द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 113, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः। १०३
वृष्या क्षीणक्षतहिता सस्नेहा गुड़शर्करा ॥ १३ ॥
मधुजा शर्करा रूक्षा तृष्णाच्छर्द्यतिसारनुत् ।
तद्गुणा तिक्तमधुरा सस्नेहा यासशर्करा ॥ १४ ॥
गुड़मत्स्यण्डिकाखण्डशर्करा विमलाः परम् ॥ १५॥
यथा यथैषां वैमल्यं मधुरत्वं तथा तथा ।
स्नेहगौरवशैत्यानि सरत्वञ्च तथा तथा ॥ १६ ॥
मधु स्वादुरसं शीतं व्रणशोधनरोपणम् ।
कषायानुरसं रूक्षं वल्यं दीपनलेखनम् ॥
गुड़पदं यासशर्करामधुशर्करयोर्व्यवच्छेदार्थम् ॥ १३ ॥
मधुनः कालान्तरावस्थानादति घनीभूतमवयवं मधुशर्करेति
वदन्ति । दुरालभाक्वाथस्य घनीभावाद् यासशर्करेत्युच्यते ॥ १४ ॥
गुड़ादीनामुत्तरोत्तरं नैर्मल्यातिशयमाह गुड़ेत्यादि । पर-
मित्यत्तरोत्तरं विमलाः । तेन गुडापेक्षया मत्स्यण्डिका विमला
मत्स्यण्डिकापेक्षया खण्डो विमलः खण्डापेक्षया च शर्करा
इति । मत्स्यण्डिकाश्च खण्डमध्ये कृत्रिमाः पाकादिना निष्पन्न-
त्वात् शालूकाकृतयोऽतिकठिना भवन्ति ॥ १५ ॥
एतेषामेव यथा यथा वैमल्यप्रकर्षस्तथा तथा माधुर्यादि-
प्रकर्षोऽपीत्याह यथेति ॥ अत्र गौरवस्थाने केचिल्लाघवं पठन्ति
वदन्ति च । लाघवं हि गुणः प्रशस्तो न गौरवम् उत्तरोत्तरश्च
प्राशस्त्यमेषामुक्तम् । किन्तु यथा यथा सारत्वं भवति तथा
तथा गौरवमप्युपपन्नम् ॥ १६ ॥
माधुर्यसामान्यात् मधुशर्कराप्रसङ्गाच्चानन्तरं मधुगुणाभि-
धानं तस्य सामान्यगुणमाह मध्विति ॥ सन्धानमिति भग्नादि-
सन्धानकरम् । नन्वत्र लध्विति पठ्यते । तथा त्रिदोषप्रशमन-