हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 54, कुल 742 में से
संदर्भ में पढ़ें४ शल्यसंग्रहाध्यायः ] हस्तिआयुर्वेदः । ३५
अष्टरात्रेण चाप्यन्यो नवरात्रेण चापरः ॥
एकश्च दशरात्रेण प्राणानादाय गच्छति ॥ ५२ ॥
एकश्चैकादशं प्राप्य द्वादशीमपि चापरः ॥
इत्येष षड्विधः प्रोक्तो हस्तोन्मथितसंज्ञितः ॥ ५३ ॥
उत्कर्णको वातगतिर्मन्यास्तम्भो मदक्षयः ॥
कृशस्तथा बलक्षीणः १श्लेष्माभि †ष्विन्न एव च ॥ ५४ ॥
सात्म्यानुलोमिकश्चैव तलकाशी ततःपरम् ॥
गलग्रहश्च विज्ञेयो व्याधिः सिद्धार्थकस्तथा ॥ ५५ ॥
भूतग्रहस्त्वथो वातकुण्डली भारपीडितः ॥
उन्मादापस्मृती लुप्त उदावर्तः २ प्रगुल्मिकः ३ ॥ ५६ ॥
पत्रकृमिस्ततो ज्ञेय उरःसिक्षत एव च ॥
शोणिताण्डी समाख्यातो यवगण्डशिरास्त्वतः ॥ ५७ ॥
चर्मकीलो जठरको बालानां चैव रक्षणम् ॥
अवसन्नस्ततो ज्ञेयो रात्रिक्षिप्तस्तथापरः ॥ ५८ ॥
मूत्रसङ्गास्ततो ज्ञेयाः षडेव परिसंख्यया ॥
भिन्नबस्तिश्च विज्ञेयो गाढमूत्री तथैव च ॥ ५९ ॥
परिमूत्री तथैवान्यः पिष्टमेही च वारणः ॥
ततः शोणितमेही च तथाऽन्यो जातशर्करः ॥ ६० ॥
इत्येते षट्समुद्दिष्टा मूत्रसङ्गा यथाक्रमम् ॥
अथातः सूतिकारोगा सप्तामी रदनामयाः ॥ ६१ ॥
देवागन्तुजरायोगसमस्तव्यस्तदोषजाः ॥
चेतोभ्रंशस्तथा प्रोक्तः शूलद्वितयमेव च ॥ ६२ ॥
चत्वारः शारदाश्चैव जरगण्डस्ततः परम् ॥
शीतस्कन्नश्च विज्ञेयो मक्षिकादष्ट एव च ॥ ६३ ॥
एकादश च्छवीदोषा मृत्तिकाध्वाय एव च ॥
कृमिकोष्ठश्च विज्ञेयः क्षयश्चापि ४सुदुर्लभः ॥ ६४ ॥
क्षयो दशविधश्चैव दौर्बल्यं च चतुर्विधम् ॥
धातुदोषक्षयात्क्षीणश्चत्वारोऽन्येऽपि दुर्बलाः ॥ ६५ ॥
† श्लेष्माभिषन्न इति त्वग्रे ।
१ क. श्लेष्मामिष्यन्न । ख. श्लेष्माभिषिन्न । २ ख. ॰वर्तप्र॰ । ३ क.
प्रगुल्फिकः । ४ ग. सुदुर्बलः ।