सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 106, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 106

६८ द्रव्यगुणः।
घृतं बुद्ध्यग्निशुक्रौजोज्ञेदःस्मृतिकफावहम् ।
वातपित्तविषोन्मादशोषालक्ष्मीजरापहम् ।
स्नेहोत्तमं योगवाहि सर्वथा मधुरं हिमम् ॥४१॥
गव्यं घृतं घृतश्रेष्ठं चक्षुष्यं बलवर्धनम् ।
विपाके मधुरं श्रेष्ठं वातपित्तविषापहम् ॥४२॥
माहिषन्तु घृतं स्वादु पित्तास्रानिलनुद्धिमम् ॥४३॥
छागं घृतन्तु चक्षुष्यं लघ्वग्निबलवर्धनम् ॥ ४४ ॥
आविकादीनि सर्पींषि बुद्ध्वा स्वक्षीरवद्वदेत् ॥४५॥
सर्पिः पुराणं तिमलप्रतिश्यातिमिरपहम् ।
विद्याद्दधिघृतादीनां गुणदोषान् यथा पय इति ॥ ४० ॥
नवनीतसम्भवात् घृतस्य नवनीतानन्तरं घृतगुणमाह घृत-
मिति । कफावहमिति कफकरम् । यत्तु त्रिदोषापकर्षणमिति
सुश्रुतेनोक्तम् तत् संस्कारेण कफहरत्वादिति ज्ञेयम् । अत-
एव चरकेऽपि संस्कारात्तु जयेत् कफमित्युक्तम् । योगवाहीति
यैर्यैर्द्रव्यैः संस्क्रियते तेषां तेषामेव गुणानावहतीत्यर्थः । सर्वथा
मधुरमिति रसे पाके च मधुरमित्यर्थः । तथा सर्वथा हिमं
निपातेऽधिवासे च शीतमित्यर्थः । न तु काञ्जिकादिवत् निष्पा-
तमात्रे शीतमित्यर्थः ॥ ४१ ॥
इदानीं विशिष्टघृतगुणमाह गव्यमिति । अत्र सामान्य-
गुणाभिहितमधुरत्वादेः पुनरभिधानमुत्कर्षार्थम् । अत्र द्वितीयं
श्रेष्ठमिति पदं चक्षुष्यमित्यादिषु सर्वत्रैव योज्यम् । श्रेष्ठमित्य-
तिशयेन चक्षुष्यमतिशयेन बलवर्धनमित्यादि ॥ ४२ ॥
अनुक्तसर्पिर्गुणमतिदेशेनाह आविकादीनीति ॥ ४५ ॥