सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 426, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 426

छविश्च कतमे मासि त्वग्वंशः प्रविभज्यते ॥
†वृंकौ नखानि रोमाणि यकृदन्त्राणि पुप्फसम् ॥ ५ ॥
हृदयं कतमे मासि गर्भे जायेत दन्तिनः ॥
पोतः कथं संभवति पोतकी जायते कथम् ॥ ६ ॥
पोती पोतोऽथ यमकं मिथुनं जायते कथम् ॥
उभौ वा पोतकौ केन उभे वा पोतिके कथम् ॥ ७ ॥
कथं वन्ध्या च षण्ढश्च कोशमेही च जायते ॥
कथं मृगः संभवति मन्दो वा केन जायते ॥ ८ ॥
भद्रश्चापि कथं नागः संकीर्णश्च कथं भवेत् ॥
मन्दो मृगमनाः केन मृगो मन्दमनाः कथम् ॥ ९ ॥
भवेत्तु जवनः केन जायतेऽल्पबलः कथम् ॥
कथं भीरुः प्रकृत्या च प्रकृत्या शूर एव च ॥ १० ॥
कथं भवति दुर्मेधा मेधावी च कथं भवेत् ॥
मन्दमेधश्च मातङ्गश्चैतदिच्छामि वेदितुम् ॥ ११ ॥
कालः कथं च भवति श्यामो वा केन जायते ॥
हरिद्वर्णो भवेत्केन रूक्षाभः केन वारणः ॥ १२ ॥
स्निग्धच्छविर्वा मातङ्गः कथं स्याल्लोहितच्छविः ॥
स लोहितच्छविः केन वर्णेषु भवति त्रिषु ॥ १३ ॥
गजश्चोलूकवर्णाभः कथं भवति जातितः ॥
केन वर्णेषु भवति त्रिषु चोलूकवर्णभाक् ॥ १४ ॥
बहुवर्णश्च मातङ्गः कथं भवति जातितः ॥
मुद्गवर्णश्च मातङ्गोऽप्युपदिग्धश्च तत्र यः ॥ १५ ॥
श्वेताभो जायते केन एतदिच्छामि वेदितुम् ॥
नखानि केन कालानि राजिमन्त्यपि वा कथम् ॥ १६ ॥
कथं श्यामानि जायन्ते श्वेतान्यपि च हस्तिनः ॥
केनास्य तालुकं कृष्णं केन कल्माषतालुकम् ॥ १७ ॥
केन पद्मपलाशाभं तालु नागस्य जायते ॥
कालजिह्वः कथं नागस्ताम्रजिह्वोऽथवा कथम् ॥ १८ ॥

† 'वृक्कौ' इति भवेत् ॥

१ क. वृक्कौ । २ क. पुप्फसम् ।