हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 65, कुल 742 में से
संदर्भ में पढ़ें४६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
लिखितैषु यथान्यायं धूपमाल्यानुलेपनैः ॥
सर्वाङ्गेः सर्वसत्त्वैश्च बलिं विधिवदाचरेत् ॥ ९ ॥
कृत्वा सर्वमशेषेण जुहुयाद्धव्यवाहनम् ॥
मन्त्रेणानेन नियतं सर्पिषा मियतो गुरुः ॥ १० ॥
ॐ भवाय स्वाहा । भुंर्भुवः स्वाहा॑ । अग्नये स्वाहा। सोमाय स्वाहा। रुद्राय
स्वाहा। सेनान्यै स्वाहा। बलाय स्वाहा। ब॑लाङ्गाय स्वाहा। बलाधिपतये स्वाहा।
शक्तिधराय स्वाहा। शिखिकण्ठप्रियाय स्वाहा। कुक्कुटघण्टाप्रियाय स्वाहा।
मयूरध्वजाय स्वाहा। ब्रह्मणे स्वाहा। नारायणाय स्वाहा। रुद्राय स्वाहा॑ ।
विभ्वाय स्वाहा। यमाय स्वाहा। वरुणाय स्वाहा। धनदाय स्वाहा। सूर्येभ्यः
स्वाहा। वसुभ्यः स्वाहा। शैलेभ्यः स्वाहा। *नन्दिभ्यः स्वाहा। महाकालाय
स्वाहा। देवेभ्यः स्वाहा। नदीभ्यः स्वाहा। अनिलाय स्वाहा। धर्माय स्वाहा।
समुद्राय स्वाहा। दिग्भ्यः स्वाहा । विदिग्भ्यः स्वाहा । विश्वाय स्वाहा ।
इति—
हुत्वाऽग्निं विधिवच्छिष्यमाज्येनाभ्यञ्जयेद्गुरुः॥
कृतप्रणामो देवेभ्यस्त्विदं श्राव्यस्ततो नृप ॥ ११ ॥
न शठेनानृशंसेन न लुब्धेन न रूपिणा ॥
न निष्ठुरेणानृजुना तथैवानलसेन च ॥ १२ ॥
अँपापेनार्यशीलेन कुटुम्बस्यानुकम्पिना ॥
भवितव्यं त्वया वत्स नित्यमाचार्यसेविना ॥ १३ ॥
तदेवमनुवृत्तस्य वस्त्राध्ययनभोजनैः ॥
यदि शाठ्यं गुरुः कुर्यात्स शिष्यमसभाग्भवेत् ॥ १४ ॥
गुरोरपि प्रवृत्तस्य विद्याग्राह्लादनादिभिः ॥
यदि शिष्योऽन्यथा कुर्यात्स गुरोः पापमृच्छति ॥ १५ ॥
एवमेव यथाकालं विद्यामादाय कृत्स्नशः ॥
आचार्येणाभ्यनुज्ञातस्ततस्त्वं गन्तुमर्हसि ॥ १६ ॥
ततो राजानमासाद्य राज्ञा चाभ्यर्थितेन च ॥
पुत्रेष्विव सदा स्नेहः कर्तव्यो हस्तिषु त्वया ॥ १७ ॥
- कपुस्तके इत आरभ्य दिग्भ्यः स्वाहा इत्यन्तः पाठो नास्ति ।
१ ख. भूर्भुवाय । २ क. चलङ्गाय । ३ क. शिखकण्ठिप्रियाय । ४ ख.
॰हा ! य॰ । ६ ख. ॰वा नाल॰ । ७ क. अपानेना॰ ।