सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 56, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 56

४ शल्यसंग्रहाध्यायः ] हस्त्यायुर्वेदः । ३७
अधिदन्तशिराच्छेदमर्मैरण्डास्तथाऽर्बुदाः ॥ १
मर्मविद्धो दोषगतिर्व्रणं गं लूताः सकीटकाः ॥ ८० ॥
व्यालाः प्रदेशाः शस्त्राणि क्षारो भग्नचिकित्सितम् ॥
मूढगर्भपनयनं दन्तोद्धरणमेव च ॥ ८१ ॥
त्रयस्त्रिंशदिहाध्यायाः शल्यस्थाने प्रकीर्त्तिताः ॥
तृतीयं स्थानमेतच्च योगांश्चात्र निबोध मे ॥ ८२ ॥
भग्नं घृष्टं क्षतं दग्धं विद्युत्क्षारतुषारतः ॥
संतापोऽर्काग्नितश्चेति षड्विधं षडुपद्रवाः ॥ ८३ ॥
वातपित्तकफेभ्योऽसृग्भेदः संतापस्तथा ॥
दोषैः समस्तैर्व्यस्तैश्च चतुरो विद्रधीन्विदुः ॥ ८४ ॥
मूढगर्भश्च शल्यं च तथा यश्चाधिदन्तकः ॥
व्यौलेरण्डार्बुदालूता कीटचूर्णे विचूर्णितः ॥ ८५ ॥
अष्टाविंशतिरित्येते रोगाः शल्यसमाश्रयाः ॥
तृतीयं परिसंख्यातमिति स्थानं नराधिप ॥ ८६ ॥
चतुर्थमुत्तरं स्थानमत ऊर्ध्वं प्रवक्षते ॥
एतत्रयाणां स्थानानां परिवाराभिसंज्ञितम् ॥ ८७ ॥
स्नेहपानं प्रथमतस्त्वन्नपानविधिस्तथा ॥
अथ स्नेहविकल्पश्च बस्तिसिद्धिरतः परम् ॥ ८८ ॥
स्नानाध्यायस्ततो ज्ञेयो नस्यदानमतः परम् ॥
अञ्जनानि च जानीयाद्यवसाध्याय एव च ॥ ८९ ॥
रसवीर्यविपाकश्च शोभाश्चापि ततः परम् ॥
आयुर्ज्ञानं वयोज्ञानं नक्षत्रारिष्टमेव च ॥ ९० ॥
अरिष्टं गुग्गुलोः कल्पपिण्डगुग्गुलुरेव च ॥
लाक्षाप्रदानं लाक्षा च सुरायाः संप्रयोजितम् ॥ ९१ ॥
संपदोऽशितपीतस्य सौवीरकविधिस्ततः ॥
लवणानां तथाऽध्यायः क्रमेण परिकीर्तितः ॥ ९२ ॥
प्रतिपानं मदावस्थाः कवलात्कवले रतः ॥
व्यापत्तिः क्षीरदानस्य दूताः श्रीगजसंभवाः ॥ ९३ ॥
१ क. ०रद्धस्त० । २ क. ख. शास्त्राणि । ३ क. दृष्टं । ४ क. ०तापाद-
र्काग्नि० । ५ क. व्यालेरण्डाच्छदा० । ६ क. ०सिद्धंततः ।