सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 57, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 57

किमर्थं हेतुप्रकृतिः प्रतिकर्मसमाह्वयः ॥
दुष्टदोषपरीक्षा च करीषाध्याय एव च ॥ ९४ ॥
सुमनोदुर्मनोज्ञानं मदकृमिनिवर्तनम् ॥
कल्पनाश्चाथ दन्तानामिक्षुदानमतः परम् ॥ ९५ ॥
लशुनारोग्यलवणं पांशुदानानि चाप्यथ ॥
कार्याकार्यविधिस्तस्माहतुचर्या प्रकीर्तिता ॥ ९६ ॥
चूर्णारिष्टं ततो ग्राहो जलहस्ती जलोकसः ॥
विचित्रविधिसंभागो लवणाध्याय एव च ॥ ९७ ॥
गन्धज्ञानं ततो राजन्कटबस्तिस्तथैव च ॥
वनाध्यायस्ततो राजन्नस्मिञ्छास्त्रे प्रकीर्तितः ॥ ९८ ॥
उपसर्गविधिश्चान्ते पञ्चसूत्रमिति स्मृतम् ॥
ऊनपञ्चाशदध्याया रोगाः पञ्चदश त्वमी ॥ ९९ ॥
बस्तिव्यापत्तयोऽप्यष्टौ कवलव्यापदेव च ॥
लशुनव्यापदेका च तस्य मूर्ध्नि विरेचने ॥ १०० ॥
दोषद्वयं स्यात्कटुभुग्ग्रहावथ जलद्विपः ॥
गोत्रातङ्का च निर्दिष्टा इत्येतस्मिन्नराधिप ॥ १०१ ॥
परिवार इति ख्यातं स्थानमुत्तरसंज्ञितम् ॥
स्याच्छास्त्रेऽध्यायपिण्डोऽस्मिनेक सप्ततिकं शतम् ॥ १०२ ॥
शतत्रयं च रोगाणां प्रोक्तं पञ्चदशोत्तरम् ॥
दश द्वे च सहस्राणि श्लोकानां च नराधिप ॥ १०३ ॥
इत्येष संग्रहः प्रोक्तः शास्त्रस्यास्य समासतः ॥
विस्तरेण यथाशास्त्रं तथा सम्यक्प्रवक्ष्यते ॥ १०४ ॥
स्कन्धां चिकित्सते मूलं सिद्धिः कर्माश्रया स्मृता ॥
प्रमाणं च प्रयोगश्च कालश्च विहितस्त्विह ॥ १०५ ॥
तस्मान्मूलं चिकित्सायाः पठितार इहोच्यते ॥
प्रोच्यते शास्त्रतत्त्वज्ञैरैतैत्साङ्गमसंशयम् ॥ १०६ ॥
अधीयते चिकित्सां ये केवलामपरिग्रहम् ॥
न ते विकाराञ्जानन्ति ये भवन्त्यबहुश्रुताः ॥ १०७ ॥


१ क. °दोषापरीक्ष्या च । २ क. °हस्तिज° । ३ क. °स्मिन्तन्त्रे । ४ क.
मूर्धवि° । ५ ख. गात्रातङ्की । ६ क निर्दिष्ट । ७ ग. मतम् । ८ ख. °चक्ष्यते ।
९ क. कर्मसमा°। १० क. विहितंस्त्वया । ११ ख. परिचार । १२ क. °तत्सङ्गम°।