हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
१९० पालकाप्यमुनिविरचितो— [१ शल्यस्थाने
तत्र दोषरसविशेषा व्याख्याताः ॥
इदानीं येन यथा दोषो हीयते वर्धते वा, तद्वक्ष्यामः ॥
मधुरो रसः समानरसत्वाच्छ्लेष्माणं वर्धयति, शैत्याच्छैत्यम्, गौरवाद्वौर-
वम्, एकयोनित्वात् (योनिरिति) । अम्लः पुनः प्रसेकित्वात्प्रसिञ्चति । तत्प्र-
त्यक्षमुपलभामहे । यथा दाडिमाम्रातकमातुलिङ्गदर्शनाज्जन्तोरस्यात्कफः प्रसि-
च्यते । तेन हि सिद्धं श्लेष्मलवणत्वं च । तेन चास्योन्निबन्ध इति । लवणः
पुनः संधिमर्मप्रसक्तमेकान्तमाश्रितं विस्यन्दयति श्लेष्माणम्, फेनाकुलां गङ्गा-
मिव महामेघः । स वातपित्ते अभिभूय सर्वं शरीरमवाप्नोति, विकुरुते च विका-
रम्, स्नेहाच्चैनमभिवर्धयते, बलेनेवानुबलम्, स्पर्शाच्च विधीयमानः कोपाय
कल्पते । इति मधुराम्ललवणास्त्रयः श्लेष्माणं वर्धयन्ति ॥
तिक्तस्तं विरोधित्वात्प्रशमयति । माधुर्यं चास्य बलाद्विनिहन्ति, लाघवेन
गौरवमभिभूय शमयति । कषायोऽपि रूक्षादेनमुपशोषयति । स हि रूक्षाभिभू-
तोऽपि शोषमापद्यते, इति । कटुकस्त्वौष्ण्याच्छ्लेष्मणो विलयनमानयति ।
शोषं चोपजनयति । लाघवेन गौरवमभिभूय शमयति । इति तिक्तकटुकषाया
रसास्त्रयः श्लेष्माणं शमयन्ति ॥
कटुको रसः समानरसत्वात्पित्तं वर्धयेत् । तैक्ष्ण्यात्तैक्ष्ण्यम्, औष्ण्यादौ-
ष्ण्यम्, रौक्ष्याद्रौक्ष्यम्, लाघवाल्लाघवमेकयोनिरिति । अम्लः पुनः समानगुण-
त्वात्पित्तं वर्धयति । विदाहित्वाद्विदाहं वर्धयेत् । तैक्ष्ण्यात्तैक्ष्ण्यं कोपयति ।
बलेनास्य बलमनुविधीयमानं प्रकोपाय कल्पत इति । लवणस्तैक्ष्ण्यादौष्ण्या-
चाभिवर्धयते पित्तम्, विस्यन्दित्वाद्व्रवी करोति । इति कटुकाम्ललवणास्त्रयः
पित्तमभिवर्धयन्ति ॥
तिक्तः पुनः पित्तं प्रशमयति, शीतवीर्यत्वादौष्ण्यम्, मार्दवेन चास्य तैक्ष्ण्य-
मभिभवति । कषायस्तैक्ष्ण्यं मृदूकरोति, शैत्यादौष्ण्यम्, मधुरानुबन्धित्वाद्वल-
मुपहन्ति, इति । मधुरः पुनर्माधुर्यात्कटुत्वमभिभवति, शैत्यादौष्ण्यम्, स्नेहा-
द्रौक्ष्यम्, अविदाहित्वं गौरवेणाप्यभिभवति । इति तिक्तकषायमधुरास्त्रयः पित्तं
शमयन्ति ॥
कषायः पुनर्वातं वर्धयति, रौक्ष्यात्परिशोषित्वान्माधुर्याच्छैत्यादभिष्यन्दि-
त्वाच्च कोपयति । तिक्तस्तु रसः कषायरसस्वभावत्वात्कषायसमानगुणः समु-
द्दिष्टः, इति वातं वर्धयेत् । कटुकोऽप्येनमुदीरयति । रौक्ष्याल्लाघवाच्चैनम् । कषा-
यतिक्तकटुकास्त्रयो वातं वर्धयन्ते, इति ॥
१ क. वर्धयते । २ क. ॰दाहं च व॰ ।
१ द्वादशोऽध्यायः ] हस्त्यायुर्वेदः । ३९१
अम्लो रसो वातमनुलोमयति । क्षिप्रपाकित्वात्तैक्ष्ण्यात्प्रक्लेपित्वात्स्नेहादो-
ष्णयाच्च शोषितत्वशैत्यरौक्ष्यमार्दवान्यभिभवतीति ॥ लवणोऽप्येनमौष्ण्यात्प्रशम-
यति । तैक्ष्ण्यात्प्रणुदति । स्नेहाज्जयति परिशोषमन्त्रं चास्य विस्यन्दित्वाद्व्र-
वीकरोति । लवणो हि रसो वातप्रत्यनीकत्वाद्रासानामतिवीर्यत्वाद्वातमतिबल-
मपि दोषाणां बहुगुणत्वादतिरसबाहुल्याद्वा हन्ति ॥ मधुरोऽप्यस्य रसः
स्नेहाद्रौक्ष्यमभिभवति । गौरवेण लाघवम्, अतिवीर्यत्वाद्द्विदाहित्वाद्बलेन
चैनमभिभूय जयति, इति । अम्ळलवणमधुरा रसास्त्रयो वातं शमयन्ति ।
इत्येतै रसैः प्राणादिषु विप्रतिपन्नेषूक्तो यो रोगसमुद्देशः, स शाम्यति ॥
वर्धते च यथारोगं—तदशान्तौ मनसो ( विप्रतिपत्तिः । मनसो ) विप्र-
तिपत्तौ मानसो द्वौ रोगौ—पूर्वाबद्धहृदयस्फालिनौ ॥ तदशान्तौ व्यापद्यते
चेतना बुद्धिः । ततो नागानामभावः ॥ एवमेते प्राणादयः पञ्च, द्वौ च मानसो
चेतना बुद्धिश्चेति नव ॥
तत्र श्लोकाः—
गजानां देहजा नित्यं वातपित्तकफास्त्रयः ।
व्याधयस्तु गुणाश्चैव तेषां रसनिमित्तजाः ॥
त्रिषु दोषेषु ये दृष्टा गुणा गुर्वादयो दश ।
रसेष्वपि त एव स्युर्विज्ञातव्या विचक्षणैः ॥
शीतोष्णौ स्निग्धरूक्षौ च तथा विशदपिच्छिलौ ।
मृदुतीक्ष्णौ गुरुलघू विज्ञेयास्तु गुणा दश ।
बुद्ध्वा सम्यग्गुणानेतान् रसदोषेषु बुद्धिमान् ॥
प्रतिहन्यादुदीर्णत्वैः प्रत्यनीकैर्गुणैर्गुणान् ।
एतेषां प्रतीकाराभ्युत्थितेन भिषजा चतुर्दशेमानि ज्ञातव्यानि भवन्ति—
निमित्तम्, आयुः, बलम्, सत्त्वम्, सात्म्यम्, प्रकृतिः, व्याधिः, शरीरम्,
कालः, वयः, देशः, ग्रहणी, अभिचारः, आशास्तकम्, इत्येतानि सम्यगुपल-
क्षयितव्यानि । यस्मादेतेषु चिकित्साऽऽयत्ता ॥
अथैषां निर्देशमनुव्याख्यास्यामः । तत्र निमित्तं दूतागम आतुरस्य पूर्वा-
ख्याने प्रस्थाने प्रवेशे च परिप्रश्ने परिग्रहौषधसंस्कारारम्भेषु च भिषजा
परीक्ष्यम् ॥
तत्र श्लोकः—
प्रस्थाने च प्रवेशे च निमित्तान्युपधारयेत् ।
ततः क्रियां प्रयुञ्जीत यदीच्छेद्भूतिमात्मनः ॥
३९२ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
आयुरपि क्रियापथेषु परीक्ष्यम् । तत्राऽऽयुर्नामासन्नसंधिबन्धनो रोमशायत-
च्छविर्दीर्घरमेशाष्टो महाविदुः परिपूर्णाण्डकोशो महाकुम्भो महाश्रवणो मृदु-
दीर्घकुक्षिश्चतस्रिग्धकेशो युग्मजैकरोमा पृथ्वायतमुखो महाग्रीवो धनुष्परिणत-
वंशः सुनिष्क्रान्तविषाणो दीर्घाङ्गुलिकरो व्यूढोरस्को मृदुदीर्घवालोऽवरूद्धजघ-
नापर ऋजुवृत्तगात्रः सुविभक्तशिराः सूक्ष्मबिन्दुभिर्विभक्तावग्रहो व्यूहविस्तृन्तरम-
स्तको महाश्रोताः सुगन्धिः सुचारुनेत्रः सस्वनो महामेण्ढ्रः सूपचितौंसो नित्य-
मास्फोटनादिकर्णः स्निग्धस्फटिकार्धचन्द्रपरिपूर्णविंशतिनखः सुगतिः पुर-
स्तादुदग्र इत्येतान्यायुष्मतो लक्षणानि व्याख्यातानि ॥
तत्र श्लोकाः—
सहस्रेष्वपि नागानां कश्चिदेतैः समन्वितः ।
समस्तलिङ्गो न गजो भवतीति विनिश्चयः ॥
त्रीणि षट् सप्त पञ्चाष्टौ लिङ्गान्येतानि यस्य तु ।
आयुः स लभते दीर्घमिति मे निश्चिता मतिः ॥
त्रीणि यस्य तु लिङ्गानि दृश्यन्ते मनुजाधिप ।
तृतीयां वा चतुर्थीं वा दशां संप्राप्य नश्यति ।
पञ्च यस्य तु लिङ्गानि दृश्यन्ते नयकोविद ॥
स दशा
१ द्वादशोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३९१
सत्यात्मशरीराद्दशगुणं भारमुद्वहति । तत्पुनर्द्विविधम्—सहजम्, आहारजं च । तत्र
सहजं सर्वभूतातिशयवृद्धस्तिजन्मनान्तरीयकम् । तत्पुनः सत्त्वशरीरप्रमाणवी-
र्यमदप्रभावरुपचीयते । आहार(ज)बलमपि चतुर्विधेनाऽऽहारेण विवर्धते शरीरो-
पचयमा(ना)न्तरीयकम् । शरीरोपचयोऽपि सप्तविध(:)शोफाध्यायादवगन्तव्यः ।
सामर्थ्यबलमपि पुनरेकैकं त्रिविधम्—ज्येष्ठं मध्यममधमं चेति । तत्रोत्तमबलः
शीतोष्णक्षुत्तृष्णात्तपदुर्दिनशस्त्रघातभारप्रमर्दनजलतरणवधबन्धेषु शस्त्राग्निक्षार-
कर्मादिषु च प्रयुज्यमानेषु नोद्विजते, स्नेहपानादींश्च विषहते । यथाऽयम्, तथा
मध्यमधमबलो, इति । एवं बलमभिसमीक्ष्य क्रियापथं प्रयुञ्जीत । दोषोऽन्यथा
भवति । तत्र यदा दुर्बलोऽयमिति मत्वा बलवत एव गजस्याल्पमौषधं दीयते,
तद्धीनमात्रमसमर्थमानकं क्षपणाय भवति । यथाऽल्पोऽग्निरिन्धनावष्टब्धः पवनो-
दीरितोऽपि न वृद्धिमुपगच्छति, एवमल्पमौषधमसम्यक्प्रयुज्यमानम् । प्रत्युत
व्याधिनिमित्तमेव भवति । तथा च क्रियाप्रविचारनिमित्तभूताश्चत्वारो
दुर्बलाः-प्रकृतिदुर्बलः, व्याधिदुर्बलः, वयोदुर्बलः, औषधदुर्बलश्च । ततो भैषज्यं
तीक्ष्णं मृदु मध्यं च यथाबलं विभज्य प्रमाणतो दद्यादिति ॥
तत्र श्लोकः—
बलं विज्ञाय नागानां मात्रामात्रेति तत्त्वतः ।
यथास्वमौषधं दद्यादिति शास्त्रविनिश्चयः ॥
सत्त्वमपि नागानां क्रियापथेषु विज्ञेयम् । तच्च त्रिविधमेव—तामसं राजसं
सात्त्विकमिति । तत्र तामससत्त्वा नित्योद्विग्नशीलत्वाच्छेदन्लेखनदहनसी-
वनविस्रावणोद्धारणानि न विषहन्ते वारणाः, तेषां विलायनपाचनभेदनशो-
धनावसादनकृमिहरणान्यौषधैरेव प्रयोज्यानि, शस्त्रकर्माग्निक्षारकमीणि च ॥
राजसास्तु द्विरदपतयो वाक्यादिभिरुदकपांसुकवलैः समाश्वासिताश्छेदनभेद-
नानि विषहन्ते, सुमहत्यपि चाग्निकर्मणि क्रियमाणे । सात्त्विकास्तु प्रधानकर्म-
स्ववक्रियमाणेषु सत्त्वबलसमुच्छ्रयान्न विक्रियामुपगच्छन्ति । इत्येवं त्रिविधं
सत्त्वमनुव्याख्यातं भवति ॥
तत्र श्लोकौ—
इति सत्त्वसमुद्देशस्त्रिविधः परिकीर्तितः ।
पारंपर्येण तेषां तु विहितः समुपक्रमः ॥
१ क. °बलाबला भवन्ति, इ° । २ क. क्रियां प्र° । ३ क. °थाऽल्पोपचयो
भ° । ४ क. °धिविवृद्धिनि° । ५ क. °साधन° । ६ क. °र्मसु च क्रि° ।
५०
३९४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
एवं कर्म तु कर्तव्यं तामसेषु विशेषतः ।
राजसेषु प्रलोभार्थं सात्त्विके नित्यमुत्तमे । इति ॥
सात्म्यमपि वारणानां क्रियापथेषु परीक्ष्यम् । तच्च त्रिविधम्—जातिसा-
त्म्यम्, प्रकृतिसात्म्यम्, रससात्म्यम्, इति । तत्र जातिसात्म्यं नाम जन्मनः
प्रभृति हस्ती क्षीरमुपसेवते क्षीरपानाच्च धातुविवृद्धिर्भवति । एवमेव जाति-
सात्म्यं विद्यात् । प्रकृतिसात्म्यं नाम त्वङ्मूलपवसकवलकुवलपल्लवानि सत-
तमुपसेवमानाः पांशुप्रमार्थं सलिलावगाहं स्वेराहारं च सेवमानाः शीतसात्म्या
भवन्ति । इत्येतत्प्रकृतिसात्म्यं विद्यात् । रससात्म्यं नाम मधुराम्ललवणकटु-
तिक्तकषायाणां रसानामन्यतमो ह्युपयुक्तो रसो धातुविवृद्धिमुपजनयति । एव-
मेतद्रससात्म्यं विद्यात् ॥
तत्र श्लोकः—
यथासात्म्यं प्रयुञ्जीत क्रियाविधिमशेषतः ।
( †न व्यापदं समासाद्य विषादी स्याच्चिकित्सकः ॥
प्रकृतिमप्यशेषेण नागानां परीक्ष्य क्रियां प्रयुञ्जीत ) तत्र त्रिविधा प्रकृति-
रिह वातपित्तश्लेष्मसंभवा । तां प्रकृत्यध्याये वक्ष्यामः ॥
तत्र श्लोकः—
तिस्रः प्रकृतयो ज्ञेया वातपित्तकफात्मिकाः ।
विज्ञाय तु यथावक्तां क्रियां सम्यक्प्रयोजयेत् ॥
व्याधिरपि वारणानां क्रियापथेषु परीक्ष्यो भवति । तत्र चतुर्विधो
व्याधिः—साध्यः कृच्छ्रसाध्यः, याप्यः, प्रत्याख्येयः, इति । तत्र साध्यः
सुखसाध्य इत्यर्थः । सुखसाध्यो नाम प्रत्येकदोषान्वितो विकारो दीप्ताग्नेरचिर-
समुत्थितो दोषोऽक्षीणमांसरुधिराद्यपरिणतवयसाभ्रितपरिचारकोपकरणः स्वेद-
स्नेहविरेचनस्थापनकल्ककषायचूर्णारिष्टाद्यशेषसंभारोपपन्नः साध्यः । कृच्छ्र-
साध्यो नाम यो दोषसमवायोत्थितो मन्दाग्निश्रिरसमुत्थितदोषः स्थिरगूढजा-
तमूलः प्रक्षीणमांसशोणितः सुचिरातिबलाश्रयो बहुतीक्ष्णोऽनुषक्तोपद्रवस्तु
परिचारकोपकरणोऽश्रद्धानः श्वासी स कृच्छ्रसाध्यः । याप्यो नाम यस्तु
दोषो वैषम्यादीप्ताग्निर्बलवान्क्षीणमांसमेदा दीर्घायुर्लक्षणो व्याधिमवाप्नोति, न
स तेन रोगेण मुच्यते, न म्रियते क्रिपया धार्यमाणः, स रोगो याप्यः ।
प्रत्याख्येयो नाम—यः सर्वदोषलिङ्गान्वितो विकारः क्षोभितधात्विन्द्रियब-
† धनुश्चिह्नान्तर्गतो भ्रष्टः पाठः कपुस्तके ।
१. क. °तामिर° । २ क. °यवशो° । ३ क. °तः स्याविरा°
१ द्वादशोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३९५
लोऽपि विविधान्धातुनुपद्रवानुत्पादयति-अपस्मारोत्कर्णकश्वासारोचकश्वयथून-
तिपिपासिनं शूनगात्रोदरमेदूमतिकृशं शोणितच्छर्दिनमल्पमूत्रपुरीषमल्पानुपानं
सर्वावस्थान्तरगतं विपन्नबलेन्द्रियमुपगतसंज्ञं वा म्रियते, इति ॥
तत्र श्लोकः-
चतुर्विधं तु यो व्याधिं तत्त्वतो लक्षयेद्भिषक् ।
स शक्नोति क्रियां कर्तुं नागानां भिषगुत्तमः ॥
शरीरमपि नागानां क्रियापथेषु परीक्ष्यम् ।
तत्रोत्सेधायामपरिणाहसंस्थानैतः स्थूलकृशावनतप्रदेशा ऋजुवक्रश्लक्ष्णब-
हुलकर्कशादयो गजानां बाह्याभ्यन्तराः शरीरप्रविभागा भवन्ति ॥
तत्राऽऽभ्यन्तराः- सप्त त्वचः । सप्त पेशीशतानि । सप्तैव शिराशतानि ।
पञ्च स्नायुसहस्राणि । पञ्चैव शतान्त्यशीतिः स्नायुकूर्चाः । पञ्चविंशतिर्धमन्यः ।
षण्णवति(ती) रोमकूपसहस्राणि, असंख्येयानीत्यपरे । विंशोत्तराणि त्रीण्यस्थिश-
तानि । तेषामस्थ्नामाकृतिविशेषाः षडुद्दिष्टाः कपालखजकप्रतरनलकवलयफल-
कारुख्याः । थुषिरमृदुस्थिरमूर्द्धानि थुषिरात्मविशेषाः ।
अथ शरीरावयवानां सर्व्विशशतानि । संधौनां त्रीणि षट्षष्ट्यानि । तेषा-
मष्टौ संध्याकृतयो भवन्ति । तद्यथा - प्रतरकोशमण्डलसामुद्रोलूखलवायसतुण्ड-
शङ्खावर्ततूणसीवनवदिति । एते संधयो येषु शरीरावयवेषु भवन्ति, ताननु-
व्याख्यास्यामः । तत्र कूर्मपलिपादसंदानभागप्रोहापस्करेषु कोशसंधयः । अंस-
फलकबाहुसकुदिकाग्रन्थ्यष्ठीवन्मण्डूकशङ्कचक्रसक्थ्यवकृष्ट इत्येवमादिषु सामु-
द्रसंधयः । पृष्ठवंशकृकटिकास्तेनकूर्भपर्यन्तशिरोमस्तावग्रहनिर्याणकर्णविद्रधि-
वितानश्रवणेषीकाकुम्भान्तरकुम्भकटगण्डेषु (*तूणसीवनवत् । शङ्खहनुकपोल-
सगदामृक्षण्योष्ठ इत्येतेषूभयतो वायसतुण्डसंधयः । ) कटाक्षिकूटमस्तावापाङ्गव-
त्मर्नेत्रक्लोमहृदयनाभिषु मण्डलसंधयः । वाहित्यप्रतिमानशम्बूकदन्तवेष्टस्थानेषु
शङ्खावर्तसंधयः । *श्रोतःशृङ्गाटकेष्वित्येते संधयो व्याख्याताः ॥
अथ मर्मणां सप्नोत्तरं शतम् । पञ्चदश श्रो(स्रो)तांसि । षट्त्वारिंशदधि-
कानि चत्वारि प्रदेशशतानि । संध्यस्थिभागाश्रिताः षोडश कण्डुराः ।
इत्युद्देशः ॥
*धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तके । *'शृङ्गाटकेषु' इत्युत्तरं किंचित्रु-
टितं भवेत् ।
१ क. ०नतो मूल० । २ क. ०पशतस० । ३ क. ०कोडाम० । ४ क. ०ष्टूय्वल० ।
५ ख. ०स्तनाकू० ।
.३९६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
तत्र श्लोकः—
शरीरमेवं विज्ञाय प्रदेशैर्बहुभिर्वृतम् ।
शस्त्रकर्म प्रयुञ्जानो नाऽऽबाधां प्राप्नुयाद्भिषक् ॥
काल ज्ञात रूपतः । यस्मात्स्नेहनस्वेदनावनासननस्तककर्मपीडनप्रधमनधूप-
नाभ्यङ्गपरिषेकावगाहतर्पणामिश्रक्षारककर्मभक्ष्यभोज्यपेयलेह्याद्याः क्रियाः प्रयु-
ज्यन्ते । वातादीनामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु धातुवृद्धीर्णा
भवन्ति, अप्रकृतिस्थेषु विषमाः । तस्मात्कालं परीक्ष्य क्रियां प्रयुञ्जीतेति । तदे-
तच्छरीरं पुनर्द्विधाऽवतिष्ठते कल्पम्, अकल्पं च । तत्र कल्पशरीरं समदोषधातुः ।
प्रशमनैरिन्द्रियैरिन्द्रियार्थान्द्य(न)वबुध्यते । समाग्निरुत्थानोपवेशनप्रचारादिषु
न दीनचेष्टः, मुखोच्छ्वासनिमेषणोन्मेषानिलमूत्रपुरीषोत्सर्गादिप्रचारेषु प्रकृतिस्थः
कल्पशरीरो भवति । विपरीतमकल्पशरीरं विद्यात् । काल इति व्याध्यातुरयो-
रप्यवस्था यस्मात्स्नेहनस्वेदनोत्थापनानुवासननस्यपीडनधूपनप्रधमनाभ्यङ्गपरि-
षेकावगाहतर्पणामिश्रक्षारककर्मभक्ष्यभोज्यपेयलेह्याद्याः क्रियाः प्रयुज्यन्ते वाता-
दीनामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु समाः । तस्मात्कालं परीक्ष्य
क्रियापथं प्रयुञ्जीत ॥
स च हेमन्तशिशिरवसन्तग्रीष्मप्रावृट्शरदाख्याः षडृतवः कालः । स एव
पुनर्त्रिधा विभज्यते शीतोष्णसाधारणलक्षणः ॥
तत्र हेमन्ते शिशिरे च समत्वागतवीर्या भवन्त्योषधयः । प्रायसो(शो)
मधुरा मधुरविपाकाः समत्वागतवीर्यत्वात् । तेन तदा पित्तस्य वायोस्तनुत्वम-
भिनिर्वर्तते । श्लेष्मणः प्रबलता भवति ।
दिवास्वप्नाजीर्णादिभिश्च वसन्ते श्लेष्मा प्रकोपमापद्यते संनिरुद्धमार्गप्रचारः ॥
ग्रीष्मे त्वौषधयो दिवसकरकराभिहतशरीरा निःस्रुतवीर्या भवन्ति । तदा
वायुः प्रबलीभवति । श्लेष्मणः क्षयः ॥
प्रावृषि शीतवातोष्माभिहतशरीराणां मातरिश्वा भूयो भूयः प्रकोपमुपग-
च्छति । वर्षास्वौषधयो भवन्त्यसमत्वागतवीर्याः, न ग्रीष्मगुणयुक्ताः, न शिशिर-
गुणोपगताः । ततोऽस्मिन्नृतौ विशेषेण पित्तमुपचीयते, श्लेष्मणश्च क्षयो भवति ॥
भूयश्च शरदि दिवसकरकराभिहतानां पित्तप्रबलता भवत्यजीर्णादिभिरुपा-
र्जितैः । असमागतवीर्यत्वा४द्रवत्यम्लभूयिष्ठत्वमौषधीनाम् । ततः पित्तबाहुल्या-
द्वातश्लेष्मणोः क्षयो भवति ॥
१ ख. व्याख्यातः । २ क. ॰वतन्त्यो॰ । ३ क. वायुर्बली॰ । ४ क.
॰त्वाद्यात्य॰ ।
म' (ma)! NOT 'व'!
And then 'र' (ra)!
"लोहितसृमरकरभशार्दूल"
WOW!
पृषत (spotted deer)
तरक्षु (hyena)
लोहित (red deer / rohita)
सृमर (sṛmara - a kind of animal/deer, often mentioned with पृषत, रुरु, etc. in classical texts!)
करभ (young camel / elephant)
शार्दूल (tiger)
गवय (gayal)
जम्बु (jackal/rose-apple/animal? or जम्बुक)
द्वीपि (leopard)
शरभ (sharabha) or शश (hare)?
Wait, let's look at the next words:
"गवयजम्बुद्वीपिश-"
Line 28:
"शरुरुचमरीचितः ।"
Wait! In line 27:
"गवय"
"जम्बुक" or "जम्बु"?
Look at after गवय:
'ज' - 'म्बू' or 'म्बु'?
Then: 'द्वी' - 'पि' - 'श-'
Then line 28:
'श' or 'र'?
Look at line 28:
"शरुरुचमरीचितः ।"
Wait! Line 27 ends with: "द्वीपिश-"
Line 28 starts with: "श" then "रु" then "रु" then "च"
३९४ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने—
र्धविक्रमशरीराः क्षुत्पिपासासहा बलवन्तः क्रोधनाश्च द्विरदपतयो भवन्ति यत्र
तं देशं जाङ्गलमिति विद्यात् ॥
अथानूपः—तालतालीनालिकेरार्जुनखर्जूरिचूताम्रातकनिम्बजम्बुकोशांम्र-
पियाललुंबुसकदम्बोदुम्बराशोकतिलकवकुलशालकदेलीबकुलसप्तपर्णकर्णिकार-
प्रभृतितरुगणस्व(प)ण्डमण्डितो देशः । कुररहंससारसक्रौञ्चचक्रवाकथुकसारि-
काकदम्बपरपुष्टक(का)रण्डवप्रभृति(भिः)खगरावरुपगतैभः(गतः), बहुकुसुमव-
द्भिश्च पादपैरुपशोभिततँटाभिः सिंहव्याघ्रमहिषवराहगजगवयवानरविक्षोभितस-
लिलाभिर्गैरिवरविवरकंदरोदरविनिःसृताभिर्विमलशीतलशुचिसुरभिसलिलाभिः
स्रवन्तीभिरुपशोभितः, सरिद्भिः समुद्रपर्यन्तोपचितभूमिभागः, कोकनदकुमुद-
कुवलयकमलोत्पलतामरसकहलारादिभिर्जलस्रुहैः कुसुमेरुपशोभितसलिलाशयः,
पद्मवननलिनविविधशकुनिगणविक्षोभितोपशोभितसलिलोपचितः संभ्रान्तसम-
न्तात्सुखशीतलसुगन्धेन मारुतेन नृत्यमानतरुवरगणशिखरः ।
तस्मिन्विपुलबलशरीरा वेर्णवन्त आचार्याः पृथ्वायतकरचरणपृष्ठाण्डकोशो-
दरशिरसः सुकुमाराश्च द्विरदपतयो भवन्ति यत्र, तं देशं व्याधिप्रायं श्लेष्मल-
मा(म)नूपं विद्यात् ॥
एतयोरेव च देशयोर्वीरुद्वनस्पतिगुल्मवातस्पौ(?)षधिमृगशकुनिगणयुतं,
क्वचित्तडागोदकपानपल्वलसरःशोभितं च, सहजपङ्कप्रवालबहुलावनतशोभित-
तीराभिः सरिद्भिरुपशोभितभूमिभागम्, स्थिरसुकुमारैर्हस्तिभिरुपेतं साधारण-
मिति तं देशं विद्यात् ।
तस्मिन्व्यापिमिश्रविकारा व्याधयः प्रकोपं समुपगच्छन्ति ॥
तत्र श्लोकः—
एवमालोक्यदेशं तु ततः कुर्यात्क्रियापथम् ।
गजानामौषधैः सार्धं यथादेशं विभागवित् ॥
ग्रहण्यपि क्रियापथेषु परीक्ष्या विशेषतो नागानाम् ।
कस्मात्, यतस्तामविज्ञाय न क्रियापथः सम्यगनुविधातुं शक्यः । सा खलु
चतुर्विधा—तीक्ष्णा मन्दा समा विषमा चेति । तत्र—तीक्ष्णा पित्तात्, मन्दा
श्लेष्मणः, समा त्रिभ्यो वातपित्तकफेभ्यः समेभ्यः, विषमा वायोश्च भवति ।
इत्येता ग्रहण्यश्चतस्रः ॥
तत्रस्तीक्ष्णज्योतिः—यवसकवलकुवललवणतण्डुलरसभोजनप्रायमाहारयतः
१ क. °पः-पाता° । २ क. °शाम्राज्या° । ३ ख. °दरीब° । ४ ख.
°तटीभिः । ५ क. वर्णयन्तः ।
', there is '३'.
Let's include the markers cleanly as printed.
Everything matches line-by-line and character-by-character.६ द्वादशोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३९९
सप्तभारातीतमपि तृणमुपयुञ्जानस्य विक्रियां नाऽऽपद्यतेऽग्निः, सु¹संहितस्थिर-
लिण्डश्च भवति, स तीक्ष्णज्योतिर्वारणो विज्ञेयः ॥
मन्दज्योतिः—यथोक्तस्याऽऽहारस्यार्धमपि नोपयुङ्क्ते श्लेष्मभूयिष्ठत्वाद्भिन्न-
विवर्णदुर्गन्धिपुरीषश्च भवति स मन्दज्योतिर्वारणो विज्ञेयः ॥
यस्तु यथोक्ततैललवणघृततण्डुलरसभोजनयवसकवलकुवलादीन्युपयुङ्क्ते
सुमनाः स्निग्धघनलिण्डश्च भवति स समज्योतिस्त्रयाणां साम्याद्भवति ॥
विषमज्योतिः—यथोक्तानि यवसरसभोजनादीनि कदाचिदतिप्रमाणेन
ग्रहणं कार्यमाणो वा यत्नेनाधिष्ठितमुपयुङ्क्ते खरनिर्भिन्नदुर्गन्धपुरीषश्च भवति स
²विष
१०० पालकाप्यमुनिविरचितो— [१ शल्यस्थाने-
अभिचारसमुत्थश्चानेकव्याधिलिङ्गः । क्रियासु सम्यक्क्रियमाणास्वपि नोप-
शममुपैति ॥
एवं दोषसमुत्थम्, अभिचारसमुत्थं च व्याधिं समुपलक्ष्य प्रतिकुर्वीत । तस्मा-
ज्जपहोममङ्गलप्रायश्चित्तशान्तिनियतात्मना भिषजा भवितव्यमिति ॥
तत्र श्लोकः—
दोषाभिचारजान्व्याधीन्सम्पग्विज्ञाय तत्त्वतः ॥
यथायोगं क्रियां कुर्यान्मन्त्राणां नास्ति दुस्तरम् ॥
आशास्तकोऽपि नागानां (†क्रियापथे परीक्ष्यः ।
यदा हस्तिजीविनो व्याध्यभिभूतं द्विरदमभिविज्ञाय कदाचिदाशंसन्ति
देवताः । ) ताश्चाऽऽशस्ताः प्रसादमभिनिव(र्व)र्तयन्ति, न च प्रागप्यशंस्तकं
बल्पं तमुपहरन्ति हस्तिजीविनः, ततो देवानां(वाता) यथोक्तां पूजामलभमाना
भूयो व्याधिमुपजनयन्ति । तस्मादाशस्तकं भिषजा परीक्ष्यम् ॥
तत्र श्लोकः—
इज्यां यथोक्तां कुर्वीत देवतानामतन्द्रितः ।
अन्यथा देवतानां हि क्रोधो भवति दारुणः ॥
—:०:—
चतुर इति चतुष्पादा चिकित्सा—आतुरः, परिकर्मी, भिषक्, भेषजम्,
इति ॥
तत्राऽऽतुरः—सत्त्वसंपन्नः सम्यक्शस्त्रभेषजाग्निक्षारकर्मणां सहिष्णुः, उप-
दिष्टकारी, दीर्घायुर्लक्षणश्चेति ॥
परिचारकः—प्रतिपत्तिमान्, अलोलुपः, यथाज्ञप्तकारी, उपकरणसंगोपन-
परः, शौचाचारयुक्तः, अभिनयप्रतिनयस्थानेऽभियुक्तः, निपुणः स्वपरिकर्मणि,
इति ॥
भिषक्—अवस्थितः शास्त्रार्थव्यवसायप्रयोगविज्ञानबुद्धिसंपन्नः' इति ॥
भेषज्यम्—यदनुपहतमनुपदिग्धमनुपतप्तमपुराणम् । इति विज्ञेयं प्रशस्त-
र्धर्मत्येषां चतुर्णां पादानां समुदायात्सिद्धिर्भवति ॥
तत्र श्लोकाः—
एवं पश्चादिकं सम्यग्यो विद्यान्मतिमान्भिषक् ॥
† .'धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
१ क. °शस्त्रकं । २ क. चतुष्पदा । ३ क. °दिष्टः करी ।
ऽवसानचतुष्कं वै सोऽधिकस्तु चिकित्सकः ।
आमूढः सर्वरोगेषु योजयेद्यो भिषक्क्रियाम् ॥
प्रजासु च सदा मानं महत्त्वं च निगच्छति ।
पञ्च सप्त तथा त्रींश्च द्वावेव चतुरस्तथा ॥
नव चतुर्दश द्वौ च 'द्विकौ ज्ञात्वा भवद्विषक्, इति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
द्वादशोपक्रमो नाम षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
अथाङ्गराजोऽभिवाद्य पप्रच्छ पालकाप्यम्—'भगवन्कथमुत्पन्नानि पृथि-
व्यादीनि, के चैषां गुणाश्चोपगुणाश्च । किं च शरीरम् । कथं³ चाङ्गमभिवर्तते ।
कश्च गर्भः । कथं चाभिवर्धते । कथं च त्रिविधा शरीराकृतिः समा विषमा
समं विषमं⁴ चाभिनिवर्तते, भद्रमन्दमृगसंकीर्णाश्च कथं निवर्तन्ते । कथं च
कुब्जवामनहीनाधिकविकृताचान्यन्यानि⁵ च निवर्तन्ते, कथं वा कृष्णश्वेतरक्त-
रूक्षा निष्पद्यन्ते, मिश्रवर्णा वा हस्तिनः। कथं वा विषमविषाणा मोटादयः समु-
त्पद्यन्ते, नयनघ्राणत्वक्श्रोत्रजिह्वेन्द्रियाणां किमध्यात्मम्, किमधिदैवि(व)कम्,
किमधिभूतम् । स्त्रीपुंनपुंसकविशेषाश्च केन जीवविशेषेणोत्पद्यन्ते । कथं च
गर्भस्थो नोत्सृजति मूत्रपुरीषम्, न चापि बृंहति । किं मातृजम्, पितृजम्,
आत्मजम् । रजस्तमःसत्त्वजानि कानि । गर्भस्य वाङ्मनोबुद्धिरहंकारः सत्त्व-
रजस्तमसामात्मा कथमुत्पद्यते, तन्मयानि शब्दस्पर्शरूपगन्धाश्चेति। गर्भस्य
किं वा पूर्वं संभवति । करचरणनयनमुखशिरोग्रीवागात्रापरसंधिवङ्क्षणनाभिदे-
शगुदमेण्ड्राणि कथं विभज्यन्ते' इति ॥
ततः प्रोवाच भगवान्पालकाप्यः—'इह खलु भोः परं सूक्ष्मभावार्थमप्यव्य-
क्तमोष्ठस्पन्दनमात्रं त्रुटिः । सर्षपमात्रमोष्ठभेदो लवः । द्वे त्रुटी लध्वक्षरः । द्वे
लध्वक्षरे अक्षिनिपातसंनिभं⁶ निमेषः । निमेषास्तु दश पञ्च च काष्ठा । ता दश
विंशतिः(च) कला । त्रिंशत्कलो⁷ मुहूर्तः। ते त्रिंशदहःक्षपे लोके सूर्यो विभजते ।
तत्र कर्मणां चेष्टार्थं दिवसः, शर्वरी स्वापार्थं⁸ । त्रिंशदहोरात्राणि मासः । द्वाद-
१ क. द्विकोशौ । २ क. °शोऽध्या° । ३ क. कथं वाऽङ्गमभिनिव° । ४ क.
°मं च नि° । ५ क. °नि चाङ्गका° । ६ क. °संमितं नि° । ७ क. विंशतिकलो ।
८ क. °य । यत्तु त्रि° ।
५१
ष्टमासो वर्षम् । लौकिके मासेन रात्राहं मै(पै)त्रमानम् । ^२तेषु कृष्णपक्षः
शर्वरी, शुक्लो दिवा । अयने द्वे यद्युक्तं दैवमानम् । तत्रोत्तरायनं(णं) दिवा,
दक्षिणायनं निशा । तेन पक्षः, मासः, संवत्सरश्च ।
तेन चत्वारि वर्षसहस्राणि कृतयुगम्, तस्य चतुःशती संख्या, तावदेव
संध्यांशः । ततश्चतुर्भागहीनस्त्रेता । द्वापरमर्धम् । चतुर्थोऽशः कलिः । इत्येतेषां
युगानां कालेन शतानि सहस्राणि चासंख्येयानि वर्तन्ते । तानि चत्वारि
युगानि परिनिवृत्तानि पुनश्चतुर्युगमित्युच्यते । द्वादशवर्षसहस्रं चतुर्युगमित्यु-
च्यते । तान्येकसप्ततिरिन्द्रपर्यायः । चतुर्दशेन्द्रपर्याया ब्रह्मदिनम्, तावत्येव
रात्रिः ।
तदादौ कृत्स्नमिदमीश्वरः संक्षिप्य कृत्वाऽध्यात्मं सुप्तो विबुध्यते । ^४प्रतिबु-
द्धोऽथ ब्रह्मा व्यक्तिमचिन्त्यमध्यात्ममहमुरखे बुद्धिमव्यक्तमसृजत् । बुद्धेर्मनः ।
मनसोऽहंकारः । अहंकारात्कालः । कालाद्दिशः । दिग्भ्य आकाशम् ।
आकाशाद्वायुः । वायोस्तेजः । तेजस आपः । अद्भूयः पृथिवी ॥
ताभ्यः (?) शब्दवदाकाशम् । शब्दस्पर्शगुणो वायुः। वायो रूपगुणं तेजः।
तेजसो रसगुणा आपः । अभ्यो गन्धगुणा पृथिवी । पूर्वानुपूर्व्यात्ते गुणानुत्त-
रानपि प्राप्नुवन्ति यावदिह गुणाः, यावन्तश्चोपगुणाः । सर्वे ते भूतगुणाः पृथिव्यां
लक्ष्यन्ते । तत्समुत्थानि भूतानि स्थावरजङ्गमानि च । एतत्पञ्चगतिवत्सामा-
न्येनान्योन्योपजीविनि सपरिणामानि भूतान्युत्पद्यन्ते ॥
तत्रोद्भिजानि वृक्षगुल्मवल्लीतृणानि चतुर्विधानि स्थावराणि । अत्र भोगार्थे
चतुर्दशौषधयः । तद्यथा—श्यामाकवेणुनीवारतिलमर्कटगवेधुकावरकाश्चेति
सप्त वन्याः । प्रियङ्गुगोधूमयवमाषशालिषष्टिककुलत्थाः सप्त ग्राम्याः ॥
सरीसृपादिकांदिक्चरैश्चराः (?) श्वापदपक्षहस्तिवानराः सप्ताऽऽरण्याः ।
पुरुषाजाविगोश्वागर्दभोष्ट्राः सप्त ग्राम्याः । तेषामेव भूतानां पुरुषः श्रेष्ठः, पशूनां
गजः । तयोरायुक्तर्षः शरीरबलाधानदोषोत्क(र्षापक)र्षेषु प्रयत्नः कर्तव्य
इति । तत्र सात्म्यवयोबलप्रकृतिदेशकालाहारोपसेविनो मनुष्याः, परव-
शानुवर्तिनस्तु नित्यानुबन्धकर्मव्यापामबह्वनिपताहारसेविनो वारणाः । तस्मा-
द्विपानां शरीरबलाधानदोषापकर्षणेषु प्रयत्नः कर्तव्यः । तत्र वक्ष्यते ॥
१ क. मासोनवात्रा० । २ क. ते तु कृ० । ३ क. ०वा । आयद्वौ य० । ख.
०वा आयतद्वौ य० । ४ क. प्रतिबुद्ध्वाऽथ । ५ क. ०णि च भो० । ६ क. ०दिप्कारै-
श्चराः । ७ क. हस्ती ।
७ गर्भसंभवाध्यायः ] हस्त्यायुर्वेदः । ४०३
शरीरं खलु नामाहंकारात् । पृथिव्यापस्तेजो वायुराकाशमिति कर्णत्वग्जि-
ह्वानयनघ्राणैः पञ्चभिरिन्द्रियैः शब्दस्पर्शरूपगन्धैश्च पञ्चभिरिन्द्रियार्थैः
स्वभावेन चेतनया मनसा प्राणापानादिभिर्जीवितेन चेति पञ्चविंशतिभिर्गुणै-
र्युक्तं निवदमव्यक्तं व्यज्यमानं शोणितरेतस्युत्पन्नं मातृयोनिनाड्यां गत्वा विश-
द्वेवगुणा भूतगुणा आत्मगुणाश्चेत्येतदनुपतन्ति । निवेश्यमानमनुनिवसन्ति ।
तद्यथा—भ्रमरमधुकरसंघाः पुष्पजं रजः मद्रवत्प्रद्रवन्ति, निवसमान(?)-
मनुनिवसन्ते । एवं खल्विदमेतत्परमाङ्गलिङ्गमात्मानमव्यक्तं वक्ष्यमाणं शोणितरे-
तस्युपपन्नं मातुर्याति कटिसंधौ विसन्ने(शान्तमे)व स्वगुणाः स्वात्मगुणाश्चात्यन्तं
तमनुपतन्ति । तैस्तस्य षट्कोशस्थानानि भवन्ति । तत्रामगर्भदोषा वेदना
व्याप्तिर्भवति ॥
पितृजमपि खल्वस्य शुक्रं मातृशोणितेन सह संप्रयुज्यमानं मारुतेन पूरि-
तमीश्वरभावसंयुक्तं मूर्तिमपद्यते । दक्षिणं कुक्षिभागं पुमान्समाश्रयति, वामं
स्त्री, मध्यमतरत् । संवृतात्पिण्डायामात्पुमान्संभवति, स्त्री पेश्याः, अर्बुदान्न-
पुंसकम् ॥
परिपच्यमानस्तु खलु मासेन स्थिरी भवति गर्भः। द्वितीये मास्यर्बुदं पेशी वा,
तयोर्युगपदिन्द्रियाण्यभिनिव(र्व)र्तन्ते । शिरोक्षिकूटबाहुपृष्ठपार्श्वोदररोमकूपाश्च
तृतीये मासि। चतुर्थे व्यक्ती भवति गर्भः। पञ्चमे मासि चेतनाऽस्योपजायते ।
षष्ठे मनः। सप्तमे बुद्धिः। अष्टमे मासि स्थैर्यम् । नवमदशमैकादशेषु सर्वाङ्ग-
संपूर्णः सप्तभिः शिराशतैः सर्वैः सान्वयसमन्वितः स्थिरीभूतो नाभिनिबद्धया
नाड्या मातुराहारजं रसं भुञ्जानः संवत्सराद्धौ वै जायते । सहदेवगुणैर्भूतगुणैरा-
त्मगुणैश्च ॥
तस्येमे देवगुणा भवन्ति—विक्रान्तौ विष्णुः । गले शक्रः । कोष्ठेऽग्निः ।
उपस्थे प्रजापतिः । प्राणापानयोर्वायुः । कर्णयोर्दिशः । खेष्वाकाशम् ।
जिह्वायां सरस्वती । पदेषु मित्रावरुणौ । चक्षुष्यादित्यः । कर्मणि विश्व-
कर्मा । भूमिरस्य देहे । शब्दे रुद्रः । त्वचि विद्यात् ( ? ) वाच्यग्निः । क्षान्तौ
ब्रह्मा । पर्जन्यो हृदये । भुजयोरश्विनौ । त्रिके मरुतः । इति देवगुणाः ॥
अथ भूतगुणाः—कर्णवदनगुदमेढ्र*श्रोतः शब्द इत्याकाशयोनीनि (†रसो
- अत्र किंचित्रुटितं प्रतिभाति । † धनुराकारमध्यस्थः पाठो नास्ति कपुस्तके ।
१ क. विपन्नमेव । २ ख. °कोणस्था° । ३ क. °रिपाच्य° । ४ क. व्यक्तानि
भवन्ति ग° । ५ क. °द्वावेव जा° । ६ क. बले ।
१०४ पालकाप्यमुनिविरचितो— [ १ शल्यस्थाने-
रसना.........। सर्वाणि च द्रव्याण्याकाशयोनिरिति। चक्षुरूपमा कायाग्नि-
रिति तेजायोनीनि) घ्राणं ज्ञेयं संघात इति पृथिवीयोनीनि। स्पर्शः स्प्रष्टव्यं
प्राणापानसमानव्यानोदाना वायुयोनयः॥
अथाऽऽत्मगुणाः—सर्वेन्द्रियबुद्धिपरिद्रष्टा क्षेत्रज्ञः, संशयोत्पादनमभिप्रार्थ-
नात्मकं मनः। आत्मेन्द्रियमनोर्थसंनिकर्षोत्पन्नव्यवसायात्मिका बुद्धिः, इति॥
मनो बुद्धिरन्तरात्मा इत्यव्यक्तानि। कर्णत्वग्जिह्वाघ्राणनयनश्रोत्राणीन्द्रि-
याणि। शब्दस्पर्शरूपगन्धा इन्द्रियार्थाः॥
समुत्पन्नै(†रिन्द्रियार्थै(?))रिन्द्रियार्थान्गृह्णाति जितेन्द्रियेणोपेकृष्टम्। सर्व-
सत्त्वानामिष्टानिष्टनामल्पमनल्पं शब्दं श्रवणेन्द्रियेण गृह्णाति। शीतोष्णश्ल-
क्ष्णखरमृदुकठिनघनविकीर्णस्निग्धविशदपिच्छिलरूक्षतीक्ष्णानां च स्पर्शविशे-
षाणामुपलब्धिः स्पर्शेन्द्रियेण। मधुराम्ललवणकटुतिक्तकषायाणां रसानामुप-
लब्धिः(ब्धी) रसनेन्द्रियेण गृह्णाति। त्र्यसचतुरस्रनिम्नोन्नतपृथुवृत्तसमविष-
माकाराणि श्वेतरक्ताग्रपीतविमिश्रात्मकानि जङ्गमाजङ्गमानि द्रव्याण्यक्षीन्द्रियेण
गृह्णाति। इष्टानिष्टानां व्यस्तपिण्डितनिर्हारिणां गन्धानामुपलब्धिर्घ्राणेन्द्रि-
येण, इति॥
तत्र ये चाऽऽत्मशरीरायत्ता वातपित्तश्लेष्माणः तेषां त्रीणि स्थानानि—
पक्वाशयामाशयमलाषयाः॥
अथ सात्त्विका भावाः—प्रहर्षः प्रीतिः सुखमानन्दकर्मासंतापश्चेति।
तैक्ष्ण्यमधैर्यं धाष्टर्ये भयं संतापो रोषः सङ्गः क्षुत्पिपासेति राजसाः। अज्ञानं
लोभो मोहः कामः क्रोधः स्वप्नो दैन्यमिति तामसाः॥
अथ वायवः—प्राणापानसमानोदानव्यानाः। तेषां कर्माणि। तत्र प्राणो
घ्राणनयनवदनगुदमेढ्रश्रोतसामानन्दकर्मात्मकः,प्रवर्तको निवर्तकश्चेष्टानाम्,नेता
मनः सर्वेन्द्रियार्थस्य,विज्ञानकरः प्रकृतिस्पर्शयोः, मूलं योनिर्हृदयस्योत्साहस्य
(†योनिर्हर्षस्योत्साहस्य) स हि भगवान्प्रभवश्चाव्ययश्च, भूतानां भावाभावकरः
सुखासुखस्य विधाता, मृत्युर्यमो नियन्ता प्रजापतिरिति। विश्वकर्मा विश्वरूपः
सर्वाङ्गेषु सर्वस्य विधाता भावनो मत्तविभुर्विष्णुः क्रान्ता लोकस्य, वायुरेष
भगवान्पञ्चधाऽऽत्मानं योजयित्वा शरीरं धारयति। तेषां विसर्गात्मकोऽपानः।
उत्क्षेपणाकुञ्चनप्रसारणगमनकर्मात्मको व्यानः। भक्ष्यभोज्यपेयलेह्यानामशित-
† धनुश्चिह्नमध्यगतो नोपलभ्यते कपुस्तके॥
१. क. °पक्कुष्ठा°। २ क. °मल्पानल्पश°। ३ क. °लब्धर°। ४ क. एषां।
७ गर्भसंभवाध्यायः ] हस्त्यायुर्वेदः । ४०५
पीतलीढस्वादितानामभिवोढा समानः । प्राणापानसमानव्यानानामन्तकालेऽ-
भ्युद्धर्ता चोदानः ॥
अथ तेजःस्थानानि१-प्रदर्शनं चक्षुरूंष्मा कायाग्निर्हृदयं त्वक्पर्यन्तमिति ।
तत्र चक्षुर्गतं रूपाणि गृह्णाति । कायाग्निरामाशयपक्वाशययोरन्तरस्थो धातूनां
चान्तरेषु प्रयोगानपाचयति । हृदि संश्रयात्क्रोधयति । त्वक्पर्यन्तगतश्चाभ्यङ्ग-
परिषेकादीन्पाचयति ॥
तत्र श्लेष्मा संधीन्संश्लेषयति, मृदुकरश्च ॥
सप्त चास्य धातवो रसरुधिरमांसमेदोस्थिमज्जाशुक्रमिति ॥
दश चास्य प्राणायतनानि भवन्ति शिरोहृदयनाभिगुदवस्तिवातपित्तश्लेष्म-
मूत्रपुरीषाणीति ॥
प्राणयात्रार्थं चास्य षड्रसाश्च मधुराम्ललवणकटुतिक्तकषायाः । तैरुपपन्नो
गर्भस्तिष्ठति ॥
तत्र त्रयाणां समवायाद्गर्भाधानं भवति मातुः पितुः, जीवस्य चेति ॥
मैथुनसंयोगात्पतिं यदाऽभिकाङ्क्षति धेनुका, तां समुत्पन्नर्तुकां (*तेस्माह-
तृस्नातां ) हस्तिनीं विद्यात् । आर्तवस्य द्वादशरात्रं भवति । तस्माद्दिवा रात्रौ
वा हस्तिनो हस्तिन्याश्चसंयोगे प्रादुर्भावो भवति । यदा हस्तिन्यामृतुमत्यां मत-
ङ्गजः संयोगेषु शुक्रमुत्सृजति तद्वायुः कोष्ठे प्रविभजते । मातुराहोरात्संवर्धते ।
तस्मात्कवलरसपल्लवाहारासविना(?)क्षोभवायामतीक्ष्णोष्णाहारविवर्जनात्स्या-
त्करेणुं४ । तत्र बहुशुके पुमान्संभवति, स्त्री शोणितबाहुल्यात्, समे नपुंसकम्,
शुके तु वायुना द्विधाकृते यमलावूत्पद्येते । यद्रूपा(ङ्)गर्भं बिभर्ति धेनुका.
तदाकारं भवति । तत्र ग्राम्यधर्मे निवृत्ते यदा योनिमुखगतं शुक्रं भवति । तच्च
रुधिरसंसर्गात्कललं भवति । ततो जीवः संक्रामति गर्भम् । पृथिव्यापस्तेजो
वायुराकाशं ज्ञानमिति षट्शरीरकारणानि भवन्ति । तत्समवायात्ततो योन्यां
कललसंज्ञो भवति परिणामात्कललः खरत्वं भवति । स्वतेजसा विदाहे तत्खरी
भवति परिणामात् । खरस्यार्बुदस्य५ पेशी भवति ॥
तत्र मज्जा च शुक्रं च नागानां गर्भस्थानां भवति । स्नाय्वस्थीनि ❊पितृ-
❊ 'केशश्मश्रुलोमास्थिनखदन्तसिरास्नायुधमनीरेतःप्रभृतीनि स्थिराणि पितृजानि,
मांसशोणितमेदोमज्जाहृन्नाभियकृत्प्लीहान्त्रगुदप्रभृतीनि मृदूनि मातृजानि' इति सुश्रुतात्
'दृढानि पितृजानि, मृदूनि मातृजानि' इति पर्यवसितम् ॥
१ क. तेजसः स्था० । २ क. तस्मादनुस्थानां । ३ क. ०हारः संव० ।
४ ख. ०णुः । ततश्च करेणुस्तत्र । ५ क. यच्च ।
जानि शुक्रान्तानि । जरायुमांसमेदोन्त्रगुदं धमम्यश्चेति मातृजम् । अन्नपातो-
त्पन्नः संवक्ष्यमाणः ॥
मातृपित्रोरशनविशेषात्कफपित्तानलप्रभृतीनामन्यत(म)माशुकनिषे(कं) प्राणि-
नमाश्रयति, स प्रकृतिमापद्यते ॥
वर्णाः कृष्णश्वेतरक्तरूक्षा वातपित्तकफशोणितात्मकाः, वर्णभेदाश्च तेषाम-
न्योन्यसंयोगात्मकाः ॥
कुब्जवामनहीनाधिकवैकृत्ययमभावाश्च वातात्मकाः ॥
विषाणानां वैषम्यं वातात्मकं भवति । संजायमानयोर्दन्तयोर्यदा समुपहरति
वायुः, तदा दोषा उत्पद्यन्ते ॥
तत्र श्लोकौ—
यदा शिशुर्विचरति जीवमात्रो गर्भाशयाद्गर्भनिरोधैमुक्तः ।
तदाऽङ्गचेष्टां विविधां शरीरे प्रवर्तते वायुबलेन कर्तुम् ॥
प्रवर्तते मूत्रपुरीषमस्य निमेषणोन्मेषणरोदनं च ॥
तदाऽभिलाषाङ्गविचारणं च वातादि सर्वा विविधाः क्रियाश्च ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
गर्भसंभवो नाम सप्तमोऽध्यायः ॥ ७ ॥
अथाष्टमोऽध्यायः ।
अङ्गो हि राजा चम्पायां पालकाप्यं स्म पृच्छति ॥
अजातशृङ्गं विधिवन्निर्गतं हस्तिनं भगात् ॥ १ ॥
प्रवृत्तेऽस्मिन्यथाकाले यूथानि समवेक्ष्य च ॥
यथावदनुपूर्वेण कृताञ्जलिपुटस्तथा ॥ २ ॥
इति प्रश्नं महाराजो व्याजहार यथातथम् ॥
महान्मे संशयो विद्वन्दृष्ट्वा वै कुञ्जरान्वने ॥ ३ ॥
गर्भः कथं संभवति संभूतः केन जीवति ॥
अस्थिस्नायु च मांसं च कतमे मासि जायते ॥ ४ ॥
१ क. °अयुगं ध° । २ क. °धयुक्तः । ३ क. °तशुकं वि° ।
छविश्च कतमे मासि त्वग्वंशः प्रविभज्यते ॥
†वृंकौ नखानि रोमाणि यकृदन्त्राणि पुप्फसम् ॥ ५ ॥
हृदयं कतमे मासि गर्भे जायेत दन्तिनः ॥
पोतः कथं संभवति पोतकी जायते कथम् ॥ ६ ॥
पोती पोतोऽथ यमकं मिथुनं जायते कथम् ॥
उभौ वा पोतकौ केन उभे वा पोतिके कथम् ॥ ७ ॥
कथं वन्ध्या च षण्ढश्च कोशमेही च जायते ॥
कथं मृगः संभवति मन्दो वा केन जायते ॥ ८ ॥
भद्रश्चापि कथं नागः संकीर्णश्च कथं भवेत् ॥
मन्दो मृगमनाः केन मृगो मन्दमनाः कथम् ॥ ९ ॥
भवेत्तु जवनः केन जायतेऽल्पबलः कथम् ॥
कथं भीरुः प्रकृत्या च प्रकृत्या शूर एव च ॥ १० ॥
कथं भवति दुर्मेधा मेधावी च कथं भवेत् ॥
मन्दमेधश्च मातङ्गश्चैतदिच्छामि वेदितुम् ॥ ११ ॥
कालः कथं च भवति श्यामो वा केन जायते ॥
हरिद्वर्णो भवेत्केन रूक्षाभः केन वारणः ॥ १२ ॥
स्निग्धच्छविर्वा मातङ्गः कथं स्याल्लोहितच्छविः ॥
स लोहितच्छविः केन वर्णेषु भवति त्रिषु ॥ १३ ॥
गजश्चोलूकवर्णाभः कथं भवति जातितः ॥
केन वर्णेषु भवति त्रिषु चोलूकवर्णभाक् ॥ १४ ॥
बहुवर्णश्च मातङ्गः कथं भवति जातितः ॥
मुद्गवर्णश्च मातङ्गोऽप्युपदिग्धश्च तत्र यः ॥ १५ ॥
श्वेताभो जायते केन एतदिच्छामि वेदितुम् ॥
नखानि केन कालानि राजिमन्त्यपि वा कथम् ॥ १६ ॥
कथं श्यामानि जायन्ते श्वेतान्यपि च हस्तिनः ॥
केनास्य तालुकं कृष्णं केन कल्माषतालुकम् ॥ १७ ॥
केन पद्मपलाशाभं तालु नागस्य जायते ॥
कालजिह्वः कथं नागस्ताम्रजिह्वोऽथवा कथम् ॥ १८ ॥
† 'वृक्कौ' इति भवेत् ॥
१ क. वृक्कौ । २ क. पुप्फसम् ।
४०८ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने-
कथं कल्माषजिह्वो वा गजो भवति जातितः ॥
पिङ्गलः केन भवति मध्वक्षः केन जायते ॥ १९ ॥
हर्यक्षः केन नागः स्यात्काकाक्षः केन जायते ॥
अक्षिणी केन शुक्ले तु कालतारे पुनः कथम् ॥ २० ॥
गजः पारापताक्षो वा कथं भवति जातितः ॥
विकृताक्षो विरूपाक्षो जातान्धो वाऽपि वारणः ॥ २१ ॥
केन जायते वै नागः कालः पिङ्गुललोचनः ॥
केन मुखाच्च हस्ताच्च स्वेदो भवति दन्तिनः ॥ २२ ॥
कस्मिन्देशे च वृषणावहृष्यौ केन वा पुनः ॥
म्लानशीर्षो म्लानमुखो विकटो बधिरस्तथा ॥ २३ ॥
ह्रस्ववालश्च मातङ्गो दीर्घवालः कथं भवेत् ॥
विषमाभ्यां च कर्णाभ्यां पुटकर्णश्च वारणः ॥ २४ ॥
नष्टकर्णश्च मातङ्गः कथं भवति जातितः ॥ २५ ॥
कुष्ठी किलासी विततः काणो हीनोऽथवा पुनः ॥
कुब्जः किलासमेढ्रश्च कथं भवति वारणः ॥ २६ ॥
अतिश्वेताश्च ये दन्ता ये च दन्ताः सुलोहिताः ॥
यथा भवन्ति तद्ब्रूहि मधुवर्णाश्च दन्तिनः ॥ २७ ॥
म्लानवक्त्रः कथं नागो ग्रन्थिदन्तस्तथैव च ॥
मुक्ता विषाणेषु कथं नागानां संभवन्ति च ॥ २८ ॥
म्लानगात्रो भवेत्केन स्तब्धगात्रस्तथैव च ॥
मृदुगात्रश्च मातङ्गः कथं भवति जातितः ॥ २९ ॥
सममूर्धा भवेत्केन तथा प्राप्तविदुर्गरः ॥
उदङ्गमूर्धा स च कथं गजो भवति जातितः ॥ ३० ॥
मदं गृह्णाति मातङ्गः केन प्रथमयौवने ॥
अमदो वा भवेत्केन यावदायुर्मतङ्गजः ॥ ३१ ॥
मूढः कथं संभवति समदन्तश्च वारणः ॥
मत्कुणश्चैकदन्तश्च कथं स्यातां मतङ्गजौ ॥ ३२ ॥
करेणुः केन भवति त्रिविषाणः कथं भवेत् ॥
गजश्चतुर्विषाणो वा कथं भवति जातितः ॥ ३३ ॥
१ क. मुख्याच्च । २ क. गच्छति । ३ क. मोटः ।
८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । १०९
वामोन्नततः कथं वा स्यात्कथं वा दक्षिणोन्नतः ॥
मूढैकदन्तो मातङ्गो जायते केन हेतुना ॥ ३४ ॥
उत्तमा हस्तिनो ये च प्रादक्षिण्या द्विजोत्तम ॥
तथैव नागा मोल्पार्हाः श्वेतच्छत्रस्य च द्विपाः ॥ ३५ ॥
गजाश्च मधुपर्कार्हा मानार्हाश्चैव हस्तिनः ॥
संभवन्ति यथा विप्र तथा मे वक्तुमर्हसि ॥३६॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
अदृश्यमार्तवं विद्धि हस्तिन्या हर्षकारि तत् ॥ ३७ ॥
यानाचरत्यसौ भावांस्तान्मे कीर्तयतः शृणु ॥
प्रहृष्टकर्णलाङ्गूला ध्यानशीला विवार्तिका ॥ ३८ ॥
योनिश्च विवृता शुष्का मन्दं मन्दं च गच्छति ॥
यूथस्यान्ते विचरति पांथुपङ्कजलप्रिया ॥ ३९ ॥
पतितं हस्तिनीनां स्यादन्तरेणाऽऽर्तवं रजः ॥
एतैराकारसंस्थानैर्ज्ञेया ऋतुमती भवेत् ॥ ४० ॥
—:(०):—
अतः परं प्रवक्ष्यामि ऋतुमत्याश्च लक्षणम् ॥
प्रसन्नमुखवर्णा च योन्याश्च विवृतं मुखम् ॥ ४१ ॥
पुनः पुनः प्रस्रवति प्रहृष्यति पुनः पुनः ॥
समीपस्था न सहते हस्तिनश्चान्यहस्तिनीम् ॥ ४२ ॥
किञ्चिदुत्पुच्छकर्णी च योन्या प्रक्लिन्नपीनया ॥
समुत्थितकरग्रीवा विनता विकटस्थिता ॥४३ ॥
यतो गजश्च व्रजति ततोऽस्याग्रेऽवतिष्ठते ॥
हस्तिना च कृतं मूत्रं पुरीषं चापि हस्तिनी ॥ ४४ ॥
पुनः पुनः समाघ्राय हस्तमास्यं नयत्यसौ ॥
संगृह्याग्रवालेन मुहुराहन्ति तं द्विपम् ॥ ४५ ॥
रागान्मुहुः परिक्रम्य प्लवते वारणं वशा ॥
गुह्यदेशं समाघ्राय हस्तमास्यं नयत्यसौ ॥ ४६ ॥
इमांश्च कुरुते भूयो भावान्हर्षकरान्गजे ॥
यदा देशे मनोज्ञे तु पुरस्तिष्ठति वारणः ॥ ४७॥
१ क. ॰तः ॥ मोटैक॰ । २ क. मल्पार्हाः । ३ क. ॰र्हास्तथा ये नाम ह॰ ।
४ क. तद्वि ।
५२