हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 55, कुल 742 में से
संदर्भ में पढ़ें१६ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
प्रकृत्या दुर्बलश्चैव व्याधिना दुर्बलोऽपरः ॥
अत्यौषधोपयोगाच्च चतुर्थे वयसि स्थितः ॥ ६६ ॥
संग्रहः संग्रहाश्चान्ये प्रभिन्नानां प्रेवक्ष्यते ॥
वातात्पित्तात्कफाद्रक्तात्संनिपातात्तथैव च ॥ ६७ ॥
कृमयः कर्णवालेत्या कर्णरोगास्ततः परम् ॥
अभक्तच्छन्दो ग्रासोपरुद्धो द्रोणीकपञ्चकम् ॥ ६८ ॥
अतिपातस्ततश्चान्यत्तथा स्याद्गुल्मपञ्चकम् ॥
वातपित्तकफैर्गुल्माः संभवन्ति त्रयस्त्रिभिः ॥ ६९ ॥
शोणिताज्जायते चान्यः संनिपातात्तथैव च ॥
हृद्रोगाश्च ततो ज्ञेया वातपित्तकफात्मकाः ॥ ७० ॥
अतश्च गात्ररोगाः स्युश्चत्वारः संप्रकीर्तिताः ॥
वातात्पित्तात्कफाच्चैव संनिपातात्तथाऽपरः ॥ ७१ ॥
आगन्तुगात्ररोगाश्च षडेवैते प्रकीर्तिताः ॥
इत्येतत्क्षुद्ररोगाणां स्थानं सम्यक्कंकीर्तितम् ॥ ७२ ॥
इह सप्ततिरध्यायाः सचतुःषष्टिरिष्यते ॥
सर्वेषामेव रोगाणां रोगज्ञानं प्रचक्षते ॥ ७३ ॥
साध्यासाध्यत्वयाप्यत्वादुत्पत्तिश्च सलक्षणा ॥
तथा ये मानसा रोगास्तथैवाऽऽगन्तवश्च ये ॥ ७४ ॥
तेषां यः संविभागस्तु यथावत्संप्रवक्ष्यते ॥
प्रथमे च द्वितीये च स्थाने सम्यङ्नराधिप ॥ ७५ ॥
—oOo—
शल्याख्यस्य तृतीयस्य स्थानस्यातः प्रवक्ष्यते ॥
संग्रहः क्रमयोगेन शृणु तन्मे नराधिप ॥ ७६ ॥
प्रथमं द्विव्रणीयोऽत्र सद्यःक्षतमतः परम् ॥
षड्व्रथोपचारोऽत्र व्रणोपक्रमलक्षणः ॥ ७७ ॥
द्वादशोपक्रमो गर्भामनाध्यायस्ततः परम् ॥
गर्भावक्रान्तिरस्मात्स्याच्छरीरनिचयस्तथा ॥ ७८ ॥
शस्त्राग्न्युपक्रमौणधी शल्योद्धरणविद्रधी ॥
व्रणनाडी शिराव्यूहव्याधिर्नाडी च दन्तजाः ॥ ७९ ॥
१ ख. चतुर्थो । २ ख. प्रचक्ष्यते । ३ ख. ॰रोगस्ततः परः। ४ ख. ॰प्रवक्ष्य॰।
५ ख. संप्रवक्ष्यते ।