सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 58, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 58

४ शास्त्रसंग्रहाध्यायः ] हस्त्यायुर्वेदः । ३९
सांग्राहिकं वा कवलं तथा वातानुलोमिकम् ॥
यद्वा पचति भुक्तं च स्यादधोभागिकं च यत् ॥ १०८ ॥
अनुवासं निरूहं वा तथैवोत्तरबस्तिकम् ॥
स्नैहिकं वा विरेकं वा तथा शीर्षविरेचनम् ॥ १०९ ॥
प्रमाणमुपचारं वा ये न जानन्त्यबुद्धयः ॥
किं करिष्यन्ति ते मूढाः समरेष्विव भीरवः ॥ ११० ॥
अनिवृत्ते त्विदं देयमिदं देयं च निर्वृते ॥
किंतु प्रतिनये देयं किंचिद्भिन्ननयेष्विह ॥ १११ ॥
इमे वातसमुत्थाना इमे वा रक्तसंभवाः ॥
संसृष्टा व्याधयो ये च ये च स्युः सांनिपातिकाः ॥ ११२ ॥
तानविज्ञाय ये कुर्युः कर्म तेषां न सिध्यति ॥
उत्तरं त्वैनधीयाना न तान्कर्मसु योजयेत् ॥ ११३ ॥
कर्मज्ञं निखिलज्ञं च सिद्धिषु प्रतियोजयेत् ॥
यस्तु रोगमविज्ञाय भिषक्कर्म प्रयोजयेत् ॥ ११४ ॥
तस्यै मिथ्याप्रयोगेण व्याधिर्वर्धेत दन्तिनाम् ॥
शास्त्रज्ञो वाऽप्यकर्मज्ञः कर्मज्ञो वाऽप्यशास्त्रवित् ॥ ११५ ॥
उभौ तौ गर्हितौ वैद्यावर्धवेदधरौ स्मृतौ ॥
भैषज्यं योगविहितममृतत्वाय कल्पते ॥ ११६ ॥
तदेवायोगविहितं तीक्ष्णं संपद्यते विषम् ॥
परिवारे तु कुशलश्चिकित्सितविशारदः ॥ ११७ ॥
कर्माभिज्ञः कुलीनश्च स भिषक्श्रेष्ठ उच्यते ॥
योगभैषज्यकुशलः शस्त्रकर्मविशारदः ॥ ११८ ॥
दृष्टोपचारः स्मृतिमान्सोऽप्युत्तम इति स्मृतः ॥
विशेषोन्परतन्त्रेभ्यो गृह्णीयादनसूयकः ॥ ११९ ॥
संशयं परिपृच्छेच्च यथावित्थशास्त्रिषु ॥
ऊहापोहार्थयुक्तश्च जानीते सर्वमेव यः ॥
स तु श्रेष्ठश्च पूज्यश्च देवानामिव वासवः ॥ १२० ॥
तत्र श्लोकौ भवतः—
१ क. किं वा विभिन्नये° । २ क. तान्विज्ञाय । ३ क. च । ४ क. त्वद्-
धीयानां । ५ क. °स्य सिद्ध्या प्र° । ६ क. कर्मतो । ७ ग. गर्वितौ । ८ ख. ग.
कर्मज्ञश्च । ९ ग. °षादन्यत° ।