सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 104, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 104

६६ द्रव्यगुणः ।
ग्राहिणी वातला रूक्षा विज्ञेया तक्रकूर्चिका ॥३४
तक्रान्लघुतरो मण्डः कूर्चिकादधितक्रजः ॥३५॥
किलाटोऽनिलहा वृष्यः कफनिद्राकरो गुरुः ॥३६
मधुरो बृंहणस्तद्वत् पीयूषोऽपि स मोरटः ॥३७॥
तक्रस्य हेत्वन्तरग्रथितस्य घनो भागस्तक्रकूर्चिकेत्युच्यते
तद्गुणमाह ग्राहिणीति ॥ ३४ ॥
तक्रकूर्चिकादधिकूर्चिकाभ्यां जातस्य मस्तुनेो गुणविशेषमाह
तक्रादिति । मण्ड इति मस्तु तस्य विशेषणं कूर्चिकादधि-
तक्रज इति कूर्चिकाभूतं यद्दधि कूर्चिकाभूतञ्च यत्तक्रं ताभ्यां
जातो मण्डस्तक्रान्लघुतर इत्यर्थः । दधिकूर्चिकालक्षणं यथा ॥
दध्ना सह पयः पक्वं सा भवेद्दधिकूर्चिका ॥
ये तु दधिकूर्ची च तक्रवदिति पठन्ति तन्मते दधि-
कूर्चिका तक्रवदिति तक्रकूर्चिकासमानगुणा अन्ये दधिकूर्चिका
तक्रज इति पठन्ति व्याचक्षते च ॥ प्रकृतदधिजस्तथा कूर्च्चि-
काभूतदधिजः तथा कूर्चिकाभूततक्रजश्च मण्ड इति मस्तुत्रय-
स्यायं गुणनिर्देश इति ॥ ३५ ॥
कूर्चिकाप्रस्तावात् क्षीरकूर्चिकागुणमाह किलाट इति ।
नष्टक्षीरपिण्डं यमाहुर्लोकाः क्षीरसा इति ॥ ३६ ॥
पीयूषमोरटयोर्गुणमाह मधुर इति । तद्वदिति किलाट-
तुल्यः । पीयूषमोरटयोर्लक्षणं यथा
क्षीरं सद्यः प्रसूतायाः पीयूषमिति संज्ञितम् ।
सप्तरात्रात् परं क्षीरमप्रसन्नञ्च मोरटम् ॥
इति । जेज्जड़स्तु मोरटस्थाने मोरगं पठन्ति व्याचष्टे च ।
मोरगो नष्टक्षीरद्रवभाग इति ॥ ३७ ॥