द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 118, कुल 176 में से
संदर्भ में पढ़ें११० द्रव्यगुणः ।
छर्द्यरोचकहृत्कुक्षितोदशूलप्रमर्दिनी ।
प्रसन्ना गुल्मवातार्शोविवन्धानाहनाशिनी ॥४॥
पित्तलाल्पकफा रूक्षा यवैर्वातप्रकोपणी ।
विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधूलिका ॥५॥
रूक्षा नातिकफा वृष्या पाचनी वल्कली सुरा ॥६॥
कोहलो भेद्यवृष्यश्च त्रिदोषो वदनप्रियः ॥ ७ ॥
ग्राह्युष्णो जगलः प्रोक्तो रूक्षस्तृट्कफशोथनुत् ॥८॥
कातोलीति प्रसिद्धायाः श्वेतसुराया गुणमाह कासार्श इति
॥ ३ ॥
प्रसन्नागुणमाह छर्दीति । प्रसन्ना मद्यस्योपरि अच्छो भागः ।
अन्ये तु मद्यमेव भेषजयोगात् प्रसन्नं प्रसन्नामाहुः ॥ ४ ॥
यवगोधूमकृतसुरयोः क्रमाद्गुणमाह पित्तलेति । गुर्वी-
त्यन्तो यवसुरागुणः । यवैरित्यनन्तरं कृतेति शेषः । श्लेष्मला तु
मधूलिकेति गोधूमसुरागुणः । मधूलकः स्वल्पगोधूमः । तत्कृत-
क्लिन्नभागा सुरा मधूलिका । अन्ये तु मधूलकां मर्कटहस्ततृणं
तत्फलक्लिन्नकृता मधूलिकेत्याहुः । जेज्जड़स्तु मधूलकपुष्पस-
म्भवं मद्यं मधूलिकामाह ॥ ५ ॥
वल्कलीति प्रसिद्धसुरागुणमाह रूक्षेति । बिभीतककृता
सुरा वल्कली । अतएव केचिद्वल्कलीस्थाने आक्षिकीति पठन्ति ।
अक्षी बिभीतकः ॥ ६ ॥
कोहलाख्यमद्यगुणमाह कोहल इति । यवशक्तुकिण्वकृतं
मद्यं कोहलः । अन्ये तु पौण्ड्रदेशप्रसिद्धां सुरां काञ्चिमानिका-
माहुः ॥ ७ ॥