हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पाण्डुरोगास्त्रयो ज्ञेयाः पुराणकृशसंज्ञिताः ॥
वांतिकाः पैत्तिकाश्चैव श्लैष्मिकाश्चैव संख्यया ॥ १५ ॥
पञ्चानाहास्ततो ज्ञेयास्त एव भेदसंख्यया ॥
अत्याशितोऽथ प्रथमस्त्वेक एव विनिश्चितः ॥ १६ ॥
त्रिविधं तु विजानीयाद्धातोन्मथितसंज्ञितम् ॥
वातोपरुद्ध एवात्र ज्ञेयः संसक्त एव च ॥ १७ ॥
असंसक्तश्च विज्ञेयश्चपस्त्रिविधलक्षणाः ॥
धान्यप्रदुष्टं जानीयाद्विविधं परिसंख्यया ॥
प्रदुष्टं चाप्रदुष्टं च जानीयातं नराधिप ॥ १८ ॥
ततः स्यान्मृत्तिकाजग्धः सांनिपातिक एव च ॥
ईत्यानाहाः समुद्दिष्टाः शृणु मूर्च्छास्ततः परम् ॥ १९ ॥
अत्यर्थभोजनान्मूर्च्छा विदग्धाच्चैव भोजनात् ॥
धान्यमूर्च्छा ततो ज्ञेया स्नेहमूर्च्छा ततः परम् ॥ २० ॥
वातात्पित्तात्कफाच्चैव संनिपातात्तथैव च ॥
उदकान्मार्गमूर्च्छा च मचमूर्च्छा च कीर्तिता ॥ २१ ॥
यवसाद्वाऽपि विज्ञेया मूर्च्छा सा द्वादशी भवेत् ॥
इत्येता द्वादश प्रोक्ता मूर्च्छाः पार्थिवसत्तम ॥ २२ ॥
शिरोरोगास्त्वतस्त्वन्ये सप्तैव परिसंख्यया ॥
वातिकाः पैत्तिकाश्चैव श्लैष्मिकाः सांनिपातिकाः ॥ २३ ॥
शोणिताज्जायते चान्यः कृमिजस्त्वभिघातजः ॥
पादरोंगास्ततो ज्ञेयास्त्रिंशत्तु परिसंख्यया ॥ २४ ॥
उत्कारकी ततः पूर्वं कारकी तदनन्तरम् ॥
नाडीजातस्तृतीयः स्यात्ततः संराष्ट्र एव च ॥ २५ ॥
नखभेदं तंतो विचात्पूयकेशं ततः परम् ॥
विप्लवांकस्ततस्त्वन्यः केशग्रन्थिः सविप्लुतः ॥ २६ ॥
समन्तकेशश्च भवेत्कचकेशश्च कीर्त्यते ॥
. कदम्बपुष्पो विज्ञेयः सफुल्लोऽथ कुठारकः ॥ २७ ॥
१ ख. वातिकः पैत्तिकश्चैव श्लेष्मिकश्चैव संख्यया । २ क. °त्थानां हस्त° ।
३ क. इत्याहाराः । ४ ख. विन्द्यात्पू° ।
फुल्लपादस्ततो ज्ञेयस्तथा भिन्ननखोऽपरः ॥ '
स्फुटितैर्हर्तुनुद्दन्तै(?)श्च त्वन्येर्वाऽपि नखैर्भवेत् ॥ २८ ॥
✝शरनद्धोऽथ विज्ञेयो +दद्रुकेशस्तथैव च ॥
‡प्रगुल्मकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ २९ ॥
क्षतो निर्मूलितश्चैव तथा केशः सलोहितः ॥
स्थानवाह्तः क्षीणतलस्तैथा चाम्यन्तरीकृतः ॥ ३० ॥
निष्पिष्टो मांसकेशश्च तथा स्थानरतोऽपरः ॥
इत्येष पादरोगाणां संग्रहः समुदाहृतः ॥ ३१ ॥
व्यापदां तु पुनः संख्यां कीर्त्यमानां निबोध मे ॥
व्यापदं विद्धि तैलेन सर्पिषा तदनन्तरम् ॥ ३२ ॥
तृतीयां वसया विन्द्याच्चतुर्थी पयसा तथा ॥
¶धान्याच्च पञ्चमीं विद्यान्मद्यात्षष्ठीमथापि वा ॥ ३३ ॥
उदकादुपधान्याच्च व्यापदोऽष्टाविति स्मृताः ॥
शोफानां संग्रहश्चात्र सप्तानां संप्रवक्ष्यते ॥ ३४ ॥
मन्याशोफश्च विज्ञेयः सगदाशोफ एव च ॥
द्रोणीकशोफश्चाप्यन्यो व्यवच्छिन्नस्तथैव च ॥ ३५ ॥
शाल्मलीस्कन्धशोफश्च कदलीस्कन्ध एव च ॥
शृद्धशोफश्च विज्ञेयः सप्तमः परिसंख्यया ॥ ३६ ॥
$संग्रहस्त्वक्षिरोगाणामत ऊर्ध्वं प्रचक्षते ॥
प्राचारकी तु प्रथमस्तव्दौदकी तदनन्तरम् ॥ ३७ ॥.
अण्डाक्षस्त्वथ काचाक्षो नायंप्रेक्षी तथैव च ॥
प्रतिनुन्नस्ततो ज्ञेयो निष्पेषहत एव च ॥ ३८ ॥
विद्युन्निष्पातदग्धश्च विशुद्धारिहतस्तथा ॥
.ऊष्मापरिगतस्त्वन्य*श्चर्मकिल्लिष्टस्ततः परम् ॥ ३९ ॥
- 'अनुद्धतैः' इति त्वग्रे । ✝ 'शरनद्ध' इति त्वग्रे लिप्यते । + 'दद्रुकेश' इति त्वग्रे
‡ 'प्रगुल्मिकेश' इति त्वग्रे । $ 'तथा चान्यः क्षरीकृतः' इत्येव पाठ उचित उत्तर-
ग्रन्थानुरोधात् । ¶ अग्रे व्यापदध्याये प्राक्चाव्यापन्निरूपिता, ततो धान्यव्यापत् । - 'दुपधाना' इति तु वरम् 'उपधाव्यापदो वर्णनात् । ✝ 'संप्रचक्षते' इति तु युक्तम् ।
$ अष्टादशस्य शोफचिकित्सितस्य, एकोनविंशस्याक्षिरोगचिकित्सितस्य, मध्ये स्वेद-
शान्तिरक्षाध्यायावपि स्तः । * अग्रेऽक्षिरोगाध्याये तु 'वर्त्मक्लिष्ट' इत्युपलभ्यते ।
१ क. प्रगुल्फकेशो । २ ख. विन्द्याच्च । ३ क. स्मृतः । ४ ख. प्रचक्ष्यते ।
३४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने—
*श्रोतोन्धो बुद्बुदी चैवाक्षिपाकस्तथैव च ॥
+पाटलाख्यश्च विज्ञेयो †दण्डाख्यश्च ततः परम् ॥ ४० ॥
मुञ्जोऽथ मुञ्जजालश्च लोहिताक्षस्तथैव च ॥
पिटकाक्षश्च विज्ञेय इत्येते विंशतिः स्मृताः ॥ ४१ ॥
इत्येतत्प्रथमं स्थानं महारोगाभिसंज्ञितम् ॥
एतच्छतं तु रोगाणामष्टौ चैव नराधिप ॥ ४२ ॥
कीर्तितं ते मया सम्यग्यथोवदनुपूर्वशः ॥
अध्यायाश्चात्र संख्याता अष्टादश महीपते ॥ ४३ ॥
अथातः क्षुद्ररोगाणां स्थानं सम्यक्प्रवर्तते ॥
वमथुः प्रथमस्तत्र स चापि द्विविधः स्मृतः ॥ ४४ ॥
आगन्तुर्दोषजश्चैव दोषजः स चतुर्विधः ॥
वातजः पित्तजश्चापि कफजः संनिपातजः ॥ ४५ ॥
ततः परमतीसारो द्विविधः परिकीर्तितः ॥
पक्वाशयसमुत्थस्तु तथैवाऽऽमाशयोद्भवः ॥ ४६ ॥
स च दोषविभागेन चतुर्धा परिकीर्तितः ॥
पुनश्च सप्तधा भिन्नो दुष्टधान्यादिभेदतः ॥ ४७ ॥
एवमेकादशविधस्त्वतीसारो विभागतः ॥
मदनाख्यस्तृणैः शोषी कर्मातिनीत एव च ॥ ४८ ॥
विषाशितस्ततो दृषी सेर्पार्तः स्फोटिकी ततः ॥
दिग्धविद्धोपवादाख्यः पूर्वोबद्धोऽथ एव च ॥ ४९ ॥
विसर्पो हृदयस्फोटी *वलक्षाणी तथैव च ॥
षड्विधा मेहनक्षाणी तेस्माद्धस्तग्रहोऽपरः ॥ ५० ॥
हस्तेनोन्मथितं विद्याद्विभागं षड्विधस्ततः ॥ •
प्रथमः सप्तरात्रेण प्राणांस्त्यजति वारणः ॥ ५१ ॥
- 'स्रोतोन्धः' इति तूचितम् । + 'पटलाक्ष' इति त्वम्रानुरोधेन । † 'दण्डाक्ष'
इति त्वग्रे । * 'वालक्षाणी' इत्यग्रे ।
१ क. ॰ताल्व्यस्त॰ । २ क. ॰था वेदानु॰ । ३ ख. कर्माभिनी॰ ।
४ क. दूषा । ५ सर्पति । ६ क. ॰टिका त॰ । ७ क. पूर्वो विद्धोऽथ । ८ क. सः ।
९ क. तस्माद्धस्तग्रहापरः ।
४ शल्यसंग्रहाध्यायः ] हस्तिआयुर्वेदः । ३५
अष्टरात्रेण चाप्यन्यो नवरात्रेण चापरः ॥
एकश्च दशरात्रेण प्राणानादाय गच्छति ॥ ५२ ॥
एकश्चैकादशं प्राप्य द्वादशीमपि चापरः ॥
इत्येष षड्विधः प्रोक्तो हस्तोन्मथितसंज्ञितः ॥ ५३ ॥
उत्कर्णको वातगतिर्मन्यास्तम्भो मदक्षयः ॥
कृशस्तथा बलक्षीणः १श्लेष्माभि †ष्विन्न एव च ॥ ५४ ॥
सात्म्यानुलोमिकश्चैव तलकाशी ततःपरम् ॥
गलग्रहश्च विज्ञेयो व्याधिः सिद्धार्थकस्तथा ॥ ५५ ॥
भूतग्रहस्त्वथो वातकुण्डली भारपीडितः ॥
उन्मादापस्मृती लुप्त उदावर्तः २ प्रगुल्मिकः ३ ॥ ५६ ॥
पत्रकृमिस्ततो ज्ञेय उरःसिक्षत एव च ॥
शोणिताण्डी समाख्यातो यवगण्डशिरास्त्वतः ॥ ५७ ॥
चर्मकीलो जठरको बालानां चैव रक्षणम् ॥
अवसन्नस्ततो ज्ञेयो रात्रिक्षिप्तस्तथापरः ॥ ५८ ॥
मूत्रसङ्गास्ततो ज्ञेयाः षडेव परिसंख्यया ॥
भिन्नबस्तिश्च विज्ञेयो गाढमूत्री तथैव च ॥ ५९ ॥
परिमूत्री तथैवान्यः पिष्टमेही च वारणः ॥
ततः शोणितमेही च तथाऽन्यो जातशर्करः ॥ ६० ॥
इत्येते षट्समुद्दिष्टा मूत्रसङ्गा यथाक्रमम् ॥
अथातः सूतिकारोगा सप्तामी रदनामयाः ॥ ६१ ॥
देवागन्तुजरायोगसमस्तव्यस्तदोषजाः ॥
चेतोभ्रंशस्तथा प्रोक्तः शूलद्वितयमेव च ॥ ६२ ॥
चत्वारः शारदाश्चैव जरगण्डस्ततः परम् ॥
शीतस्कन्नश्च विज्ञेयो मक्षिकादष्ट एव च ॥ ६३ ॥
एकादश च्छवीदोषा मृत्तिकाध्वाय एव च ॥
कृमिकोष्ठश्च विज्ञेयः क्षयश्चापि ४सुदुर्लभः ॥ ६४ ॥
क्षयो दशविधश्चैव दौर्बल्यं च चतुर्विधम् ॥
धातुदोषक्षयात्क्षीणश्चत्वारोऽन्येऽपि दुर्बलाः ॥ ६५ ॥
† श्लेष्माभिषन्न इति त्वग्रे ।
१ क. श्लेष्मामिष्यन्न । ख. श्लेष्माभिषिन्न । २ ख. ॰वर्तप्र॰ । ३ क.
प्रगुल्फिकः । ४ ग. सुदुर्बलः ।
१६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
प्रकृत्या दुर्बलश्चैव व्याधिना दुर्बलोऽपरः ॥
अत्यौषधोपयोगाच्च चतुर्थे वयसि स्थितः ॥ ६६ ॥
संग्रहः संग्रहाश्चान्ये प्रभिन्नानां प्रेवक्ष्यते ॥
वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च ॥ ६७ ॥
कृमयः कर्णवालेत्या कर्णरोगास्ततः परम् ॥
अभक्तच्छन्दो ग्रासोपरुद्धो द्रोणीकपञ्चकम् ॥ ६८ ॥
अतिपातस्ततश्चान्यत्तथा स्याद्गुल्मपञ्चकम् ॥
वातपित्तकफैर्गुल्माः संभवन्ति त्रयस्त्रिभिः ॥ ६९ ॥
शोणिताज्जायते चान्यः संनिपातात्तथैव च ॥
हृद्रोगाश्च ततो ज्ञेया वातपित्तकफात्मकाः ॥ ७० ॥
अतश्च गात्ररोगाः स्युश्चत्वारः संप्रकीर्तिताः ॥
वातात्पित्तात्कफाच्चैव संनिपातात्तथाऽपरः ॥ ७१ ॥
आगन्तुगात्ररोगाश्च षडेवैते प्रकीर्तिताः ॥
इत्येतत्क्षुद्ररोगाणां स्थानं सम्यक्कंकीर्तितम् ॥ ७२ ॥
इह सप्ततिरध्यायाः सचतुःषष्टिरिष्यते ॥
सर्वेषामेव रोगाणां रोगज्ञानं प्रचक्षते ॥ ७३ ॥
साध्यासाध्यत्वयाप्यत्वादुत्पत्तिश्च सलक्षणा ॥
तथा ये मानसा रोगास्तथैवाऽऽगन्तवश्च ये ॥ ७४ ॥
तेषां यः संविभागस्तु यथावत्संप्रवक्ष्यते ॥
प्रथमे च द्वितीये च स्थाने सम्यङ्नराधिप ॥ ७५ ॥
—oOo—
शल्याख्यस्य तृतीयस्य स्थानस्यातः प्रवक्ष्यते ॥
संग्रहः क्रमयोगेन शृणु तन्मे नराधिप ॥ ७६ ॥
प्रथमं द्विव्रणीयोऽत्र सद्यःक्षतमतः परम् ॥
षड्व्रथोपचारोऽत्र व्रणोपक्रमलक्षणः ॥ ७७ ॥
द्वादशोपक्रमो गर्भामनाध्यायस्ततः परम् ॥
गर्भावक्रान्तिरस्मात्स्याच्छरीरनिचयस्तथा ॥ ७८ ॥
शस्त्राग्न्युपक्रमौणधी शल्योद्धरणविद्रधी ॥
व्रणनाडी शिराव्यूहव्याधिर्नाडी च दन्तजाः ॥ ७९ ॥
१ ख. चतुर्थो । २ ख. प्रचक्ष्यते । ३ ख. ॰रोगस्ततः परः। ४ ख. ॰प्रवक्ष्य॰।
५ ख. संप्रवक्ष्यते ।
४ शल्यसंग्रहाध्यायः ] हस्त्यायुर्वेदः । ३७
अधिदन्तशिराच्छेदमर्मैरण्डास्तथाऽर्बुदाः ॥ १
मर्मविद्धो दोषगतिर्व्रणं गं लूताः सकीटकाः ॥ ८० ॥
व्यालाः प्रदेशाः शस्त्राणि क्षारो भग्नचिकित्सितम् ॥
मूढगर्भपनयनं दन्तोद्धरणमेव च ॥ ८१ ॥
त्रयस्त्रिंशदिहाध्यायाः शल्यस्थाने प्रकीर्त्तिताः ॥
तृतीयं स्थानमेतच्च योगांश्चात्र निबोध मे ॥ ८२ ॥
भग्नं घृष्टं क्षतं दग्धं विद्युत्क्षारतुषारतः ॥
संतापोऽर्काग्नितश्चेति षड्विधं षडुपद्रवाः ॥ ८३ ॥
वातपित्तकफेभ्योऽसृग्भेदः संतापस्तथा ॥
दोषैः समस्तैर्व्यस्तैश्च चतुरो विद्रधीन्विदुः ॥ ८४ ॥
मूढगर्भश्च शल्यं च तथा यश्चाधिदन्तकः ॥
व्यौलेरण्डार्बुदालूता कीटचूर्णे विचूर्णितः ॥ ८५ ॥
अष्टाविंशतिरित्येते रोगाः शल्यसमाश्रयाः ॥
तृतीयं परिसंख्यातमिति स्थानं नराधिप ॥ ८६ ॥
चतुर्थमुत्तरं स्थानमत ऊर्ध्वं प्रवक्षते ॥
एतत्रयाणां स्थानानां परिवाराभिसंज्ञितम् ॥ ८७ ॥
स्नेहपानं प्रथमतस्त्वन्नपानविधिस्तथा ॥
अथ स्नेहविकल्पश्च बस्तिसिद्धिरतः परम् ॥ ८८ ॥
स्नानाध्यायस्ततो ज्ञेयो नस्यदानमतः परम् ॥
अञ्जनानि च जानीयाद्यवसाध्याय एव च ॥ ८९ ॥
रसवीर्यविपाकश्च शोभाश्चापि ततः परम् ॥
आयुर्ज्ञानं वयोज्ञानं नक्षत्रारिष्टमेव च ॥ ९० ॥
अरिष्टं गुग्गुलोः कल्पपिण्डगुग्गुलुरेव च ॥
लाक्षाप्रदानं लाक्षा च सुरायाः संप्रयोजितम् ॥ ९१ ॥
संपदोऽशितपीतस्य सौवीरकविधिस्ततः ॥
लवणानां तथाऽध्यायः क्रमेण परिकीर्तितः ॥ ९२ ॥
प्रतिपानं मदावस्थाः कवलात्कवले रतः ॥
व्यापत्तिः क्षीरदानस्य दूताः श्रीगजसंभवाः ॥ ९३ ॥
१ क. ०रद्धस्त० । २ क. ख. शास्त्राणि । ३ क. दृष्टं । ४ क. ०तापाद-
र्काग्नि० । ५ क. व्यालेरण्डाच्छदा० । ६ क. ०सिद्धंततः ।
किमर्थं हेतुप्रकृतिः प्रतिकर्मसमाह्वयः ॥
दुष्टदोषपरीक्षा च करीषाध्याय एव च ॥ ९४ ॥
सुमनोदुर्मनोज्ञानं मदकृमिनिवर्तनम् ॥
कल्पनाश्चाथ दन्तानामिक्षुदानमतः परम् ॥ ९५ ॥
लशुनारोग्यलवणं पांशुदानानि चाप्यथ ॥
कार्याकार्यविधिस्तस्माहतुचर्या प्रकीर्तिता ॥ ९६ ॥
चूर्णारिष्टं ततो ग्राहो जलहस्ती जलोकसः ॥
विचित्रविधिसंभागो लवणाध्याय एव च ॥ ९७ ॥
गन्धज्ञानं ततो राजन्कटबस्तिस्तथैव च ॥
वनाध्यायस्ततो राजन्नस्मिञ्छास्त्रे प्रकीर्तितः ॥ ९८ ॥
उपसर्गविधिश्चान्ते पञ्चसूत्रमिति स्मृतम् ॥
ऊनपञ्चाशदध्याया रोगाः पञ्चदश त्वमी ॥ ९९ ॥
बस्तिव्यापत्तयोऽप्यष्टौ कवलव्यापदेव च ॥
लशुनव्यापदेका च तस्य मूर्ध्नि विरेचने ॥ १०० ॥
दोषद्वयं स्यात्कटुभुग्ग्रहावथ जलद्विपः ॥
गोत्रातङ्का च निर्दिष्टा इत्येतस्मिन्नराधिप ॥ १०१ ॥
परिवार इति ख्यातं स्थानमुत्तरसंज्ञितम् ॥
स्याच्छास्त्रेऽध्यायपिण्डोऽस्मिनेक सप्ततिकं शतम् ॥ १०२ ॥
शतत्रयं च रोगाणां प्रोक्तं पञ्चदशोत्तरम् ॥
दश द्वे च सहस्राणि श्लोकानां च नराधिप ॥ १०३ ॥
इत्येष संग्रहः प्रोक्तः शास्त्रस्यास्य समासतः ॥
विस्तरेण यथाशास्त्रं तथा सम्यक्प्रवक्ष्यते ॥ १०४ ॥
स्कन्धां चिकित्सते मूलं सिद्धिः कर्माश्रया स्मृता ॥
प्रमाणं च प्रयोगश्च कालश्च विहितस्त्विह ॥ १०५ ॥
तस्मान्मूलं चिकित्सायाः पठितार इहोच्यते ॥
प्रोच्यते शास्त्रतत्त्वज्ञैरैतैत्साङ्गमसंशयम् ॥ १०६ ॥
अधीयते चिकित्सां ये केवलामपरिग्रहम् ॥
न ते विकाराञ्जानन्ति ये भवन्त्यबहुश्रुताः ॥ १०७ ॥
१ क. °दोषापरीक्ष्या च । २ क. °हस्तिज° । ३ क. °स्मिन्तन्त्रे । ४ क.
मूर्धवि° । ५ ख. गात्रातङ्की । ६ क निर्दिष्ट । ७ ग. मतम् । ८ ख. °चक्ष्यते ।
९ क. कर्मसमा°। १० क. विहितंस्त्वया । ११ ख. परिचार । १२ क. °तत्सङ्गम°।
४ शास्त्रसंग्रहाध्यायः ] हस्त्यायुर्वेदः । ३९
सांग्राहिकं वा कवलं तथा वातानुलोमिकम् ॥
यद्वा पचति भुक्तं च स्यादधोभागिकं च यत् ॥ १०८ ॥
अनुवासं निरूहं वा तथैवोत्तरबस्तिकम् ॥
स्नैहिकं वा विरेकं वा तथा शीर्षविरेचनम् ॥ १०९ ॥
प्रमाणमुपचारं वा ये न जानन्त्यबुद्धयः ॥
किं करिष्यन्ति ते मूढाः समरेष्विव भीरवः ॥ ११० ॥
अनिवृत्ते त्विदं देयमिदं देयं च निर्वृते ॥
किंतु प्रतिनये देयं किंचिद्भिन्ननयेष्विह ॥ १११ ॥
इमे वातसमुत्थाना इमे वा रक्तसंभवाः ॥
संसृष्टा व्याधयो ये च ये च स्युः सांनिपातिकाः ॥ ११२ ॥
तानविज्ञाय ये कुर्युः कर्म तेषां न सिध्यति ॥
उत्तरं त्वैनधीयाना न तान्कर्मसु योजयेत् ॥ ११३ ॥
कर्मज्ञं निखिलज्ञं च सिद्धिषु प्रतियोजयेत् ॥
यस्तु रोगमविज्ञाय भिषक्कर्म प्रयोजयेत् ॥ ११४ ॥
तस्यै मिथ्याप्रयोगेण व्याधिर्वर्धेत दन्तिनाम् ॥
शास्त्रज्ञो वाऽप्यकर्मज्ञः कर्मज्ञो वाऽप्यशास्त्रवित् ॥ ११५ ॥
उभौ तौ गर्हितौ वैद्यावर्धवेदधरौ स्मृतौ ॥
भैषज्यं योगविहितममृतत्वाय कल्पते ॥ ११६ ॥
तदेवायोगविहितं तीक्ष्णं संपद्यते विषम् ॥
परिवारे तु कुशलश्चिकित्सितविशारदः ॥ ११७ ॥
कर्माभिज्ञः कुलीनश्च स भिषक्श्रेष्ठ उच्यते ॥
योगभैषज्यकुशलः शस्त्रकर्मविशारदः ॥ ११८ ॥
दृष्टोपचारः स्मृतिमान्सोऽप्युत्तम इति स्मृतः ॥
विशेषोन्परतन्त्रेभ्यो गृह्णीयादनसूयकः ॥ ११९ ॥
संशयं परिपृच्छेच्च यथावित्थशास्त्रिषु ॥
ऊहापोहार्थयुक्तश्च जानीते सर्वमेव यः ॥
स तु श्रेष्ठश्च पूज्यश्च देवानामिव वासवः ॥ १२० ॥
तत्र श्लोकौ भवतः—
१ क. किं वा विभिन्नये° । २ क. तान्विज्ञाय । ३ क. च । ४ क. त्वद्-
धीयानां । ५ क. °स्य सिद्ध्या प्र° । ६ क. कर्मतो । ७ ग. गर्वितौ । ८ ख. ग.
कर्मज्ञश्च । ९ ग. °षादन्यत° ।
L) प (L) ज्ञो (G) गु (L) रु (L) ...
Wait:
1: तस् (G)
2: माद् (G)
3: द्वि (L) - wait, followed by प, so द्वि is L.
4: प (L) - wait, ज्ञ is jña, a conjunct! So प before ज्ञ is GURU (G)!
So:
1: तस् (G)
2: माद् (G)
3: द्वि (L)
4: प (G)
5: ज्ञो (G)
6: गु (L)
7: रु (L)
8: MUST BE GURU (G)!
9: MUST BE LAGHU (L)!
10: MUST BE GURU (G)!
11: MUST BE GURU (G)!
Pattern for syllables 8, 9, 10, 11:
G L G G (- u - -)!
Let's check वात्सखिन्नः:
8: वात् (G) - YES!
9: स (L) - YES!
10: खिन् (G) - YES!
11: नः (G) - YES!
IT IS वात्सखिन्नः or भक्तियुक्तः?
IT IS वात्सखिन्नः!
Wait, but is it वात्सखिन्नः?
Wait! वा त्स `
प्राणांस्त्यजन्ति कृच्छ्रेण श्रेष्ठास्तेन वारणाः ॥
प्राकारगोपुराट्टालकपाटोद्घाटभाविषु ॥ १० ॥
भञ्जने मर्दने चैव भोगा वज्रोपमाः स्मृताः ॥
स्वसैन्यं परिरक्षन्ति परसैन्यं द्रवन्ति च ॥ ११ ॥
घेटाभिरक्षिता नागाः प्राकारा इव दुर्जयाः ॥
सहसेवाऽऽगतं सैन्यं घंटास्था वारणाः पुनः ॥ १२ ॥
दर्पिताः प्रतिरुन्धन्ति सेतुबन्ध इवार्णवे ॥
सहसोत्पतिते कार्ये नागारूढो महीपतिः ॥ १३ ॥
एकाङ्गविजयं कुर्यादेकाङ्गविजयः कुतः ॥
केल्पितः शिक्षितः शूरः शूरारूढः प्रतापवान् ॥ १४ ॥
जयत्येकोऽपि मातङ्गः षट्सहस्राणि वाजिनाम् ॥
यथा स्वकर्मवच्छीघ्रं प्राप्य मन्दरपर्वतम् ॥ १५ ॥
भग्नवेगा निवर्तन्ते तथाऽश्वाः प्राप्य कुञ्जरम् ॥
यां गतिं ब्रह्महा गच्छेत्पितृहा मातृहा तथा ॥ १६ ॥
तथा कन्याऽनृतश्चैव स्त्रीहन्ता गुरुतल्पगः ॥
क्षत्रियो यां गतिं गच्छेद्युद्धे दृष्टपराङ्मुखः ॥ १७ ॥
तां गतिं प्रतिपद्येत यो नागं समरे त्यजेत् ॥
एकशक्तिप्रहारेण म्रियतेऽश्वो नरोऽपि वा ॥ १८ ॥
सहेत शक्तिघातानां शतं युद्धेषु वारणः ॥
शरजालाश्रितमुखः कोऽन्यः शक्तः परं गजात् ॥ १९ ॥
हन्तुं प्राकारमुन्मथ्य रथाश्वनरकुञ्जरान् ॥
निशायां नष्टचन्द्रायां समन्तादग्निदीपने ॥ २० ॥
मर्दने परसैन्यानां कोऽन्यो नागात्परः सहेत् ॥ २१ ॥
मोक्षात्परा गतिर्नास्ति नास्ति वेदात्परा श्रुतिः ॥
नास्ति कृष्णात्परं भूतं नास्ति यानं गजात्परम् ॥ २२ ॥
पृथिव्या भूषणं मेरुः शर्वर्या भूषणं शशी ॥
नराणां भूषणं विद्या सैन्यानां भूषणं गजाः ॥ २३ ॥
* 'रक्षिता' इति तु युक्तम् ।
१ क. नागव° । २ क. घण्टाभि° । ३ क. घण्टास्थाः । ग. घटस्थाः ।
४ ख. ग. दर्पतः । ५ ख. ग. कल्पिनः । ६ ख. स्वकर्मविच्छीघ्रं । ७ क. ख.
°ण मृत्य° । ८ क. पृथिव्यां ।
६
४२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
तत्सौरूपं यत्र संतोषस्तद्राष्ट्रं यत्र पार्थिवः ॥
तन्मित्रं यत्र विश्वासस्तत्सैन्यं यत्र कुञ्जराः ॥ २४ ॥
शीलात्तु शोभते रूपं चारित्राच्छोभते कुलम् ॥
पुष्पितं शोभतेऽरण्यं शोभते सेगजं बलम् ॥ २५ ॥
विभूतेर्भूषणं ज्ञातिः कुलानां भूषणं धनम् ॥
मदिरा भूषणं स्त्रीणां सैन्यानां भूषणं गजाः ॥ २६ ॥
तत्र श्लोकः—
नासौ व्ययो यत्र गुणे न लाभो नासौ बुधो येन तपो न तप्तम् ॥
नासौ पुमान्यत्र हिता न भार्या नासौ नृपो यस्य हिता न नागाः॥ २७॥
यद्वद्वनमसिंहं तु यद्वद्राष्ट्रमपार्थिवम् ॥
यद्वच्छौर्यमशस्त्रं तु तद्वत्सैन्यमकुञ्जरम् ॥ २८ ॥
यतः सत्यं ततो धर्मो यतो धर्मस्ततो धनम् ॥
तस्मात्प्रयत्नतो रक्षेत्स्वपुत्रानिव नित्यशः ॥
तेषाममितसत्त्वानां कर्तव्यमनुपालनम् ॥ ३८ ॥
प्रोच्यन्ते यादृशा युक्ता गजरक्षाधिकारिणः ॥
धार्मिकाः शुचयः सर्वे श्रुतवन्तो विमत्सराः ॥ ३९ ॥
सत्त्वाभिजनसंपन्नाः सर्वव्यसनवर्जिताः ॥ ४० ॥
गजभर्तृहिते युक्ताः समयज्ञाः प्रियंवदाः ॥
उत्साहबलसंपन्नाः कृतज्ञो लोभवर्जिताः ॥ ४१ ॥
मौलांस्त्वं*हार्यदक्षाश्च ज्ञातिपक्षहिते रताः ॥
नृपादेशस्य कर्तारस्तत्प्रियान्वेषिणः सदा ॥ ४२ ॥
मङ्गल्यनामधेयाश्च प्रगल्भा वाग्वि builders? वाग्विशारदाः ॥
गजाधिकारिणः कार्या गजकर्मविशारदाः ॥ ४३ ॥
हस्त्यध्यक्षवशे युक्ता भिषजां च विशेषतः ॥
भोजनस्थानशयननिर्वाणगमनेषु च ॥ ४४ ॥
द्रष्टव्याः सह वैद्येन शश्वत्तैरपि वारणाः ॥
यस्य यत्करणीयं तु तन्निवेद्य महीपते ॥ ४५ ॥
गजाध्यक्षेण तु पुनः कार्यं च भिषजा सह ॥
भिषग्विनीतो मेधावी ग्रन्थार्थप्रतिपत्तिमान् ॥ ४६ ॥
नृपतुल्यः प्रियाभाषी महाभोगपरिग्रहः ॥
वाग्मी प्रगल्भः क्षान्तात्मा धृतिमान्धार्मिकः शुचिः ॥ ४७ ॥
मौलोऽनुरक्तो मधुरः कुलीनश्च प्रशस्यते ॥
शब्दार्थन्यायकुशलः शुचिर्मौलो निरामयः ॥ ४८ ॥
गणितव्यवहारज्ञो गजामात्यः प्रशस्यते ॥
गजाध्यक्षोऽतिमतिमाञ्शरण्यः सुजितेन्द्रियः ॥ ४९ ॥
विनीतः सत्यसंधश्च वयस्थः प्रतिपत्तिमान् ॥
गजाजीवी गजानां तु हितकार्ये रतः सदा ॥ ५० ॥
स्वामिभक्तः शुचिर्दक्षो धार्मिकश्च प्रशस्यते ॥
रहस्यवित्रिपः शूरो धृतिमान्सुदृढेन्द्रियः ॥ ५१ ॥
* 'गरीयसः' इति कपुस्तकटिप्पणी ।
१ क. प्रोच्यते । २ ग. °ज्ञा लाभ° । ३ ख. ग. °लास्त्वाहा° । ४ क. ख. दृष्टव्याः । ५ ख. °क्षोऽथ म° ।
१४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
सुशरीरस्त्वरोगश्च पग्ताऽङ्कुशविभाक्तित् ॥
निमित्तोत्पातकुशलश्चिकित्सितविशारदः ॥ ५२ ॥
इष्टश्च कुशलोत्साही गजमर्महिते रतः ॥
ईदृग्विधगुणोपेतो महामात्रः प्रशस्यते ॥ ५३ ॥
ब्राह्मणः शीलसंपन्नो भेषजकर्मसु निश्चितः ॥
स एवोत्थाभिषेक्षी (?) नामारोहा तु प्रशस्यते ॥ ५४ ॥
एवंविधगुणोपेतैः परस्परहितेषिभिः ॥ ५५ ॥
गजोष्टाकुलिकैर्वैद्यैर्महामात्रैर्यशोर्थिभिः ॥
अवेक्ष्यमाणा वर्धन्ते बलवन्तो निरामयाः ॥ ५६ ॥
प्रहृष्टमनसो मत्ता कामिनः सुँखिनो गजाः ॥
शुभव्यञ्जनसंपन्ना भवन्ति नृपकामदाः ॥ ५७ ॥
विधायाऽऽसवपानं तु स्थानशय्यास्वधिष्ठिताः ॥
यस्य नागास्तु कुशलैश्चिन्त्यन्ते गजचिन्तकैः ॥ ५८ ॥
नित्यं क्रुद्धैर्व्यसनिभिर्लुब्धैर्बुद्धिबहिष्कृतैः ॥
गजकर्मस्वकुशलैर्ज्ञातिपक्षविरोधिभिः ॥ ५९ ॥
प्रमादकृद्भिः पिशुनैरसंबद्धप्रलापिभिः ॥
तस्य राज्ञः क्षयं यान्ति गजाः सपरिवारकाः ॥ ६० ॥
असम्पक्पाल्यमानास्तु क्षुद्वन्ध्यवधपीडिताः ॥ ६१ ॥
तत्र श्लोकाः—
जगद्धितार्थं जगतः प्रजेत्रा सृष्टा गजेन्द्राः प्रथितप्रतापाः ॥
तेषां हितान्वेषणतत्परस्तु यः पार्थिवस्तस्य जयोऽग्रहस्ते ॥ ६२ ॥
†संवाहिता न प्रतिवीर्यसैत्त्वं रथाश्वपत्तिप्रतिबृंहितास्तु ॥
तथाऽपि नागैः किल ताभिहत्य देवा जयं प्रापितवन्त एव ॥ ६३ ॥
गजेन्द्रवीर्यः क्षितिपः क्षितीशान्संरुष्टपुदीर्णान्नृपपत्तिसंघैः ॥
हन्यात्प्रसह्यैव विकुर्वतस्तान्त्सिंहो यथा क्षुद्रमृगान्वनस्थान् ॥ ६४ ॥
- गजरक्षाधिकारी, गजाधिकारी, वैद्यः, गजामात्यः, गजाध्यक्षः, गजाजीवी,
महामात्रः, आरोहा, एवमष्ट कुलानि—इति कपुस्तकटिप्पणी । † ‘सुराहिताः’ इति
कदाचित्स्यात् । ‡ सत्त्वा इति सस्वरथा इति वा स्यात् ।
१ ग. °वाऽऽत्माषे° । २ क. °जाष्टाकु° । ३ क. प्रवेक्ष्यमाणा । ४ ख.
सुखिनो । ५ क. प्रमाद° । ६ क. असम्यक्कालमाना । ७ क. टिप्पणीगतः ‘दैत्या हि
पूर्वं श्रुतिपूर्वभेदा रथाश्वपत्तिप्रतिबृंहिताश्च’ इति । ८ ख. क्षितिपं । ९ क. °न्तिसहा य° ।
६ शिष्योपनयनाध्यायः ] हस्त्यायुर्वेदः । ४६
हपाश्च भूमावपि वर्त्तमानाः कृतं गजं प्राप्य विनाशमीयुः ॥
रथाश्च वाताभिहता इवाब्दाः क्षणेन नाशं समरे प्रयान्ति ॥ ६५ ॥
स्वाधीनकेनापं*वता गजेन बलोपपन्नेन हँतेन्द्रियेण ॥
निःसंशयं पत्तिगणोऽपि राजन्क्षणेन मृत्योर्वशतां स यायात् ॥ ६६ ॥
तस्माद्गजेन्द्राः परिरक्षणीयाः स जीवितं चातिशयेन राज्ञाम् ॥
नान्योऽस्ति हेतुर्जयतः पृथिव्यां भुक्त्वोरुवीर्यातिशयप्रभावान् ॥६७॥५७०॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने महारोगस्थाने गजरक्षणवि-
न्यासो नाम पञ्चमोऽध्यायः ॥ ५ ॥
━━━━━━━━━━━━━━━━━━━━━━━━━
अथ षष्ठोऽध्यायः ।
अत ऊर्ध्वं प्रवक्ष्यामि शिष्योपनयने विधिम् ॥
यैर्गुणैर्यादृशो यश्च शिष्यः स्यादिति पार्थिव(:) ॥ १ ॥
तत्र शिष्यस्तु कर्तव्यः कामक्रोधविवर्जितः ॥
शास्त्रार्थकर्मतत्त्वज्ञः कुलशीलगुणान्वितः ॥ २ ॥
मेधावी स्मृतिमान्दक्षः शूरोदारः प्रियंवदः ॥
ऊहवान्कर्मविच्छक्तः शुश्रूषुरशठः शुचिः ॥ ३ ॥
दृष्ट्वैमादिभिर्युक्तं शिष्यं शिष्यगुणान्वितम् ॥
मुहूर्ते तिथिनक्षत्रप्रशस्ते गुरुरादितः ॥ ४ ॥
शुक्लवासाः सशिष्यस्तु सोपवासो जितेन्द्रियः ॥
प्रागुदीचीं दिशं गत्वा नातिदूरोदके नृप ॥ ५ ॥
शुचौ देशे लिखेज्ज्ञैश्चतुर्विंशत्पदानिकम् ॥
मण्डलं पूर्णकुम्भैस्तु दर्भैः पुष्पैः सुशोभितम् ॥ ६ ॥
तस्य मध्ये समिद्धिस्तु ज्वालयेच्च हुताशनम् ॥
दिग्देवान्दिग्गजांश्चैव विविधैस्तन्दुलैर्बलेत् ॥ ७ ॥
ब्रह्माणं शंकरं विष्णुं चन्द्रसूर्यौ ग्रहाँ†श्चलान् ॥
ऋषींश्च स्कन्दसहितांश्चाप्सरोरोगगुह्यकान् ॥ ८ ॥
- नाप्यवता इति तूचितम् । †ग्रहचलान् इति स्यात् । .
१ क. °भिहिता इवाष्टाः क्ष° । २ क. नाशे । ३ क. बलोपपत्तेन । ४ क.
हृडीन्द्रि° । ५ ख. °वात् ॥ ६७ ॥ ६ क. समीपस्तु । ७ क. ग्रहं चलात् । ८ क.
ख. °रोरुग° ।
४६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
लिखितैषु यथान्यायं धूपमाल्यानुलेपनैः ॥
सर्वाङ्गेः सर्वसत्त्वैश्च बलिं विधिवदाचरेत् ॥ ९ ॥
कृत्वा सर्वमशेषेण जुहुयाद्धव्यवाहनम् ॥
मन्त्रेणानेन नियतं सर्पिषा मियतो गुरुः ॥ १० ॥
ॐ भवाय स्वाहा । भुंर्भुवः स्वाहा॑ । अग्नये स्वाहा। सोमाय स्वाहा। रुद्राय
स्वाहा। सेनान्यै स्वाहा। बलाय स्वाहा। ब॑लाङ्गाय स्वाहा। बलाधिपतये स्वाहा।
शक्तिधराय स्वाहा। शिखिकण्ठप्रियाय स्वाहा। कुक्कुटघण्टाप्रियाय स्वाहा।
मयूरध्वजाय स्वाहा। ब्रह्मणे स्वाहा। नारायणाय स्वाहा। रुद्राय स्वाहा॑ ।
विभ्वाय स्वाहा। यमाय स्वाहा। वरुणाय स्वाहा। धनदाय स्वाहा। सूर्येभ्यः
स्वाहा। वसुभ्यः स्वाहा। शैलेभ्यः स्वाहा। *नन्दिभ्यः स्वाहा। महाकालाय
स्वाहा। देवेभ्यः स्वाहा। नदीभ्यः स्वाहा। अनिलाय स्वाहा। धर्माय स्वाहा।
समुद्राय स्वाहा। दिग्भ्यः स्वाहा । विदिग्भ्यः स्वाहा । विश्वाय स्वाहा ।
इति—
हुत्वाऽग्निं विधिवच्छिष्यमाज्येनाभ्यञ्जयेद्गुरुः॥
कृतप्रणामो देवेभ्यस्त्विदं श्राव्यस्ततो नृप ॥ ११ ॥
न शठेनानृशंसेन न लुब्धेन न रूपिणा ॥
न निष्ठुरेणानृजुना तथैवानलसेन च ॥ १२ ॥
अँपापेनार्यशीलेन कुटुम्बस्यानुकम्पिना ॥
भवितव्यं त्वया वत्स नित्यमाचार्यसेविना ॥ १३ ॥
तदेवमनुवृत्तस्य वस्त्राध्ययनभोजनैः ॥
यदि शाठ्यं गुरुः कुर्यात्स शिष्यमसभाग्भवेत् ॥ १४ ॥
गुरोरपि प्रवृत्तस्य विद्याग्राह्लादनादिभिः ॥
यदि शिष्योऽन्यथा कुर्यात्स गुरोः पापमृच्छति ॥ १५ ॥
एवमेव यथाकालं विद्यामादाय कृत्स्नशः ॥
आचार्येणाभ्यनुज्ञातस्ततस्त्वं गन्तुमर्हसि ॥ १६ ॥
ततो राजानमासाद्य राज्ञा चाभ्यर्थितेन च ॥
पुत्रेष्विव सदा स्नेहः कर्तव्यो हस्तिषु त्वया ॥ १७ ॥
- कपुस्तके इत आरभ्य दिग्भ्यः स्वाहा इत्यन्तः पाठो नास्ति ।
१ ख. भूर्भुवाय । २ क. चलङ्गाय । ३ क. शिखकण्ठिप्रियाय । ४ ख.
॰हा ! य॰ । ६ ख. ॰वा नाल॰ । ७ क. अपानेना॰ ।
६ शिष्योपनयनाध्यायः ] हस्यायुर्वेदः । ४७
*अमुष्याणा(?)मेवचनां देहीत्यवदतामपि ॥
कर्तव्यस्ते सदा स्नेहः कुञ्जराणां विशेषतः ॥ १८ ॥
यः सम्यक्पश्यतो राज्ञः स्वामिनां चारुवृत्तिभिः ॥
उपेक्षति गजान्वैद्यः स त्वङ्गः पापमश्नुते ॥ १९ ॥
एतदेव विपर्यस्ता यदि राजा न पश्यति ॥
सम्यक्प्रवृत्तमाचार्यं धनमानपरिग्रहैः ॥ २० ॥
पिण्डस्तु नोपजीव्यस्ते वारणानां कदाचन ॥
अवध्यायन्ति तं नागा यः पिण्डमुपजीव्यति ॥ २१ ॥
यथैव नागाः क्षीयन्ते नागवत्क्षीयते हि सः ॥
गजशापाभिभूतस्य नश्यन्ते संचया गृहे ॥ २२ ॥
तस्मात्सदाऽनुकम्पैव कर्तव्या वारणेष्विह ॥
क्षुत्क्लान्तदीनभीतानां मत्तानां युधि रक्षणम् ॥ २३ ॥
विधेयं ब्रह्मणा सृष्टा नागानां हितमिच्छता ॥
मङ्गल्या च पवित्रा च धर्मार्थयशसां निधिः ॥ २४ ॥
गान्धर्वः सामवेदस्य उपवेदो यथा स्मृतः ॥ •
स्मृतिर्यथा चोपवेद ऋग्वेदस्येह पश्यते ॥ २५ ॥
नाट्यं यथोपवेदश्च यजुर्वेदस्य पार्थिव ॥
तथोपवेदोऽथर्वाणश्चिकित्सितमिह स्मृतम् ॥ २६ ॥
ब्राह्मणस्त्वथ †वर्णादींस्त्रीनध्यापयितुमर्हसि+ ॥
द्वौ क्षत्रियस्तथा *वैश्यमेकमध्यापयेत्सदा ॥ २७ ॥
गुणवत्स्वपि शूद्रेषु मा बुधं कर्तुमर्हसि ॥
एषा ह्यनुपमा विद्या वेदवेदाङ्गसंमिता ॥ २८ ॥
विद्यानामुपसत्त्वाय कथयिन्न ह्यसाधवे ॥
†अश्रद्दधानो ये च स्युर्नास्तिका येऽभ्यसूयकाः ॥ २९ ॥
तेषां विद्यां न कथयेद्ये च विद्यावमानिनः ॥
आचार्यस्त्वेव कथयेद्विज्ञानकुशलेष्वपि ॥ ३० ॥
नापुत्राय प्रदातव्या नाशिष्यायाहिताय वा ॥
अश्वान्गां रजतं चैव सुवर्णं वाऽपि दक्षिणाम् ॥ ३१ ॥
- 'अमुष्यानाम्' इति भवेत् । † 'वर्णांस्त्रीन्' इति तूचितम् । + 'मर्हति' इति
समञ्जसम् । * वैश्य एक इति तूचितम् । † अश्रद्दधाना इति तु वरम् ।
१ ख. °मवाचानां । २ ख. क्षुच्छ्रान्तदान° । ३ क. विद्या ।
३४ पालकाप्यमुनिविरचितो— [१ महारोगस्थाने]
न प्रयच्छेत्तु विद्यार्थिं न वशी अवभेदकम् ॥
एवमुक्त्वा तु तं शिष्यमाचार्यस्तर्पयेद्विजान् ॥ १२ ॥
पुष्पानुलेपनेर्धूपैर्भक्षपानान्नभोजनैः ॥
भक्तैर्द्विजवरैस्तत्र देवतैश्च सुपूजितैः ॥ १३ ॥
यच्छेषमुपभोक्तव्यमिति शिष्यक्रमः स्मृतः ॥ १४ ॥ ६०४ ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेद महाप्रवचने महारोगस्थाने
शिष्योपनयनो नाम षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
अङ्गश्चम्पाधिपः श्रीमान्बुद्ध्या परमया युतः ॥
कृतजाप्यमृषिश्रेष्ठं पालकाप्यं स्म पृच्छति ॥ १ ॥
यत्पूर्वं संग्रहाध्याये त्वया प्रोक्तं महामुने ॥
विभक्तिरिति रोगाणां तन्मे व्याचक्ष्व पृच्छतः ॥ २ ॥
एवं पृष्टोऽङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
आध्यात्मिकागन्तुभेदा द्विविधा व्याधयः स्मृताः ॥ ३ ॥
आध्यात्मिका दोषजाश्च मानसाश्च प्रकीर्तिताः ॥
आगन्तवोऽपि विज्ञेया आधिभूताधिदेविकाः ॥ ४ ॥
यस्माद्विभजते तांस्तु वातपित्तकफात्मिकान्* ॥
रक्तजांत्संनिपातांश्च द्वित्रिजान्मानसांस्तथा ॥ ५ ॥
† आगन्तुंश्चापि जानीयावोधिभौतिकदैविकान् ॥
साध्यानंसाध्यान्यस्यांश्च कृच्छ्रसाध्यांश्च भेदतः ॥ ६ ॥
तस्माद्रोगविभक्तेश्च नाम्नां रूपातो नराधिप ॥
तत्राऽऽदौ वातिकान्वक्ष्ये षट्सप्तमितिमान्गदान् ॥ ७ ॥
बालः पाण्डामयी च स्याद्दानाहः* सर्व एव च ॥
मूर्च्छाश्च पश्चात्पर्यशनाविदग्धाहारधान्यजाः ॥ ८ ॥
वातिकी मार्गमूर्च्छा च शिरोरोगाश्च ये स्मृताः ॥
पादरौगा दशोत्कार(ः)कार(रो)नाडीभवोऽपरः ॥ ९ ॥
- ‘कफात्मकान्’ इति भवेत् । † आगन्तुंश्चापि जानीयादाधिभौतिकदैविकान् ।
इति भवेत् । † ‘साध्यानाप्यांश्च’ इति भवेत् । * ‘दानाहाः’ इत्येव वरम् ।
१ ख. ॰याद्रोधि॰ । २ गं. षड्विकारानिमान्गदान् । ३ क. ॰त्यसना॰ ।
७ रोगविभक्त्यध्यायः ] हस्तिह्यायुर्वेदः । ४९
*सराष्ट्रो मस्मभेदश्च कदम्बाक्षः सुफुल्लुकः ॥
फुल्लो भिन्ननखश्चानुद्धतः स्थाणुहतान्नुयत् ॥ १० ॥
धौन्योपधाम्यां व्यापत्ती शोफश्चाक्षिरुगौदकी ॥
अण्डाक्षो नाद्यंप्रेक्षी छर्द्यतीसारसंज्ञितौ ॥ ११ ॥
तृणशोषी विसर्पेश्च मेद्रक्षाणी च निश्चिता ॥
हस्तोन्माथाश्च षडुदावर्त उत्कर्णकोऽपि च ॥ १२ ॥
ग्रहणीदोषनामा वै आमरोगस्तथैव च ॥
तथा वातगतिर्यश्च मन्यास्तम्भो मंदक्षयः ॥ १३ ॥
कृशो बलक्षयश्चोरःक्षतो जठरकस्तथा ॥
गाढमूत्री च विज्ञेयैः सूतिकादशनामयौ ॥ १४ ॥
प्राकृतः शौरदो यश्च सप्तधातुक्षयास्तथा ॥
प्रकृत्या व्याधिभिश्चापि दुर्बलश्चौषधैरपि ॥ १५ ॥
तथाँ प्रभिन्नो द्रोणीको गुल्मो हृद्गात्रगामयौ ॥
व्रणस्योपद्रवो यश्च विद्रधिश्चाधिदन्तिकः ॥ १६ ॥
कटस्रोतो निरोधश्च गात्रातङ्कीति वातिकाः ॥
वक्ष्यन्ते पैत्तिकाः सप्तविंशतिस्तत्र पाण्डुरुक् ॥ १७ ॥
मूर्च्छा पित्ताम्बुमचैर्या शिरोरोगः कुठारकः ॥
मंद्यव्यापत्तथा शोफो वमथुः सातिसारकः ॥ १८ ॥
विसर्पोऽतः परं मेद्रक्षाणी सिद्धार्थकश्च यः ॥
परिमूत्री रुदनरुग्रोगो यः शारदस्तथा ॥ १९ ॥
पित्तप्रभिन्नो द्रोणीको गुल्मो हृद्गात्रजे रुजौ ॥
उपद्रवो व्रणस्यापि तथा विद्रधिरेव च ॥ २० ॥
नश्य(स्य) धूमप्रधमनैर्दोषो लथुनजा विपत् ॥
कवलव्यापद्दित्येते पैत्तिकाः संप्रकीर्तिताः ॥ २१ ॥
श्लैष्मिकाश्चैव वक्ष्यन्ते द्वात्रिंशत्संरूपया गदाः ॥
शुद्वस्तथा पाण्डुरोगो मूर्च्छा च कफसंभवा ॥ २२ ॥
- संराष्ट्रो' इत्यग्रे । † 'स्थाणुहतात्तु यत्' इति स्यात् ।
१ क. ख. ॰नुद्धत्तः स्था॰। २ क. धान्यॊस्यधाम्ब्यां। ख. धान्यॊप्यधाम्ब्यां। ३ ख.
॰दावर्ता उ॰। ४ क. ख. महक्षयः। ५ क. ॰यः स्तनिका॰। ६ ग. क्षारदोषश्च।
७ ग. ॰थाऽर्द्रभि॰। ८ ग. पाण्डुकः। ९ क. मेद्यव्या॰। ख. मेद्यव्यापात्त॰।
*१० क. श्लेष्मका॰।
७
५० पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
शिरोरोगौ तथा द्वौ च कफकृत्कृमिसंभवौ ॥
दर्दुर्मांसात्मकौ केशौ घृतेन बसया तथा ॥ २३ ॥
व्यापत्क्षीरेण चाप्यन्या शोफश्चाप्यथ बुद्बुदी ॥
पटलाक्षस्तथा मुञ्जच्छर्दतीसारसंज्ञितौ ॥ २४ ॥
विसर्पो मेहनक्षाणी *श्लेष्माभिष्यन्नरुक्ततः ॥
पिष्टमेही दन्तरोगो यश्चोक्तः स्थूलशारदः ॥ २५ ॥
उद्गमः कृमिकोष्ठश्च प्रभिन्नः कर्णवालजः ॥
तथा द्रोणीकशोफश्च गुल्मो हृद्गात्रजामयौ ॥ २६ ॥
व्रणोपद्रवजश्चान्यो विद्रधिश्च कफात्मकाः ॥
अतः परं प्रवक्ष्यामि रक्तात्पञ्चदशामयान् ॥ २७ ॥
शिरोरुजः प्रगुल्मी च गम्भीरो लोहितांङ्घ्रिजः ॥
क्षा(क्ष)रीकृतोऽथ निष्पिष्टः शोफो रक्ताक्ष एव च ॥ २८ ॥
मेढ्रक्षाणी क्षीरमेही तथा लोहितशारदः ॥
ततः प्रभिन्नो द्रोणीको गुल्मश्चाग्रेरुपद्रवः ॥ २९ ॥
इत्येते रक्तजाः प्रोक्ता वक्ष्यन्ते सांनिपातिकाः ॥
विंशतिर्ह्यधिकास्तेषामयमादौ मृदुग्रहः ॥ ३० ॥
ततो मूर्च्छा शिरोरोगः क्रचकेशश्च पार्थिव ॥
शोफः प्रावारकी मुञ्जजालो वमथुरेव च ॥ ३१ ॥
अतिसारो मदनको विसर्पो मेढ्रवैकृतिः ॥
तैलकाश्र्यश्मरीकक्ष दन्तरोगः किलासिता ॥ ३२ ॥
तथा प्रभिन्नो द्रोणीको गुल्मो गात्राप्रपस्तथा ॥
उपद्रवो विद्रधिश्चेत्युक्ता वै सांनिपातिकाः ॥ ३३ ॥
वार्तापित्तात्मका रोगा वक्ष्यन्ते ते चतुर्दश ॥
पकलो बहिरायामः स्नेहमूर्छा च पार्थिव ॥ ३४ ॥
पूयकेश(:)समन्तश्च तथा चर्मतिलश्च यः ॥
तैलव्यापत्तथा विद्युन्माली क्लिष्टोऽथ वर्त्मनः ॥ ३५ ॥
- 'श्लेष्मावसन्न' इति भवेत् ।
१ क. मेहनक्षीणी । २ क. ०भिष्यनर० । ग. ०भिछन्न०। ३ क. मेढ्रक्षीणी ।
४ क. ख. तल्लः का० । ५ क. किलासिना । ख. किलासिती । ग. किलासिनी ।
६ क. उपद्रवा । ७ क. ०यासः स्ने० । ८ क. ख. यूपकेश० । ९ ख. ०र्मतल० ।
१० क. विद्युन्मालाक्लिष्टो ।
७ रोगविभक्त्यध्यायः ] हस्त्यायुर्वेदः । १९
पिटिकाश्च शूलश्च१ मृत्तिकाऽथ कफक्षयः ॥
अतिपात इति प्रोक्ता वातपित्तसमुद्भवाः ॥ ३६ ॥
वातश्लेष्मसमुत्थाना वक्ष्यन्ते षोडशाऽऽमयाः ॥
प्रसुप्तोऽथ महारूपोऽन्यैः स्कन्दो मूर्छा तृणोद्भवा ॥ ३७ ॥
कारक्युदकजा व्यापत्योक्तो यश्च गलग्रहः ॥
जरया दत्तरोगश्च शूलोऽन्यो दन्तशूल्यपि ॥ ३८ ॥
तृणपुष्पी क्षीणपित्तो दुर्बलो वयसा च यः ॥
अभक्तच्छन्दोग्रासोपरोधो मेढ्रुपद्रवः ॥ ३९ ॥
इति वातकफोत्पन्नाः२ सप्तमे वातरक्तजाः ॥
केशग्रन्थिश्च शोफश्च वातकुण्डलिकाऽपि च ॥ ४० ॥
रक्ताण्डी यवगण्डी च चर्मकीलो विसर्पिणी ॥
इत्युक्ता वातरक्तोत्था श्लेष्मशोणितजास्त्रयः ॥ ४१ ॥
दद्रुकी च महादन्तुरन्या मण्डलिकीति च ॥
त्रयोऽन्ये पित्तकफजाः स्रोतोन्धः३ पिटकी४ तथा ॥ ४२ ॥
वातक्षय इति प्रोक्ता वातासृक्पित्तजावुभौ ॥
पाककः पुण्डरीकाख्यस्तथा विप्लावकोऽपरः५ ॥ ४३ ॥
ज्ञेयः कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपाकरुक्६ ॥
यवगण्डः कर्णरोग इत्येतेऽपि प्रकीर्तिताः ॥ ४४ ॥
पित्तासृक्कफसंभूता स्यादेकैव विचर्चिका ॥
भूतानिलात्मकाः षट् च तत्राऽऽदौ कुक्कुटः स्मृतः ॥ ४५ ॥
तथैकाङ्गग्रहः कूटश्चान्तरामय† एव च ॥
हस्तग्रहोऽथ७ रात्र्यन्ध इत्यमी कीर्तिताः क्रमात् ॥ ४६ ॥
मानसास्तत्र पञ्चैको भयातीसारसंज्ञितः ॥
पूर्वाविद्धोऽथ* हृच्छाली तथा भ्रंशश्च चेतसः ॥ ४७ ॥
संतापद्ग्ध इत्येवमुक्ताश्चाऽऽध्यात्मिका गदाः ॥
सर्वे पिण्डेन विख्याता द्वात्रिंशच्च शतद्वयम् ॥ ४८ ॥
- अन्यो व्याविद्धनामा ।
† 'श्रान्तरायाम' इति भवेत् ॥
१ ख. मूलश्च । २ क. ख. ०त्पन्नः स० । ३ क. ख. श्रोतोधः । ४ क. ख.
पटकी । ५ क. विप्लवश्चोऽपरः । ६ क. कफासृक्पवनाद्वक्ष्यन्तेऽथाक्षिपालकरुक् ।
७ क. हस्त्यग्रं ।