द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 101, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणाः। ६३
कोपनं कफवातानां दुर्नाम्नाञ्चाविकं दधि ॥ १८॥
दीपनीयमचक्षुष्यं वातलं वाडवं दधि ।
रूक्षमुष्णं कषायञ्च कफमूत्रापहञ्च तत् ॥ २० ॥
स्निग्धं विपाके मधुरं वल्यं सन्तर्पणं गुरु ।
चक्षुष्यमग्र्यं दोषघ्नं दधि नार्या गुणोत्तरम् ॥ २१ ॥
लघु पाके वलाशघ्नं वीर्य्योष्णं पक्तिनाशनम् ।
कषायानुरसं नाग्या दधि वर्च्चोविबन्धनम् ॥२२॥
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ।
विज्ञेयमेव सर्वेषु गव्यमेव गुणोत्तरम् ॥ २३ ॥
वातघ्नं कफकृत् स्निग्धं वृंहणं नातिपित्तकृत् ।
कुर्य्याद्भक्ताभिलाषञ्च दधि यत् सुपरिस्रुतम् ॥२४॥
शृतक्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ।
कफवातानां दुर्नाम्नाञ्च कोपनमित्यन्वयः । कफवाताभ्या-
मिति पाठे सम्भूतानामिति शेषः । तेन कफवाताभ्यां सम्भू-
तानां दुर्नाम्नां कोपनमित्यर्थः ॥ १८ ॥
अचक्षुष्यत्वमिह प्रभावादिति चन्द्रिका । कफमूत्रापहत्वं
च रूक्षोष्णत्वात् ॥ २० ॥
चक्षुष्यमग्र्यमिति श्रेष्ठं चक्षुष्यमित्यर्थः । चक्षुर्हितत्वमस्य
प्रभावात् । गुणोत्तरमिति गुणैः प्रधानम् ॥ २१ ॥
सर्वेषु दधिषु गव्यस्य प्राधान्यमाह दधीनीति ॥ २३ ॥
इदानीं तस्यैव दध्नोऽवस्थान्तरेषु गुणोत्तरं दर्शयन्नाह
वातघ्नमिति । सुपरिस्रुतं सुष्ठु गलितद्रवभागम् ॥ २४ ॥