सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

वायसविरुताध्यायः ४७५
शावः शिशुः। अपत्यमित्यर्थः। द्वित्रिचतुःशावत्वं द्वयोस्त्रयाणां चतुर्णां वा शावकानां
भावो द्वित्रिचतुःशावत्वम्। तच्च सुभिक्षदम्। पञ्चभिः शावैर्नृपान्यत्वमन्यस्य राज्यं करोति।
द्वितीयो राजा भवतीत्यर्थः। अण्डावकिरणमण्डविक्षेपः। एकाण्डता एकाण्डभावः। अप्रसूतिश्च
प्रसवाभावः। एते सर्व एव न शिवाय न श्रेयसे भवन्ति॥६॥
अथैतेषामेव विशेषमाह—
चौरकवर्णैश्चौराश्चित्रैर्मृत्युः सितैस्तु वह्निभयम्।
विकलैर्दुर्भिक्षभयं काकानां निर्दिशेच्छिशुभिः ॥७॥
यदि कौए के बच्चे का वर्ण गन्धद्रव्य के समान हो तो चोरों की उत्पत्ति, चित्र-
वर्णवत् हो तो मृत्यु, सफेद वर्ण हो तो अग्नि का भय और किसी अंग हीन से हो तो
दुर्भिक्ष का भय होता है॥७॥
चौरकं गन्धद्रव्यम्। तद्वर्णैः शिशुभिश्चौरास्तस्करा भवन्ति। चित्रैश्चित्रवर्णैर्नानाकारैर्मृत्यु-
र्भवति। सितैः शुक्लैस्तु वह्निभयमग्निभयम्। विकलैर्दुर्भिक्षभयम्। विकलैरङ्गहीनौः काकानां
ध्वांक्षाणां शिशुभिर्बालैर्दुर्भिक्षभयं निर्दिशेद् वदेत्। उक्तं च—
काकानां स्रवणे द्वित्रिचतुःशावाः शुभावहाः।
चोरचित्रकश्वेताश्च वर्णाश्चौराग्निमृत्युदाः॥
अण्डावकिरणैर्ध्वाक्ष्या दुर्भिक्षमरकावुभौ।
शावानां विकलत्वे वा निःशावत्वे कृतौ तथा॥ इति॥७॥
अन्यदप्याह—
अनिमित्तसंहतैर्ग्राममध्यगैः क्षुद्भयं प्रविरुवद्भिः।
रोधश्चक्राकारैरभिघातो वर्गवर्गस्थैः ॥८॥
यदि कौवे विना कारण गाँव के बीच में एकत्र होकर बहुत शब्द करें तो दुर्भिक्ष का
भय, चक्र की तरह इकट्ठे होकर स्थित हों तो नगर का रोध और वर्ग-वर्ग करके स्थित
हों तो उपद्रव होता है॥८॥
अनिमित्तमकारणं संहतैः समेतैर्ग्राममध्यगैर्ग्राममध्यस्थितैर्वायसैः प्रविरुवद्भिर्वाशितैः
क्षुद्भयं दुर्भिक्षभयं भवति। चक्राकारैश्चक्रवत्पारिमाण्डल्येन स्थितै रोधः पुररोधो भवति।
वर्गवर्गस्थैरकारणसमेतैर्बहुभिः समूहैः स्थितैरभिघात उपद्रवो भवति। उक्तं च—
अकार्यसंहतैर्भेदो रोधश्चक्राकृतिस्थितैः।
वर्गगैश्चाभिघातः स्याद्रिपुवृद्धिश्च निर्भयैः॥ इति॥८॥
अन्यदप्याह—
अभयाश्च तुण्डपक्षश्चरणविघातैर्जनानभिभवन्तः।
कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जनविनाशम् ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४७६ बृहत्संहिता
यदि कौवे भयरहित होकर चोंच, पंख और पञ्जों से मनुष्यों को मारें तो शत्रुवृद्धि
तथा रात्रि में विचरण करें तो जन की क्षति होती है॥९॥
अभया भयरहिताः। तुण्डैश्चञ्च्वग्रैः। पक्षैरङ्गरुहैः। चरणविघातैः पादप्रहारैः। जनान्
लोकानभिभवन्तः पराभवन्तः शत्रुवृद्धिं रिपुवृद्धिं कुर्वन्ति। निशि रात्रौ विचरन्तो जनानां
लोकानां विनाशं कुर्वन्ति॥९॥
अन्यदप्याह—
सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्र्व परात् ।
अत्याकुलं भ्रमद्भिर्वातोद्भ्रामो भवति काकैः ॥१०॥
यदि कौवे आकाश में प्रदक्षिणक्रम से भ्रमण करें तो आत्मीय जनों से और अपसव्य
क्रम से भ्रमण करें तो शत्रुओं से भय होता है तथा अति आकुलता के साथ भ्रमण करें
तो देखने वाले की अनवस्थिति होती है॥१०॥
सव्येन प्रादक्षिण्येन खे आकाशे भ्रमद्भिः काकैर्वायसैः पूर्वदक्षिणपश्चिमोत्तरा इत्यनेन
क्रमेण भ्रमद्भिः स्वेभ्य आत्मीयेभ्यो भयं भवति। विपरीतमण्डलैः पूर्वोत्तरपश्चिमदक्षिणा
इत्यनेन क्रमेण भ्रमद्भिः पराच्छत्रोर्भयं भवति। अत्याकुलं सोद्यमं भ्रमद्भिः काकैर्वातोद्भ्रामो
भवत्यनवस्थितिरित्यर्थः। उक्तं च—
पुरसैन्योपरि व्योम्नि व्याकुलैरनिलाद्भयम्।
सव्यमण्डलगैः स्वोत्थमपसव्यैः पराद्भयम्॥ इति॥१०॥
अन्यदप्याह—
ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः।
सेनाङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः ॥११॥
यदि कौवे ऊपर को मुँह उठाकर पंखों को चलावें तो मार्ग में भय, धान्यों को
चुरावें तो दुर्भिक्ष का भय, सेना के अंगों पर बैठ जायँ तो युद्ध और कोयल के समान
अति काले पंख कौवे के हों तो चोर का भय होता है॥११॥
ऊर्ध्वमुखा ऊर्ध्ववदनाः। चलपक्षाः चलिताङ्गरुहाः। पथि भयदाः, अध्वनि भयं ददति।
धान्यमुषो धान्यं चोरयन्तः क्षुद्भयाय दुर्भिक्षाय भवन्ति। सेनाङ्गानि पर्याणखलीनप्रभृतीनि
तेषु स्थिता युद्धं संग्रामं सूचयन्ति। अन्यभृतः कोकिलः। अन्यभृतस्येव पक्षो येषामति-
कृष्णपक्षास्ते परिमोषं चौरभयं कुर्वन्ति। उक्तं च—
युद्धं सेनाङ्गसंस्थेषु मोषकृत् स्वविलेखने।
चरन्निशि विनाशाय दुर्भिक्षं चान्नमोषकृत्॥ इति॥११॥
अन्यदप्याह—
भस्मास्थिकेशपत्राणि विन्यसन् पतिवधाय शय्यायाम् ।
मणिकुसुमाद्यवहने सुतस्य जन्माप्यथाङ्गनायाश्च ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वायसविरुताध्यायः ४७७
यदि कौवे शय्या के ऊपर भस्म, हड्डी, केश और पत्ते डालें तो शय्या के स्वामी का
वध; मणि, फूल और फल डालें तो पुत्रजन्म तथा तृण, काष्ठ आदि डालें तो कन्या का
जन्म होता है।।१२।।
शय्यायामास्तरणे। भस्म। अस्थि। केशा मूर्धजाः। पत्रं पर्णम्। एतानि विन्यसन् विक्षिपन्
पतिवधाय भवन्ति। शय्याया यः पतिः स्वामी तस्य। उक्तं च—
तृणभस्मास्थिकेशाश्च शयने स्वामिमृत्युदाः।
मणिकुसुमाद्यवहनन इति। मणिना रत्नेन। कुसुमेन पुष्पेण। आदिग्रहणात् फलेन।
यदि शय्यायामवहननं ताडनं करोति, तदा सुतस्य पुत्रस्य जन्म भवति। अन्यथाननेन
प्रकारेण मणिकुसुमानि वर्जयित्वा तृणकाष्ठादिनाऽवहननं करोति तदाङ्गनायाः स्त्रिया जन्म
भवति।।१२।।
अन्यदप्याह—
पूर्णाननेऽर्थलाभः सिकताधान्यार्द्रमृत्कुसुमपूर्वैः ।
भयदो जनसंवासाद्यदि भाण्डान्यपनयेत् काकः ॥१३॥
यदि कौवे रेत, धान्य, गिली मिट्टी, पुष्प या फल मुँह में भर कर अपने स्थान पर
आवें तो धन का लाभ होता है तथा जल के समीप से कुछ बर्तन लेकर जायँ तो भय
देते हैं।।१३।।
सिकता वालुका। धान्यं प्रसिद्धम्। आर्द्रमृत् सरसा मृत्तिका। कुसुमं पुष्पम्। पूर्व-
ग्रहणात् फलं शाद्वलं च। एतैः पूर्णानने परिपूरितवदने काकेऽर्थलाभो भवति। तथा काको
जनसंवासाद् जननिकटाद्यदि भाण्डान्यपनयेदपनयति तदा भयदो भयं ददाति।।१३।।
अन्यदप्याह—
वाहनशस्त्रोपानच्छत्रच्छायाङ्गकुट्टने मरणम्।
तत्पूजायां पूजा विष्ठाकरणेऽन्नसम्प्राप्तिः ॥१४॥
जिसके वाहन, शस्त्र, जूते और छत्र की छाया को कौआ कूटे उसका मरण, उन
वाहन आदि की फूल आदि से पूजा करे तो उसकी पूजा और उन पर वीट करे तो
उसको भोजन का लाभ होता है।।१४।।
वाहनं यानम्। शस्त्रं खड्गादि। उपानत् प्रसिद्धा। छत्रच्छाया आतपत्रच्छाया। अङ्गं
शरीरम्। एषां कुट्टने ताडने मरणं भवति। तत्पूजायां तेषामेव वाहनादीनां पूजायां
पुष्पादिपूजनेन पूजा भवति। एषामेव विष्ठाकरणे पुरीषकरणे अन्नसम्प्राप्तिर्भोजनलाभो
भवति। उक्तं च—
उपानच्छत्रयानाङ्गच्छत्रच्छायावकुट्टने ।
मृत्युं तत्स्वामिनो ब्रूयात् पूजा स्यात्तत्प्रपूजने।। इति।।१४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४७८ बृहत्संहिता
अन्यदप्याह—
यद्द्रव्यमुपनयेत्तस्य लब्धिरपहरति चेत् प्रणाशः स्यात्।
पीतद्रव्यैः कनकं वस्त्रं कार्पासिकैः सितै रूप्यम् ॥९५॥
कौआ जो कहीं से उठा कर ले आवे, उसका लाभ और जो ले जाय उसका नाश
होता है। पीले द्रव्य से सोना, कपाससम्बन्धी वस्तु से वस्त्र और सफेद वस्तु से रजत
का लाभ या नाश होता है।।९५।।
काको यद्द्रव्यमुपनयेत् समीपे आनयेत् तस्य द्रव्यस्य लब्धिर्भवति। चेद्यदि यद्-
द्रव्यमपहरति तदा तद्द्रव्यस्य प्रणाशो नाशो भवति। पीतद्रव्यैः कनकं सुवर्णं लभ्यते,
अपहृते तदेव नश्यति। एवं सर्वत्र। कार्पासिकैर्वस्त्रमम्बरम्। सितैः श्वेतवर्णै रूप्यम्।
उक्तं च—
हरेदुपनयेद् वापि यद्द्रव्यं वायसोऽग्रतः।
तन्नाशलब्धौ विज्ञेयौ हेमे पीते विनिर्दिशेत्।। इति।।९५।।
अन्यदप्याह—
सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च।
प्रावृषि वृष्टिं दुर्दिनमनृतौ स्नाताश्च पांशुजलैः ॥९६॥
दूध वाले वृक्ष, अर्जुन वृक्ष, वञ्जुल वृक्ष या नदी के दोनों तट पर स्थित होकर कौए
शब्द करें या धूली अथवा जल से स्नान करें तो वर्षाकाल में वृष्टि तथा अन्य ऋतु में
दुर्भिक्ष करता है।।९६।।
सह क्षीरेण वर्तते यो वृक्षः स सक्षीरः, अर्जुनः। वञ्जुलः, एतौ वृक्षविशेषौ। एतेषु
तथा कूलद्वयपुलिनगा नद्याः कूलद्वये यौ पुलिनौ तयोर्गताः। रुवन्तश्च वाशमानाः। प्रावृषि
वर्षासु वृष्टिं कुर्वन्ति। अनूतावन्यस्मिन् ऋतौ वर्षावर्जिते दुर्दिनं दुष्टं दिनं कुर्वन्ति। तथा
पांशुभिर्जलैश्चाद्भिः स्नाताः प्रावृषि वृष्टिं कुर्वन्ति। अन्यस्मिन् ऋतौ दुर्दिनमेवेति।।९६।।
अन्यदप्याह—
दारुणनादस्तरुकोटरोगो वायसो महाभयदः।
सलिलमवलोक्य विरुवन् वृष्टिकरोऽब्दानुरावी च ॥९७॥
वृक्ष के कोटर में अवस्थित कौआ भयंकर शब्द करे तो महाभय देने वाला होता
है एवं जल देखकर या मेघगर्जन के बाद शब्द करे तो वृष्टि करने वाला होता है।९७।
वायसः काकस्तरुकोटरे वृक्षगर्भे स्थितः। कीदृशः ? दारुणनादो दारुणः क्रूरो नादः
शब्दो यस्य स महाभयदो महद्भयं ददाति। सलिलं जलमवलोक्य दृष्ट्वा विरुवन् क्रोशन्
वृष्टिकरः। अब्दस्य मेघस्यानुरावी पश्चाद्रौति तदा वृष्टिकर एव।।९७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वायसविरुताध्यायः ४७९
अन्यदप्याह—
दीप्तोद्विग्नो विटपे विकुट्टयन् वह्निकृद्विधुतपक्षः ।
रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ॥१८॥
लता के वितान में सूर्याभिमुख और दुःखी होकर चञ्चु से अपने शरीर को कूटे,
पंख को चलावे तथा लाल द्रव्य या दुग्ध, तृण अथवा काष्ठ को घर में ले आवे तो
अग्निभय करता है॥१८॥
विटपे लताविताने दीप्तोद्विग्नो दीप्तः सूर्याभिमुख उद्विग्नो दुःखितो विकुट्टयन्
चञ्च्वा भिन्दन्। विधुतपक्षः चलत्पक्षः। वह्निकृदग्निभयं करोति। गृहे वेश्मनि रक्तद्रव्यं
रक्तवर्णद्रव्यं दग्धं तृणं काष्ठं वा विदधत् कुर्वद्वह्निकृदेव। उक्तं च—
रक्तद्रव्यं प्रदग्धं च धान्यं गेहेऽग्निदः स्मृतः।। इति।।१८।।
अथ दिक्फलमाह—
ऐन्द्र्यादिदिगवलोकी सूर्याभिमुखो रुवन् गृहे गृहिणः ।
राजभयचोरबन्धनकलहाः स्युः पशुभयं चेति ॥१९॥
यदि कौआ गृहस्थों के घर पर स्थित होकर पूर्व आदि दीप्त दिशा की तरफ मुख
करके शब्द करे तो क्रम से राजभय, चोरभय, बन्धन और कलह होता है। जैसे दीप्त
पूर्व दिशा की तरफ मुख करके शब्द करे तो राजभय, दीप्त दक्षिण दिशा की तरफ मुख
करके शब्द करे तो चोरभय, दीप्त पश्चिम दिशा की तरफ मुख करके शब्द करे तो
बन्धन और दीप्त उत्तर दिशा की तरफ मुख करके शब्द करे तो कलह होता है। साथ
ही दीप्त विदिशाओं की तरफ मुख करके शब्द करे तो पशुओं को भय होता है॥१९॥
ऐन्द्र्यादिदिगवलोकीति। ऐन्द्र्यादीनां पूर्वादीनां दिशामवलोकयति तच्छीलः।
सूर्याभिमुखोऽर्कसम्मुखो गृहे वेश्मनि स्थितो रुवन् शब्दं कुर्वन् गृहिणो गृहस्वामिनो
राजभयादीन् दोषान् करोति। ऐन्द्रीं दिशं दीप्तामवलोकयन् निरीक्षयन् गृहे स्थितो विरौति
तदा गृहिणो राजभयं करोति। एवमाग्नेय्यां दक्षिणस्यां चौरभयम्। एवं नैर्ऋत्यां पश्चिमायां
बन्धनभयं भवति। एवमेव वायव्यामुत्तरस्यां कलहः, पशूनां चतुष्पदानां भयं च। एव-
मेवैशान्यामिति च। अथवा विदिक्षु सर्वासु पशुभयमिति।।१९।।
एवं दीप्तासु दिग्विधिक्षु फलमभिधायाधुना शान्तामाह—
शान्तामैन्द्रीमवलोकयन् रुयाद्राजपुरुषमित्राप्तिः ।
भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनाप्तिश्च ॥२०॥
यदि कौआ शान्त पूर्व दिशा को देखता हुआ शब्द करे तो राजपुरुष और मित्र का
समागम, सुवर्ण का लाभ तथा शालिधान्य और गुड़मिश्रित भोजन का लाभ होता है॥२०॥
शान्तामैन्द्रीं पूर्वां दिशमवलोकयन्नीक्षन् रुयाच्छब्दं करोति तदा राजपुरुषस्य प्राप्ति-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४८० बृहत्संहिता
मित्रप्राप्तिश्च भवति। अथवा राजपुरुष एव मित्रं तस्य प्राप्तिरागमः। तथा सुवर्णस्य काञ्चनस्य
लब्धिर्लाभः। शाल्यन्नस्य शालिभक्तस्य गुडाशनस्य गुडसंयुक्तस्य च भोजनस्याप्तिः प्राप्ति-
र्भवति।।२०।।
अन्यदप्याह—
आग्नेय्यामनलाजीविकयुवतिप्रवरधातुलाभश्च ।
याम्ये माषकुलूत्थाभोज्यं गान्धर्विकैर्योगः ।।२१।।
यदि कौआ शान्त आग्नेय कोण को देखता हुआ शब्द करे तो अग्नि से जीविका
करने वाले ( सोनार, लोहार आदि ) और युवती स्त्री का समागम तथा उत्तम धातु
( सुवर्ण आदि ) का लाभ होता है। यदि कौआ शान्त दक्षिण दिशा को देखता हुआ
शब्द करे तो उड़द और कुलथी का भोजन तथा गान विद्या जानने वाले के साथ
समागम होता है।।२१।।
आग्नेय्यां शान्तां दिशमवलोकयन् यदा रौति तदाऽनलजीविकोऽग्न्युपजीविकः
सुवर्णकारादिकः। युवती स्त्री। प्रवरः प्रकृष्टः। धातुः सुवर्णादिकः। एतेषां लाभश्च भवति।
याम्ये दक्षिणस्यां दिशि शान्तामवलोकयन् माषकुलूत्थाभोज्यं भवति। गान्धर्विकैर्गेयप्रवीणैश्च
सह योगः संयोगो भवति।।२१।।
अन्यदप्याह—
नैर्ऋत्यां दूताश्वोपकरणदधितैलपललभोज्याप्तिः ।
वारुण्यां मांससुरासवधान्यसमुद्ररत्नाप्तिः ।।२२।।
यदि कौवा शान्त नैर्ऋत्य कोण को देखता हुआ शब्द करे तो दूत, घोड़े का
उपकरण, दही, तेल, मांस और भोज्य पदार्थ का लाभ होता है। यदि शान्त पश्चिम दिशा
की तरफ देखता हुआ शब्द करे तो मांस, मद्य, आसव, धान्य और समुद्रोत्पन्न रत्नों का
लाभ होता है।।२२।।
नैर्ऋत्यां दिशि स्थितः काकः। शान्ता च या दिशा तामवलोकयन् रुयात् तदा दूतस्य।
अश्वस्य तुरगस्य। उपकरणानामुपकरणभाण्डानाम्। उपयुज्यते यत् तदुपकरणम्। अश्वो-
पयोगिभाण्डानाम्। दधि दुग्धविकारः। तैलं तिलतैलम्। पललमर्धपीडितास्तिलाः। भोज्य-
मशनम्। एषां प्राप्तिर्लाभो भवति। वारुण्यां पश्चिमायां शान्तामवलोकयन् रुयात्। मांस-
मामिषम्। सुरा वारुणी। आसवं पानम्। अथवा सुरैरासवम्। धान्यं शालयः। समुद्ररत्नानां
समुद्राजातानां रत्नानां प्राप्तिर्भवति।।२२।।
अन्यदप्याह—
मारुत्यां शस्त्रायुधसरोजवल्लीफलाशनाप्तिश्च ।
सौम्यायां परमान्नाशनं तुरङ्गाम्बरप्राप्तिः ।।२३।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

वायसविरुताध्यायः ४८१
यदि कौआ शान्त वायव्य दिशा को देखता हुआ शब्द करे तो शस्त्र, लोहा, आयुध
( खड्ग आदि ), कमल, लता, फल और भोजन का लाभ होता है। यदि शान्त उत्तर
दिशा की तरफ मुख करके शब्द करे तो पायस भोजन, घोड़ा और वस्त्र का लाभ होता
है।।२३।।
मारुत्यां वायव्यां शान्तामवलोकयन् ब्रूयात्। शस्त्रं लोहम्। आयुधं खड्गादि। सरोजं
पद्मम्। वल्लीफलानि कूष्माण्डादीनि। अशनं भोजनम्। एतेषामाप्तिः प्राप्तिर्भवति। सौम्या-
यामुत्तरस्यां परमान्नाशनं परमात्रं पायसं तदेवाशनम्। तुरङ्गोऽश्वः। अम्बरं वस्त्रम्। एतेषां
च प्राप्तिर्भवति।।२३।।
अन्यदप्याह—
ऐशान्यां सम्प्राप्तिर्घृतपूर्णानां भवेदनडुहश्च।
एवं फलं गृहपतेर्गृहपृष्ठसमाश्रिते भवति ॥२४॥
यदि कौआ शान्त ईशान कोण की तरफ मुख करके शब्द करे तो घी से युक्त भक्ष्य
पदार्थ और बैल का लाभ होता है। इसी प्रकार घर के पीछे स्थित कौए के फल भी
गृहस्वामी को होते है।।२४।।
ऐशान्यां दिशि शान्तायां ब्रूयात् घृतपूर्णानां भक्ष्यविशेषाणामनडुहो वृषभस्य च सम्प्राप्ति-
र्लाभो भवेत् स्यात्। एवमनेन प्रकारेण गृहस्य वेश्मनः पृष्ठे समाश्रिते काके गृहपतेर्गृहस्वामिनः
फलं भवति।।२४।।
गमने कर्णसमश्चेत् क्षेमाय न कार्यसिद्धये भवति।
अभिमुखमुपैति यातुर्विरुवन् विनिवर्तयेद्यात्राम् ॥२५॥
यदि यात्राकाल में कान के बराबर होकर कौवा उड़े तो कुशल करता है; किन्तु
कार्य की सिद्धि नहीं होती है तथा यात्रा करने वाले के सामने में शब्द करता हुआ आ
जाय तो यात्रा में विघ्न करता है।।२५।।
चेच्छब्दो यद्यर्थे। गमने यात्रायां यदि कर्णसमो भवति काकः, कर्णप्रदेशे यातुर्गच्छति,
तदा क्षेमाय भवति। न कार्यसिद्धये क्षेमं करोति न कार्यसिद्धिं करोति। यदर्थं यात्रा तत्कार्य-
सिद्धिं न करोति। यातुरभिमुखं सम्मुखं विरुवन् शब्दं कुर्वन्नुपेत्यागच्छति तदा यात्रां निवर्त-
येद्यात्राविघ्नं करोति। उक्तं च—
यातुः कर्णसमो ध्वांक्षः क्षेमे नार्थप्रसाधकः।। इति।।२५।।
अन्यदप्याह—
वामे वाशित्वादौ दक्षिणपार्श्वेऽनुवाशते यातुः।
अर्थापहारकारी तद्विपरीतोऽर्थसिद्धिकरः ॥२६॥
यदि कौआ पहले यात्रा करने वाले के वाम भाग में शब्द करके फिर दक्षिण भाग
बृ० भ० द्वि०-३१
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४८२ बृहत्संहिता
में शब्द करे तो धन का अपहरण करने वाला होता है। इससे विपरीत हो ( दक्षिण भाग
में शब्द करके फिर वाम भाग में शब्द करे ) तो अर्थ-सिद्धि करता है।।२६।।
यातुः प्रथममादौ वामभागे वाशित्वा रुतं कृत्वा ततो यदि दक्षिणपार्श्वे वाशते तदा-
ऽर्थस्य धनस्यापहारकारी भवति। तद्विपरीतः पूर्वोक्ताद्विपर्यस्तो दक्षिणपार्श्वे वाशित्वा वामे
वाशते तदाऽर्थसिद्धिं करोति।।२६।।
अन्यदप्याह—
यदि वाम एव विरुवन् मुहुर्मुहुर्यायिनोऽनुलोमगतिः ।
अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चैवम् ।।२७।।
यदि गमन करने वाले के वाम भाग में स्थित कौआ पीछे की ओर गमनशील
होकर बार-बार शब्द करे तो अर्थ की सिद्धि होती है। पूर्व देशवासियों के दक्षिण में
स्थित काक का भी इसी प्रकार का फल होता है अर्थात् यात्राकाल में पूर्व देशवासियों
के दक्षिण में स्थित कौआ पीछे की ओर गमनशील होकर शब्द करे तो अर्थ की सिद्धि
होती है।।२७।।
यदि वाम एव वामभागे यायिनोऽनुलोमगतिर्यातुः पश्चाद्गमनशीलः स मुहुर्मुहुः पुनः-
पुनर्विरुयाद् वाशते तदाऽर्थस्य सिद्ध्यै सिद्धये भवति। एवमनेन प्रकारेण प्राच्यानां दक्षिणः
काकोऽपीष्यते। तेनैतदुक्तं भवति—'दक्षिणे मुहुर्मुहुर्वाशते यायिनोऽनुलोमगतिस्तद्देश्यत'
इति।।२७।।
अन्यदप्याह—
वामः प्रतिलोमगतिर्विरुवन् गमनस्य विघ्नकृद्भवति ।
तत्रस्थस्यैव फलं कथयति तद्वाञ्छितं गमने ।।२८।।
गमन करने वाले के वाम भाग में स्थित कौआ प्रतिलोम गति वाला ( अभिमुख में
आता हुआ ) होकर शब्द करे तो यात्रा में विघ्न करता है; किन्तु यात्रा में जो अभिलषित
फल होता है, वह घर बैठे ही मिल जाता है।।२८।।
वामे यातुर्वामभागस्थः प्रतिलोमगतिर्यायिनोऽभिमुखमागच्छति स च विरुवन् क्रोशन्।
गमनस्य यात्राया विघ्नकृद् भवति। गमने यात्रायां यद्वाञ्छितमभिलषितं फलं तत्रस्थस्यैव
यातुर्निश्चलस्य कथयति वक्ति।।२८।।
अन्यदप्याह—
दक्षिणविरुतं कृत्वा वामे विरुयाद्यथेप्सितावाप्तिः ।
प्रतिवाश्य पुरो यायाद् द्रुतमत्यार्गमो भवति ।।२९।।
यदि कौआ गमन करने वाले के दक्षिण भाग में शब्द करके वाम भाग में शब्द करे
तो अभिलषित अर्थ का लाभ होता है। यदि शब्द करके आगे होकर चला जाय तो
गमन करने वाले को अधिक धन का लाभ होता है।।२९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वायसविरुताध्यायः ४८३
दक्षिणे यातुर्दक्षिणभागे विरुतं कृत्वा वामे वामभागे विरुयाद्यदि वाशते, तदा यथेप्सि-
तस्य यथाभिलषितस्यार्थस्यावाप्तिर्लाभो भवति। उक्तं च—
वामपार्श्वस्थिताद्याति दक्षिणाद्रापि वामगः। इति।
प्रतिवाश्य शब्दं कृत्वा पुरोऽग्रतो द्रुतं त्वरितं यायाद् याति तदाग्रत एव यातुरत्यर्थस्य
महाधनस्यागमो लाभो भवति।।२९।।
अन्यदप्याह—
प्रतिवाश्य पृष्ठतो दक्षिणेन यायाद् द्रुतं क्षतजकारी।
एकचरणोऽर्कमीक्षन् विरुवंश्च पुरो रुधिरहेतुः ।।३०।।
यदि कौआ पीठ की तरफ शब्द करके दक्षिण पार्श्व से होकर चला जाय तो गमन
करने वाले के शरीर से किसी कारणवश खून निकलता है। यदि एक पाँव से खड़ा
होकर सूर्य को देखता हुआ शब्द करे तो आगे खून निकलने का कारण होता है।।३०।।
पृष्ठतः पश्चात् प्रतिवाश्य दक्षिणेन पार्श्वेन द्रुतं त्वरितं यायाद् गच्छेत् तदा क्षतज-
कारी क्षतजं रक्तं करोति। एकचरण एकपादः, एकेनैव पादेन स्थितोऽर्कमादित्यमीक्षन्
पश्यन् विरुवन् शब्दं कुर्वन् पुरोऽग्रतो रुधिरस्य रक्तस्रावस्य हेतुः कारणम्।।३०।।
अन्यदप्याह—
दृष्ट्वार्कमेकपादस्तुण्डेन लिखेद्यदा स्वपिच्छानि।
पुरतो जनस्य महतो वधमभिधत्ते तदा बलिभुक् ।।३१।।
यदि कौवा एक पाँव से खड़ा होकर सूर्य को देखते-देखते अपनी चोंच से पंखों
को कुरेदे तो भविष्य में किसी प्रधान पुरुष के वध को सूचित करता है।।३१।।
अर्कमादित्यं दृष्ट्वा अवलोक्य एकपाद एकेनैव पादेन स्थितस्तुण्डेन चञ्च्वा स्वपिच्छा-
न्यात्मीयान्यङ्गरुहाणि यदा बलिभुक् काको लिखेत्, तदा पुरतो महतः प्रधानस्य जनस्य
वधं मृत्युमभिधत्ते ददाति।।३१।।
अन्यदप्याह—
सस्योपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः।
आकुलचेष्टो विरुवन् सीमान्ते क्लेशकृद्यातुः ।।३२।।
यदि धान्यसहित खेत की शान्ता दिशा में स्थित होकर काक शब्द करे तो धान्य-
सहित भूमि का लाभ होता है तथा गाँव की सीमा के अन्त में स्थित होकर व्याकुलतापूर्वक
शब्द करे तो गमन करने वाले को क्लेश करने वाला होता है।।३२।।
सस्योपेते सस्यसंयुक्ते क्षेत्रे शान्ते काके विरुवति ससस्यायाः सस्यसंयुक्ताया भुवो
भूमेर्लब्धिर्लाभो भवति। सीमान्ते ग्रामसीमान्ते स्थितस्तत्र चाकुलचेष्टः सोद्यमो विरुवन्
यातुः क्लेशकृद्भवति।।३२।।

४८४ बृहत्संहिता
अन्यदप्याह—
सुस्निग्धपत्रपल्लवकुसुमफलानम्रसुरभिमधुरेषु ।
सक्षीराव्रणसंस्थितमनोज्ञवृक्षेषु चार्थसिद्धिकरः ॥३३॥
स्निग्ध पत्ते, नवीन पल्लव, फूल और फलों से नम्र, सुगन्धियुत, मधुर, छिद्ररहित
और मनोहर वृक्ष पर स्थित काक अर्थ-सिद्धि करने वाला होता है।।३३।।
सुस्निग्धेष्वभक्तेष्वक्षोटादिषु। सुस्निग्धपत्रेषु सुस्निग्धपल्लवेषु च। पत्राणि सामान्य-
वाचकानि। पल्लवान्यभिनवपत्राणि। कुसुमैः पुष्पैः फलैश्चानम्रेषु विनतेषु। सुरभिषु सुगन्धिषु
मधुरेषु सक्षीरेष्वर्कादिषु। अव्रणेषु अच्छिद्रेषु। मनोज्ञेषु चित्ताह्लादकेषु वृक्षेषु स्थितोऽर्थसिद्धि-
करोऽर्थानां सिद्धिं साधनं करोति।।३३।।
अन्यदप्याह—
निष्पन्नसस्यशाद्वलभवनप्रासादहर्म्यहरितेषु ।
धन्योच्छ्रयमङ्ग्ल्येषु चैव विरुवन् धनागमदः ॥३४॥
पके हुये धान्य वाले स्थान, दूबयुक्त गृह, देवगृह, हर्म्य, हरा स्थान, धन्य ( शुभ )
स्थान, ऊँचे स्थान और प्रशस्त स्थान में स्थित काक शब्द करे तो धन की प्राप्ति होती
है।।३४।।
निष्पन्नसस्येति । निष्पन्नानि सञ्जातानि सुपर्वाणि वा सस्यानि यत्र। शाद्वलैर्दूवार्भिर्युक्ते
भवने गृहे। प्रासादे देवप्रासादे गृहे वा। हर्म्ये गृहपृष्ठे हरिते हरितवर्णे स्थाने, अथवा
हरितं विद्यते यत्र एतेषु स्थानेषु। तथा धन्ये शुभे शुभस्थाने। उच्छ्रये उच्छ्रिते। मङ्गल्ये प्रशस्ते
देशे। एतेषु स्थानेषु काको विरुवन् धनागमदो धनस्य वित्तस्यागमं प्राप्तिं ददाति।।३४।।
गोपुच्छस्थे वल्मीकगेऽथवा दर्शनं भुजङ्गस्य ।
सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम् ॥३५॥
गौ की पूँछ या वल्मीक पर बैठा हुआ काक शब्द करे तो सर्प का दर्शन, भैंस पर
बैठा हुआ काक बोले तो शीघ्र ज्वर और गुल्म पर बैठा हुआ काक बोले तो अल्प
शुभाशुभ फल होता है।।३५।।
गोपुच्छस्थे गोलाङ्गूलस्थिते काकेऽथवा वल्मीकगे वल्मीककृतमृत्स्तूपगे। भुजङ्गस्य
सर्पस्य दर्शनं भवति। महिषगे काके विरुवति सद्यस्तस्मिन्नेवाहनि ज्वर उत्पद्यते। गुल्म
एकमूलः शाखासमूहः, तस्मिन् स्थिते काके विरुवति स्वल्पमत्यल्पं शुभाशुभं फलं ज्ञेय-
मिति।।३५।।
अन्यदप्याह—
कार्यस्य व्याघातस्तृणकूटे वामगेऽम्बुसंस्थे वा ।
ऊर्ध्वाऽग्निप्लुष्टेऽशनिहते च काके वधो भवति ॥३६॥

वायसविरुताध्यायः ४८५
तृण के ढेर पर या वाम भागगत जल में बैठा हुआ काक बोले तो कार्य का विनाश
होता है तथा ऊर्ध्व भाग में अग्निदग्ध या बिजली से हत वृक्ष पर बैठा हुआ काक शब्द
करे तो वध होता है।।३६।।
वामे वामभागस्थिते काके तत्र च तृणकूटे तृणराशौ स्थिते विरुवति क्रोशति कार्यस्य
व्याघातो विनाशो भवति। वामभागे गतेऽम्बुसंस्थे जलस्थे च रुवति कार्यस्य व्याघात एव।
ऊर्ध्वाग्निप्लुष्टे ऊर्ध्वभागेऽग्निना दग्धे वृक्षे च स्थिते विरुवति काके वधो भवति।।३६।।
अन्यदप्याह—
कण्टकमिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश्च।
कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः॥३७॥
काँटेदार सौम्य (दूध वाले) वृक्ष पर बैठा हुआ काक कार्य की सिद्धि और
कलह करता है। केवल काँटेदार वृक्ष पर बैठा हुआ काक कार्य की असिद्धि और
लताओं से वेष्टित वृक्ष पर बैठा हुआ काक बन्धन करता है।।३७।।
सौम्ये सौम्यवृक्षे सक्षीरे सफले कण्टकमिश्रे सकण्टके वृक्षे स्थिते काके कार्यस्य
सिद्धिर्भवति तत्र च कलहो भवति। तथा काके कण्टकिनि स्थिते कलहो भवति नार्थसिद्धिः।
वल्लीभिः परिवेष्टिते वृक्षे बन्धो बन्धनं भवति।।३७।।
अन्यदप्याह—
छिन्नाग्रेऽङ्गच्छेदः कलहः शुष्कद्रुमस्थिते ध्वाङ्क्षे।
पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः॥३८॥
यदि काक ऊपर से कटे हुये वृक्ष पर बैठा हो तो अङ्गच्छेद, सूखे वृक्ष पर बैठा हो
तो कलह और आगे या पीछे गोबर पर बैठा हो तो धन का लाभ करता है।।३८।।
छिन्नं कल्पितमग्रं प्रान्तं यस्मिन् वृक्षे तत्रस्थे काकेऽङ्गच्छेदो भवति। तथा ध्वाङ्क्षे काके
शुष्कद्रुमसंस्थिते नीरसवृक्षस्थिते कलहो भवति। पुरतोऽग्रतः पृष्ठतः पश्चाद्वा गोमयसंस्थे
धनप्राप्तिर्वित्तलाभो भवति।।३८।।
अन्यदप्याह—
मृतपुरुषाङ्गावयवस्थितोऽभिविरुवन् करोति मृत्युभयम्।
भञ्जन्नस्थि च चञ्च्वा यदि विरुवत्यस्थिभङ्गाय॥३९॥
मृत पुरुष के अंगों पर स्थित होकर बोलता हुआ काक गमन करने वाले के सामने
पड़े तो मृत्यु का भय होता है तथा चोंच से हड्डी को तोड़ता हुआ काक शब्द करे तो
गमन करने वाले की हड्डी टूटने का कारण होता है।।३९।।
मृतपुरुषाङ्गं मृतकशरीरावयवमन्यद्ग्राहादिकम्। तत्र च स्थितः। शवशरीरे तदवय-
वस्थितोऽभितः सम्मुखो यातुर्विरुवंश्च मृत्युभयं करोति। अस्थिं चञ्च्वा भञ्जन् विदारयन्
यदि विरुवति वाशते, तदा यातुरस्थिभङ्गाय भवति।।३९।।
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

४८६ बृहत्संहिता
अन्यदप्याह—
रज्ज्वस्थिकाष्ठकण्टकिनिःसारशिरोरुहानने रुवति ।
भुजगगददंष्ट्रितस्करशस्त्राग्निभयान्यनुक्रमशः ॥४०॥
यदि कौआ रस्सी, हड्डी, काष्ठ, कांटेदार वस्तु, असार वस्तु और केश को मुख में
लेकर शब्द करे तो क्रम से सर्प, रोग, दंष्ट्री ( सूअर आदि ), चोट, शस्त्र और अग्नि का
भय करता है॥४०॥
रज्जुः प्रसिद्धा। अस्थि काष्ठं कण्टकिः प्रसिद्धः। निःसारा असाराः। शिरोरुहाः केशाः।
काके रज्ज्वाद्यानने मुखे गृहीत्वा रुवति सत्यनुक्रमशो यथाक्रमं भुजगादीनां भयानि भवन्ति।
तद्यथा—रज्जुमुखे काके विरुवति भुजगस्य सर्पस्य सम्बन्धि भयं भवति। अस्थिमुखे
गदो रोगः। काष्ठमुखे दंष्ट्रिभयम्। दंष्ट्रिणो वराहादयः, तेभ्यो भयं भवति। कण्टकिमुखे
तस्करभयम्। निःसारमुखे शस्त्रभयम्। शिरोरुहमुखे काकेऽग्निभयं भवति। उक्तं च—
काष्ठरज्ज्वस्थिनिःसारकेशकण्टकिभृद्रवन् ।
व्यालाहिव्याधिशस्त्राग्नितस्करेभ्यो भयङ्करः।। इति।।४०।।
अन्यदप्याह—
सितकुसुमाशुचिमांसाननेऽर्थसिद्धिर्यथेप्सिता यातुः ।
पक्षौ धुन्वन्नूर्ध्वानने च विघ्नं मुहुः क्वणति ॥४१॥
यदि कौआ सफेद फूल, अपवित्र वस्तु और मांस को मुख में लेकर शब्द करे तो
गमन करने वाले के अभीष्ट अर्थ की सिद्धि होती है। पंखों को कँपाते हुये ऊपर को मुख
करके बार-बार शब्द करे तो यात्रा में विघ्न होता है॥४१॥
सितकुसुमं श्वेतपुष्पम्। अशुचि अमेध्यम्। मांसमामिषम्। एतान्यानने मुखे गृहीत्वा
यदि क्वणति विरुवति, तदा यातुर्यथेप्सिता यथाभिलषिताऽर्थसिद्धिर्भवति। पक्षावङ्गरुहौ
धुन्वन् कम्पयंस्तथाभूते काके ऊर्ध्वमुखे च क्वणति मुहुः शीघ्रमेव यात्राविघ्नं करोति॥४१॥
अन्यदप्याह—
यदि शृङ्खलां वरत्रां वल्लीं वाऽऽदाय वाशते बन्धः ।
पाषाणस्थे च भयं क्लिष्टापूर्वाध्विकयुतिश्च ॥४२॥
यदि कौआ लोहे की जञ्जीर, वरत्रा ( चमड़े की रस्सी ) और लता को मुख में
लेकर शब्द करे तो बन्धन होता है तथा पत्थर पर बैठा हुआ काक मार्ग में अपरिचित
मनुष्य का समागम करता है॥४२॥
यदि शृङ्खलां लोहमयीं वरत्रां चर्ममयीं रज्जुं वल्लीं वाऽऽदाय गृहीत्वा वाशते
विरौति, तदा यातुर्बन्धो भवति। पाषाणस्थेऽश्मनि स्थिते काके भयं भवति। क्लिष्टेन
क्लेशसंयुक्तेन अपूर्वेण यो न कदापि निर्दिष्टस्तेनाध्विकेन पान्थेन युतिः संयोगो भवति॥४२॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

वायसविरुताध्यायः ४८७
अन्यदप्याह—
अन्योऽन्यभक्षसंक्रामितानने तुष्टिरुत्तमा भवति।
विज्ञेयः स्त्रीलाभो दम्पत्योर्विरुवतोर्युगपत् ॥४३॥
यदि दो कौवे परस्पर एक-दूसरे के मुख में भोजन देते हों तो गमन करने वाले को
उत्तम तुष्टि का लाभ होता है तथा नर-मादा दोनों साथ-साथ शब्द करें तो स्त्री का लाभ
होता है।।४३।।
अन्योऽन्यं परस्परं भक्षसंक्रामितानने काके भक्षक्षिप्तमुखे यातुरुत्तमा प्रधाना तुष्टिर्भवति।
दम्पत्योर्जायापत्योर्युगपत् तुल्यकालं कृत्वा विरुवतोः क्रोशतोः स्त्रीलाभो योषित्प्राप्तिर्विज्ञेयो
विज्ञातव्यः ।।४३।।
अन्यदप्याह—
प्रमदाशिरउपगतपूर्णकुम्भसंस्थेऽङ्गनाऽर्थसम्प्राप्तिः ।
घटकूट्टने सुतविपद्घटोपहदनेऽन्नसम्प्राप्तिः ॥४४॥
स्त्री के मस्तक-स्थित जलपूर्ण घड़े पर बैठा हुआ कौआ स्त्री का लाभ कराता है।
घड़े को ताड़न करे तो पुत्र का मरण होता है तथा घड़े पर बीट कर दे तो भोजन का
लाभ होता है।।४४।।
प्रमदा स्त्री, तस्याः शिरउपगतो मूर्ध्नि स्थितो यः पूर्णकुम्भस्तत्रस्थे काकेऽङ्गनाऽर्थसम्प्राप्तिः।
स्त्रीलाभोऽर्थप्राप्तिश्च भवति। घटकूट्टने कुम्भताडने सुतविपत् पुत्रमरणं भवति। घटोपहदने
कुम्भपुरीषकरणेऽन्नसम्प्राप्तिर्भोजनलाभो भवति।।४४।।
अन्यदप्याह—
स्कन्धावारादीनां निवेशसमये रुवंश्चलत्पक्षः ।
सूचयतेऽन्यत्स्थानं निश्चलपक्षस्तु भयमात्रम् ॥४५॥
यात्रा में गया हुआ राजा जहाँ पर निवास करता है, उसको 'स्कन्धावार' कहते हैं।
स्कन्धावार आदि के निर्माण-काल में पंखों को चलाता हुआ काक शब्द करे तो दूसरे
स्थान में निवास करने को सूचित करता है तथा पंखों को स्थिर करके शब्द करे तो
केवल भय को सूचित करता है; स्थानान्तर गमन को नहीं।।४५।।
यात्रायां गतो राजा यत्र निवसति स स्कन्धावारः। स्कन्धावारादीनाम्। आदिग्रहणात्
प्रवासिनामन्येषामपि जनानां निवेशसमये निवेशनकाले। निवेशनमावासकादीनां रचनम्।
तस्मिंश्चलत्पक्षः चलिताङ्गरुहः काको रुवन् शब्दं कुर्वन्। अन्यद् द्वितीयं स्थानं सूचयते
कथयति। यथाऽन्यत्र भवद्भिर्वस्तव्यम्। निश्चलपक्षस्तु रुवन् भयमात्रं सूचयते नान्यत् स्थानम्।
तथा च पराशरः—
सेनानिविष्टः सार्थे वा वासो दृष्टो न वाशते।
तस्य देशप्रयातस्य भयमत्रोपजायते।। इति।।४५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४८८ बृहत्संहिता
अन्यदप्याह—
प्रविशद्भिः सैन्यादीन् सगृध्रकङ्कैर्विनामिषं ध्वाङ्क्षैः ।
अविरुद्धैस्तैः प्रीतिर्द्विषतां युद्धं विरुद्धैश्च ॥४६॥
यदि गिद्ध और कङ्क पक्षी के साथ कौए विना मांस के सेना आदि (पुर और गाँव
में परस्पर विरोधरहित होकर) प्रवेश करें तो शत्रु के साथ स्नेह एवं कलह करते हुये
प्रवेश करें तो युद्ध होता है।।४६।।
ध्वाङ्क्षैः काकैः। सगृध्रकङ्कैः गृध्रकङ्कसहितैः। विनामिषं मांसं विना। सैन्यादीन् सैन्य-
पुरग्रामान् प्रविशद्भिस्तैश्च परस्परमविरुद्धैर्विरोधमकुर्वद्भिर्द्विषता शत्रुणा सह प्रीतिर्भवति।
तैश्च विरुद्धैः सकलहैर्द्विषता सह युद्धं संग्रामो भवति।।४६।।
अन्यदप्याह—
बन्धः सूकरसंस्थे पङ्काक्ते सूकरे द्विकेऽर्थाप्तिः ।
क्षेमं खरोष्ट्रसंस्थे केचित् प्राहुर्वधं तु खरे ॥४७॥
सूअर पर स्थित काक हो तो बन्धन, कीचड़ से लिपटे हुये सूअर पर स्थित काक
हो तो धन का लाभ तथा गदहे और ऊँट पर स्थित काक हो तो क्षेम करता है। किसी
का मत है कि गदहे पर स्थित काक वध करता है।।४७।।
सूकरसंस्थे द्विके काके बन्धो बन्धनं भवति। पङ्काक्ते पङ्केन कर्दमेन लिप्ते सूकरे
स्थितेऽर्थाप्तिरर्थलाभो भवति। खरगते गर्दभस्थे। उष्ट्रगते करभस्थे काके क्षेमं भवति।
केचित् तु मुनयः खरसंस्थे वधं मरणं प्राहुः कथयन्ति। उक्तञ्च—
वधबन्धकरः क्रोशन् खरसूकरपृष्ठगः ।
पङ्कदिग्धशरीरस्य वराहस्योपरिस्थितः ।।
वायसः शस्यते यातुस्तूष्णींभूतो रुवन्नपि ।। इति ॥४७॥
अन्यदप्याह—
वाहनलाभोऽश्वगते विरुवत्यनुयायिनि क्षतजपातः ।
अन्येऽप्यनुव्रजन्तो यातारं काकवद्विहगाः ॥४८॥
घोड़े पर बैठा काक शब्द करे तो वाहन का लाभ होता है तथा पीछे-पीछे चलता
हुआ काक शब्द करे तो खून गिरता है। काक को छोड़कर अन्य पक्षी-गण भी गमन
करने वाले के पीछे चलें तो काक की तरह ही फल देते हैं।।४८।।
अश्वगते तुरगस्थे काके विरुवति वाहनानामश्वादीनां लाभो भवति। अनुयायिनि पश्चाद्
गम्यमाने काके विरुवति यातुः क्षतजपातो रक्तस्य पातः पतनं भवति। अन्येऽपरे येऽत्रा-
नुक्ता विहगाः पक्षिणस्ते यातारमनुव्रजन्तः पश्चाद् गच्छन्तः काकवद्वायसवज्ज्ञेया ज्ञातव्याः ।
यथा काकस्य फलं पूर्वमुक्तं तथा तेषामपीति। तथा च काश्यपः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वायसविरुताध्यायः ४८९
उलूककङ्कप्लवगा गृध्रश्येनादयश्च ये।
मांसाशिनश्च विहगास्तुल्या वायसचेष्टितैः।। इति।।४८।।
अथ विशेषमाह—
द्वात्रिंशत्प्रविभक्ते दिक्चक्रे यद्यथा समुद्दिष्टम्।
तत्तत्तथा विधेयं गुणदोषफलं यियासूनाम् ॥४९॥
द्वात्रिंशद्विभक्त दिक्चक्र में जिस प्रकार फल कहा गया है, उसी प्रकार गमन करने
वालों को गुण-दोष-फल कहना चाहिये। शान्त पूर्व दिशा में स्थित शकुन शुभ, अशुभ
शकुन मध्यम फल, दीप्त पूर्व दिशा में क्रूर चेष्टा वाले शकुन राजा से भय इत्यादि की
तरह फल कहना चाहिये॥४९॥
दिक्चक्रे दिङ्मण्डले द्वात्रिंशद्भागप्रविभक्ते यद्यत्फलं यथा येन प्रकारेण समुद्दिष्टं कथितं
तत्तत् फलं तथा तेनैव प्रकारेण यियासूनां जिगमिषूणां गुणदोषफलं विधेयं वक्तव्यम्।
यथा—प्राच्यां शान्तायां वा शुभचेष्टं पूजाफलं महद्वक्ति। अशुभचेष्टायां मध्यस्थं तस्यामेव
दीप्तायां क्रूरचेष्टो नृपाद्भयम्, एवमन्यास्वपि विज्ञेयम्॥४९॥
अथ रुतलक्षणफलमाह—
का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम्।
कव इति चात्मप्रीतयै केति रुते स्निग्धमित्राप्तिः ॥५०॥
करेति कलहं कुरुकुरु च हर्षमथ कटकटेति दधिभक्तम्।
केके विरुतं कुकु वा धनलाभं यायिन प्राह ॥५१॥
अपने घोसले में अवस्थित काक का 'का' शब्द निष्फल, 'कव' शब्द अपनी प्रसन्नता
के लिये, 'क' शब्द प्रिय की प्राप्ति कराने वाला, 'कर' शब्द कलह कराने वाला 'कुरु-
कुरु' शब्द आनन्द कराने वाला, 'कट कट' शब्द दही-भोजन कराने वाला एवं 'केके'
और 'कुकु' शब्द गमन करने वाले को धनप्राप्ति कराने वाला होता है॥५०-५१॥
का इति काकस्य रुतमिति। काकस्य वायसस्य स्वनिलयसंस्थस्य आत्मीयनीड-
स्थितस्य का—इति यद्रुतं तन्निष्फलं प्रोक्तं कथितम्। तस्य च शुभाशुभं फलं न किञ्चिद-
त्यर्थः। कव—इति रुतं चात्मप्रीतयै स्वप्रीतये भवति। क—इति रुते स्निग्धस्य वल्लभस्य
मित्रस्य सुहृद आप्तिः प्राप्तिर्भवति।
कर—इति रुते कलहः कलिर्भवति। कुरुकुरु च रुते हर्ष भवति। अथशब्दश्चार्थे।
कटकटेति रुते दधिभक्तं भोजनं भवति। केके—इति विरुते कुकु—इति विरुते वा यायिनो
गच्छतो धनलाभं वित्तप्राप्तिं प्राह कथयति॥५१॥
अन्यदप्याह—
खरेखरे पथिकागममाह कखाखेति यायिनो मृत्युम्।
गमनप्रतिषेधिकमा कखला सद्योऽभिवर्षाय ॥५२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४९० बृहत्संहिता
काक का ‘खरे खरे’ शब्द पथिक के आगमन को कहता है, ‘कखाखा’ शब्द गमन
करने वाले की मृत्यु को सूचित करता है, ‘आ’ शब्द यात्रा में विघ्न उपस्थित करता है
और ‘कखला’ शब्द सद्यः ( उसी दिन ) वर्षा के लिये होता है।।५२।।
खरेखरे इति रुते पथिकस्य पान्थस्यागमो भवति इत्याह कथयति वायसः। कखा-
खेति—रुते यायिनो मृत्युं मरणमाह। आ—इति रुतं गमनप्रतिषेधिकं गमनविघ्नं करोति।
कखला इति रुतं सद्योऽभिवर्षाय सद्यस्तस्मिन्नेवाहनि वर्षतीत्यर्थः।।५२।।
अन्यदप्याह—
काकेति विघातः काकटीति चाहारदूषणं प्राह ।
पीत्यास्पदं कवकवेति बन्धमेवं कगाकुरिति ॥५३॥
काक का ‘काक’ शब्द विनाश करता है, ‘ककाटि’ शब्द भोजन में विष आदि दोष
को, ‘कवकव’ शब्द प्रीत्यास्पद ( किसी से प्रीति ) को और इसी प्रकार ‘कगाकु’ शब्द
बन्धन को सूचित करता है।।५३।।
काक—इति विरुते विघातो विनाशो भवति। काकटीति विरुते आहारस्य भोजनस्य
दूषणं सदोषत्वं विषादिकेन प्राह कथयति। कवकव इति रुते प्रीत्यास्पदम्, प्रीत्याः स्नेहस्य
आस्पदं स्थानं प्रीत्यास्पदम्। केनचित् सह प्रीतिर्भवति। अन्ये प्रीत्या स्वदम्पती कवकवेति
पठन्ति। यथा स्वदम्पती भार्यापती कवकवेति प्रीत्या स्नेहेन कवकवेति रुतं कुर्वतः।
एतन्न शोभनम्। यस्माद् गर्गः—
रुते कवकवेति स्यात् प्रस्थिते वायसस्य तु।
अपूर्वप्रीतये तच्च धनलाभाय निर्दिशेत्।।
एवं कगाकु इति रुते बन्धो बन्धनं भवति।। इति।।५३।।
अन्यदप्याह—
करगौ विरुते वर्षं गुडवत् त्रासाय वदिति वस्त्राप्तिः ।
कलयेति च संयोगः शूद्रस्य ब्राह्मणैः साकम् ॥५४॥
काक का ‘करगौ’ शब्द करने पर वर्षा होती है। ‘गुड’ शब्द भय के लिये होता है,
‘वड’ शब्द वस्त्रलाभ कराने वाला होता है और ‘कलय’ शब्द ब्राह्मणों के साथ शूद्र का
समागम कराता है।।५४।।
करगौ इति रुते वृष्टिर्वर्षणं भवति। गुड इति त्रासाय भयाय भवति वड् इति रुते वस्त्र-
प्राप्तिरम्बरलाभः। कलय इति च रुते शूद्रस्य शूद्रजातेर्ब्राह्मणैः साकं सह संयोगो भवति।
अन्यदप्याह—
कदिति फलाप्तिः फलदाहिदर्शनं तड्डिति प्रहाराः स्युः ।
स्त्रीलाभः ख्रीति रुते गदिति गवां पुडिति पुष्पाणाम् ॥५५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वायसविरुताध्यायः ४९१
काक का 'कड' शब्द अभीष्ट फल-प्राप्ति और शुभ देने वाले सर्प का दर्शन
कराता है तथा 'टड्डु' शब्द घात, 'स्त्री' शब्द स्त्री-लाभ, 'गड्' शब्द गायों का लाभ और
'पुड्' शब्द फूलों का लाभ कराता है।।५५।।
कडिति रुते फलाप्तिरभीष्टफलप्राप्तिर्भवति। अथवा फलाप्तिः फललाभः। तथा फल-
दाहिदर्शनं फलप्रदस्र्याहेः शुभफलप्रदस्य सर्पस्य दर्शनमवलोकनं भवति। अथवा फलाप्ति-
र्भवति सदाप्तिः। फलदा फलप्रदा ततोऽपि विशिष्टतरं फलं लभ्यते। तथाऽहिदर्शनं भवति।
टड्डिति रुते प्रहारा घाताः स्युर्भवेयुः। स्त्री-इति रुते स्त्रीलाभो भवति। गडिति रुते गवां
लाभः। पुडिति रुते पुष्पाणां लाभः।।५५।।
अन्यदप्याह—
युद्धाय टाकुटाक्विति गुहु वह्निभयं कटेकटे कलहः।
टाकुलि चिण्टिचि केकेकेति पुरं चेति दोषाय ।।५६।।
यदि कौवा 'टाकुटाकु' शब्द करे तो युद्ध का कारण, 'गुहु' शब्द करे तो अग्निभय,
'कटेकटे' शब्द करे तो कलह और 'टाकुलि, चिण्टिचि, केकेका' शब्द करे तो दोष के
लिये होता है।।५६।।
टाकुटाक्विति रुतं युद्धाय संग्रामाय भवति। गुहु—इति रुते वह्निभयमग्निभयं
भवति। कटेकटे—इति रुते कलहः। टाकुलि चिण्टिचि केकेकेति पुरं चेति इत्येवं रुतं
दोषाय भवति।।५६।।
अन्यद् विशेषमाह—
काकद्वयस्यापि समानमेतत् फलं यदुक्तं रुतचेष्टिताद्यैः।
पतत्रिणोऽन्येऽपि यथैव काको वन्याः श्ववच्चोपरिदंष्ट्रिणो ये ।।५७।।
शब्द, चेष्टा, भोजन और उपवेशन के द्वारा एक काक का जो फल कहा गया है,
वही दो, तीन आदि का भी जानना चाहिये तथा अन्य अनुक्त पक्षीगण का भी फल
काक की तरह ही जानना चाहिये। इसी प्रकार वन में रहने वाले जन्तु और उपरिदंष्ट्री
( सूअर आदि ) का फल कुत्ते की तरह जानना चाहिये।।५७।।
रुतचेष्टिताद्यैः, रुतेन चेष्टितेनाऽऽसनाद्युपवेशनेन चैकस्य काकस्य यत् फलमुक्तं
तत्काकद्वयस्य। अपिशब्दात् त्रयस्य चतुष्कस्य च समानं वाच्यम्। अन्ये येऽत्रानुक्ताः
पतत्रिणः पक्षिणस्तेऽपि तेन प्रकारेण ज्ञेयाः। वन्या वने भवाः प्राणिनो ये नोक्तास्ते श्ववत्सार-
मेयवत्। ये चोपरिदंष्ट्रिणः सूकरादयस्ते श्ववच्छुनो यत्फलमुक्तं तत् तेषामपि। तथा च
पराशरः—
शकुनाः पुंसनामानो वायसेन प्रकीर्तिताः।
तथैव स्त्रीसनामानः पिपील्याः परिकीर्तिताः।। इति।।५७।।

४९२ बृहत्संहिता
अथान्येषु प्राणिषु चेष्टितमाह—
स्थलसलिलचराणां व्यत्ययो मेघकाले
प्रचुरसलिलवृष्ट्यै शेषकाले भयाय ।
मधु भवननिलीनं तत्करोत्याशु शून्यं
मरणमपि न नीला मक्षिका मूर्ध्नि लीना ॥५८॥
स्थलचारी ( अजादि ) जीव जलचारी और जलचारी ( मछली आदि ) जीव स्थल-
चारी हों तो वर्षाकाल में बहुत वृष्टि के लिये तथा अन्य ऋतु में भय के लिये होते हैं।
यदि मधुमक्खियाँ घर में छत्ता लगावें तो शीघ्र ही उस भवन को जनशून्य करती हैं तथा
नील वर्ण वाली मक्खियाँ जिस मनुष्य के शिर पर बैठें, उसकी मृत्यु होती है॥५८॥
मेघकाले वर्षासमये स्थलसलिलचराणां व्यत्ययो विपरीतः। स्थलचरा अजादयो
जलचारिणः। जलचरा मत्स्यादयः स्थलचारिणो यदा भवन्ति, तदा ते प्रचुरसलिलवृष्ट्यै
प्रभूतवृष्टये भवन्ति। शेषकाले वर्षातोऽन्यस्मिन् समये स्थलसलिलचराणां व्यत्ययो भयाय
भवति। मधुशब्देन मधुकर्यो मक्षिका उच्यन्ते। मधु भवने स्वयमेव निलीनं संश्लिष्टं तदेव
भवनमाशु क्षिप्रं शून्यं निर्जनं करोति। नीला नीलवर्णा मक्षिका मूर्ध्नि शिरसि जन्तोर्लीना
श्लिष्टा मरणं मृत्युमपि करोति॥५८॥
पिपीलिकाचेष्टितमाह—
विनिक्षिपन्त्यः सलिलेऽण्डकानि पिपीलिका वृष्टिनिरोधमाहुः ।
तरुं स्थलं वापि नयन्ति निम्नाद्यदा तदा ताः कथयन्ति वृष्टिम् ॥५९॥
यदि चीटियाँ अपने अण्डे को जल में डालें तो वर्षा का अभाव होता है। जब वही
चीटियाँ अण्डे को वृक्ष पर या उच्च स्थान पर ले जायँ तब वृष्टि होती है॥५९॥
पिपीलिकाः सलिले जले अण्डकानि विनिक्षिपन्त्यो वृष्टिनिरोधं वृष्ट्यभावमाहुः कथ-
यन्ति। निम्नात् तलात् तरुं वृक्षस्थलमुच्चस्थानं वापि यदि नयन्ति, तदा वृष्टिं वर्षणं कथ-
यन्ति वदन्ति ताः पिपीलिकाः॥५९॥
अथ शकुननिश्चयमाह—
कार्यं तु मूलशकुनेऽन्तरजे तदह्नि
विन्द्यात् फलं नियतमेवमिमे विचिन्त्याः ।
प्रारम्भयानसमयेषु तथा प्रवेशे
ग्राह्यं क्षुतं न शुभदं क्वचिदप्युशन्ति ॥६०॥
यात्रा आदि कार्यों के आरम्भकाल में जिस तरह का शकुन दिखाई देता है, उसी
तरह कार्य के अन्त तक शुभाशुभ फल होता है तथा कार्य के मध्य में जो शकुन दिखाई
देता है, उसका फल उसी दिन हो जाता है। इस अध्याय में जो शकुन कहे गये हैं,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA.

वायसविरुताध्यायः ४९३
उनका सब समय में विचार करना चाहिये। समस्त कार्यों के आरम्भ-समय में, यात्रा-
काल में और गृहप्रवेश आदि कार्यों में पूर्वोक्त सभी शकुनों का विचार करना चाहिये
तथा किसी भी कार्य में छींक शुभ नहीं होता है।।६०।।
मूलशकुनः प्रथमशकुनः। तस्मिन् कार्यं यात्राकार्यं विन्द्याज्जानीयात्। तस्मिन् शुभे
यात्रासिद्धिः, अशुभेऽसिद्धिरिति। अन्तरजे तदह्नीति। यातुर्मूलशकुनात् परतो यात्रापरिसमाप्तिं
यावत् तदन्तरे मध्ये योऽन्यः शकुनः शुभाशुभो भवति तदन्तरजे तस्मिन्नन्तरजे मध्यजाते
तस्य यत् फलं तदह्नि तस्मिन्नेव दिने विन्द्यात्। इमेऽस्मिन्नध्याये शकुना उक्तास्ते नियतं
सर्वकालं विचिन्त्याश्चिन्तनीयाः। प्रारम्भे सर्वकर्मणां यानसमये यात्राकाले तथा प्रवेशे
गृहप्रवेशादौ। एतेषु कार्येषु सर्वेषु शकुनाश्चिन्तनीयाः। तथा क्षुतं नासाशब्दः सर्वथा ग्राह्यम्।
क्षुतं श्रुत्वा न किञ्चित् कार्यमित्यर्थः। यतः क्वचिदपि न शुभदमुशन्ति कथयन्ति। सर्वत्रा-
शुभं क्षुतमिति।।६०।।
एतेषामेव शकुनानां प्रशंसार्थमाह—
शुभं दशापाकमविघ्नसिद्धिं मूलाभिरक्षामथवा सहायान्।
दुष्टस्य संसिद्धिमनामयत्वं वदन्ति ते मानयितुर्नृपस्य ॥६१॥
वे पूर्वोक्त शकुन माननीय राजा के शुभ दशा फल, निर्विघ्नपूर्वक कार्य का साधन,
मूल स्थान का पालन, मार्ग में सहायक, दुष्ट शत्रु का साधन, आरोग्य—इन सबों को
शुभ चेष्टाओं के द्वारा सूचित करते हैं।।६१।।
ते शकुना नृपस्य राज्ञो मानयितुः पूजयितुस्तेषां मानयति पूजयति। तस्य शकुनं
वदन्ति कथयन्ति। शुभं शोभनं दशापाकं दशाफलमविघ्नसिद्धिमविघ्नेन कार्याणां साधनम्।
मूलाभिरक्षा, मूलं मूलस्थानम्, तत्राभिरक्षामाभिमुख्येन पालनम्। अथवा पथि गच्छतुः
सहायान् सार्थकान्। दुष्टस्य दुःसाध्यस्य शत्रोः संसिद्धिं सुखेनाक्लेशेन साधनम्। अनामयत्वं
नीरोगत्वमेतत्सर्वं शुभसूचनाद् वदन्ति कथयन्ति।।६१।।
अथानिष्टशकुनविरुते दृष्टे यत्कर्तव्यं तदाह—
क्रोशादूर्ध्वं शकुनविरुतं निष्फलं प्राहुरेके
तत्रानिष्टे प्रथमशकुने मानयेत् पञ्च षट् च।
प्राणायामान्नृपतिरशुभे षोडशैव द्वितीये
प्रत्यागच्छेत् स्वभवनमतो यद्यनिष्टस्तृतीयः ॥६२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शाकुने वायसविरुतं
नाम पञ्चनवतितमोऽध्यायः ॥९५॥
कोई-कोई ( काश्यप आदि आचार्य ) कहते हैं कि एक कोस चले जाने के बाद
शकुन का शब्द निष्फल होता है तथा यात्राकाल में यदि पहला शकुन अशुभ हो तो

४९४ बृहत्संहिता
ग्यारह प्राणायाम और दूसरा शकुन अशुभ हो तो सोलह प्राणायाम करना चाहिये।
लेकिन यदि तीसरा शकुन अशुभ हो तो घर लौट आना चाहिये।
प्राणायाम का लक्षण—सात व्याहृति ( ओं भः, ओं भुवः, ओं स्वः, ओं महः,
ओं जनः, ओं तपः, ओं सत्यम् ), प्रणव ( ओं ), शिर ( आपोज्योतीरसो मृतम। )
इसके साथ गायत्री ( तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ) को
श्वास को छोड़ते हुये तीन बार पढ़े।।६२।।
इति 'विमला' हिन्दीटीकायां शाकुने वायसविरुताध्यायः पञ्चनवतितमः ॥९५॥
एके आचार्याः काश्यपादयः क्रोशादूर्ध्वं क्रोशादनन्तरं यच्छकुनविरुतं तन्निष्फलं
प्राहुरुक्तवन्तः। तथा च काश्यपः—
क्रोशादनन्तरं यत् स्याच्छुभं वा यदि वाऽशुभम्।
निष्फलं तच्च विज्ञेयं शकुनानां विचेष्टितम्।।
एवं क्रोशं यावच्छ्रूयमाणं सफलम्, क्रोशादनन्तरं निष्फलमिति। एतदाचार्यस्य
नाभिप्रेतम्। तत्रानिष्टे प्रथमशकुन इति । तत्र तस्मिन् यात्राकाले प्रथमशकुनेऽनिष्टे अशुभे
सति नृपती राजा विहितमना निर्मलचित्तः पञ्च षट् च एकादश प्राणायामान् मानयेत् पूजयेत्;
कुर्यादित्यर्थः। अथ प्राणायामलक्षणमाह—
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते।।
व्याहृतयः सप्त भवन्ति। ॐभूः। ॐभुवः। ॐस्वः। ॐमहः। ॐजनः। ॐतपः।
ॐसत्यम्। प्रणवः ॐकारः। शिरः आपो ज्योती रसोमृतम्। गायत्री प्रसिद्धा चतुर्विंशत्यक्षरा।
आयतप्राणः परित्यक्तश्वासः। त्रिः त्रीन् वारान् पठेत्। अशुभे षोडशैव द्वितीये, द्वितीये
शकुने अशुभे षोडश प्राणायामान् मानयेत् पूजयेत्, ततो व्रजेत्। अथ यदि तृतीयः
शकुनोऽनिष्टोऽशुभस्तदा स्वभवनमात्मीयगृहं प्रत्यागच्छेत् प्रतीपमा-गच्छेदिति।।६२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शाकुने वायसविरुतं
नाम पञ्चनवतितमोऽध्यायः ॥९५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA