सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 63, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 63

१४ पालकाप्यमुनिविरचितो— [ १ महारोगस्थाने-
सुशरीरस्त्वरोगश्च पग्ताऽङ्कुशविभाक्तित् ॥
निमित्तोत्पातकुशलश्चिकित्सितविशारदः ॥ ५२ ॥
इष्टश्च कुशलोत्साही गजमर्महिते रतः ॥
ईदृग्विधगुणोपेतो महामात्रः प्रशस्यते ॥ ५३ ॥
ब्राह्मणः शीलसंपन्नो भेषजकर्मसु निश्चितः ॥
स एवोत्थाभिषेक्षी (?) नामारोहा तु प्रशस्यते ॥ ५४ ॥
एवंविधगुणोपेतैः परस्परहितेषिभिः ॥ ५५ ॥
गजोष्टाकुलिकैर्वैद्यैर्महामात्रैर्यशोर्थिभिः ॥
अवेक्ष्यमाणा वर्धन्ते बलवन्तो निरामयाः ॥ ५६ ॥
प्रहृष्टमनसो मत्ता कामिनः सुँखिनो गजाः ॥
शुभव्यञ्जनसंपन्ना भवन्ति नृपकामदाः ॥ ५७ ॥
विधायाऽऽसवपानं तु स्थानशय्यास्वधिष्ठिताः ॥
यस्य नागास्तु कुशलैश्चिन्त्यन्ते गजचिन्तकैः ॥ ५८ ॥
नित्यं क्रुद्धैर्व्यसनिभिर्लुब्धैर्बुद्धिबहिष्कृतैः ॥
गजकर्मस्वकुशलैर्ज्ञातिपक्षविरोधिभिः ॥ ५९ ॥
प्रमादकृद्भिः पिशुनैरसंबद्धप्रलापिभिः ॥
तस्य राज्ञः क्षयं यान्ति गजाः सपरिवारकाः ॥ ६० ॥
असम्पक्पाल्यमानास्तु क्षुद्वन्ध्यवधपीडिताः ॥ ६१ ॥
तत्र श्लोकाः—
जगद्धितार्थं जगतः प्रजेत्रा सृष्टा गजेन्द्राः प्रथितप्रतापाः ॥
तेषां हितान्वेषणतत्परस्तु यः पार्थिवस्तस्य जयोऽग्रहस्ते ॥ ६२ ॥
†संवाहिता न प्रतिवीर्यसैत्त्वं रथाश्वपत्तिप्रतिबृंहितास्तु ॥
तथाऽपि नागैः किल ताभिहत्य देवा जयं प्रापितवन्त एव ॥ ६३ ॥
गजेन्द्रवीर्यः क्षितिपः क्षितीशान्संरुष्टपुदीर्णान्नृपपत्तिसंघैः ॥
हन्यात्प्रसह्यैव विकुर्वतस्तान्त्सिंहो यथा क्षुद्रमृगान्वनस्थान् ॥ ६४ ॥


  • गजरक्षाधिकारी, गजाधिकारी, वैद्यः, गजामात्यः, गजाध्यक्षः, गजाजीवी,
    महामात्रः, आरोहा, एवमष्ट कुलानि—इति कपुस्तकटिप्पणी । † ‘सुराहिताः’ इति
    कदाचित्स्यात् । ‡ सत्त्वा इति सस्वरथा इति वा स्यात् ।

१ ग. °वाऽऽत्माषे° । २ क. °जाष्टाकु° । ३ क. प्रवेक्ष्यमाणा । ४ ख.
सुखिनो । ५ क. प्रमाद° । ६ क. असम्यक्कालमाना । ७ क. टिप्पणीगतः ‘दैत्या हि
पूर्वं श्रुतिपूर्वभेदा रथाश्वपत्तिप्रतिबृंहिताश्च’ इति । ८ ख. क्षितिपं । ९ क. °न्तिसहा य° ।