हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 69, कुल 742 में से
संदर्भ में पढ़ें५० पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
शिरोरोगौ तथा द्वौ च कफकृत्कृमिसंभवौ ॥
दर्दुर्मांसात्मकौ केशौ घृतेन बसया तथा ॥ २३ ॥
व्यापत्क्षीरेण चाप्यन्या शोफश्चाप्यथ बुद्बुदी ॥
पटलाक्षस्तथा मुञ्जच्छर्दतीसारसंज्ञितौ ॥ २४ ॥
विसर्पो मेहनक्षाणी *श्लेष्माभिष्यन्नरुक्ततः ॥
पिष्टमेही दन्तरोगो यश्चोक्तः स्थूलशारदः ॥ २५ ॥
उद्गमः कृमिकोष्ठश्च प्रभिन्नः कर्णवालजः ॥
तथा द्रोणीकशोफश्च गुल्मो हृद्गात्रजामयौ ॥ २६ ॥
व्रणोपद्रवजश्चान्यो विद्रधिश्च कफात्मकाः ॥
अतः परं प्रवक्ष्यामि रक्तात्पञ्चदशामयान् ॥ २७ ॥
शिरोरुजः प्रगुल्मी च गम्भीरो लोहितांङ्घ्रिजः ॥
क्षा(क्ष)रीकृतोऽथ निष्पिष्टः शोफो रक्ताक्ष एव च ॥ २८ ॥
मेढ्रक्षाणी क्षीरमेही तथा लोहितशारदः ॥
ततः प्रभिन्नो द्रोणीको गुल्मश्चाग्रेरुपद्रवः ॥ २९ ॥
इत्येते रक्तजाः प्रोक्ता वक्ष्यन्ते सांनिपातिकाः ॥
विंशतिर्ह्यधिकास्तेषामयमादौ मृदुग्रहः ॥ ३० ॥
ततो मूर्च्छा शिरोरोगः क्रचकेशश्च पार्थिव ॥
शोफः प्रावारकी मुञ्जजालो वमथुरेव च ॥ ३१ ॥
अतिसारो मदनको विसर्पो मेढ्रवैकृतिः ॥
तैलकाश्र्यश्मरीकक्ष दन्तरोगः किलासिता ॥ ३२ ॥
तथा प्रभिन्नो द्रोणीको गुल्मो गात्राप्रपस्तथा ॥
उपद्रवो विद्रधिश्चेत्युक्ता वै सांनिपातिकाः ॥ ३३ ॥
वार्तापित्तात्मका रोगा वक्ष्यन्ते ते चतुर्दश ॥
पकलो बहिरायामः स्नेहमूर्छा च पार्थिव ॥ ३४ ॥
पूयकेश(:)समन्तश्च तथा चर्मतिलश्च यः ॥
तैलव्यापत्तथा विद्युन्माली क्लिष्टोऽथ वर्त्मनः ॥ ३५ ॥
- 'श्लेष्मावसन्न' इति भवेत् ।
१ क. मेहनक्षीणी । २ क. ०भिष्यनर० । ग. ०भिछन्न०। ३ क. मेढ्रक्षीणी ।
४ क. ख. तल्लः का० । ५ क. किलासिना । ख. किलासिती । ग. किलासिनी ।
६ क. उपद्रवा । ७ क. ०यासः स्ने० । ८ क. ख. यूपकेश० । ९ ख. ०र्मतल० ।
१० क. विद्युन्मालाक्लिष्टो ।