बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 412, कुल 760 में से
संदर्भ में पढ़ें३८४ बृहत्संहिता
स्थित शकुन सूर्यदीप्त—ये पाँच देवदीप्त हैं। ये सभी दीप्त यथोत्तर क्रम से दीप्त हैं;
जैसे—क्षणदीप्त से तिथिदीप्त, तिथिदीप्त से नक्षत्रदीप्त, नक्षत्रदीप्त से वायुदीप्त और
वायुदीप्त से सूर्यदीप्त अधिक दीप्त है। गति, स्थान, भाव, स्वर और चेष्टा—ये क्रिया-
दीप्त हैं। ये भी यथोत्तर क्रम से दीप्त होते हैं।।१५।।
क्षणो मुहूर्तः शिवादिकः। तत्र दारुणोग्राणां नक्षत्राणां ये मुहूर्तास्तेषु क्षणेषु दीप्तः
शकुनः। तिथिर्नन्दादिकस्तत्र चतुर्थीषष्ठ्यष्टमीनवमीचतुर्दश्यो दीप्ताः। एतासु तिथिषु दीप्तः
शकुनः। दारुणोग्रनक्षत्रेषु तत्र दीप्तः शकुनः। उडूनि नक्षत्राण्युच्यन्ते। एवमुडुदीप्तः। चण्डखर-
परुषप्रतिलोममारुतो वातदीप्तः। आदित्याभिमुखो वातदीप्तदिक्स्थश्चार्कदीप्तः। एवं यथोत्तरं
शकुनः पञ्चप्रकारो दैवदीप्तः। एतदुक्तं भवति—क्षणदीप्तात् तिथिदीप्तोऽधिकः। तस्मान्नक्षत्र-
दीप्तः। तस्माद्वातदीप्तः। तस्मादर्कदीप्त इति दैवदीप्तः। विद्युदुल्कार्कमरुतामभिमुखे
यो धावति स गतिदीप्तः। छिन्नभिन्नवक्रदिग्धपाणिजग्धशीर्णाशुचिस्थानस्थितः स्थानदीप्तः।
भावः सत्ता, सत्ता संवित्तिः। तद्विहीनो भावदीप्तः। विषमविप्लुताक्षरक्षामजर्जरस्वरः स्वरदीप्तः।
पक्षपाततुण्डविधूनननिपातपरोच्चावचभावकुट्टनैश्चेष्टादीप्तः। एवमेषोऽपि यथोत्तरं दीप्त
इति। तथा चोक्त ऋषिपूत्रोक्तवाक्यैर्निश्चयः। तद्यथा—
‘चतुर्थीषष्ठ्यष्टमीचतुर्दशीषु तिथिदीप्ताः। विष्ट्यां करणे करणदीप्ताः। मूलेन्द्रसर्परौ-
द्रेन्द्राग्नेययाम्यपित्र्याग्नेयपूर्वासु नक्षत्रदीप्ताः। मुहूर्तेंऽथैतेषामेव मुहूर्तदीप्ताः। विसंज्ञाः स्वल्प-
संज्ञा भावदीप्ताः। स्वरपरुषभिन्नभैरवातोद्वेजनीयविषमविप्लुताक्षरक्षामजर्जरस्वराः स्वरदीप्ताः।
अशनिहतपतितच्छिन्नभिन्नभग्नोन्मूलितार्धदलितोपमृष्टशुष्कव्याधितापत्रफलाक्षीरमलिनशीर्ण-
वित्वगासारविरसकत्वाम्ललवणतिक्तक्वथितायतविषमसंश्रितसङ्घटितलतावितानावनत-
निरोधान्याक्रान्तकटाग्निदग्धेषु तरुषु। प्राकारगोपुराट्टालकककुब्भूमिसंस्थाः स्थानदीप्ताः।
ये शीर्णविषमनिम्नसङ्करकेशास्थिकपालवल्मीकाङ्गारपलालविनिष्टायुधाग्न्याधारकहलहसर्पविद्यु-
दुल्कार्कमारुतायुधाग्नीनुपधावन्ते ते गतिदीप्ताः। पक्षविपातोतुण्डविधूननैर्निपातपरोच्चावच-
भावकुट्टनैश्च चेष्टादीप्ताः। चण्डपरुषप्रतिलोममारुता वातदीप्ताः। अर्काभिमुखा दीप्तदिक्स्था
रविदीप्ता इत्याह भगवानिन्द्रः'।।१५।।
अत्र विशेषमाह—
दशधैवं प्रशान्तोऽपि सौम्यस्तृणफलाशनः ।
मांसामेध्याशने रौद्रो विमिश्रोऽन्नाशनः स्मृतः ॥१६॥
पूर्वोक्त दश प्रकार के शान्त शकुन हैं। उनमें तृण और फल को खाने वाले सौम्य,
मांस और विष्ठा आदि अपवित्र पदार्थ को खाने वाले रौद्र और अन्न को खाने वाले मिश्र
( न सौम्य न रौद्र ) कहे गये हैं।।१६।।
एवमनेन प्रकारेण दशधा दशभिः प्रकारैरपि शान्तः शकुनो भवति। तथापि यदि
तृणाशनस्तृणभक्षः, फलाशनो वा फलान्यश्नाति, तदा सौम्यः शुभफलः। अथ मांसामेध्याशनो
मांसमामिषममेध्यं विष्ठादि वाऽश्नाति तदा रौद्रो दीप्तः। अन्नाशनोऽन्नमश्नाति। अन्नभोजी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA