बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
मुक्तालक्षणाध्यायः ३६५
अधुना मुक्तारचितानामाभरणानां संज्ञा आह—
सुरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम्।
इन्दुच्छन्दो नाम्ना विजयच्छन्दस्तदर्धेन ॥३१॥
शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता ।
अष्टाष्टकोऽर्धहारो रश्मिकलापश्च नवषट्कः ॥३२॥
द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितोऽर्धगुच्छाख्यः ।
षोडशभिर्माणवको द्वादशभिश्चार्धमाणवकः ॥३३॥
मन्दरसंज्ञोऽष्टाभिः पञ्चलता हारफलकमित्युक्तम्।
सप्ताविंशतिमुक्ता हस्तो नक्षत्रमालेति ॥३४॥
अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैर्वा।
तरलकमणिमध्यं तद्विज्ञेयं चाटुकारमिति ॥३५॥
एकावली नाम यथेष्टसङ्ख्या हस्तप्रमाणा मणिविप्रयुक्ता ।
संयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्ता ॥३६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मुक्तालक्षणं
नामैकाशीतितमोऽध्यायः ॥८१॥
एक हजार आठ लड़ी वाली मोतियों के माला की लम्बाई चार हाथ हो तो वह
माला 'इन्दुच्छन्द' संज्ञक होती है। यह देवताओं के भूषण के लिये होती है। पाँच सौ
चार लड़ी वाली माला की लम्बाई दो हाथ हो तो 'विजयच्छन्द', एक सौ आठ लड़ी
वाली अथवा इक्यासी लड़ी वाली माला की लम्बाई हो तो 'देवच्छन्द' संज्ञा है। चौंसठ
लड़ी वाली माला की संज्ञा 'अर्धहार', चौवन लड़ी वाली माला की संज्ञा 'रश्मिकलाप',
बत्तीस लड़ी वाली माला की संज्ञा 'गुच्छ', बीस लड़ी वाली माला की संज्ञा 'अर्धगुच्छ',
सोलह लड़ी वाली माला की संज्ञा 'माणवक', बारह लड़ी वाली माला की संज्ञा
'अर्धमाणवक', आठ लड़ी वाली माला की 'मन्दर' और पाँच लड़ी वाली माला की संज्ञा
'फलक' है। साथ ही एक हाथ लम्बी सत्ताईस मोतियों की माला का नाम 'नक्षत्रमाला'
है। पूर्वोक्त एक हाथ लम्बी माला के मध्य में मणि या सुवर्ण की गुलिका पिरोई जाय
या उस माला में मणिसोपान तथा हेमनिबद्ध मणि पिरोई जाय तो उसको 'चाटुकार'
कहते हैं। यथेष्ट मोतियों से युक्त हाथ भर लम्बी मध्यमणि से रहित माला को 'एकावलि'
और मध्यमणि से युक्त माला को भूषण के लक्षणों को जानने वालों ने 'यष्टी' नाम से
कहा है॥३१-३६॥
इति 'विमला'हिन्दीटीकायां मुक्तालक्षणाध्याय एकाशीतितमः ॥८१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३६६ बृहत्संहिता
सुरभूषणं लतानामिति । अष्टाधिकसहस्रं लतानां चतुर्हस्तं चत्वारो हस्ता दीर्घं
सुरभूषणं सुराणां देवानां भूषणमलङ्कारं तच्च क्रियते। तस्य नाम संज्ञा इन्दुच्छन्दः। तस्यैवेन्दु-
च्छन्दसोऽर्धेन दलेन पञ्चशतानि चतुरधिकानि लतानां द्विहस्तं च विजयच्छन्दःसंज्ञम्।
शतमष्टयुतमिति । अष्टयुतं शतं लतानां द्विहस्तं च हारः। एकयुताशीतिरेकाशीतिर्लतानां
द्विहस्तं च देवच्छन्दः। अष्टाष्टकोऽर्धहारः। अष्टाभिरष्टकैश्चतुःषष्ट्या लतानामर्धहारः। नव-
षट्कश्चतुष्पञ्चाशल्लता रश्मिकलापाख्यः।
द्वात्रिंशता त्विति । लतानां द्वात्रिंशता युक्तं गुच्छाख्यम्। विंशत्या लतानामर्धगुच्छाख्यः
कीर्तित उक्तः। षोडशभिर्लताभिर्माणवकाख्यः। द्वादशभिर्लताभिरर्धमाणवकः। द्विहस्त इति
सर्वत्रानुवृत्तिः।
मन्दरसंज्ञोऽष्टाभिरिति । अष्टाभिर्लताभिर्मन्दरसंज्ञः। पञ्चभिर्लताभिर्हारफलकमिति
उक्तं कथितम्। सप्तविंशतिर्मुक्ताफलानि हस्तप्रमाणा च नक्षत्रमालेति संज्ञा।
अन्तरमणिसंयुक्तेति । सैव लता हस्तप्रमाणा अन्तरे मध्ये मणिभिः संयुक्ता सुवर्ण-
गुलिकैर्वा कनकगुलिकैरथवान्तरे संयुक्ता मणिसोपानसंज्ञम्। तदेव तरलमणिमध्यम्।
हेमनिबद्धो मणिस्तरलमणिः, स मध्ये यस्य। तेन संयुक्तं चाटुकारमिति ज्ञेयम्।
एकावलीति । यथेष्टसङ्ख्या यथेष्टैर्मुक्ताफलैर्युक्ता हस्तप्रमाणा हस्तसम्मिता मणिभिर्वि-
प्रयुक्ता रहिता एकावली नाम तस्या भवति। या तु यथेष्टसङ्ख्या हस्तप्रमाणा मणिना तु
मध्ये संयोजिता सा भूषणविद्भिर्भूषणलक्षणज्ञैर्यष्टीत्युक्ता कथिता।।३१-३६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ मुक्तालक्षणं
नामैकाशीतितमोऽध्यायः॥८१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ पद्मरागलक्षणाध्यायः
अथ पद्मरागलक्षणं व्याख्यायते। तत्रादावेव पद्मरागाणामुत्पत्तेर्लक्षणमाह—
सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः ।
सौगन्धिकजा भ्रमराञ्जनाब्जजम्बूरसद्युतयः ॥१॥
कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः ।
स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥२॥
सौगन्धिक, कुरुविन्द, स्फटिक—इन तीन प्रकार के पत्थरों से पद्मराग (लाल)
की उत्पत्ति होती है। सौगन्धिक पत्थर से उत्पन्न पद्मराग भ्रमर, अञ्जन, मेघ या जामुन के
रस के समान कान्ति वाले होते हैं। कुरुविन्द पत्थर से उत्पन्न पद्मराग शुक्ल-कृष्णमिश्रित,
मन्द कान्ति वाले और धातुओं से विद्ध होते हैं तथा स्फटिक से उत्पन्न पद्मराग कान्ति
वाले, अनेक वर्ण वाले और विशुद्ध होते हैं॥१-२॥
सौगन्धिकेति। सौगन्धिककुरुविन्दौ धातुविशेषौ। स्फटिकः स्फटिकोपलः। एभ्यः
पद्मरागाणां सम्भूतिरुत्पत्तिः। तत्र च ये भ्रमरद्युतयो द्विरेफसमकान्तयः। अञ्जनद्युतयः। अब्ज-
वर्णा उत्पलवर्णा वा तत्तुल्यकान्तयः। जम्बूरसद्युतयः, जम्बूवृक्षविशेषः, तद्रससमकान्तयो
लोहितवर्णाः। ते सौगन्धिकजाः सौगन्धिकसम्भूताः।
कुरुविन्दभवा इति। ये तु शबलाः शुक्लकृष्णव्यामिश्राः। मन्दद्युतयोऽल्पकान्तयः।
धातुभिर्मृत्तिकादिभिर्विद्धाः सकलङ्कास्तत्संयोगाज्जातास्ते कुरुविन्दभवाः कुरुविन्दजाताः।
ये च द्युतिमन्तः प्रभावन्तो नानावर्णा विचित्रा विशुद्धा निर्मलास्ते स्फटिकभवाः स्फटिक-
सम्भूताः॥१-२॥
अधुनैतेषां गुणानाह—
स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः ।
अन्तःप्रभोऽतिरागो मणिरत्नगुणाः समस्तानाम् ॥३॥
स्निग्ध, कान्ति से दीपित, स्वच्छ कान्ति से युत, भारी, सुन्दर आकार वाले, मध्य
में प्रभावयुक्त, अति लोहित, श्रेष्ठ गुणों से युक्त—ये सभी पद्मराग मणि के प्रधान गुण
कहे गये हैं॥३॥
स्निग्धः स्नेहसंयुक्तः। प्रभानुलेपी प्रभया कान्त्या अनुलिम्पति तच्छीलः। स्वच्छो
निर्मलः। अर्चिष्मान् दीप्तियुक्तः। गुरुर्गौरवयुक्तः। सुसंस्थानः शोभनाकृतिः। अन्तःप्रभोऽन्तर्मध्ये
प्रभा कान्तिर्यस्य अतिरागोऽतीव रागेण लौहित्येन युक्तः। एते समस्तानां सर्वेषां पद्म-
रागादीनां मणिरत्नगुणाः प्रधानरत्नगुणाः॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३६८ बृहत्संहिता
अथैतेषामपि दोषानाह—
कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः।
दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥४॥
मलिन कान्ति वाले, रेखाओं से व्याप्त, मिट्टी आदि धातुओं से युत, फटे हुये,
अप्रशस्त, छिद्र से युत, सुन्दरता से रहित, कंकड़ों से युक्त—ये सभी मणियों के दोष
कहे गये हैं॥४॥
कलुषा अनिर्मलाः। मन्दद्युतयः स्वल्पकान्तयः। लेखाकीर्णा लेखाभिर्व्याप्ताः। सधातवो
धातुभिर्मृत्तिकादिभिः सहिताः। खण्डाः स्फुटिताः। दुर्विद्धा दुष्टेनाप्रशस्तेन वेधेन संयुक्ताः।
न मनोज्ञा न चित्ताह्लादकाः। सशर्कराः शर्करासंयुक्ताः। इत्येवम्प्रकारा मणिदोषाः ॥४॥
अथ सर्पमणिलक्षणमाह—
भ्रमरशिखिकण्ठवर्णो दीपशिखासमप्रभो भुजङ्गानाम्।
भवति मणिः किल मूर्धनि योऽनर्घेयः स विज्ञेयः ॥५॥
भ्रमर या मयूरकण्ठ के समान वर्ण वाला, दीपशिखा के समान कान्ति वाला और
अमूल्य मणि सर्पों के शिर में होता है॥५॥
भुजङ्गानां सर्पाणां मूर्धनि शिरसि भ्रमरसदृशो द्विरेफकान्तिः। शिखिकण्ठसदृशवर्णो
मयूरगलसमप्रभः। दीपशिखासमप्रभः प्रदीपाग्रकान्तिः। यो मणिर्भवति सोऽनर्घेयोऽमूल्यो
विज्ञेयो ज्ञातव्यः ॥५॥
अस्य प्रभावमाह—
यस्तं बिभर्ति मनुजाधिपतिर्न तस्य
दोषा भवन्ति विषरोगकृताः कदाचित्।
राष्ट्रे च नित्यमभिवर्षति तस्य देवः
शत्रूंश्च नाशयति तस्य मणेः प्रभावात् ॥६॥
जो राजा पूर्वोक्त मणि को धारण करता है, उसको कभी भी विष या रोगसम्बन्धी
दोष नहीं होते। उसके राज्य में इन्द्र सदा वर्षा करते हैं और उस मणि के प्रभाव से वह
राजा अपने शत्रुओं का नाश करने में समर्थ होता है॥६॥
यो मनुजाधिपती राजा तं सर्पमणिं बिभर्ति धारयति तस्य विषकृता रोगकृता दोषा
न कदाचिद्भवन्ति। तस्य च राज्ञो राष्ट्रे देवः शक्रो नित्यं सर्वकालं वर्षति। तस्य च मणेः
प्रभावाच्छत्रून् रिपून् स राजा नाशयति ॥६॥
अथास्य मूल्यपरिज्ञानार्थमाह—
षड्विंशतिः सहस्त्राण्येकस्य मणेः पलप्रमाणस्य।
कर्षत्रयस्य विंशतिरुपादिष्टा पद्मरागस्य ॥७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पद्मरागलक्षणाध्यायः ३६९
अर्धपलस्य द्वादश कर्षस्यैकस्य षट्सहस्राणि।
यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥८॥
माषकचतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ।
परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् ॥९॥
वर्णन्यूनस्यार्द्धं तेजोहीनस्य मूल्यमष्टांशम्।
अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम् ॥१०॥
आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद् द्विशतभागम्।
इति पद्मरागमूल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥११॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पद्मरागलक्षणं
नाम द्व्यशीतितमोऽध्यायः ॥८२॥
एक पलतुल्य पद्मराग का मूल्य २६००० रूपये, तीन कर्षतुल्य पद्मराग का मूल्य
२०००० रूपये, आधे पलतुल्य पद्मराग का मूल्य १२००० रूपये, एक कर्षतुल्य
पद्मराग का मूल्य ६००० रूपये, आठ मासे-तुल्य पद्मराग का मूल्य ३००० रूपये,
चार मासे तुल्य पद्मराग का मूल्य १००० रूपये और दो मासे तुल्य पद्मराग का मूल्य
५०० रूपये होता है। मध्य में गुणों की न्यूनता और अधिकता के अनुसार मूल्य की
कल्पना करनी चाहिये। अल्प वर्ण वाले पद्मराग का मूल्य आधा, तेजोहीन पद्मराग का
मूल्य अष्टमांश, थोड़े गुण वाले एवं बहुत दोष वाले पद्मराग का मूल्य विंशांश तथा
कुछ धूम्र वर्ण वाले, बहुत छिद्र वाले और थोड़े गुणों से युत पद्मराग का मूल्य शत-
द्वयांश होता है। इस तरह पूर्वाचार्यों द्वारा पद्मराग के मूल्य का अच्छी प्रकार उपदेश
किया गया है॥७-११॥
इति 'विमला'हिन्दीटीकायां पद्मरागलक्षणाध्यायः द्व्यशीतितमः ॥८२॥
षड्विंशतिः सहस्राणीति। एकस्य पद्मरागस्य पलप्रमाणस्य चतुष्कर्षस्य मूल्यं
षड्विंशतिः सहस्राणि रूपकाणामुपदिष्टान्युक्तानि। कर्षत्रयस्य विंशतिसहस्राण्युपदिष्टान्युक्तानि।
अर्धपलस्य द्वादशसहस्राणि मूल्यम्। एकस्य कर्षस्य षट्सहस्राणि। यश्च पद्मरागो-
ऽष्टाभिर्माषकैर्धृतस्तुलितस्तस्य सहस्रत्रयं रूपकाणां मूल्यम्।
माषकचतुष्टयमिति। माषकचतुष्टयेन यो धृतः पद्मरागस्तस्य दशशतक्रयं सहस्र-
मूल्यम्। द्वौ तु माषकौ पञ्चशतमूल्यौ। अन्तराले मध्ये हीनाधिकगुणानां परिकल्प्यं स्वबुद्ध्या
मूल्यमूह्यम्। यथा पलप्रमाणस्य षड्विंशतिः सहस्राणि। कर्षत्रयस्य विंशतिरेव। अर्ध-
कर्षोनपलस्य त्रैराशिकविधानेन क्षयः कार्यः।
बृ० भ० द्वि०-२४
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३७० बृहत्संहिता
वर्णंन्यूनस्यार्द्धमिति। वर्णंन्यूनस्य वर्णहीनस्य पद्मरागस्य प्रागुक्तान्मूल्यादर्धं मूल्यं
भवति। तेजोविहीनस्य विगतकान्तेः प्रागुक्तान्मूल्यादष्टांशमष्टमभागं मूल्यं भवति। योऽल्पगुणो
बहुदोषः स प्रागुक्तान्मूल्याद्विंशांशं विंशतितमं भागं प्राप्नोति लभते।
आधूम्रमिति। आधूम्रं कलुषं व्रणबहुलं प्रभूतच्छिद्रं स्वल्पगुणं मूल्यात् प्रागुक्ताद्
द्विशतभागं चाप्नुयाद् लभते। इत्यनेन प्रकारेण पूर्वाचार्यैः पद्मरागस्य मूल्यं समुद्दिष्टं
कथितमिति।।७-११।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ पद्मरागलक्षणं
नाम द्व्यशीतितमोऽध्यायः ॥८२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ मरकतलक्षणाध्यायः
अथ मरकतलक्षणं व्याख्यायते। तल्लक्षणं प्रयोजनं चाह—
शुकवंशपत्रकदलीशिरीषकुसुमप्रभं गुणोपेतम्।
सुरपितृकार्ये मरकतमतीव शुभदं नृणां विहितम् ॥१॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मरकतलक्षणं
नाम त्र्यशीतितमोऽध्यायः ॥८३॥
तोता, बांस का पत्ता, केला या शिरीषपुष्प के समान कान्ति वाले मरकत ( पन्ना )
को देवता या पितर के कार्य में धारण करने पर बहुत ही शुभ फल प्राप्त होता है॥१॥
इति 'विमला' हिन्दीटीकायां मरकतलक्षणाध्यायरुयशीतितमः ॥८३॥
यन्मरकतं शुकवंशपत्रसदृशं शुकपक्षसमवर्णं वंशपत्रसदृशं कदलीसदृशं श्यावपीतं
शिरीषकुसुमप्रभं शिरीषपुष्पतुल्यवर्णं श्वेतपीतं वा। एतेषामन्यतमवर्णोपेतं तच्च यदि गुणोपेतं
बहुगुणम्। बहुगुणाः स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मानित्यादिकास्तैर्युक्तं तथाविधं नृणां
पुंसां सुरपितृकार्ये देवकार्ये पितृकार्ये वाऽतीवात्यर्थं शुभदं विहितमुक्तमिति॥१॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ मरकतलक्षणं
नाम त्र्यशीतितमोऽध्यायः ॥८३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ दीपलक्षणाध्यायः
अथ दीपलक्षणं व्याख्यायते। तत्रादावेवाशुभलक्षणफलमाह—
वामावर्तो मलिनकिरणः सस्फुलिङ्गोऽल्पमूर्तिः
क्षिप्रं नाशं व्रजति विमलस्नेहवर्त्यन्वितोऽपि।
दीपः पापं कथयति फलं शब्दवान् वेपनश्च
व्याकीर्णार्चिर्विशलभमरुद्यश्च नाशं प्रयाति ॥१॥
जिस दीप की शिखा वामावर्त होकर भ्रमण करती हो, मलिन किरण वाली हो,
जिनमें चिनगारियाँ निकलती हों, छोटी शिखा से युत हो, निर्मल तेल और बत्ती से युत
होने पर भी शीघ्र बुझ जाती हो, शब्दयुत, कम्पित, विखरे किरणों वाली हो, विना
शलभ के गिरे या विना वायु के चले बुझ जाती हो—ऐसा दीपक पापफल देने वाला
कहा गया है॥१॥
यो दीपो वामावर्तो वामेनाप्रदक्षिणेनाऽऽवर्तेन परिभ्रमति। तथा मलिनकिरणोऽविमल-
रश्मिः। सस्फुलिङ्गोऽल्पमूर्तिः। स्फुलिङ्गैरग्निकिरणैः सहितः, अल्पमूर्तिर्लघुप्रकाशः। विमलेन
निर्मलेन स्नेहेन तैलेन वर्त्याप्यन्वितो युक्तः क्षिप्रमाश्वेव नाशं व्रजति याति। तथा शब्दवान्
शब्दयुक्तः। वेपनः कम्पनः कम्पनसंयुक्तः। व्याकीर्णार्चिर्विकीर्णज्वालः। विशलभमरुद्यश्च
नाशं प्रयाति, शलभेन पतङ्गेन मरुता वायुना विना यो नाशं प्रयाति गच्छति। स तथाभूतः
पापमनिष्टं फलं कथयति वक्ति॥१॥
अथ शुभलक्षणमाह—
दीपः संहतमूर्तिरायततनुर्निर्वेपनो दीप्तिमान्
निःशब्दो रुचिरः प्रदक्षिणगतिर्वैदूर्यहेमद्युतिः।
लक्ष्मीं क्षिप्रमभिव्यनक्ति सुचिरं यश्चोद्यतं दीप्यते
शेषं लक्षणमग्निलक्षणसमं योज्यं यथायुक्तितः ॥२॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दीपलक्षणं
नाम चतुरशीतितमोऽध्यायः ॥८४॥
मिली हुई शिखा वाला, दीर्घ मूर्ति वाला, कम्पनरहित, कान्तियुक्त, शब्दरहित,
प्रदक्षिणक्रम से घूमती हुई ज्वाला वाला, वैदूर्य मणि या सुवर्ण के समान ज्योति वाला
और बहुत काल तक लगातार प्रज्ज्वलित होने वाला दीप शीघ्र ही प्रभूत लक्ष्मी के
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
दीपलक्षणाध्यायः ३७३
आगमन को सूचित करता है। शेष लक्षणों को अग्नि के समान ही यहाँ पर भी समझना
चाहिये।।२।।
इति 'विमला' हिन्दीटीकायां दीपलक्षणाध्यायश्चतुरशीतितमः ॥८४॥
यो दीपः संहतमूर्तिर्घनदेहः। आयततनुर्दीर्घशरीरः। निर्वेपनः कम्परहितः। दीप्तिमान्
सुकान्तः। निःशब्दः स्वररहितः। रुचिरोऽतिप्रकाशः। प्रदक्षिणगतिः प्रदक्षिणज्वालः। वैदूर्यस्य
मणेर्नीलपीतस्य हेम्नः सुवर्णस्य वा सदृशी द्युतिः कान्तिर्यस्य। सुचिरमतिबहुकालमुद्यतमति-
तेजस्वी दीप्यते ज्वलति। स क्षिप्रमेवाश्वेव लक्ष्मीं श्रियमभिव्यनक्ति प्रकाशयति। शेषं
यल्लक्षणमत्र नोक्तं तद्यथायुक्तितो यथासम्भवमग्निलक्षणसमं तत्तुल्यं योज्यं योजयितव्यम्।
यथा—
ध्वजकुम्भहयेभभूभृतामनुरूपे वशमेति भूभृताम्।
उदयास्तधराधराऽधरा हिमवद्विन्ध्यपयोधरा धरा।।
तथा—
चामीकराशोककुरण्टकाब्जवैदूर्यनीलोत्पलसन्निभेऽग्नौ ।
न ध्वान्तमन्तर्भवनेऽवकाशं करोति रत्नांशुहतं नृपस्य।।
सर्वं चिन्त्यमग्नौ यत्सम्भवति। यथा 'स्वाहावसानसमये' इत्यादि विचिन्त्यम्।।२।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ दीपलक्षणं
नाम चतुरशीतितमोऽध्यायः ॥८४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ दन्तकाष्ठलक्षणाध्यायः
अथ दन्तकाष्ठलक्षणं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
वल्लीलतागुल्मतरुप्रभेदैः स्युर्दन्तकाष्ठानि सहस्रशो यैः ।
फलानि वाच्यान्यथ तत्प्रसङ्गो मा भूदतो वच्म्यथ कामिकानि ॥१॥
वल्ली, लता, गुल्म और वृक्षों के भेद से हजारों प्रकार के दतवन ( दातुन ) होते
हैं। जिनसे फल कहे जाते हैं, उनके प्रसंग को अधिक न बढ़ाकर केवल अभीष्ट फल
देने वाले दतवन को कहते हैं।।१।।
वल्ल्यः प्रसिद्धाः। लताश्च प्रसिद्धा एव। गुल्म एकमूलः शाखासमूहः। तरवो वृक्षाः।
एतेषां ये प्रभेदाः पृथक्पृथग् जातयस्तैः सहस्रशः सहस्रप्रकारैर्दन्तकाष्ठानि स्युर्भवेयुः।
यैः फलानि वाच्यानि वक्तव्यानि। अथ तत्प्रसङ्गो मा भूत् तेषां दन्तकाष्ठानामतिप्रसङ्गो-
ऽत्यासक्तिर्विस्तरेण मा भूत्। अतोऽस्माद्धेतोः कामिकान्यभीष्टफलप्रदानि वच्मि कथयामि।
अथशब्दः पादपूरणे।।१।।
अथ परिभाषार्थमाह—
अज्ञातपूर्वाणि न दन्तकाष्ठान्यद्यान्न पत्रैश्च समन्वितानि ।
न युग्मपर्वाणि न पाटितानि न चोर्ध्वशुष्काणि विना त्वचा च ॥२॥
अपरिचित पत्तों से युत, युग्म ( दो आदि ) पर्वों से युत, फटा हुआ, वृक्ष पर ही
सूखा हुआ या त्वचा से रहित दतवन नहीं करना चाहिये।।२।।
न ज्ञातं पूर्वं येषां तानि दन्तकाष्ठानि नाद्यान्न भक्षयेत्। पत्रैश्च समन्वितानि युक्तानि
नाद्याद् न भक्षयेत्। न युग्मपर्वाणि युग्मग्रन्थिभिर्युक्तानि नाद्यात्। पाटितानि दलितानि नाद्यात्।
न चोर्ध्वशुष्काणि ऊर्ध्वमुपरिभागं शुष्कं येषां तानि नाद्यात्। विना त्वचा च त्वग्रहितानि
नाद्यात्।।२।।
अथ प्रविभागेन फलान्याह—
वैकङ्कतश्रीफलकाश्मरीषु ब्राह्मी द्युतिः क्षेमतरौ सुदाराः ।
वृद्धिर्वटेऽर्के प्रचुरं च तेजः पुत्रा मधूके सगुणाः प्रियत्वम् ॥३॥
वैकङ्कत, नारियल और काश्मरी ( गम्भारी ) वृक्ष का दन्तधावन करने से ब्राह्मी
द्युति का लाभ, क्षेम वृक्ष का दन्तधावन करने से उत्तम स्त्री का लाभ, वटवृक्ष का
दन्तधावन करने से धन की वृद्धि, आक के वृक्ष का दन्तधावन करने से बहुत तेजलाभ,
महुये के वृक्ष का दन्तधावन करने से पुत्रलाभ और अर्जुन वृक्ष का दन्तधावन करने से
जनों के प्रियत्व का लाभ होता है।।३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
दन्तकाष्ठलक्षणाध्यायः ३७५
वैकङ्कत्तः प्रसिद्धो वृक्षः। श्रीफलं प्रसिद्धम्। काश्मरी प्रसिद्धा। एतेषु दन्तकाष्ठेषु
भक्षितेषु ब्राह्मी ब्राह्मणसम्बन्धिनी द्युतिः कान्तिर्भवति। ब्रह्मवर्चो भवतीत्यर्थः। क्षेमतरौ
क्षीरवृक्षे सुदाराः शोभनदारा भवन्ति। दाराः कलत्रम्। वटेऽर्थानां वृद्धिर्भवति। अर्केऽर्कवृक्षे
प्रचुरं प्रभूतं तेजः कान्तिर्भवति। मधूके पुत्राः सुता भवन्ति। ते च सगुणा गुणसहिताः।
प्रियत्वं जनवाल्लभ्यं च भवति।।३।।
अन्यदप्याह—
लक्ष्मीः शिरीषे च तथा करञ्जे
प्लक्षेऽर्थसिद्धिः समभीप्सिता स्यात्।
मान्यत्वमायाति जनस्य जात्यां
प्राधान्यमश्वत्थतरौ वदन्ति ॥४॥
शिरीष और करञ्ज वृक्ष का दन्तधावन करे तो लक्ष्मी की प्राप्ति, पाकड़ के वृक्ष का
दन्तधावन करे तो अभीष्ट अर्थ की सिद्धि, चमेली वृक्ष का दन्तधावन करे तो मान का
लाभ और पीपल के वृक्ष का दन्तधावन करे तो प्रधानता की प्राप्ति होती है।।४।।
शिरीषे शिरीषवृक्षे तथा तेनैव प्रकारेण करञ्जे प्लक्षे च लक्ष्मीः श्रीर्भवति। अर्थानां
धनानामभीप्सिताभिलषिता सिद्धिः स्याद् भवेत्। जात्यां जनस्य लोकस्य मान्यत्वं पूज्य-
त्वमाप्नोति लभते। अश्वत्थतरावश्वत्थवृक्षे प्राधान्यं प्रधानत्वं वदन्ति।।४।।
अन्यदप्याह—
आरोग्यमायुर्बदरीबृहत्योरैश्वर्यवृद्धिः खदिरे सबिल्वे।
द्रव्याणि चेष्टान्यतिमुक्तके स्युः प्राप्नोति तान्येव पुनः कदम्बे ॥५॥
बेर और कटेरी वृक्ष का दन्तधावन करे तो आरोग्य और दीर्घायु का लाभ, खैर
और बेल वृक्ष का दन्तधावन करे तो ऐश्वर्य की वृद्धि, तेंदुआ (तिनिस) वृक्ष का
दन्तधावन करे तो अभीष्ट द्रव्यों का लाभ और कदम्ब वृक्ष का दन्तधावन करे तो भी
अभीष्ट द्रव्यों का लाभ होता है।।५।।
बदरी वृक्षविशेषः। बृहती कण्टकारिका। अनयोर्यथासङ्ख्यम्। आरोग्यं नीरोगता
आयुर्दीर्घजीवित्वं भवति। खदिरे सबिल्वे बिल्वसहिते ऐश्वर्यस्य वृद्धिर्भवति। अथवा
ऐश्वर्यलब्धी। खदिरे ऐश्वर्यम्। बिल्बे लब्धिर्लाभः। अतिमुक्तके इष्टान्यभिलषितानि द्रव्याणि
धनादीनि स्युर्भवेयुः। कदम्बे तान्येव द्रव्याणि चेष्टानि प्राप्नोति पुनः।।५।।
अन्यदप्याह—
नीपेऽर्थाप्तिः करवीरेऽन्नलब्धिर्भाण्डीरे स्यादन्नमेवं प्रभूतम्।
शम्यां शत्रूनपहन्त्यर्जुने च श्यामायां च द्विषतामेव नाशः ॥६॥
नीम के वृक्ष का दन्तधावन करे तो धन का लाभ, करवीर (कनेर) के वृक्ष का
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३७६ बृहत्संहिता
दन्तधावन करे तो अन्न का लाभ, भाण्डीर वृक्ष का दन्तधावन करे तो इसी तरह अधिक
अन्न का लाभ, शमी वृक्ष का दन्तधावन करे तो शत्रुओं को मारने वाला, अर्जुन वृक्ष का
दन्तधावन करे तो भी शत्रुओं का नाश करने वाला और श्यामा के वृक्ष का दन्तधावन
करे तो भी शत्रु को ही मारने वाला होता है।।६।।
नीपे नीपवृक्षेऽर्थाप्तिरर्थलाभो भवति। करवीरेऽन्नलब्धिर्भोजनलाभः। भाण्डीरवृक्षे
प्रभूतं पर्याप्तमन्नमेव स्यात् भवेत्। शम्यां शमीवृक्षे शत्रून् रिपूनपहन्ति नाशयति स कर्ता।
अर्जुनवृक्षे चशब्दाच्छत्रूनेवापहन्ति। श्यामायां च द्विषतां शत्रूणामेव नाशः क्षयो भवति।।६।।
अन्यदप्याह—
शालेऽश्वकर्णे च वदन्ति गौरवं सभद्रदारावपि चाटरूषके।
वाल्लभ्यमायाति जनस्य सर्वतः प्रियङ्गवपामार्गसजम्बुदाडिमैः ॥७॥
शाल और अश्वकर्ण का दन्तधावन सम्मान को बढ़ाने वाला, देवदारू और वासिका
के वृक्ष का दन्तधावन भी सम्मान को बढ़ाने वाला तथा प्रियङ्गु, अपामार्ग, जामुन और
दाडिम के वृक्ष का दन्तधावन चारो तरफ से प्रियता की प्राप्ति कराने वाला होता है।।७।।
शाले शालवृक्षे अश्वकर्णे च गौरवं सम्मानं वदन्ति कथयन्ति। भद्रदारौ देवदारौ।
अपिशब्दः समुच्चये। तथा चाटरूषके वासिकायां चशब्दाद् गौरवमेव वदन्ति। प्रियङ्गुणा-
ऽपामार्गेण सजम्ब्वा जम्बूवृक्षसहितेन दाडिमेन च एतैः सर्वैरिव सर्वतः सर्वस्य वाल्लभ्यं
वल्लभत्वमायात्यागच्छति।।७।।
अथ दन्तकाष्ठलक्षणे विधानमाह—
उदङ्मुखः प्राङ्मुख एव वाब्दं कामं यथेष्टं हृदये निवेश्य।
अद्यादनिन्दन् च सुखोपविष्टः प्रक्षाल्य जह्याच्च शुचिप्रदेशे ॥८॥
उत्तराभिमुख या पूर्वाभिमुख सुखपूर्वक बैठकर वार्षिक यथाभिलषित कामना को
हृदय में रखकर विहित काष्ठ का दन्तधावन करना चाहिये। फिर दन्तधावन को धोकर
पवित्र स्थान में छोड़ देना चाहिये।।८।।
दन्तकाष्ठमुदङ्मुख उत्तराभिमुखः, पूर्वाभिमुखो वा। अब्दं वार्षिकं यथेष्टं यथाभिप्रेतं
काममिच्छां हृदये निवेश्य हृद्यवस्थाप्य अनिन्दन् कुत्सामकुर्वन् सुखोपविष्टः सुखासीनोऽद्याद्
भक्षयेत्। ततः प्रक्षाल्य शुचिप्रदेशे शुचौ शुद्धे प्रदेशे स्थाने जह्यात् परित्यजेत्।।८।।
अथ त्यक्तस्य लक्षणमाह—
अभिमुखपतितं प्रशान्तदिक्स्थं शुभमतिशोभनमूर्ध्वसंस्थितं यत्।
अशुभकरमतोऽन्यथा प्रदिष्टं स्थितपतितं च करोति मृष्टमन्नम् ॥९॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दन्तकाष्ठलक्षणं
नाम पञ्चाशीतितमोऽध्यायः ॥८५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
दन्तकाष्ठलक्षणाध्यायः ३७७
जिस तरफ से भक्षण किये थे उसी तरफ से प्रशान्त दिशा में जाकर दन्तधावन गिरे
तो शुभ और खड़ा हो जाय तो अतिशुभ और इससे उलटा गिरे तो अशुभ होता है। साथ
ही खड़ा होकर गिर जाय तो मिष्टान्न का लाभ कराता है॥९॥
इति 'विमला'हिन्दीटीकायां दन्तकाष्ठलक्षणाध्यायः पञ्चाशीतितमः ॥८५॥
अभिमुखपतितम्। येन भक्षितं तस्यैवाभिमुख्येन सम्मुखं पतितं प्रशान्तदिक्स्थं
प्रशान्तायां च दिशि स्थितं च शुभम्। यदूर्ध्वसंस्थितं तत्र च स्वोध्र्वस्थं भवति, तदति-
शोभनम्। अतोऽस्मात् प्रकारादन्यथा विपर्ययेणानभिमुखं पतितमप्रशान्तदिक्स्थमनूर्ध्वसंस्थितं
न शुभकरं प्रदिष्टमुक्तम्। स्थितपतितं च करोति मृष्टमन्नम्। स्थित्वा यत्पतितं तन्मृष्टमन्नं
करोति विदधाति॥९॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ दन्तकाष्ठलक्षणं
नाम पञ्चाशीतितमोऽध्यायः ॥८५॥
अथ शाकुनाध्यायः
अथ शाकुनं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
यच्छक्रशुक्रवागीशकपिष्ठलगरुत्मताम् ।
मतेभ्यः प्राह ऋषभो भागुरेर्देवलस्य च ॥१॥
भारद्वाजमतं दृष्ट्वा यच्च श्रीद्रव्यवर्धनः।
आवन्तिकः प्राह नृपो महाराजाधिराजकः ॥२॥
सप्तर्षीणां मतं यच्च संस्कृतं प्राकृतञ्च यत्।
यानि चोक्तानि गर्गाद्यैर्यत्राकारैश्च भूरिभिः ॥३॥
तानि दृष्ट्वा चकारेमं सर्वशाकुनसंग्रहम् ।
वराहमिहिरः प्रीत्या शिष्याणां ज्ञानमुत्तमम् ॥४॥
शुक्र, इन्द्र, बृहस्पति, कपिष्ठल मुनि, गरुड़, भागुरि, देवल—इनके मत को देख-
कर ऋषभाचार्य ने जो कहा है, भारद्वाज मुनि के मत को देखकर अवन्ती के महाराजाधिराज
राजा श्रीद्रव्यवर्धन ने जो कहा है, संस्कृत और प्राकृत भाषा में जो सप्तर्षियों का मत है
और गर्ग आदि यात्राकारियों ने जो कहा है, उन सबको देखकर वराहमिहिर ने शिष्यों की
प्रसन्नता के लिये उत्तम ज्ञानयुत शाकुनसंग्रह किया है॥१-४॥
यत् शाकुनं शक्र इन्द्रः, शुक्नो भार्गवः, वागीशो बृहस्पतिः, कपिष्ठलो मुनिः, गरुत्मान्
वैनतेयः। एषां शास्त्रकर्त्तृणां मतेभ्यः ऋषभाख्य आचार्यः प्राह प्रोक्तवान्। तथा भागुरेर्मुने-
र्देवलस्य च मुनेर्मताद्यच्छाकुनम्, ऋषभाख्यः प्राह।
भारद्वाजमतमिति। यच्च शाकुनं भारद्वाजाख्यस्य मुनेर्मतं दृष्ट्वावलोक्य श्रीद्रव्य-
वर्धनाख्यो महाराजाधिराजवंशप्रसूत आवन्तिक उज्जयिन्या नृपो राजा प्राहोक्तवान्।
मतं सप्तर्षीणामिति। यच्छाकुनं सप्तर्षीणां मरीच्यादीनां मतम्। यच्चान्यत् संस्कृतं
लोके व्यवहरति। यच्च प्राकृतं शाकुनं संस्कृतवाचा रहितम्। यानि च शाकुनानि गर्गाद्यैर्गर्ग-
वसिष्ठपराशरकाश्यपैरृषिपुत्रैर्भूरिभिर्बहुभिर्यात्राकारैरुक्तानि कथितानि।
तानि च दृष्ट्वालोक्येमं वराहमिहिरो वराहमिहिराख्यो मगधद्विजः शिष्याणां प्रीत्या
हेतुभूतया प्रीत्यैव प्रीत्यर्थं सर्वशाकुनसंग्रहं संक्षेपमुत्तमं प्रधानं चकार कृतवान्॥१-४॥
अथ शाकुने प्रयोजनमाह—
अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम्।
यत्तस्य शकुनः पाकं निवेदयति गच्छताम् ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनाध्यायः ३७९
मनुष्यों के पूर्वजन्मार्जित जो शुभाशुभ कर्म होते हैं, उन कर्मों के शुभाशुभ फल को
गमनकालिक शाकुन प्रकाशित करता है।।५।।
पुंसां पुरुषाणामन्यजन्मान्तरकृतं प्राग्जन्मन्वर्जितं शुभाशुभं यत् कर्म तस्य कर्मणो
यत्पाकं शुभाशुभफलं तच्छकुनः शुभाशुभफलं निवेदयति सूचयति। कश्चित् प्राणिरूपः
स गच्छतां व्रजमानानां यात्रायै निवेदयति।।५।।
अधुना शाकुनानां भेदप्रदर्शनार्थमाह—
ग्रामारण्याम्बुभूव्योमद्युनिशोभयचारिणः ।
रुतयातेक्षितोक्तेषु ग्राह्याः पुंस्त्रीनपुंसकाः ॥६॥
गाँव में रहने वाले, वनचर, जलचर, पृथ्वीचर, आकाशचर, दिनचर, रात्रिचर और
उभयचर जीवों के शब्द, गमन, दृष्टि और उक्ति से पुरुष, स्त्री और नपुंसक का ग्रहण
करना चाहिये।।६।।
शकुनाः केचिद् ग्राम्या ग्रामभवाः, अन्ये आरण्या अरण्यनिवासिनः, अन्येऽम्बुचरा
जलचारिणः, भूचराः स्थलवासिनः, व्योमचरा आकाशचराः। तत्र ग्राम्या नरतुरगगजसारमेयाः।
आरण्याः सिंहव्याघ्रवराहद्वीपिमृगाः। अम्बुचरा हंसादयः। भूचराः श्वाविधनकुलसर्पादयः।
व्योमचरा ये नित्यमेवाकाशस्था दृश्यन्ते, न कदाचिद् भूमौ श्लिष्यन्ते। अन्ये द्युचारिणोऽहश्चराः,
अन्ये निशाचरा रात्रिचराः, अन्य उभयचारिणो द्युचरा रात्रिचराश्च। एतेषां लक्षणमुत्तरत्राचार्य
एव वक्ष्यति—'श्यामाशयेनशशघ्नवञ्जुल' इत्यादिना ग्रन्थेन वयमपि तत्रैव व्याख्यास्यामः।
एतेषु च शकुनेषु पुंस्त्रीनपुंसका रुतयातेक्षितोक्तेषु ग्राह्या ग्रहीतव्याः। रुतं शब्दः। यातं
तेषामेव गमनम्। एतेषु लक्षणप्रेक्षणमीक्षितम्। तेषामेव विचारः किमयं पुरुषः स्त्री वा
नपुंसको वेत्युक्तम्। तत्कालजातो बाह्यशब्दो दूरस्थः शकुनो यत्र व्याहरति तत्र संशयः,
किं पुरुषेण व्याहृतम्, स्त्रिया वा, नपुंसकेनैव वा। तत्र यदि पुंसः सम्भाषणं निकटस्थस्य
तत्कालं श्रूयते, तदा स शकुनः पुमान्। अथ स्त्रियाः श्रूयते तदा सापि स्त्री। नपुंसकस्य
यदि श्रूयते तदा नपुंसक एवेति।।६।।
पुनरप्याह—
पृथग् जात्यनवस्थानादेषां व्यक्तिर्न लक्ष्यते।
सामान्यलक्षणोद्देशे श्लोकावृषिकृतावभौ ॥७॥
पृथक् जाति और अनवस्था के कारण इनमें व्यक्ति (स्त्री, पुरुष और नपुंसक)
का विभाग नहीं लक्षित होता है; अतः इनके ज्ञान के लिये ऋषियों ने ये वक्ष्यमाण दो
श्लोक कहे हैं।।७।।
एषां शकुनानां पृथक् पृथग्जातियोनिविभागः। अनवस्थानमेकदेशे त्वनवस्थितेरभावः।
इति हेतोर्व्यक्तिविभागो न लक्ष्यते न ज्ञायते। सामान्यमविशेषलक्षणं यत्तस्य य उद्देशः कथनं
तत्रेमावृषिकृतौ मुनिप्रणीतौ वृद्धगर्गोक्तौ द्वौ श्लोकावुच्येते।।७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३८० बृहत्संहिता
अधुना तावेवाह—
पीनोन्नतविकृष्टांसाः पृथुग्रीवाः सुवक्षसः ।
स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः ॥८॥
तनूरस्कशिरोग्रीवाः सूक्ष्मास्यपदविक्रमाः ।
प्रसक्तमृदुभाषिण्यः स्त्रियोऽतोऽन्यन्नपुंसकम् ॥९॥
मोटे ऊँचे और विस्तीर्ण कन्धे वाले, विस्तीर्ण गरदन वाले, सुन्दर छाती वाले,
अल्प गम्भीर स्वर वाले और स्थिर पराक्रम वाले जीव 'पुरुष'संज्ञक शाकुन कहे गये
हैं। कृश छाती, शिर और गरदन वाले, छोटे मुख, पाँव और पराक्रम वाले तथा मधुर
शब्द करने वाले जीव 'स्त्री'संज्ञक शाकुन को गये हैं। पुरुष, स्त्री दोनों के मिश्रित लक्षण
जहाँ हों वे 'नपुंसक'-संज्ञक जीव कहे गये हैं॥८-९॥
पीनोन्नतविकृष्टांसा इति । पीनौ मांसोपचितौ उन्नतावुच्चौ विकृष्टौ विस्तीर्णौ अंसौ
स्कन्धौ येषाम्। पृथुग्रीवा विस्तीर्णशिरोधराः। सुवक्षसः शोभनोरःस्थलाः। स्वल्पगम्भीरविरुताः।
स्वल्पमत्यल्पं गम्भीरं सानुनादं विरुतं शब्दा येषाम्। ये च स्थिरविक्रमा दृढपौरुषाः। ते
पुमांसः पुरुषाख्याः शकुनाः।
तनूरस्केति । उरो वक्षः। शिरः शीर्षम्। ग्रीवा शिरोधरा। एतान्यवयवानि तनूनि यासां
तास्तथाभूताः। ककारोऽत्र समासान्तः। सूक्ष्ममल्पमास्यं मुखं पदानि चरणानि विक्रमः
पुरुषार्थश्च सूक्ष्मो यासाम्। प्रसक्तं श्लिष्टं मृदु मधुरं भाषितं रवो यासां ताः स्त्रियः। अतोऽन्यन्न-
पुंसकमिति । अतोऽस्माल्लक्षणद्वयादन्यल्लक्षणसंयुक्तं नपुंसकम्। एतदुक्तं भवति—पुरुषस्य
यल्लक्षणमुक्तं यच्च स्त्रियास्तेन व्यामिश्रेण लक्षणद्वयेन संयुक्तं नपुंसकं ज्ञेयम्॥८-९॥
अत्र यन्नोक्तं तल्लक्षणं तल्लोकाद् ज्ञातव्यमित्येतदाह—
ग्रामारण्यप्रचाराद्यं लोकादेवोपलक्षयेत् ।
सञ्चिक्षिप्सुरहं वच्मि यात्रामात्रप्रयोजनम् ॥१०॥
गाँव में रहने वाले, वन में रहने वाले और उभयचारी शाकुनों को लोकव्यवहार से
जानना चाहिये। संक्षेप की इच्छा वाला मैं ( वराहमिहिर ) अब यात्रा में प्रयोजनीय शाकुनों
को कहता हूँ॥१०॥
तेषां शकुनानां ग्रामप्रचारमरण्यप्रचारं च लोकाल्लोकततोऽन्यशास्त्रादुपलक्षयेद् जानीयात्।
आदिग्रहणाद् द्युनिशोभयचारित्वम्। सञ्चिक्षिप्सुरिति । संक्षेपं कर्तुमिच्छुः सञ्चिक्षिप्सुः।
अहं सञ्चिक्षिप्सुर्यात्रामात्रप्रयोजनम्। यात्रायां समानं यावन्मात्रमुपयुज्यते तावन्मात्रं वच्मि
कथयामि इति हेतोर्विस्तरेण मयैतन्नोक्तं ग्रन्थगौरवभयादिति॥१०॥
अधुना किमधिकृत्य शाकुनं विचारयेदित्याह—
पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम् ।
सार्थे प्रधानं साम्ये स्याज्जातिविद्यावयोऽधिकम् ॥११॥
शाकुनाध्यायः ३८१
मार्ग में गमन करने वाले मनुष्य के ऊपर, सैन्य में राजा के ऊपर, पुर में देवता
( नगर-स्वामी ) के ऊपर, जन-समुदाय में प्रधान के ऊपर, प्रधानों के साम्य में जाति
के ऊपर, जातियों के साम्य में विद्या के ऊपर और विद्या के साम्य में वयोधिक के ऊपर
शाकुन का फल पड़ता है।।११।।
पथि गच्छतः पुंस आत्मानं स्वशरीरमुद्दिश्य शाकुनं शुभाशुभं लक्षयेत्। सैन्ये सेनायां
नृपं राजानमुद्दिश्य। पुरे नगरे देवतां दैवतस्वामिनमुद्दिश्य। पुरग्रहणमुपलक्षणार्थम्। ग्रामाधि-
पतिमुद्दिश्य। सार्थे जनसमूहे प्रधानमर्थपतिमुद्दिश्य। यदा सार्थे बहवः प्रधाना भवन्ति, तदा
साम्ये जातितो जातिसाम्ये विद्याया योऽधिकस्तम्। विद्यासाम्ये या वयसोऽधिकस्तमिति।।११।।
अधुना दिग्लक्षणफलनियमांश्चाह—
मुक्तप्राप्तैष्यदर्कसु फलं दिक्षु तथाविधम्।
अङ्गारदीप्तधूमिन्यस्ताश्च शान्तास्ततोऽपराः ॥१२॥
सूर्योदय से एक प्रहर दिन उठे तक ऐशानी दिशा मुक्तसूर्या, पूर्वदिशा प्राप्तसूर्या
और अग्नि दिशा ऐष्यत्सूर्या होती है। एक प्रहर के बाद दो पहर दिन उठे तक पूर्वदिशा
मुक्तसूर्या, आग्नेयी दिशा प्राप्तसूर्या और दक्षिण दिशा ऐष्यत्सूर्या होती है। इसी प्रकार
शेष छः प्रहरों में भी जानना चाहिये। मुक्तसूर्या 'अङ्गारिणी', प्राप्तसूर्या 'दीप्ता', ऐष्यत्सूर्या
'धूमिनी' और शेष पाँच दिशायें 'शान्ता' कहलाती हैं।।१२।।
अत्र तावदादित्यस्य भ्रमणवशेन्राष्टासु दिक्ष्ववस्थितिर्भवति। तद्यथा—सूर्योदयादारभ्य
यावद्दिनस्य प्रहरस्तावदैशानी दिङ्मुक्तसूर्या। पूर्वा प्राप्तसूर्या। आग्नेयी एष्यत्सूर्या। ततः
प्रहरादूर्ध्वं यावत्प्रहरद्वयं प्राची मुक्तसूर्या। आग्नेयी प्राप्तसूर्या। दक्षिणैष्यत्सूर्या। ततः
प्रहरद्वयादूर्ध्वं प्रहरत्रयं यावदाग्नेयी मुक्तसूर्या। दक्षिणा प्राप्तसूर्या। नैर्ऋती एष्यत्सूर्या।
ततः प्रहरत्रयादूर्ध्वमस्तमयं यावद्दक्षिणा मुक्तसूर्या। नैर्ऋती प्राप्तसूर्या। पश्चिमैष्यत्सूर्या।
ततोऽस्तमयादूर्ध्वं यावत् प्रथमो रात्रिप्रहरस्तावन्नैर्ऋती मुक्तसूर्या। पश्चिमा प्राप्तसूर्या।
वायव्येष्यत्सूर्या। ततो रात्रिप्रहरादूर्ध्वं प्रहरद्वयं यावत् पश्चिमा मुक्तसूर्या। वायवी प्राप्तसूर्या।
उत्तरैष्यत्सूर्या। ततः प्रहरद्वयादूर्ध्वं प्रहरत्रयं यावद्वायवी मुक्तसूर्या। उत्तरा प्राप्तसूर्या।
ऐशान्यैष्यत्सूर्या। ततः प्रहरत्रयादूर्ध्वं सूर्योदयं यावदुत्तरा मुक्तसूर्या। ऐशानी प्राप्तसूर्या।
पूर्वैष्यत्सूर्या। एतासु मुक्तप्राप्तैष्यदर्कसु दिक्षु फलं तथाविधमिति। तासु दिक्षु तथाविधं
नामानुरूपं फलमादेश्यम्। अशुभमित्यर्थः। मुक्तसूर्यायां दिशि यदशुभं शाकुनमुक्तं तन्मुक्तं
गतम्। तत्फलमतीतमित्यर्थः। प्राप्तसूर्यायां यदशुभं शाकुनं तत्प्राप्तम्। तस्मिन्नेवाहनि
भवति। एष्यत्सूर्यायां यदशुभं शाकुनं तदेष्यत् पुरस्ताद्भविष्यति। अङ्गारदीप्तधूमिन्यश्चेति ।
ता दिशो मुक्तप्राप्तैष्यदर्कख्या यथाक्रमेणाङ्गारदीप्तधूमिन्यः। मुक्तसूर्याङ्गारिणी। प्राप्तसूर्या
दीप्ता। एष्यत्सूर्या धूमिनी। ततः पराः पञ्च दिशः शान्ताः। उक्तं च—
अङ्गारिणी दिग्रविविप्रमुक्ता यस्यां रविस्तिष्ठति सा प्रदीप्ता।
प्रधूमिता यास्यति यां दिनेशः शेषाः प्रशान्ताः शुभदाश्च ताः स्युः।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३८२ बृहत्संहिता
अत्र केचिद् रात्रेरर्धप्रहरमारभ्य यावद्दिनस्यार्धप्रहरं तावत् प्राचीं दिशं प्राप्तसूर्यामिति
वर्णयन्ति। तत ऊर्ध्वं सार्धप्रहरं यावदाग्नेयीम्। शेषास्वप्येवं ज्ञेयम्। अयुक्तमेतत्।
यस्माद् भगवान् गर्गः—
उदये दीप्यते पूर्वा पूर्वाह्ने पूर्वदक्षिणा।
मध्याह्ने दक्षिणा दीप्ताऽथापराह्ने तु नैर्ऋती।।
पश्चिमास्तमये दीप्ता वायवी पूर्वरात्रिके।
सौम्या तु मध्यरात्रे स्यादैशान्यपररात्रिके।।
सम्प्राप्तानागतातीता दीप्यन्तेऽत्र सदा दिशः।
व्याहरन्ते मृगास्तासु वेदयन्ति महद् भयम्।।
ताश्व वृत्तमतीतायां दीप्तायां शंसते मृगः।
अनागतायामाशादि दीप्तायां तद्दिने स्मृतम्।। इति।।१२।।
अधुनाऽऽसां दिशां फलनियमानाह—
तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्यमादिशेत्।
परिशेषदिशोर्वाच्यं यथासन्नं शुभाशुभम् ॥१३॥
अङ्गारिणी दिशा के पञ्चमी दिशा में दृष्ट शुभाशुभ शकुन का फल भूत, दीप्ता दिशा
के पञ्चमी दिशा में दृष्ट शुभाशुभ शकुन का फल वर्तमान और धूमिनी दिशा के पञ्चमी
दिशा में दृष्ट शुभाशुभ शकुन का फल भविष्यत् होता है। शेष अङ्गारित शान्तासन्न और
धूमित शान्तासन्न दिशाओं में दृष्ट शुभाशुभ शकुन का फल क्रम से भूत और भविष्यत्
जानना चाहिये।।१३।।
तदित्यनेनाङ्गारिण्याद्यानां दिशां परामर्शः। ताभ्यः पञ्चमास्तत्पञ्चमाः। तत्पञ्चमदिशां
तुल्यं सदृशं त्रैकाल्यं त्रिकालभवं शुभं फलमादिशेद् वदेत्। एतदुक्तं भवति—अङ्गारिण्या
या पञ्चमी दिक् शान्ता तस्यां सौम्ये शकुने शुभं यत् फलं तद्यातम्। तस्यामेव वामे
स्थिते शकुनेऽल्पफलमनिष्टं यातम्। दीप्ताया या पञ्चमी दिक् तस्यां शुभे स्थिते शकुने
यत् शुभं तत् साम्प्रतम्। तस्यामेव वामे स्थिते शकुनेऽल्पमशुभं साम्प्रतम्। धूमिताया
या पञ्चमी दिक् तस्यां शुभे स्थिते शकुने यत् शुभं फलं तदेष्यम्। तस्यामेव वामे शकुने-
ऽल्पमशुभमेष्यम्। अङ्गारिण्याद्यानामप्येवं शुभे शकुनेऽल्पं शुभमशुभेऽतीवाशुभं फलमिति
सर्वासामूह्यम्। परिशेषदिशोरिति। परिशेषयोर्द्वयोर्दिशोर्यथासन्नं येन प्रकारेणासन्नं निकट-
वर्ति शुभाशुभं फलं वाच्यं वक्तव्यम्। यस्यां या दिक् प्रत्यासन्ना निकटवर्तिनी दीप्तायां
तथा तस्यां यत् फलं तत् तस्यामेव वाच्यम्। एतदुक्तं भवति—ते दिशौ भागद्वयेन परिकल्प्य
निश्चयः कार्यः। अङ्गारितशान्तासन्ने भागे पापे शकुने स्थिते यातमल्पमनिष्टं ज्ञेयम्।
तस्मित्रेव सौम्ये स्थिते शकुने शुभं यातम्। धूमितशान्तासन्ने भागे सौम्ये स्थिते शकुने
भाव्यल्पमनिष्टम्। तस्मित्रेव पापे स्थिते शकुने भावि बह्वनिष्टं भवति। उक्तं च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शाकुनाध्यायः ३८३
'यातमुक्तायां साम्प्रतं दीप्तायामेष्यं ज्ञेयं धूपितायामानिष्टं शान्तास्वेवं दिक्षु तत्पञ्चमासु
प्रत्यासन्नाशयैः शान्तदीप्तम्' इति ।।१३।।
पुनरपि फलनियामर्थमाह—
शीघ्रमासन्ननिम्नस्थैश्चिरादुन्नतदूरगैः ।
स्थानवृद्ध्युपघाताच्च तद्वद् ब्रूयात् फलं पुनः ॥१४॥
समीप तथा नीच स्थान में स्थित शकुन का फल शीघ्र तथा उच्च और दूर में
स्थित शकुन का फल देर से प्राप्त होता है। बढ़ने वाले स्थान पर दृष्ट शुभाशुभ शकुन
का फल बढ़ने वाला और घटने वाले स्थान पर दृष्ट शुभाशुभ शकुन का फल घटने
वाला होता है।।१४।।
आसन्नैर्निकटवर्तिभिः शकुनैर्निम्नस्थैर्नीचस्थानगतैश्च शीघ्रमाश्वेव शुभमशुभं वा फलं
भवति। उन्नतैरुच्चप्रदेशस्थैर्दूरस्थैरनिकटवर्तिभिश्चिराद् बहुकालेन शुभमशुभं वा फलं भवति।
तथा च पराशरः—
श्लिष्टेषु तु भवेत् क्षिप्रं शुभं वा यदि वेतरत्।
दूरस्थेषु तु सर्वेषु चिरात् सम्पद्यते फलम्।।
स्थानवृद्ध्युपघाताद्धेतोस्तद्वत् तेनैव प्रकारेण फलं ब्रूयाद् वदेत्। वर्द्धमाने स्थाने
यत्र प्रत्यहं वृद्धिर्दृश्यते तत्रस्थोऽशुभः शकुने उपघातं करोति।
अत्रैव शुभं किञ्चिदेवं विचार्य पुनर्भूयः शुभाशुभं फलं ब्रूयात्। तथा च पराशरः—
दग्धवक्रतरुच्छिन्नशुष्ककण्टकिवृक्षगाः ।
अश्मनिम्नकपालास्थिसिकताकेशभस्मसु ।।
श्मशानाङ्गारवल्मीका ऊषरापांसुमत्सराः।
शीर्णजीर्णाशुच्यशुभ्रदेशस्था दीप्तसंज्ञिताः।।
मनोज्ञस्निग्धफलितक्षीरपुष्पतरुस्थिताः ।
समप्रशस्तभूमिष्ठाः शान्ताः स्युर्मृगपक्षिणः।।
अत्र दीप्ताऽशुभाः शान्ताः शुभा इति।।१४।।
अधुना दशप्रकारस्य दीप्तस्य शकुनस्य लक्षणमाह—
क्षणतिथ्युडुवातार्कैर्देवदीप्तो यथोत्तरम्।
क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ॥१५॥
क्षण ( दारुण और उग्रसंज्ञक नक्षत्र के मुहूर्त ) में दृष्ट शकुन क्षणदीप्त; तिथियों
( चतुर्थी, षष्ठी, अष्टमी, नवमी और चतुर्दशी ) में दृष्ट शकुन तिथिदीप्त; नक्षत्रों ( मूल )
ज्येष्ठा, आर्द्रा, आश्लेषा, पूर्वात्रय, भरणी और मघा ) में दृष्ट शकुन नक्षत्रदीप्त; वात
( भयंकर, खर, कठोर और प्रतिलोम वायु ) में दृष्ट शकुन वायुदीप्त एवं सूर्याभिमुख
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३८४ बृहत्संहिता
स्थित शकुन सूर्यदीप्त—ये पाँच देवदीप्त हैं। ये सभी दीप्त यथोत्तर क्रम से दीप्त हैं;
जैसे—क्षणदीप्त से तिथिदीप्त, तिथिदीप्त से नक्षत्रदीप्त, नक्षत्रदीप्त से वायुदीप्त और
वायुदीप्त से सूर्यदीप्त अधिक दीप्त है। गति, स्थान, भाव, स्वर और चेष्टा—ये क्रिया-
दीप्त हैं। ये भी यथोत्तर क्रम से दीप्त होते हैं।।१५।।
क्षणो मुहूर्तः शिवादिकः। तत्र दारुणोग्राणां नक्षत्राणां ये मुहूर्तास्तेषु क्षणेषु दीप्तः
शकुनः। तिथिर्नन्दादिकस्तत्र चतुर्थीषष्ठ्यष्टमीनवमीचतुर्दश्यो दीप्ताः। एतासु तिथिषु दीप्तः
शकुनः। दारुणोग्रनक्षत्रेषु तत्र दीप्तः शकुनः। उडूनि नक्षत्राण्युच्यन्ते। एवमुडुदीप्तः। चण्डखर-
परुषप्रतिलोममारुतो वातदीप्तः। आदित्याभिमुखो वातदीप्तदिक्स्थश्चार्कदीप्तः। एवं यथोत्तरं
शकुनः पञ्चप्रकारो दैवदीप्तः। एतदुक्तं भवति—क्षणदीप्तात् तिथिदीप्तोऽधिकः। तस्मान्नक्षत्र-
दीप्तः। तस्माद्वातदीप्तः। तस्मादर्कदीप्त इति दैवदीप्तः। विद्युदुल्कार्कमरुतामभिमुखे
यो धावति स गतिदीप्तः। छिन्नभिन्नवक्रदिग्धपाणिजग्धशीर्णाशुचिस्थानस्थितः स्थानदीप्तः।
भावः सत्ता, सत्ता संवित्तिः। तद्विहीनो भावदीप्तः। विषमविप्लुताक्षरक्षामजर्जरस्वरः स्वरदीप्तः।
पक्षपाततुण्डविधूनननिपातपरोच्चावचभावकुट्टनैश्चेष्टादीप्तः। एवमेषोऽपि यथोत्तरं दीप्त
इति। तथा चोक्त ऋषिपूत्रोक्तवाक्यैर्निश्चयः। तद्यथा—
‘चतुर्थीषष्ठ्यष्टमीचतुर्दशीषु तिथिदीप्ताः। विष्ट्यां करणे करणदीप्ताः। मूलेन्द्रसर्परौ-
द्रेन्द्राग्नेययाम्यपित्र्याग्नेयपूर्वासु नक्षत्रदीप्ताः। मुहूर्तेंऽथैतेषामेव मुहूर्तदीप्ताः। विसंज्ञाः स्वल्प-
संज्ञा भावदीप्ताः। स्वरपरुषभिन्नभैरवातोद्वेजनीयविषमविप्लुताक्षरक्षामजर्जरस्वराः स्वरदीप्ताः।
अशनिहतपतितच्छिन्नभिन्नभग्नोन्मूलितार्धदलितोपमृष्टशुष्कव्याधितापत्रफलाक्षीरमलिनशीर्ण-
वित्वगासारविरसकत्वाम्ललवणतिक्तक्वथितायतविषमसंश्रितसङ्घटितलतावितानावनत-
निरोधान्याक्रान्तकटाग्निदग्धेषु तरुषु। प्राकारगोपुराट्टालकककुब्भूमिसंस्थाः स्थानदीप्ताः।
ये शीर्णविषमनिम्नसङ्करकेशास्थिकपालवल्मीकाङ्गारपलालविनिष्टायुधाग्न्याधारकहलहसर्पविद्यु-
दुल्कार्कमारुतायुधाग्नीनुपधावन्ते ते गतिदीप्ताः। पक्षविपातोतुण्डविधूननैर्निपातपरोच्चावच-
भावकुट्टनैश्च चेष्टादीप्ताः। चण्डपरुषप्रतिलोममारुता वातदीप्ताः। अर्काभिमुखा दीप्तदिक्स्था
रविदीप्ता इत्याह भगवानिन्द्रः'।।१५।।
अत्र विशेषमाह—
दशधैवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः ।
मांसामेध्याशने रौद्रो विमिश्रोऽन्नाशनः स्मृतः ॥१६॥
पूर्वोक्त दश प्रकार के शान्त शकुन हैं। उनमें तृण और फल को खाने वाले सौम्य,
मांस और विष्ठा आदि अपवित्र पदार्थ को खाने वाले रौद्र और अन्न को खाने वाले मिश्र
( न सौम्य न रौद्र ) कहे गये हैं।।१६।।
एवमनेन प्रकारेण दशधा दशभिः प्रकारैरपि शान्तः शकुनो भवति। तथापि यदि
तृणाशनस्तृणभक्षः, फलाशनो वा फलान्यश्नाति, तदा सौम्यः शुभफलः। अथ मांसामेध्याशनो
मांसमामिषममेध्यं विष्ठादि वाऽश्नाति तदा रौद्रो दीप्तः। अन्नाशनोऽन्नमश्नाति। अन्नभोजी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA