हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
DevanagariHindipublished742 पृष्ठ
पृष्ठ 61, कुल 742 में से
संदर्भ में पढ़ेंपृष्ठ 61
४२ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
तत्सौरूपं यत्र संतोषस्तद्राष्ट्रं यत्र पार्थिवः ॥
तन्मित्रं यत्र विश्वासस्तत्सैन्यं यत्र कुञ्जराः ॥ २४ ॥
शीलात्तु शोभते रूपं चारित्राच्छोभते कुलम् ॥
पुष्पितं शोभतेऽरण्यं शोभते सेगजं बलम् ॥ २५ ॥
विभूतेर्भूषणं ज्ञातिः कुलानां भूषणं धनम् ॥
मदिरा भूषणं स्त्रीणां सैन्यानां भूषणं गजाः ॥ २६ ॥
तत्र श्लोकः—
नासौ व्ययो यत्र गुणे न लाभो नासौ बुधो येन तपो न तप्तम् ॥
नासौ पुमान्यत्र हिता न भार्या नासौ नृपो यस्य हिता न नागाः॥ २७॥
यद्वद्वनमसिंहं तु यद्वद्राष्ट्रमपार्थिवम् ॥
यद्वच्छौर्यमशस्त्रं तु तद्वत्सैन्यमकुञ्जरम् ॥ २८ ॥
यतः सत्यं ततो धर्मो यतो धर्मस्ततो धनम् ॥