हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 52, कुल 742 में से
संदर्भ में पढ़ेंफुल्लपादस्ततो ज्ञेयस्तथा भिन्ननखोऽपरः ॥ '
स्फुटितैर्हर्तुनुद्दन्तै(?)श्च त्वन्येर्वाऽपि नखैर्भवेत् ॥ २८ ॥
✝शरनद्धोऽथ विज्ञेयो +दद्रुकेशस्तथैव च ॥
‡प्रगुल्मकेशो गम्भीरस्तथा चर्मतलोऽपरः ॥ २९ ॥
क्षतो निर्मूलितश्चैव तथा केशः सलोहितः ॥
स्थानवाह्तः क्षीणतलस्तैथा चाम्यन्तरीकृतः ॥ ३० ॥
निष्पिष्टो मांसकेशश्च तथा स्थानरतोऽपरः ॥
इत्येष पादरोगाणां संग्रहः समुदाहृतः ॥ ३१ ॥
व्यापदां तु पुनः संख्यां कीर्त्यमानां निबोध मे ॥
व्यापदं विद्धि तैलेन सर्पिषा तदनन्तरम् ॥ ३२ ॥
तृतीयां वसया विन्द्याच्चतुर्थी पयसा तथा ॥
¶धान्याच्च पञ्चमीं विद्यान्मद्यात्षष्ठीमथापि वा ॥ ३३ ॥
उदकादुपधान्याच्च व्यापदोऽष्टाविति स्मृताः ॥
शोफानां संग्रहश्चात्र सप्तानां संप्रवक्ष्यते ॥ ३४ ॥
मन्याशोफश्च विज्ञेयः सगदाशोफ एव च ॥
द्रोणीकशोफश्चाप्यन्यो व्यवच्छिन्नस्तथैव च ॥ ३५ ॥
शाल्मलीस्कन्धशोफश्च कदलीस्कन्ध एव च ॥
शृद्धशोफश्च विज्ञेयः सप्तमः परिसंख्यया ॥ ३६ ॥
$संग्रहस्त्वक्षिरोगाणामत ऊर्ध्वं प्रचक्षते ॥
प्राचारकी तु प्रथमस्तव्दौदकी तदनन्तरम् ॥ ३७ ॥.
अण्डाक्षस्त्वथ काचाक्षो नायंप्रेक्षी तथैव च ॥
प्रतिनुन्नस्ततो ज्ञेयो निष्पेषहत एव च ॥ ३८ ॥
विद्युन्निष्पातदग्धश्च विशुद्धारिहतस्तथा ॥
.ऊष्मापरिगतस्त्वन्य*श्चर्मकिल्लिष्टस्ततः परम् ॥ ३९ ॥
- 'अनुद्धतैः' इति त्वग्रे । ✝ 'शरनद्ध' इति त्वग्रे लिप्यते । + 'दद्रुकेश' इति त्वग्रे
‡ 'प्रगुल्मिकेश' इति त्वग्रे । $ 'तथा चान्यः क्षरीकृतः' इत्येव पाठ उचित उत्तर-
ग्रन्थानुरोधात् । ¶ अग्रे व्यापदध्याये प्राक्चाव्यापन्निरूपिता, ततो धान्यव्यापत् । - 'दुपधाना' इति तु वरम् 'उपधाव्यापदो वर्णनात् । ✝ 'संप्रचक्षते' इति तु युक्तम् ।
$ अष्टादशस्य शोफचिकित्सितस्य, एकोनविंशस्याक्षिरोगचिकित्सितस्य, मध्ये स्वेद-
शान्तिरक्षाध्यायावपि स्तः । * अग्रेऽक्षिरोगाध्याये तु 'वर्त्मक्लिष्ट' इत्युपलभ्यते ।
१ क. प्रगुल्फकेशो । २ ख. विन्द्याच्च । ३ क. स्मृतः । ४ ख. प्रचक्ष्यते ।