सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 419, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 419

१०० पालकाप्यमुनिविरचितो— [१ शल्यस्थाने-
अभिचारसमुत्थश्चानेकव्याधिलिङ्गः । क्रियासु सम्यक्क्रियमाणास्वपि नोप-
शममुपैति ॥
एवं दोषसमुत्थम्, अभिचारसमुत्थं च व्याधिं समुपलक्ष्य प्रतिकुर्वीत । तस्मा-
ज्जपहोममङ्गलप्रायश्चित्तशान्तिनियतात्मना भिषजा भवितव्यमिति ॥
तत्र श्लोकः—
दोषाभिचारजान्व्याधीन्सम्पग्विज्ञाय तत्त्वतः ॥
यथायोगं क्रियां कुर्यान्मन्त्राणां नास्ति दुस्तरम् ॥
आशास्तकोऽपि नागानां (†क्रियापथे परीक्ष्यः ।
यदा हस्तिजीविनो व्याध्यभिभूतं द्विरदमभिविज्ञाय कदाचिदाशंसन्ति
देवताः । ) ताश्चाऽऽशस्ताः प्रसादमभिनिव(र्व)र्तयन्ति, न च प्रागप्यशंस्तकं
बल्पं तमुपहरन्ति हस्तिजीविनः, ततो देवानां(वाता) यथोक्तां पूजामलभमाना
भूयो व्याधिमुपजनयन्ति । तस्मादाशस्तकं भिषजा परीक्ष्यम् ॥
तत्र श्लोकः—
इज्यां यथोक्तां कुर्वीत देवतानामतन्द्रितः ।
अन्यथा देवतानां हि क्रोधो भवति दारुणः ॥
—:०:—
चतुर इति चतुष्पादा चिकित्सा—आतुरः, परिकर्मी, भिषक्, भेषजम्,
इति ॥
तत्राऽऽतुरः—सत्त्वसंपन्नः सम्यक्शस्त्रभेषजाग्निक्षारकर्मणां सहिष्णुः, उप-
दिष्टकारी, दीर्घायुर्लक्षणश्चेति ॥
परिचारकः—प्रतिपत्तिमान्, अलोलुपः, यथाज्ञप्तकारी, उपकरणसंगोपन-
परः, शौचाचारयुक्तः, अभिनयप्रतिनयस्थानेऽभियुक्तः, निपुणः स्वपरिकर्मणि,
इति ॥
भिषक्—अवस्थितः शास्त्रार्थव्यवसायप्रयोगविज्ञानबुद्धिसंपन्नः' इति ॥
भेषज्यम्—यदनुपहतमनुपदिग्धमनुपतप्तमपुराणम् । इति विज्ञेयं प्रशस्त-
र्धर्मत्येषां चतुर्णां पादानां समुदायात्सिद्धिर्भवति ॥
तत्र श्लोकाः—
एवं पश्चादिकं सम्यग्यो विद्यान्मतिमान्भिषक् ॥
† .'धनुराकारमध्यस्थो नास्ति पाठः कपुस्तके ।
१ क. °शस्त्रकं । २ क. चतुष्पदा । ३ क. °दिष्टः करी ।