हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 420, कुल 742 में से
संदर्भ में पढ़ेंऽवसानचतुष्कं वै सोऽधिकस्तु चिकित्सकः ।
आमूढः सर्वरोगेषु योजयेद्यो भिषक्क्रियाम् ॥
प्रजासु च सदा मानं महत्त्वं च निगच्छति ।
पञ्च सप्त तथा त्रींश्च द्वावेव चतुरस्तथा ॥
नव चतुर्दश द्वौ च 'द्विकौ ज्ञात्वा भवद्विषक्, इति ॥
इति श्रीपालकाप्ये हस्त्यायुर्वेदमहाप्रवचने तृतीये शल्यस्थाने
द्वादशोपक्रमो नाम षष्ठोऽध्यायः ॥ ६ ॥
अथ सप्तमोऽध्यायः ।
अथाङ्गराजोऽभिवाद्य पप्रच्छ पालकाप्यम्—'भगवन्कथमुत्पन्नानि पृथि-
व्यादीनि, के चैषां गुणाश्चोपगुणाश्च । किं च शरीरम् । कथं³ चाङ्गमभिवर्तते ।
कश्च गर्भः । कथं चाभिवर्धते । कथं च त्रिविधा शरीराकृतिः समा विषमा
समं विषमं⁴ चाभिनिवर्तते, भद्रमन्दमृगसंकीर्णाश्च कथं निवर्तन्ते । कथं च
कुब्जवामनहीनाधिकविकृताचान्यन्यानि⁵ च निवर्तन्ते, कथं वा कृष्णश्वेतरक्त-
रूक्षा निष्पद्यन्ते, मिश्रवर्णा वा हस्तिनः। कथं वा विषमविषाणा मोटादयः समु-
त्पद्यन्ते, नयनघ्राणत्वक्श्रोत्रजिह्वेन्द्रियाणां किमध्यात्मम्, किमधिदैवि(व)कम्,
किमधिभूतम् । स्त्रीपुंनपुंसकविशेषाश्च केन जीवविशेषेणोत्पद्यन्ते । कथं च
गर्भस्थो नोत्सृजति मूत्रपुरीषम्, न चापि बृंहति । किं मातृजम्, पितृजम्,
आत्मजम् । रजस्तमःसत्त्वजानि कानि । गर्भस्य वाङ्मनोबुद्धिरहंकारः सत्त्व-
रजस्तमसामात्मा कथमुत्पद्यते, तन्मयानि शब्दस्पर्शरूपगन्धाश्चेति। गर्भस्य
किं वा पूर्वं संभवति । करचरणनयनमुखशिरोग्रीवागात्रापरसंधिवङ्क्षणनाभिदे-
शगुदमेण्ड्राणि कथं विभज्यन्ते' इति ॥
ततः प्रोवाच भगवान्पालकाप्यः—'इह खलु भोः परं सूक्ष्मभावार्थमप्यव्य-
क्तमोष्ठस्पन्दनमात्रं त्रुटिः । सर्षपमात्रमोष्ठभेदो लवः । द्वे त्रुटी लध्वक्षरः । द्वे
लध्वक्षरे अक्षिनिपातसंनिभं⁶ निमेषः । निमेषास्तु दश पञ्च च काष्ठा । ता दश
विंशतिः(च) कला । त्रिंशत्कलो⁷ मुहूर्तः। ते त्रिंशदहःक्षपे लोके सूर्यो विभजते ।
तत्र कर्मणां चेष्टार्थं दिवसः, शर्वरी स्वापार्थं⁸ । त्रिंशदहोरात्राणि मासः । द्वाद-
१ क. द्विकोशौ । २ क. °शोऽध्या° । ३ क. कथं वाऽङ्गमभिनिव° । ४ क.
°मं च नि° । ५ क. °नि चाङ्गका° । ६ क. °संमितं नि° । ७ क. विंशतिकलो ।
८ क. °य । यत्तु त्रि° ।
५१