हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)
Hastyayurveda Gajashastra of Palakapya Muni with Commentary
पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा
पृष्ठ 415, कुल 742 में से
संदर्भ में पढ़ें.३९६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
तत्र श्लोकः—
शरीरमेवं विज्ञाय प्रदेशैर्बहुभिर्वृतम् ।
शस्त्रकर्म प्रयुञ्जानो नाऽऽबाधां प्राप्नुयाद्भिषक् ॥
काल ज्ञात रूपतः । यस्मात्स्नेहनस्वेदनावनासननस्तककर्मपीडनप्रधमनधूप-
नाभ्यङ्गपरिषेकावगाहतर्पणामिश्रक्षारककर्मभक्ष्यभोज्यपेयलेह्याद्याः क्रियाः प्रयु-
ज्यन्ते । वातादीनामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु धातुवृद्धीर्णा
भवन्ति, अप्रकृतिस्थेषु विषमाः । तस्मात्कालं परीक्ष्य क्रियां प्रयुञ्जीतेति । तदे-
तच्छरीरं पुनर्द्विधाऽवतिष्ठते कल्पम्, अकल्पं च । तत्र कल्पशरीरं समदोषधातुः ।
प्रशमनैरिन्द्रियैरिन्द्रियार्थान्द्य(न)वबुध्यते । समाग्निरुत्थानोपवेशनप्रचारादिषु
न दीनचेष्टः, मुखोच्छ्वासनिमेषणोन्मेषानिलमूत्रपुरीषोत्सर्गादिप्रचारेषु प्रकृतिस्थः
कल्पशरीरो भवति । विपरीतमकल्पशरीरं विद्यात् । काल इति व्याध्यातुरयो-
रप्यवस्था यस्मात्स्नेहनस्वेदनोत्थापनानुवासननस्यपीडनधूपनप्रधमनाभ्यङ्गपरि-
षेकावगाहतर्पणामिश्रक्षारककर्मभक्ष्यभोज्यपेयलेह्याद्याः क्रियाः प्रयुज्यन्ते वाता-
दीनामुपद्रवाणां प्रशमनार्थम् । तेषु प्रकृतिस्थेषु समाः । तस्मात्कालं परीक्ष्य
क्रियापथं प्रयुञ्जीत ॥
स च हेमन्तशिशिरवसन्तग्रीष्मप्रावृट्शरदाख्याः षडृतवः कालः । स एव
पुनर्त्रिधा विभज्यते शीतोष्णसाधारणलक्षणः ॥
तत्र हेमन्ते शिशिरे च समत्वागतवीर्या भवन्त्योषधयः । प्रायसो(शो)
मधुरा मधुरविपाकाः समत्वागतवीर्यत्वात् । तेन तदा पित्तस्य वायोस्तनुत्वम-
भिनिर्वर्तते । श्लेष्मणः प्रबलता भवति ।
दिवास्वप्नाजीर्णादिभिश्च वसन्ते श्लेष्मा प्रकोपमापद्यते संनिरुद्धमार्गप्रचारः ॥
ग्रीष्मे त्वौषधयो दिवसकरकराभिहतशरीरा निःस्रुतवीर्या भवन्ति । तदा
वायुः प्रबलीभवति । श्लेष्मणः क्षयः ॥
प्रावृषि शीतवातोष्माभिहतशरीराणां मातरिश्वा भूयो भूयः प्रकोपमुपग-
च्छति । वर्षास्वौषधयो भवन्त्यसमत्वागतवीर्याः, न ग्रीष्मगुणयुक्ताः, न शिशिर-
गुणोपगताः । ततोऽस्मिन्नृतौ विशेषेण पित्तमुपचीयते, श्लेष्मणश्च क्षयो भवति ॥
भूयश्च शरदि दिवसकरकराभिहतानां पित्तप्रबलता भवत्यजीर्णादिभिरुपा-
र्जितैः । असमागतवीर्यत्वा४द्रवत्यम्लभूयिष्ठत्वमौषधीनाम् । ततः पित्तबाहुल्या-
द्वातश्लेष्मणोः क्षयो भवति ॥
१ ख. व्याख्यातः । २ क. ॰वतन्त्यो॰ । ३ क. वायुर्बली॰ । ४ क.
॰त्वाद्यात्य॰ ।