द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 111, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः । १०३
अतीव मधुरो मूले मध्ये मधुर एव च ।
अग्रे चाक्षिषु विज्ञेय इक्षूणां लवणो रसः ॥ ३ ॥
पक्को रसो गुरुः स्निग्धः स तीक्ष्णः कफवातजित् ४
फाणितं गुर्वभिष्यन्दि वृंहणं कफशुक्रलम् ॥ ५ ॥
रूक्षं मधूकपुष्पोत्थं फाणितं त्वथ वातहृत् ।
कफदं मधुरं पाके कषायं वस्तिदूषणम् ॥ ६ ॥
गुड़ो वृष्यो गुरुः स्निग्धः सक्षारो मूत्रशोधनः ।
नातिपित्तहरो मेदःकफक्रिमिवलप्रदः ॥ ७ ॥
प्रायोवादमाश्रित्य बोध्यम् । अन्ये त्वेतद्दोषभिया विदाहीति
शीघ्रपाकीति व्याख्यानयन्ति ॥ २ ॥
इक्षूणामवयवविशेषेण गुणविशेषमाह अतीवेति अक्षि-
ष्विति । ग्रन्थिषु चन्द्रिकाकारस्तु इक्षूणामक्षिषु सर्वसन्धिषु प्ररो-
हजननसमर्था अङ्कुरा इत्याह । अन्ये त्वत्तु चेति पठन्ति तत्
सुबोधम् ॥ ३ ॥
पक्वस्येक्षुरसस्य गुणमाह पक्व इति ॥ सतीक्ष्ण ईषत्तीक्ष्ण
इत्यर्थः ॥ ४ ॥
फाणितं तन्तुलीभूतो रसः । अस्यैव तन्त्रान्तरे क्षुद्रगुड़
इति संज्ञा । तदुक्तं क्षुद्रो गुड़श्चतुर्भागावशेषित इति ॥ ५ ॥
फाणितप्रसङ्गान्मधूकपुष्पकृतफाणितगुणमाह रूक्षमिति ॥ ६ ॥
इक्षुरसस्यैव पाकादतिघनभावं गतस्य गुड़संज्ञा तस्य गुण-
माह गुड़ इति ॥ सक्षार इति क्षारसहचरितलवणरसः क्षार-
शब्देनोच्यते । स्वामिदासाद्यस्तु व्याख्यातारः क्षाराधिकारे
क्षारस्य रसत्वमेव मन्यन्ते । तत्तु न सम्यक् सर्वतन्त्रविरोधात् ।