हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 414, कुल 742 में से
संदर्भ में पढ़ें१ द्वादशोपक्रमाध्यायः ] हस्त्यायुर्वेदः । ३९५
लोऽपि विविधान्धातुनुपद्रवानुत्पादयति-अपस्मारोत्कर्णकश्वासारोचकश्वयथून-
तिपिपासिनं शूनगात्रोदरमेदूमतिकृशं शोणितच्छर्दिनमल्पमूत्रपुरीषमल्पानुपानं
सर्वावस्थान्तरगतं विपन्नबलेन्द्रियमुपगतसंज्ञं वा म्रियते, इति ॥
तत्र श्लोकः-
चतुर्विधं तु यो व्याधिं तत्त्वतो लक्षयेद्भिषक् ।
स शक्नोति क्रियां कर्तुं नागानां भिषगुत्तमः ॥
शरीरमपि नागानां क्रियापथेषु परीक्ष्यम् ।
तत्रोत्सेधायामपरिणाहसंस्थानैतः स्थूलकृशावनतप्रदेशा ऋजुवक्रश्लक्ष्णब-
हुलकर्कशादयो गजानां बाह्याभ्यन्तराः शरीरप्रविभागा भवन्ति ॥
तत्राऽऽभ्यन्तराः- सप्त त्वचः । सप्त पेशीशतानि । सप्तैव शिराशतानि ।
पञ्च स्नायुसहस्राणि । पञ्चैव शतान्त्यशीतिः स्नायुकूर्चाः । पञ्चविंशतिर्धमन्यः ।
षण्णवति(ती) रोमकूपसहस्राणि, असंख्येयानीत्यपरे । विंशोत्तराणि त्रीण्यस्थिश-
तानि । तेषामस्थ्नामाकृतिविशेषाः षडुद्दिष्टाः कपालखजकप्रतरनलकवलयफल-
कारुख्याः । थुषिरमृदुस्थिरमूर्द्धानि थुषिरात्मविशेषाः ।
अथ शरीरावयवानां सर्व्विशशतानि । संधौनां त्रीणि षट्षष्ट्यानि । तेषा-
मष्टौ संध्याकृतयो भवन्ति । तद्यथा - प्रतरकोशमण्डलसामुद्रोलूखलवायसतुण्ड-
शङ्खावर्ततूणसीवनवदिति । एते संधयो येषु शरीरावयवेषु भवन्ति, ताननु-
व्याख्यास्यामः । तत्र कूर्मपलिपादसंदानभागप्रोहापस्करेषु कोशसंधयः । अंस-
फलकबाहुसकुदिकाग्रन्थ्यष्ठीवन्मण्डूकशङ्कचक्रसक्थ्यवकृष्ट इत्येवमादिषु सामु-
द्रसंधयः । पृष्ठवंशकृकटिकास्तेनकूर्भपर्यन्तशिरोमस्तावग्रहनिर्याणकर्णविद्रधि-
वितानश्रवणेषीकाकुम्भान्तरकुम्भकटगण्डेषु (*तूणसीवनवत् । शङ्खहनुकपोल-
सगदामृक्षण्योष्ठ इत्येतेषूभयतो वायसतुण्डसंधयः । ) कटाक्षिकूटमस्तावापाङ्गव-
त्मर्नेत्रक्लोमहृदयनाभिषु मण्डलसंधयः । वाहित्यप्रतिमानशम्बूकदन्तवेष्टस्थानेषु
शङ्खावर्तसंधयः । *श्रोतःशृङ्गाटकेष्वित्येते संधयो व्याख्याताः ॥
अथ मर्मणां सप्नोत्तरं शतम् । पञ्चदश श्रो(स्रो)तांसि । षट्त्वारिंशदधि-
कानि चत्वारि प्रदेशशतानि । संध्यस्थिभागाश्रिताः षोडश कण्डुराः ।
इत्युद्देशः ॥
*धनुराकारमध्यस्थः पाठो भ्रष्टः कपुस्तके । *'शृङ्गाटकेषु' इत्युत्तरं किंचित्रु-
टितं भवेत् ।
१ क. ०नतो मूल० । २ क. ०पशतस० । ३ क. ०कोडाम० । ४ क. ०ष्टूय्वल० ।
५ ख. ०स्तनाकू० ।