सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 427, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 427

४०८ पालकाप्यमुनिविरचितो- [ ३ शल्यस्थाने-
कथं कल्माषजिह्वो वा गजो भवति जातितः ॥
पिङ्गलः केन भवति मध्वक्षः केन जायते ॥ १९ ॥
हर्यक्षः केन नागः स्यात्काकाक्षः केन जायते ॥
अक्षिणी केन शुक्ले तु कालतारे पुनः कथम् ॥ २० ॥
गजः पारापताक्षो वा कथं भवति जातितः ॥
विकृताक्षो विरूपाक्षो जातान्धो वाऽपि वारणः ॥ २१ ॥
केन जायते वै नागः कालः पिङ्गुललोचनः ॥
केन मुखाच्च हस्ताच्च स्वेदो भवति दन्तिनः ॥ २२ ॥
कस्मिन्देशे च वृषणावहृष्यौ केन वा पुनः ॥
म्लानशीर्षो म्लानमुखो विकटो बधिरस्तथा ॥ २३ ॥
ह्रस्ववालश्च मातङ्गो दीर्घवालः कथं भवेत् ॥
विषमाभ्यां च कर्णाभ्यां पुटकर्णश्च वारणः ॥ २४ ॥
नष्टकर्णश्च मातङ्गः कथं भवति जातितः ॥ २५ ॥
कुष्ठी किलासी विततः काणो हीनोऽथवा पुनः ॥
कुब्जः किलासमेढ्रश्च कथं भवति वारणः ॥ २६ ॥
अतिश्वेताश्च ये दन्ता ये च दन्ताः सुलोहिताः ॥
यथा भवन्ति तद्ब्रूहि मधुवर्णाश्च दन्तिनः ॥ २७ ॥
म्लानवक्त्रः कथं नागो ग्रन्थिदन्तस्तथैव च ॥
मुक्ता विषाणेषु कथं नागानां संभवन्ति च ॥ २८ ॥
म्लानगात्रो भवेत्केन स्तब्धगात्रस्तथैव च ॥
मृदुगात्रश्च मातङ्गः कथं भवति जातितः ॥ २९ ॥
सममूर्धा भवेत्केन तथा प्राप्तविदुर्गरः ॥
उदङ्गमूर्धा स च कथं गजो भवति जातितः ॥ ३० ॥
मदं गृह्णाति मातङ्गः केन प्रथमयौवने ॥
अमदो वा भवेत्केन यावदायुर्मतङ्गजः ॥ ३१ ॥
मूढः कथं संभवति समदन्तश्च वारणः ॥
मत्कुणश्चैकदन्तश्च कथं स्यातां मतङ्गजौ ॥ ३२ ॥
करेणुः केन भवति त्रिविषाणः कथं भवेत् ॥
गजश्चतुर्विषाणो वा कथं भवति जातितः ॥ ३३ ॥
१ क. मुख्याच्च । २ क. गच्छति । ३ क. मोटः ।