सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 428, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 428

८ गर्भावक्रान्त्यध्यायः ] हस्त्यायुर्वेदः । १०९
वामोन्नततः कथं वा स्यात्कथं वा दक्षिणोन्नतः ॥
मूढैकदन्तो मातङ्गो जायते केन हेतुना ॥ ३४ ॥
उत्तमा हस्तिनो ये च प्रादक्षिण्या द्विजोत्तम ॥
तथैव नागा मोल्पार्हाः श्वेतच्छत्रस्य च द्विपाः ॥ ३५ ॥
गजाश्च मधुपर्कार्हा मानार्हाश्चैव हस्तिनः ॥
संभवन्ति यथा विप्र तथा मे वक्तुमर्हसि ॥३६॥
स पृष्टस्त्वङ्गराजेन पालकाप्यस्ततोऽब्रवीत् ॥
अदृश्यमार्तवं विद्धि हस्तिन्या हर्षकारि तत् ॥ ३७ ॥
यानाचरत्यसौ भावांस्तान्मे कीर्तयतः शृणु ॥
प्रहृष्टकर्णलाङ्गूला ध्यानशीला विवार्तिका ॥ ३८ ॥
योनिश्च विवृता शुष्का मन्दं मन्दं च गच्छति ॥
यूथस्यान्ते विचरति पांथुपङ्कजलप्रिया ॥ ३९ ॥
पतितं हस्तिनीनां स्यादन्तरेणाऽऽर्तवं रजः ॥
एतैराकारसंस्थानैर्ज्ञेया ऋतुमती भवेत् ॥ ४० ॥
—:(०):—
अतः परं प्रवक्ष्यामि ऋतुमत्याश्च लक्षणम् ॥
प्रसन्नमुखवर्णा च योन्याश्च विवृतं मुखम् ॥ ४१ ॥
पुनः पुनः प्रस्रवति प्रहृष्यति पुनः पुनः ॥
समीपस्था न सहते हस्तिनश्चान्यहस्तिनीम् ॥ ४२ ॥
किञ्चिदुत्पुच्छकर्णी च योन्या प्रक्लिन्नपीनया ॥
समुत्थितकरग्रीवा विनता विकटस्थिता ॥४३ ॥
यतो गजश्च व्रजति ततोऽस्याग्रेऽवतिष्ठते ॥
हस्तिना च कृतं मूत्रं पुरीषं चापि हस्तिनी ॥ ४४ ॥
पुनः पुनः समाघ्राय हस्तमास्यं नयत्यसौ ॥
संगृह्याग्रवालेन मुहुराहन्ति तं द्विपम् ॥ ४५ ॥
रागान्मुहुः परिक्रम्य प्लवते वारणं वशा ॥
गुह्यदेशं समाघ्राय हस्तमास्यं नयत्यसौ ॥ ४६ ॥
इमांश्च कुरुते भूयो भावान्हर्षकरान्गजे ॥
यदा देशे मनोज्ञे तु पुरस्तिष्ठति वारणः ॥ ४७॥
१ क. ॰तः ॥ मोटैक॰ । २ क. मल्पार्हाः । ३ क. ॰र्हास्तथा ये नाम ह॰ ।
४ क. तद्वि ।
५२