द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
६२ द्रव्यगुणः ।
रोचिष्णु शस्तमरुचौ शीतके विषमज्वरे ॥
पीनसे मूत्रकृच्छ्रे च रूक्षन्तु ग्रहणीगदे ॥ १६ ॥
गव्यं दधि च मङ्गल्यं वातघ्नं शुचि रोचकम् ।
स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ॥१७॥
दध्याजं कफपित्तघ्नं लघु वातक्षयापहम् ।
दुर्नामश्वासकासेषु हितमग्नेश्च दीपनम् ॥
विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम् ।
बलाश्ववर्द्धनं स्निग्धं विशेषाद्दधि माहिषम् ॥१८॥
त्वात् सुजातकालात्यये चात्यम्लत्वात् अत्राम्लत्वोष्णत्वस्निग्ध-
त्वाल्लभ्यमानमपि वातनाशनत्वं यत् पुनरुच्यते तत् प्रकर्षार्थम् ।
तथाम्लत्वादियुक्तस्यापि वातहन्तृत्वादिव्यभिचारदर्शनाच्चेति
ज्ञेयम् । व्यभिचारोदाहरणानि मन्दकामन्दजातमद्यादीन्यनु-
सर्त्तव्यानि । न्यायश्चायमेवंजातीये सर्वत्रैव बोध्यः । अरुचौ
शस्तमित्युक्तापि रोचिष्णु इति वचनम् अरोचकहरस्यापि
तिक्तरसस्य रोचिष्णुत्वं व्यभिचारदर्शनाज्ज्ञेयम् । शीतक इति
विषमज्वरविशेषणम् । पीनस इति चतुर्विधपीनसे प्रभावात्
हितम् । किंवा पीनसपाचकत्वात् सर्वत्र हितम् । अन्ये तु
पीनसे शस्तमिति यद्यपि सामान्यत एवोक्तम् तथापि योग्यतया
वातिकपीनसे एव शस्तमित्याहुः । रूक्षमुद्धृतसारं पुनर्ग्रहणी-
गदे हितमिति योज्यम् ॥ १६ ॥
सामान्यगुणमभिधाय विशेषगुणमाह गव्यमिति । मङ्ग-
ल्यत्वमिह प्रभावात् ॥ १७ ॥
अत्र विशेषादिति पदं स्निग्धमित्यनेन बलाश्र्ववर्द्धनमित्य-
नेन च सम्बध्यते ॥ १८ ॥
द्रव्यगुणाः। ६३
कोपनं कफवातानां दुर्नाम्नाञ्चाविकं दधि ॥ १८॥
दीपनीयमचक्षुष्यं वातलं वाडवं दधि ।
रूक्षमुष्णं कषायञ्च कफमूत्रापहञ्च तत् ॥ २० ॥
स्निग्धं विपाके मधुरं वल्यं सन्तर्पणं गुरु ।
चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् ॥ २१ ॥
लघु पाके वलाशघ्नं वीर्य्योष्णं पक्तिनाशनम् ।
कषायानुरसं नाग्या दधि वर्च्चोविबन्धनम् ॥२२॥
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ।
विज्ञेयमेव सर्वेषु गव्यमेव गुणोत्तरम् ॥ २३ ॥
वातघ्नं कफकृत् स्निग्धं वृंहणं नातिपित्तकृत् ।
कुर्य्याद्भक्ताभिलाषञ्च दधि यत् सुपरिस्रुतम् ॥२४॥
शृतक्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ।
कफवातानां दुर्नाम्नाञ्च कोपनमित्यन्वयः । कफवाताभ्या-
मिति पाठे सम्भूतानामिति शेषः । तेन कफवाताभ्यां सम्भू-
तानां दुर्नाम्नां कोपनमित्यर्थः ॥ १८ ॥
अचक्षुष्यत्वमिह प्रभावादिति चन्द्रिका । कफमूत्रापहत्वं
च रूक्षोष्णत्वात् ॥ २० ॥
चक्षुष्यमग्र्यमिति श्रेष्ठं चक्षुष्यमित्यर्थः । चक्षुर्हितत्वमस्य
प्रभावात् । गुणोत्तरमिति गुणैः प्रधानम् ॥ २१ ॥
सर्वेषु दधिषु गव्यस्य प्राधान्यमाह दधीनीति ॥ २३ ॥
इदानीं तस्यैव दध्नोऽवस्थान्तरेषु गुणोत्तरं दर्शयन्नाह
वातघ्नमिति । सुपरिस्रुतं सुष्ठु गलितद्रवभागम् ॥ २४ ॥
९४ द्रव्यवर्गः।
वातपित्तहरं रुच्यं धात्वग्निबलवर्धनम् ॥ २५ ॥
दधि त्वसारं रूक्षञ्च ग्राहि विष्टम्भि वातलम् ।
दीपनीयं लघुतरं सकषायं रुचिप्रदम् ॥ २६ ॥
दध्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ।
वह्नेर्विधमनश्चापि कफशुक्रविवर्द्धनः ॥ २७ ॥
तक्रं लघु कषायाम्लं दीपनं कफवातजित् ।
शोथोदरार्शो ग्रहणीदोषमूत्रग्रहारुचि ।
प्लीहगुल्मघृतव्यापद्गरपाण्ड्वामयान् जयेत् ॥ २८ ॥
मस्तु तद्वत् सरं श्रोतःशोधि विष्टम्भजिल्लघु ॥ २६ ॥
ससरं निर्जलं घोलं तक्रं पादजलान्वितम् ।
कथितक्षीरस्य दध्नो गुणमाह शृतक्षीरादिति ॥ २५ ॥
उद्धृतस्नेहस्य दुग्धस्य दध्नो गुणमाह दधीति । असारमुद्धृत-
स्नेहम् ॥ २६ ॥
दधिसरगुणमाह दध्न इति । वह्नेर्विधमनो वह्निमान्द्यकरः ।
सरो दध्न उपरितनो भागः । वृष्यः शुक्रविवर्द्धन इति पदद्वयो-
पादानं श्रुतिवृद्धिकरभेदेन वृष्यद्वयपरिग्रहार्थम् ॥ २७ ॥
तक्रगुणमाह तक्रमिति ॥ २८ ॥
अतिदेशेन मस्तुगुणमाह मस्त्विति । तद्वदिति गुणैस्तक्र-
वत् ॥ २९ ॥
दध्नः संस्कारविशेषेण नामविशेषानभिधाय गुणविशेषानाह
ससरमिति । चरकादिभिस्तक्रं विहाय एते त्रयो भेदाः कण्ठ-
रवेण नोक्ता यतो घोलस्य दध्न एवान्तर्भावः । यतः ससरं
निर्जलं दधि मथितं सत् दध्नो नातिरिच्यते । मन्थनसंस्कारेण
द्रव्यगुणः । [८५]
अर्द्धोदकमुदश्वित् स्यान्मथितं सरवर्जितम् ॥३०॥
घोलं पित्तानिलहरं तक्रं दोषत्रयापहम् ।
उदश्वित् श्लेष्मलञ्चैव मथितं कफपित्तनुत् ॥ ३१ ॥
वातेऽम्लं सैन्धवोपेतं पित्ते स्वादु सशर्करम् ।
पिबेत्तक्रं कफे चापि व्योषक्षारसमायुतम् ॥ ३२ ॥
नैव तक्रं क्षते दद्यात् नोष्णकाले न दुर्बले ।
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तके ॥ ३३ ॥
परं तत्र लाघवं जनितम् । उदश्विन्मथितयोस्तक्र एवान्त-
र्भावः । अतएवोक्तं तन्त्रान्तरे ।
मन्थनादिपृथग्भूतस्नेहमर्द्धोदकञ्च यत् ।
नातिसान्द्रद्रवं तक्रं स्वाद्वम्लन्तुवरं सरम् ॥
अजलं स्नेहहीनं यत् तत्तक्रं कफनाशनम् ।
इति । चरके तु विविधं तक्रमुक्तम् ।
रूक्षमर्द्धोद्धृतं स्नेहं यत्तथानुद्धृतं घृतम् ।
तक्रं दोषाग्निवलवित्त्रिविधं सम्प्रयोजयेदिति ॥ ३० ॥
इदानीमस्यैव भेदचतुष्टयस्य गुणमाह घोलमिति । यद्यपि
पूर्वं तक्रस्य वातकफहरत्वमेवोक्तं तथापि मधुरत्वेन मधुरपाकि-
त्वेन च पित्ताजनकत्वात् द्रव्यान्तरसंयोगाद्वा पित्तशमनमपीति
मत्वा दोषत्रयापहत्वमप्योक्तम् । सुश्रुते तु मधुरस्य तक्रस्य
पित्तहरत्वं साक्षादेवोक्तम् । तत् पुनर्मधुरं श्लेष्मप्रकोपणं
पित्तशमनञ्चेति ॥ ३१ ॥
यत्र यादृशं तक्रं युक्तं तदाह वात इति ॥ ३२ ॥
तक्रस्याविषयं तक्रविषयञ्च श्लोकाभ्यामाह नेति । उष्ण-
काले शरदि ग्रीष्मे च ॥ ३३ ॥
६६ द्रव्यगुणः ।
ग्राहिणी वातला रूक्षा विज्ञेया तक्रकूर्चिका ॥३४
तक्रान्लघुतरो मण्डः कूर्चिकादधितक्रजः ॥३५॥
किलाटोऽनिलहा वृष्यः कफनिद्राकरो गुरुः ॥३६
मधुरो बृंहणस्तद्वत् पीयूषोऽपि स मोरटः ॥३७॥
तक्रस्य हेत्वन्तरग्रथितस्य घनो भागस्तक्रकूर्चिकेत्युच्यते
तद्गुणमाह ग्राहिणीति ॥ ३४ ॥
तक्रकूर्चिकादधिकूर्चिकाभ्यां जातस्य मस्तुनेो गुणविशेषमाह
तक्रादिति । मण्ड इति मस्तु तस्य विशेषणं कूर्चिकादधि-
तक्रज इति कूर्चिकाभूतं यद्दधि कूर्चिकाभूतञ्च यत्तक्रं ताभ्यां
जातो मण्डस्तक्रान्लघुतर इत्यर्थः । दधिकूर्चिकालक्षणं यथा ॥
दध्ना सह पयः पक्वं सा भवेद्दधिकूर्चिका ॥
ये तु दधिकूर्ची च तक्रवदिति पठन्ति तन्मते दधि-
कूर्चिका तक्रवदिति तक्रकूर्चिकासमानगुणा अन्ये दधिकूर्चिका
तक्रज इति पठन्ति व्याचक्षते च ॥ प्रकृतदधिजस्तथा कूर्च्चि-
काभूतदधिजः तथा कूर्चिकाभूततक्रजश्च मण्ड इति मस्तुत्रय-
स्यायं गुणनिर्देश इति ॥ ३५ ॥
कूर्चिकाप्रस्तावात् क्षीरकूर्चिकागुणमाह किलाट इति ।
नष्टक्षीरपिण्डं यमाहुर्लोकाः क्षीरसा इति ॥ ३६ ॥
पीयूषमोरटयोर्गुणमाह मधुर इति । तद्वदिति किलाट-
तुल्यः । पीयूषमोरटयोर्लक्षणं यथा
क्षीरं सद्यः प्रसूतायाः पीयूषमिति संज्ञितम् ।
सप्तरात्रात् परं क्षीरमप्रसन्नञ्च मोरटम् ॥
इति । जेज्जड़स्तु मोरटस्थाने मोरगं पठन्ति व्याचष्टे च ।
मोरगो नष्टक्षीरद्रवभाग इति ॥ ३७ ॥
द्रव्यगुणः । ६७
नवनीतं नवं वृष्यं शीतं वर्ण्यबलाग्निकृत् ।
संग्राहि वातपित्तासृक्क्षयार्शोऽर्दितकासजित् ३८
क्षीरोद्भवन्तु संग्राहि रक्तपित्ताक्षिरोगनुत् ॥३९॥
विकल्प एष दध्यादिः श्रेष्ठो गव्योऽभिवर्णितः ।
विकल्पानवशिष्टांस्तु क्षीरवीर्य्यं समादिशेत् ॥४०॥
तक्रनिष्पत्त्यनन्तरं नवनीतमुत्पद्यत इति तक्रानन्तरं नव-
नीतगुणानाह नवनीतमिति । नवमिति सद्यस्कम् । एतेनाभि-
नवस्यैवैते गुणाः प्रकर्षवन्तो भवन्तीति दर्शयति ॥ ३८ ॥
क्षीरमथनोत्थितस्य नवनीतस्य गुणमाह क्षीरोद्भवमिति ॥३९॥
ननु क्षीरं दधि च गव्यादीनां प्रतिप्रतिगुणत उक्तम् ।
मस्तु तक्रादयस्तु सामान्येनोक्ताः तत् किं गव्यमस्त्वादय एते
गुणतो वाच्या न वेत्याशङ्कायामाह विकल्प इति । विकल्पो भेदः
प्रकार इति यावत् । दध्यादिरिति । अतद्गुणसंविज्ञान बहु-
व्रीहिः । तेन मस्तुतक्रादिरूप इत्यर्थः । श्रेष्ठ इति हेतुगर्भ-
विशेषणम् । तेन श्रेष्ठत्वाद्गव्य एवोक्तः । न पुनराजावीप्रभृ-
तीनामित्यर्थः । अभिवर्णितः कथितः । यद्येवं छागादिमस्त्वा-
दीनां गुणाः कथं ज्ञातव्या इत्याह विकल्पानित्यादि । वीर्य्य-
शब्दोऽत्र गुणवचनः । तेन पञ्चमौ ल्यप्लोपे । तेन छागादि-
क्षीराणां ये गुणा उक्तास्तान् सुवीक्ष्य तन्मस्तुतक्रादावपि तत्स-
दृशान् गुणान् वदेदित्यर्थः । केचिदिमं श्लोकमनार्षमिति
वदन्ति । तन्न सम्यक् । यतोऽपठ्यमानेऽस्मिन् श्लोके अजा-
दितक्रादिगुणानुक्ते न्यूनता स्यात् । न वा तक्रादिविकल्पस्य
सामान्यगुणोक्तिरिति वक्तुं युज्यते । मुख्यतस्परस्परगुणभेदादजा-
दितक्राणाम् । अतएवोक्तं वाग्भटेन ।
९
६८ द्रव्यगुणः।
घृतं बुद्ध्यग्निशुक्रौजोज्ञेदःस्मृतिकफावहम् ।
वातपित्तविषोन्मादशोषालक्ष्मीजरापहम् ।
स्नेहोत्तमं योगवाहि सर्वथा मधुरं हिमम् ॥४१॥
गव्यं घृतं घृतश्रेष्ठं चक्षुष्यं बलवर्धनम् ।
विपाके मधुरं श्रेष्ठं वातपित्तविषापहम् ॥४२॥
माहिषन्तु घृतं स्वादु पित्तास्रानिलनुद्धिमम् ॥४३॥
छागं घृतन्तु चक्षुष्यं लघ्वग्निबलवर्धनम् ॥ ४४ ॥
आविकादीनि सर्पींषि बुद्ध्वा स्वक्षीरवद्वदेत् ॥४५॥
सर्पिः पुराणं तिमलप्रतिश्यातिमिरपहम् ।
विद्याद्दधिघृतादीनां गुणदोषान् यथा पय इति ॥ ४० ॥
नवनीतसम्भवात् घृतस्य नवनीतानन्तरं घृतगुणमाह घृत-
मिति । कफावहमिति कफकरम् । यत्तु त्रिदोषापकर्षणमिति
सुश्रुतेनोक्तम् तत् संस्कारेण कफहरत्वादिति ज्ञेयम् । अत-
एव चरकेऽपि संस्कारात्तु जयेत् कफमित्युक्तम् । योगवाहीति
यैर्यैर्द्रव्यैः संस्क्रियते तेषां तेषामेव गुणानावहतीत्यर्थः । सर्वथा
मधुरमिति रसे पाके च मधुरमित्यर्थः । तथा सर्वथा हिमं
निपातेऽधिवासे च शीतमित्यर्थः । न तु काञ्जिकादिवत् निष्पा-
तमात्रे शीतमित्यर्थः ॥ ४१ ॥
इदानीं विशिष्टघृतगुणमाह गव्यमिति । अत्र सामान्य-
गुणाभिहितमधुरत्वादेः पुनरभिधानमुत्कर्षार्थम् । अत्र द्वितीयं
श्रेष्ठमिति पदं चक्षुष्यमित्यादिषु सर्वत्रैव योज्यम् । श्रेष्ठमित्य-
तिशयेन चक्षुष्यमतिशयेन बलवर्धनमित्यादि ॥ ४२ ॥
अनुक्तसर्पिर्गुणमतिदेशेनाह आविकादीनीति ॥ ४५ ॥
द्रव्यगुणः । ६८
मूर्च्छाकुष्ठविषोन्मादग्रहापस्मारनाशनम् ॥४६॥
क्षीरघृतन्तु संग्राहि तर्पणं नेत्ररोगनुत् ॥ ४७ ॥
सर्पिर्मण्डः सरः स्वादुर्योनिश्रोत्रशिरोऽक्षिजान् ।
गदान् जयति शोथघ्नो रूक्षस्तीक्ष्णस्तनुश्च सः ॥४८॥
इति क्षीरवर्गः ।
तैलं संयोगसंस्कारात् सर्वरोगहरं स्मृतम् ।
कषायानुरसं स्वादु सूक्ष्ममुष्णं व्यवायि च ॥
पुराणसर्पिर्गुणमाह सर्पिरिति । प्रतिश्यायशब्दः प्रतिश्याय-
वचनः । पुराणघृतलक्षणं यथा
उग्रगन्धं पुराणं स्याद् दशवर्षस्थितं घृतम् ।
लाक्षारसन्निभं शीतं प्रपुराणमतः परम् ॥
यथा यथा हि जीर्णत्वप्रकर्षस्तथा तथा गुणोत्कर्षः । उक्तं
हि हारीते ।
यथा यथा जरां याति गुणवत् स्यात्तथा तथा ॥ ४६ ॥
क्षीरोत्थितघृतगुणमाह क्षीरघृतमिति ॥ ४७ ॥
सर्पिर्मण्डगुणमाह सर्पिर्मण्ड इति । सर्पिषस्तप्तस्य स्त्यानो-
भवदुपरीतनो भागः सर्पिर्मण्डः ॥ ४८ ॥
इति क्षीरवर्गः ।
जङ्गमस्नेहोत्तमं घृतमभिधाय स्थावरस्नेहोत्तमं तैलमाह
तैलमिति । तैलमिति तिलोद्भवम् । संयोगसंस्कारादिति संयो-
गात् संस्काराच्चेत्यर्थः । संस्कारस्तैलस्य भेषजैः पाकः । संयोग-
१०० द्रव्यगुणः ।
पित्तलं बद्धविण्मूत्रं न च श्लेष्माभिवर्द्धनम् ।
वातघ्नमुत्तमं बल्यं त्वच्यं मेधाग्निवर्द्धनम् ॥ १ ॥
सार्षपं कटु तीक्ष्णोष्णं कफशुक्रानिलापहम् ।
लघु पित्तास्रकृत् कोठकुष्ठार्शोव्रणजन्तुजित् ॥२॥
सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते ।
तद्वस्तिषु च पानेषु नस्ये कर्णाक्षिपूरणे ॥
अन्नपानविधौ चापि प्रयोज्यं वातशान्तये ॥ ३ ॥
तैलमेरण्डजं तिक्तं कटु स्वादुरसं गुरु ।
ब्रध्नगुल्मानिलकफानुदरान् विषमज्वरम् ॥
रुक्शोफौ च कटौगुह्यकोष्ठपृष्ठाश्रयौ जयेत् ।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्वति ॥५॥
उमाकुसुम्भजं तूष्णं त्वग्दोषकफपित्तकृत् ॥ ६ ॥
करञ्जनिम्बतैलन्तु नात्युष्णं कफपित्तजित् ।
तिक्तं क्रिमिहरं तैलं शेषं योनिवदादिशेत् ॥७॥
स्ववचारणायां ज्ञेयः। सूक्ष्ममिति सूक्ष्मस्रोतोऽनुसारित्वात् ।
व्यवायीति अपक्वमेव सकलदेहव्यापकात् । त्वच्यमित्यभ्यङ्गात् ।
यत्तु वाग्भटे त्वग्दोषकरत्वमुक्तं तैलस्य तल्लक्षणाभिप्रायेणेति
न विरोधः । अन्ये तु तत्रापि त्वग्दोषहृदिति पठन्ति । तन्तु
न टीकाकृद्भिर्व्याख्यातम् ॥ १ ॥
अन्नपानविधौ अन्नपानसंस्कारे ॥ ३ ॥
उमा अतसी ॥ ६ ॥
[द्रव्यगुणः। १०१]
सर्वेभ्यस्त्विह तैलेभ्यस्तिलतैलं विशिष्यते।
निष्पत्तेस्तद्गुणत्वाच्च तैलत्वमितरेष्वपि ॥ ८ ॥
तिक्तमित्यन्तः करञ्जनिम्बयोस्तैलगुणः। तैलमित्यादिना तु
अनुक्ततैलगुण उक्तः॥ ७ ॥
स्थावरस्नेहेषु तिलतैलप्राधान्यमाह सर्वेभ्य इति ॥ ८ ॥
ननु तैलपदे तैलत्वं प्रवृत्तिनिमित्तम्। तच्च न तावत्तिलो-
द्भवत्वम्। सर्षपतैलादावव्याप्तेः। नापि बीजप्रभवत्वं तद्गतरूपा-
दावतिव्याप्तिः। नापि बीजप्रभवस्नेहत्वं सारतैलादावव्याप्तेः।
अपि च बीजप्रभवस्नेहत्वं न तावत् स्नेहरूपगुणवृत्तिः। तैलं
गन्धवदिति प्रत्ययस्य सर्वजनसाधारणस्य भ्रान्तित्वापत्तेः। नापि
स्नेहाश्रयद्रव्यवृत्तिः। बीजद्रवमात्रस्यैव तैलत्वापत्तिरिति अनुप-
पत्तिं हृदि निधाय सर्षपादिस्रेहेष्वपि तैलशब्दं व्युत्पादयन्नाह
निष्पत्तेरिति। तिले यथा तैलं निष्पद्यते चूर्णीकरणयन्त्र-
पातनादिना तथा सर्षपादावपि स्नेहाकर्षणात्। भवति च
समाननिष्पत्तिकतया तच्छब्दता यथा वितुषे धान्ये तण्डुलशब्दो
वृत्ततः स वितुषे विडङ्गेऽपि वर्त्तते। यथा विडङ्गतण्डुला इति।
तद्गुणत्वेन तच्छब्दता यथा गोर्वाहिक इति। तद्गुणत्वञ्च सुश्रु-
तेनोक्तम् यथा
यावन्तः स्थावराः स्नेहाः समासात् परिकीर्त्तिताः।
सर्वे तैलगुणा ज्ञेयाः सर्वे चानिलनाशनाः ॥
एतेन तिलस्य विकारस्तैलमिति योगे बाधकाभावात्।
तिलप्रभवस्नेह एव तैलपदप्रयोगात् स्नेहत्वेऽपि शक्तेस्तैलपदं
योगरूढम्। सार्षपादौ तु तैलपदप्रयोगो भाक्त इति भावः।
अन्ये तु गन्धरसविशेषाभिव्यङ्ग्यं तैलत्वं जातिः। अतएव घृत-
१०२ द्रव्यगुणः ।
वसा मज्जा च वातघ्नौ वलपित्तकफप्रदौ ।
मांसानुरूपगन्धौ च विद्यान्मेदोऽपि ताविव ॥६॥
इति तैलवर्गः ।
इक्षोरसो हिमो वृष्यस्तर्पणो जीवनः सरः ।
वातासृक्पित्तजित् स्वादुः स्निग्धः प्रीणनवृंहणः ।
रसो दन्तकृतः श्लेष्मकारणं न विदाहवान् ॥ १ ॥
यान्त्रिकस्तु विदाही स्याद्गुरुस्त्वग्ग्रन्थियोगतः॥२॥
तैलसंशये गन्धरसविशेषनिश्चयात् तैलत्वनिश्चय इति सार्षप-
स्नेहादीनामपि तैलत्वमित्याहुः ॥ ८ ॥
स्नेहसामान्याद् वसादीनामपि गुणमाह वसेति ॥ ६ ॥
इति तैलवर्गः ।
माधुर्य्यसामान्यात् क्षीरवर्गमनु इक्षुविकृतिवर्गेऽभिधातव्ये
उपोद्घातागतेन तैलवर्गेण व्यवधानं कृतम् । सम्प्रति यथोक्तो-
पोद्घातागतं तैलवर्गमभिधाय प्रकृतमिक्षुविकृतिवर्गमाह इक्षो-
रिति । दन्तकृत इति दन्तपीड़नेन कृतः ॥ १ ॥
यान्त्रिक इति यन्त्रपीड़नेन कृतः । ननु यान्त्रिकस्य इक्षु-
रसस्य विदाहित्वे सति रक्तपित्तहरत्वं यत् तद्विरुध्यते । यथा
मधूदकस्येक्षुरसस्य चापि पानाच्छमं गच्छति रक्तपित्तमिति ।
तन्न । यतो दन्तनिष्पीड़ितस्यैवाविदाहिनो रक्तपित्ते ग्रहणं भवि-
ष्यति । किं वा यान्त्रिकस्यापि विदाहकारणत्वगादिसंयोगा-
देस्त्यागं कृत्वोपयोगः कार्य्यः । तेन यान्त्रिकस्तु विदाहीति वचनं
द्रव्यगुणाः । १०३
अतीव मधुरो मूले मध्ये मधुर एव च ।
अग्रे चाक्षिषु विज्ञेय इक्षूणां लवणो रसः ॥ ३ ॥
पक्को रसो गुरुः स्निग्धः स तीक्ष्णः कफवातजित् ४
फाणितं गुर्वभिष्यन्दि वृंहणं कफशुक्रलम् ॥ ५ ॥
रूक्षं मधूकपुष्पोत्थं फाणितं त्वथ वातहृत् ।
कफदं मधुरं पाके कषायं वस्तिदूषणम् ॥ ६ ॥
गुड़ो वृष्यो गुरुः स्निग्धः सक्षारो मूत्रशोधनः ।
नातिपित्तहरो मेदःकफक्रिमिवलप्रदः ॥ ७ ॥
प्रायोवादमाश्रित्य बोध्यम् । अन्ये त्वेतद्दोषभिया विदाहीति
शीघ्रपाकीति व्याख्यानयन्ति ॥ २ ॥
इक्षूणामवयवविशेषेण गुणविशेषमाह अतीवेति अक्षि-
ष्विति । ग्रन्थिषु चन्द्रिकाकारस्तु इक्षूणामक्षिषु सर्वसन्धिषु प्ररो-
हजननसमर्था अङ्कुरा इत्याह । अन्ये त्वत्तु चेति पठन्ति तत्
सुबोधम् ॥ ३ ॥
पक्वस्येक्षुरसस्य गुणमाह पक्व इति ॥ सतीक्ष्ण ईषत्तीक्ष्ण
इत्यर्थः ॥ ४ ॥
फाणितं तन्तुलीभूतो रसः । अस्यैव तन्त्रान्तरे क्षुद्रगुड़
इति संज्ञा । तदुक्तं क्षुद्रो गुड़श्चतुर्भागावशेषित इति ॥ ५ ॥
फाणितप्रसङ्गान्मधूकपुष्पकृतफाणितगुणमाह रूक्षमिति ॥ ६ ॥
इक्षुरसस्यैव पाकादतिघनभावं गतस्य गुड़संज्ञा तस्य गुण-
माह गुड़ इति ॥ सक्षार इति क्षारसहचरितलवणरसः क्षार-
शब्देनोच्यते । स्वामिदासाद्यस्तु व्याख्यातारः क्षाराधिकारे
क्षारस्य रसत्वमेव मन्यन्ते । तत्तु न सम्यक् सर्वतन्त्रविरोधात् ।
१०४ द्रव्यगुणः ।
पित्तघ्नो मधुरः शुद्धो वातघ्नोऽसृक्प्रसादनः ॥८॥
स पुराणोऽधिकगुणो गुड़ः पथ्यतमः स्मृतः ॥६॥
खण्डं वृष्यतमं बल्यं चक्षुष्यं बृंहणं तथा ।
वातपित्तहरं नातिस्निग्धं हृद्यं सुखप्रदम् ॥१०॥
शर्करा वातपित्तासृङ्मूर्च्छाच्छर्दिविषापहा ॥११॥
तमराजस्तु तृष्णाघ्नो ज्वरदाहास्रपित्तजित् ॥१२॥
उक्तं हि चरके क्षरणात् क्षारो नासौ रसो द्रव्यमिति । नाति-
पित्तहर इति । मधुरत्वेऽपि सलवणत्वात् ॥ ७ ॥
अपहृतमलत्वेन शुद्धो यो गुड़स्तस्य गुणमाह पित्तघ्न इति ।
शुद्धो मलापगमनेन धवल इत्यर्थः ॥ ८ ॥
पुराणगुड़स्य गुणमाह स इति ॥ पथ्यतम इति गुड़ान्तरा-
पेक्षया । चन्द्रिकाकारस्तु पथे स्रोतसे हितः पथ्यः पथ्यतमः
सर्वेषां स्रोतोहितानां श्रेष्ठ इत्यर्थः । पथ्यतमस्तु जीर्णत्वेन
रौक्ष्यलाघवादिगुणयोगात् । अतएवोक्तं गुणाधिक इति ।
गुणाश्चात्र स्रोतः शोधनाधिकारिण एव रौक्ष्यलाघवादयो न तु
स्नेहादयः । पुराणं प्रायशो रूक्षं प्रायेणाभिनवं गुर्विति युक्ति-
विरोधात् । अप्रस्तुतत्वात् स्नेहादीनां स्रोतःशुद्ध्यकरणत्वाच्चेति
व्याचष्टे । डल्वनस्तु स पुराण इत्यस्य ईषत् पुराणमित्यर्थं व्याख्या-
तवान् ॥ ६ ॥
तस्यैव गुड़स्य संस्कारान्तरेण नामान्तरं गुणान्तरं च निर्दि-
शन्नाह खण्डमिति ॥ १० ॥
अत्र शर्कराशब्दः सामान्यवचनः । तेन यासशर्करामधु-
शर्करागुड़शर्कराणामिवायं गुण इति बोध्यः ॥ ११ ॥
तमराजः शर्कराभेद इति डल्वनः ॥ १२ ॥
द्रव्यगुणः। १०३
वृष्या क्षीणक्षतहिता सस्नेहा गुड़शर्करा ॥ १३ ॥
मधुजा शर्करा रूक्षा तृष्णाच्छर्द्यतिसारनुत् ।
तद्गुणा तिक्तमधुरा सस्नेहा यासशर्करा ॥ १४ ॥
गुड़मत्स्यण्डिकाखण्डशर्करा विमलाः परम् ॥ १५॥
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशैत्यानि सरत्वञ्च तथा तथा ॥ १६ ॥
मधु स्वादुरसं शीतं व्रणशोधनरोपणम् ।
कषायानुरसं रूक्षं वल्यं दीपनलेखनम् ॥
गुड़पदं यासशर्करामधुशर्करयोर्व्यवच्छेदार्थम् ॥ १३ ॥
मधुनः कालान्तरावस्थानादति घनीभूतमवयवं मधुशर्करेति
वदन्ति । दुरालभाक्वाथस्य घनीभावाद् यासशर्करेत्युच्यते ॥ १४ ॥
गुड़ादीनामुत्तरोत्तरं नैर्मल्यातिशयमाह गुड़ेत्यादि । पर-
मित्यत्तरोत्तरं विमलाः । तेन गुडापेक्षया मत्स्यण्डिका विमला
मत्स्यण्डिकापेक्षया खण्डो विमलः खण्डापेक्षया च शर्करा
इति । मत्स्यण्डिकाश्च खण्डमध्ये कृत्रिमाः पाकादिना निष्पन्न-
त्वात् शालूकाकृतयोऽतिकठिना भवन्ति ॥ १५ ॥
एतेषामेव यथा यथा वैमल्यप्रकर्षस्तथा तथा माधुर्यादि-
प्रकर्षोऽपीत्याह यथेति ॥ अत्र गौरवस्थाने केचिल्लाघवं पठन्ति
वदन्ति च । लाघवं हि गुणः प्रशस्तो न गौरवम् उत्तरोत्तरश्च
प्राशस्त्यमेषामुक्तम् । किन्तु यथा यथा सारत्वं भवति तथा
तथा गौरवमप्युपपन्नम् ॥ १६ ॥
माधुर्यसामान्यात् मधुशर्कराप्रसङ्गाच्चानन्तरं मधुगुणाभि-
धानं तस्य सामान्यगुणमाह मध्विति ॥ सन्धानमिति भग्नादि-
सन्धानकरम् । नन्वत्र लध्विति पठ्यते । तथा त्रिदोषप्रशमन-
१०६ द्रव्यगुणः।
सन्धानं लघु चक्षुष्यं स्वर्य्यं हृद्यं त्रिदोषनुत् ।
श्वासहिक्काविषहरमुष्णं क्षाम्बु विरोधि च ॥१७॥
मिति तथाच चरकविरोधः । तत्र हि वातलं गुरु शीतञ्च रक्त-
पित्तापहं मध्विति पठति । एवं वाग्भटेऽपि व्रणशोधनसन्धान-
रोपणं वातलं मध्विति पठ्यते । सत्यम् । तत्र यल्लघुत्वमुक्तं तत्
पुराणमध्वपेक्षया । इदं हि वचनं सौश्रुतम् । सुश्रुते च पुराण-
मेव मध्वधिकृतम् । यथा
विडङ्गं पिप्पली चौद्रं सर्पिश्चाप्यनवं हितम् ।
इति । तेनाधिकृतत्वात् पुराणमधुन एवैते गुणा ज्ञेयाः ।
चरके तु पुराणादिविशेष मनादृत्य गुरुत्वमुक्तम् । चक्रस्तु
लघ्विति लघुपाकमिति व्याख्याय विरोधं परिहरति । त्रिदोष-
प्रशमनत्वञ्चास्य प्रभावान्मिलितत्रिदोषारब्धज्वरहरतया ज्ञेयम् ।
पृथग्वातजननन्तु चरकवाग्भटाभ्यामुक्तमतो न विरोधः ।
त्रिदोषहरत्वे उपपत्तिरपि दर्शिता सुश्रुतेन । यथा तच्च लघु-
त्वात् कषायानुरसत्वाच्च कफघ्नं पैच्छिल्यात् माधुर्य्यात् कषा-
यानुरसत्वाच्च वातपित्तघ्नमिति । न च दृष्टकारणत एव
त्रिदोषहरत्वोपपत्तौ प्रभावकल्पनमयुक्तमिति वाच्यम् । प्रभाव-
मन्तरेण मिलितत्रिदोषारब्धविकारहरणनियमानुपपत्तेः । विष-
हरमिति विषान्वयसम्भवेऽपि विषहरत्वमस्य प्रभावात् ।
अतएवोक्तञ्चरके
विषं विषघ्नमुक्तं यत् तत् प्रभावप्रभावितम् ।
इति । केचिदनयैवानुपपत्त्या वमिहरमिति पठन्ति । तन्न ।
सुश्रुतेऽपि विषप्रशमनमित्युक्तत्वात् । उष्णाक्षाम्बुविरोधीति
उष्णेन क्षाम्बुना च विरुध्यते । सुश्रुते च उष्णविरोधे उपपत्ति-
रपि दर्शिता यथा । तत् सौकुमार्य्याच्च तथैव शैत्यान्ना-
द्रव्यगुणः । १०७
माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधुजातयः ।
माक्षिकं प्रवरं तेषां विशेषाद्भ्रामरं गुरु ॥ १८ ॥
माक्षिकं तैलवर्णं स्याद् घृतवर्णन्तु पौत्तिकम् ।
क्षौद्रन्तु कपिलं विद्यात् श्वेतं भ्रामरमुच्यते ॥ १९ ॥
नौषधीनां रससम्भवाच्च। उष्णे विरुध्येत विशेषतस्तु तथा-
न्तरीक्षेण जलेन चापि। सौकुमार्य्यादिति सुकुमारं हि उष्णे
विरुध्यते। नवनीतस्यानघृतजलकुसुमवत्। तथैव शैत्या-
दिति शीतस्य स्वभावत एव उष्णविरोधात्। नानौषधीनां
रससम्भवाच्चेति विरुद्धरसवीर्य्यनानाद्रव्यपुष्पस्य रसेन द्रवेण
सम्भवादुत्पत्तेरित्यर्थः। खाम्बुना शीतेनापि मधुनो विरोधित्वे
द्रव्यस्वभावमात्रं हेतुः। उष्णविरोधयोश्चास्पर्शैरिव नोष्णवीर्य्यै-
स्तेनोष्णवीर्य्यत्रिकट्वादिना मधु न विरुध्यते। एतच्चोष्ण-
विरोधित्वमार्घ्यं मधु विहाय बोध्यम्। तस्य विपान्वयत्वासम्भ-
वात्। अतएवोक्तं भोजे। मधून्यष्णैर्विरुध्यन्तेऽन्यत्रार्घ्यादिति
॥ १७ ॥
यद्यपि सुश्रुतेऽष्टविधं मधूक्तम्। यथा।
पौत्तिकं भ्रामरं क्षौद्रं माक्षिकं छात्रमेव च।
आर्घ्यमौद्दालकं दालमित्यष्टौ मधुजातयः ॥
इति। तथापि मधुनश्चतुर्विधत्वमेव सर्वजनप्रसिद्ध-
मिति कृत्वा चरकवचनमुपन्यस्यति। पिङ्गला मक्षिका महत्यः
पुत्तिकास्तद्भवं पौत्तिकम्। भ्रामराः प्रसिद्धाः। मक्षिका एव
स्वल्पाः पिङ्गलाः क्षुद्रास्तद्भवं क्षौद्रम्। तद्विधा एवास्वल्पा
मक्षिकास्तद्भवं माक्षिकम् ॥ १८ ॥
माक्षिकादिज्ञानार्थं वर्णविशेषानाह माक्षिकमिति ॥ १९ ॥
१०८ द्रव्यगुणः १
बृंहणीयं मधु नवं नातिश्लेष्महरं सरम् ।
मेदःस्थौल्यापहं ग्राहि पुराणमतिलेखनम् ।
दोषत्रयहरं पक्वमाममम्लं त्रिदोषकृत् ॥ २० ॥
तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्॥२१
उष्णेन मधु संयुक्तं वमनेष्ववचारितम् ।
अपाकादनवस्थानान्न विरुद्ध्येत पूर्ववत् ॥ २२ ॥
इत्यैक्षवादिवर्गः ।
तस्यैव मधुनोऽवस्थाविशेषेण गुणभेदमाह बृंहणीयमिति ।
पक्वमित्यग्निसम्पर्कादेव मधु गृह्णन्ति । अन्ये तु मधुनः पाको
नास्तीति कृत्वा मध्वाधारस्यैव भूरिकालेन स्वयं सुसञ्जातत्वं
पक्वत्वं स्वल्पकालावस्थानाच्चामत्वं वदन्ति ॥ २० ॥
मधुनो योगवाहितामाह तदिति । अत्र केचित् नानाद्रव्या-
त्मकत्वाच्च योगवाहिपरं मध्विति पठन्ति । तन्मतेऽपीयमेवोप-
पत्तिः ॥ प्रभावसहिता मधुनो योगवाहित्वे हेतुः । प्रभावात्तु
नानाद्रव्यात्मकत्वेऽपि मद्यादीनां न योगवाहित्वम् ॥ योग-
वाहितया च येन येन वाजीकरणरसायनदोषहरणादिना
युज्यते तस्य तस्यैव कर्म करोतीति भावः ॥ २१ ॥
इदानीं विषयविशेषे मधुन उष्णेनाप्यविरोधमाह उष्णे-
नेति । वमनेष्विति अचिरावस्थायिभेषजोपलक्षणम् । तेन
वस्तावप्यविरोधो ज्ञेयः । विरेचने तु चिरावस्थानाद्विरुध्यत
एव । पूर्ववदिति सौकुमार्यादिहेतुः । पूर्वस्मादिव नात्र विरोध
इत्यर्थः ॥ २२ ॥
इत्यैक्षवादिवर्गः ।
द्रव्यगुणः । १०६
सर्वं पित्तकरं मद्यमम्लं दीपनपाचनम् ।
भेदनं कफवातघ्नं हृद्यं बस्तिविशोधनम् ॥
पाके लघु विदाह्युष्णं तीक्ष्णमिन्द्रियबोधनम् ।
विकासि सृष्टविण्मूत्रं निद्राभावप्रसक्तिनुत् ॥ १॥
स्तन्यरक्तक्षयहिता सुरा दीपनबृंहणी ।
कार्श्यार्शोग्रहणीदोषमूत्राघातानिलापहा ॥ २॥
कासार्शोग्रहणीदोषप्रतिश्यायविनाशिनी ।
श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा ॥ ३ ॥
इदानीं मधुगुडयोनित्वात् तथा मधुशब्दाभिधेयत्वाच्च
मद्यस्य तदनन्तरं मद्यवर्गमाह सर्वमिति । यद्यपि मार्द्वीकमा-
ध्वोकादिमद्यं साक्षादप्रतीयमानाम्लरसं तथापि अम्लकार्य्यदन्त-
हर्षमुखस्रावकारित्वेन अम्लानुरसत्वेन चाम्लत्वमिह ज्ञेयम् । यत्तु
वाग्भटे
सस्वादुतिक्तकटुकमम्लपाकरसं सरम् ।
सकषायं स्वरारोग्यप्रतिभावर्णकृल्लघु ॥
इति । पञ्चरसत्वमुक्तम् । तन्मतेऽप्यम्लानुरसता इतररसानां
ज्ञेया । उक्तं हि
सर्वेषां मद्यमम्लानामुपर्य्युपरि वर्त्तते ।
इति । इन्द्रियबोधनमिति इन्द्रियपाटवकरमिति डल्लनः ।
निद्राभावप्रसक्तिनुदिति निद्राया अभावं नाशं तथा निद्राया
अतिप्रसक्तिञ्च नुदति । अतएवोक्तमन्यत्र
नष्टनिद्रातिनिद्राये हितं पित्तास्रदूषणम् । इति ॥ १ ॥
सुरागुणमाह स्तन्येति । सुराऽत्र लोहितवर्णा ॥ २ ॥
१०
११० द्रव्यगुणः ।
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दिनी ।
प्रसन्ना गुल्मवातार्शोविवन्धानाहनाशिनी ॥४॥
पित्तलाल्पकफा रूक्षा यवैर्वातप्रकोपणी ।
विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ॥५॥
रूक्षा नातिकफा वृष्या पाचनी वल्कली सुरा ॥६॥
कोहलो भेद्यवृष्यश्च त्रिदोषो वदनप्रियः ॥ ७ ॥
ग्राह्युष्णो जगलः प्रोक्तो रूक्षस्तृट्कफशोथनुत् ॥८॥
कातोलीति प्रसिद्धायाः श्वेतसुराया गुणमाह कासार्श इति
॥ ३ ॥
प्रसन्नागुणमाह छर्दीति । प्रसन्ना मद्यस्योपरि अच्छो भागः ।
अन्ये तु मद्यमेव भेषजयोगात् प्रसन्नं प्रसन्नामाहुः ॥ ४ ॥
यवगोधूमकृतसुरयोः क्रमाद्गुणमाह पित्तलेति । गुर्वी-
त्यन्तो यवसुरागुणः । यवैरित्यनन्तरं कृतेति शेषः । श्लेष्मला तु
मधूलिकेति गोधूमसुरागुणः । मधूलकः स्वल्पगोधूमः । तत्कृत-
क्लिन्नभागा सुरा मधूलिका । अन्ये तु मधूलकां मर्कटहस्ततृणं
तत्फलक्लिन्नकृता मधूलिकेत्याहुः । जेज्जड़स्तु मधूलकपुष्पस-
म्भवं मद्यं मधूलिकामाह ॥ ५ ॥
वल्कलीति प्रसिद्धसुरागुणमाह रूक्षेति । बिभीतककृता
सुरा वल्कली । अतएव केचिद्वल्कलीस्थाने आक्षिकीति पठन्ति ।
अक्षी बिभीतकः ॥ ६ ॥
कोहलाख्यमद्यगुणमाह कोहल इति । यवशक्तुकिण्वकृतं
मद्यं कोहलः । अन्ये तु पौण्ड्रदेशप्रसिद्धां सुरां काञ्चिमानिका-
माहुः ॥ ७ ॥
द्रव्यगुणः। १११
हृद्यः प्रवाहिकाटोपदुर्नामानिलशोधनुत् ।
वक्कसो हृतसारत्वाद्विष्टम्भी वातकोपनः ॥ ९ ॥
शीधुः पित्तानिलहरः श्लेष्मस्नेहविकारहा ।
मेदःशोथोदरार्शोघ्नो वल्यः पक्वरसो मतः ॥ १० ॥
जरणीयो विबन्धघ्नः स्वरवर्णविशोधनः ।
लेखनः शीतरसिको हितः शोफोदरार्शसाम् ॥ ११ ॥
गौड़ः शीधुः कषायः स्यात् स्वादुः पाचनदीपनः १२
शार्करो मधुरो हृद्यो दीपनो वस्तिशोधनः ।
वातघ्नो मधुरः पाके रुच्य इन्द्रियबोधनः ॥ १३ ॥
शीधुर्मधूकपुष्पोत्थो विदाह्यग्निवलप्रदः ।
रूक्षः कषायः कफहा वातपित्तप्रकोपणः ॥ १४ ॥
जगलो भक्तकिण्वकिक्ककृतः सुरा तस्या गुणमाह ग्राह्येति
॥ ८ ॥
भेदकगन्धद्रव्यविक्रियमाणवक्कसगुणमाह हृद्य इति ॥ ९ ॥
पक्केक्षुरसकृतशीधुगुणमाह शीधुरिति। पक्वरसः कथितेक्षु-
रसेषु यः क्रियते ॥ १० ॥
अपक्केक्षुरसकृतशीधुगुणमाह जरणीय इति। शीतरसिको-
ऽपक्केक्षुरसकृतः ॥ ११ ॥
गुड़कृतशीधुगुणमाह गौड़ इति ॥ १२ ॥
शर्कराकृतशीधुगुणमाह शार्कर इति। इन्द्रियबोधन इन्द्रि-
यपाटवजनकः ॥ १३ ॥
अयन्तु न गुड़योनिः ॥ १४ ॥