सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 411, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 411

३९२ पालकाप्यमुनिविरचितो— [ ३ शल्यस्थाने—
आयुरपि क्रियापथेषु परीक्ष्यम् । तत्राऽऽयुर्नामासन्नसंधिबन्धनो रोमशायत-
च्छविर्दीर्घरमेशाष्टो महाविदुः परिपूर्णाण्डकोशो महाकुम्भो महाश्रवणो मृदु-
दीर्घकुक्षिश्चतस्रिग्धकेशो युग्मजैकरोमा पृथ्वायतमुखो महाग्रीवो धनुष्परिणत-
वंशः सुनिष्क्रान्तविषाणो दीर्घाङ्गुलिकरो व्यूढोरस्को मृदुदीर्घवालोऽवरूद्धजघ-
नापर ऋजुवृत्तगात्रः सुविभक्तशिराः सूक्ष्मबिन्दुभिर्विभक्तावग्रहो व्यूहविस्तृन्तरम-
स्तको महाश्रोताः सुगन्धिः सुचारुनेत्रः सस्वनो महामेण्ढ्रः सूपचितौंसो नित्य-
मास्फोटनादिकर्णः स्निग्धस्फटिकार्धचन्द्रपरिपूर्णविंशतिनखः सुगतिः पुर-
स्तादुदग्र इत्येतान्यायुष्मतो लक्षणानि व्याख्यातानि ॥
तत्र श्लोकाः—
सहस्रेष्वपि नागानां कश्चिदेतैः समन्वितः ।
समस्तलिङ्गो न गजो भवतीति विनिश्चयः ॥
त्रीणि षट् सप्त पञ्चाष्टौ लिङ्गान्येतानि यस्य तु ।
आयुः स लभते दीर्घमिति मे निश्चिता मतिः ॥
त्रीणि यस्य तु लिङ्गानि दृश्यन्ते मनुजाधिप ।
तृतीयां वा चतुर्थीं वा दशां संप्राप्य नश्यति ।
पञ्च यस्य तु लिङ्गानि दृश्यन्ते नयकोविद ॥
स दशा