with you ) ; who is
love-smitten ; enamoured क is added by ‘ सुपि स्थः ’
पा० ३ २ ४ । The compound is an instance of उपपदसमास
i e , in which the second member of a Tatpurusha
Comp is a root noun derived from a root which
takes a particular Krit affix ( here कः ) by virtue of
the presence of the first member. इमं जनम्—i e ,
Párvati मुग्धया—( √मुह् to be foolish ; to faint + क्तः ।
ह् is changed to घ् and then to ग्, and त to ध ) by
the foolish ; innocent. Párvati has been rightly
termed so, because she being love-smitten did not
realize that it was of little avail to talk to a picture.
In the books on rhetoric मुग्धा is a variety of नायिका ।
( १५७ )
स्वहस्तोल्लिखितः । उल्लिखितः—( उत् + √लिख् + क्तः )
चित्रितः painted or drawn. स्वेन हस्तेन उल्लिखितः स्वहस्तो-
ल्लिखित drawn with her own hand चन्द्रशेखरः—चन्द्रः
शेखरो यस्य or चन्द्रः शेखरे यस्य सः moon-crested i e,
Shiva It is well-known that Shiva bears the crescent
moon on his forehead. रहसि—एकान्ते in private उपा-
लभ्यत—( उप + √लभ् + य + लङ्) अधिचिप्त्यते स्म was
upbraided ; scolded √लभ् when preceded by उप +
आ means ‘ to reproach , to censure.’
“Drawing the beloved's picture is one of the
four ways by which lovers in separation beguile
longing ” The other three ways are स्वप्नदर्शन, सादृश्य-
दर्शन and तदङ्गस्पृष्टस्पर्श । Cf “वियोगावस्थासु प्रियजनस-
दृष्टानुभवनं, ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टा-
नामुपगतवतां स्पर्शनमपि, प्रतीकार. कामव्यथितमनसां कोऽपि
कथितः ।’ Of the ten states of lovers caused by love-
affliction this verse refers to हीत्यागः ( abandonment
of modesty ). 58.
CHANGE OF VOICE :—यदा त्वां बुधाः सर्वगतं ब्रुवन्ति
( ततः ) भावस्थः अयं जनः ( त्वया ) कथं न वेद्यते ? इति
मुग्धा ( सा ) स्वहस्तोल्लिखितं चन्द्रशेखरं रहसि उपाल-
भत ॥ ५८ ॥
HINDI TRANSLATION :—‘जब कि ज्ञानी लोग तुम्हें
सर्वव्यापक बताते हैं तो अपने प्रेमी इस व्यक्ति को तुम क्यों
नहीं जानते ?' इस प्रकार वह ( प्रेम में ) भोली ( पार्वती )
कु० सं०—१२
( १५८ )
अपने हाथ से चित्रित महादेव को, एकान्त में, उलाहना
देती थी ॥ ५४ ॥
ENGLISH TRANSLATON :—" When, thou art declared
to be all-pervading by the wise ; how, dost thou know
not this person in love with you ?" thus was the
moon-crested ( Shiva ), drawn with her own hand,
upbraided in private by this foclish girl. 58.
PURPORT IN SANSKRIT :—निजमनोविनोदार्थं पार्वती
स्वप्रियस्य शिवस्य चित्रमुल्लिख्य तेन सह नानाप्रकारेण वार्त्ता-
लापं विदधत्यकथयत्—यत् ' हे शिव ! विद्वांसो जनास्त्वां
सर्वव्यापकं कथयन्ति, तर्हि त्वं मम हृदये विद्यमानोऽपि स्वविषयकं
मेऽनुरागं कथं न जानासि ? ' ॥ ५८ ॥
यदा च तस्याधिगमे जगत्पते-
रपश्यदन्यं न विधिं विचिन्वती ।
तदा सहास्माभिरनुज्ञया गुरो-
रियं प्रपन्ना तपसे तपोवनम् ॥ ५९ ॥
यदेति । जगत्पतेः तस्य ईश्वरस्य अधिगमे प्राप्तौ अन्यं विधिं
उपायं विचिन्वती मृगयमाणा यदा न अपश्यत् तदा इयं पार्वती
गुरोः पितुः अनुज्ञया अस्माभिः सह तपसे तपश्चरितुं तपोवनं
प्रपन्ना प्राप्ता च ॥ ५६ ॥
PROSE ORDER :—( अथ ) च जगत्पतेः तस्य अधिगमे
विचिन्वती यदा अन्यं विधिं न अपश्यत्, तदा गुरोः अनुज्ञया
अस्माभिः सह तपसे तपोवनं प्रपन्ना ॥ ५६ ॥
NOTES :—जगत्पतेः—जगतां ( संसारस्य ) पतिः जगत्पतिः,
तस्य जगत्पतेः of the Lord of the worlds. Compound