सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 421, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 421

ष्टमासो वर्षम् । लौकिके मासेन रात्राहं मै(पै)त्रमानम् । ^२तेषु कृष्णपक्षः
शर्वरी, शुक्लो दिवा । अयने द्वे यद्युक्तं दैवमानम् । तत्रोत्तरायनं(णं) दिवा,
दक्षिणायनं निशा । तेन पक्षः, मासः, संवत्सरश्च ।
तेन चत्वारि वर्षसहस्राणि कृतयुगम्, तस्य चतुःशती संख्या, तावदेव
संध्यांशः । ततश्चतुर्भागहीनस्त्रेता । द्वापरमर्धम् । चतुर्थोऽशः कलिः । इत्येतेषां
युगानां कालेन शतानि सहस्राणि चासंख्येयानि वर्तन्ते । तानि चत्वारि
युगानि परिनिवृत्तानि पुनश्चतुर्युगमित्युच्यते । द्वादशवर्षसहस्रं चतुर्युगमित्यु-
च्यते । तान्येकसप्ततिरिन्द्रपर्यायः । चतुर्दशेन्द्रपर्याया ब्रह्मदिनम्, तावत्येव
रात्रिः ।
तदादौ कृत्स्नमिदमीश्वरः संक्षिप्य कृत्वाऽध्यात्मं सुप्तो विबुध्यते । ^४प्रतिबु-
द्धोऽथ ब्रह्मा व्यक्तिमचिन्त्यमध्यात्ममहमुरखे बुद्धिमव्यक्तमसृजत् । बुद्धेर्मनः ।
मनसोऽहंकारः । अहंकारात्कालः । कालाद्दिशः । दिग्भ्य आकाशम् ।
आकाशाद्वायुः । वायोस्तेजः । तेजस आपः । अद्भूयः पृथिवी ॥
ताभ्यः (?) शब्दवदाकाशम् । शब्दस्पर्शगुणो वायुः। वायो रूपगुणं तेजः।
तेजसो रसगुणा आपः । अभ्यो गन्धगुणा पृथिवी । पूर्वानुपूर्व्यात्ते गुणानुत्त-
रानपि प्राप्नुवन्ति यावदिह गुणाः, यावन्तश्चोपगुणाः । सर्वे ते भूतगुणाः पृथिव्यां
लक्ष्यन्ते । तत्समुत्थानि भूतानि स्थावरजङ्गमानि च । एतत्पञ्चगतिवत्सामा-
न्येनान्योन्योपजीविनि सपरिणामानि भूतान्युत्पद्यन्ते ॥
तत्रोद्भिजानि वृक्षगुल्मवल्लीतृणानि चतुर्विधानि स्थावराणि । अत्र भोगार्थे
चतुर्दशौषधयः । तद्यथा—श्यामाकवेणुनीवारतिलमर्कटगवेधुकावरकाश्चेति
सप्त वन्याः । प्रियङ्गुगोधूमयवमाषशालिषष्टिककुलत्थाः सप्त ग्राम्याः ॥
सरीसृपादिकांदिक्चरैश्चराः (?) श्वापदपक्षहस्तिवानराः सप्ताऽऽरण्याः ।
पुरुषाजाविगोश्वागर्दभोष्ट्राः सप्त ग्राम्याः । तेषामेव भूतानां पुरुषः श्रेष्ठः, पशूनां
गजः । तयोरायुक्तर्षः शरीरबलाधानदोषोत्क(र्षापक)र्षेषु प्रयत्नः कर्तव्य
इति । तत्र सात्म्यवयोबलप्रकृतिदेशकालाहारोपसेविनो मनुष्याः, परव-
शानुवर्तिनस्तु नित्यानुबन्धकर्मव्यापामबह्वनिपताहारसेविनो वारणाः । तस्मा-
द्विपानां शरीरबलाधानदोषापकर्षणेषु प्रयत्नः कर्तव्यः । तत्र वक्ष्यते ॥


१ क. मासोनवात्रा० । २ क. ते तु कृ० । ३ क. ०वा । आयद्वौ य० । ख.
०वा आयतद्वौ य० । ४ क. प्रतिबुद्ध्वाऽथ । ५ क. ०णि च भो० । ६ क. ०दिप्कारै-
श्चराः । ७ क. हस्ती ।