सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 66, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 66

६ शिष्योपनयनाध्यायः ] हस्यायुर्वेदः । ४७
*अमुष्याणा(?)मेवचनां देहीत्यवदतामपि ॥
कर्तव्यस्ते सदा स्नेहः कुञ्जराणां विशेषतः ॥ १८ ॥
यः सम्यक्पश्यतो राज्ञः स्वामिनां चारुवृत्तिभिः ॥
उपेक्षति गजान्वैद्यः स त्वङ्गः पापमश्नुते ॥ १९ ॥
एतदेव विपर्यस्ता यदि राजा न पश्यति ॥
सम्यक्प्रवृत्तमाचार्यं धनमानपरिग्रहैः ॥ २० ॥
पिण्डस्तु नोपजीव्यस्ते वारणानां कदाचन ॥
अवध्यायन्ति तं नागा यः पिण्डमुपजीव्यति ॥ २१ ॥
यथैव नागाः क्षीयन्ते नागवत्क्षीयते हि सः ॥
गजशापाभिभूतस्य नश्यन्ते संचया गृहे ॥ २२ ॥
तस्मात्सदाऽनुकम्पैव कर्तव्या वारणेष्विह ॥
क्षुत्क्लान्तदीनभीतानां मत्तानां युधि रक्षणम् ॥ २३ ॥
विधेयं ब्रह्मणा सृष्टा नागानां हितमिच्छता ॥
मङ्गल्या च पवित्रा च धर्मार्थयशसां निधिः ॥ २४ ॥
गान्धर्वः सामवेदस्य उपवेदो यथा स्मृतः ॥ •
स्मृतिर्यथा चोपवेद ऋग्वेदस्येह पश्यते ॥ २५ ॥
नाट्यं यथोपवेदश्च यजुर्वेदस्य पार्थिव ॥
तथोपवेदोऽथर्वाणश्चिकित्सितमिह स्मृतम् ॥ २६ ॥
ब्राह्मणस्त्वथ †वर्णादींस्त्रीनध्यापयितुमर्हसि+ ॥
द्वौ क्षत्रियस्तथा *वैश्यमेकमध्यापयेत्सदा ॥ २७ ॥
गुणवत्स्वपि शूद्रेषु मा बुधं कर्तुमर्हसि ॥
एषा ह्यनुपमा विद्या वेदवेदाङ्गसंमिता ॥ २८ ॥
विद्यानामुपसत्त्वाय कथयिन्न ह्यसाधवे ॥
†अश्रद्दधानो ये च स्युर्नास्तिका येऽभ्यसूयकाः ॥ २९ ॥
तेषां विद्यां न कथयेद्ये च विद्यावमानिनः ॥
आचार्यस्त्वेव कथयेद्विज्ञानकुशलेष्वपि ॥ ३० ॥
नापुत्राय प्रदातव्या नाशिष्यायाहिताय वा ॥
अश्वान्गां रजतं चैव सुवर्णं वाऽपि दक्षिणाम् ॥ ३१ ॥

  • 'अमुष्यानाम्' इति भवेत् । † 'वर्णांस्त्रीन्' इति तूचितम् । + 'मर्हति' इति
    समञ्जसम् । * वैश्य एक इति तूचितम् । † अश्रद्दधाना इति तु वरम् ।
    १ ख. °मवाचानां । २ ख. क्षुच्छ्रान्तदान° । ३ क. विद्या ।