सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 103, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 103

द्रव्यगुणः । [८५]

अर्द्धोदकमुदश्वित् स्यान्मथितं सरवर्जितम् ॥३०॥
घोलं पित्तानिलहरं तक्रं दोषत्रयापहम् ।
उदश्वित् श्लेष्मलञ्चैव मथितं कफपित्तनुत् ॥ ३१ ॥
वातेऽम्लं सैन्धवोपेतं पित्ते स्वादु सशर्करम् ।
पिबेत्तक्रं कफे चापि व्योषक्षारसमायुतम् ॥ ३२ ॥
नैव तक्रं क्षते दद्यात् नोष्णकाले न दुर्बले ।
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपित्तके ॥ ३३ ॥
परं तत्र लाघवं जनितम् । उदश्विन्मथितयोस्तक्र एवान्त-
र्भावः । अतएवोक्तं तन्त्रान्तरे ।
मन्थनादिपृथग्भूतस्नेहमर्द्धोदकञ्च यत् ।
नातिसान्द्रद्रवं तक्रं स्वाद्वम्लन्तुवरं सरम् ॥
अजलं स्नेहहीनं यत् तत्तक्रं कफनाशनम् ।
इति । चरके तु विविधं तक्रमुक्तम् ।
रूक्षमर्द्धोद्धृतं स्नेहं यत्तथानुद्धृतं घृतम् ।
तक्रं दोषाग्निवलवित्त्रिविधं सम्प्रयोजयेदिति ॥ ३० ॥
इदानीमस्यैव भेदचतुष्टयस्य गुणमाह घोलमिति । यद्यपि
पूर्वं तक्रस्य वातकफहरत्वमेवोक्तं तथापि मधुरत्वेन मधुरपाकि-
त्वेन च पित्ताजनकत्वात् द्रव्यान्तरसंयोगाद्वा पित्तशमनमपीति
मत्वा दोषत्रयापहत्वमप्योक्तम् । सुश्रुते तु मधुरस्य तक्रस्य
पित्तहरत्वं साक्षादेवोक्तम् । तत् पुनर्मधुरं श्लेष्मप्रकोपणं
पित्तशमनञ्चेति ॥ ३१ ॥
यत्र यादृशं तक्रं युक्तं तदाह वात इति ॥ ३२ ॥
तक्रस्याविषयं तक्रविषयञ्च श्लोकाभ्यामाह नेति । उष्ण-
काले शरदि ग्रीष्मे च ॥ ३३ ॥