सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

अथ रत्नपरीक्षाध्यायः
अथ रत्नपरीक्षा व्याख्यायते। तत्र मणीनां तावद्गुणप्रधानार्थलक्षणमाह—
रत्नेन शुभेन शुभं भवति नृपाणामनिष्टमशुभेन।
यस्मादतः परीक्ष्यं दैवं रत्नाश्रितं तज्ज्ञैः ॥१॥
शुभ रत्न धारण करने से राजाओं का शुभ और अशुभ रत्न धारण करने से राजाओं
का अशुभ होता है। इसलिये रत्नज्ञों के द्वारा रत्नगत दैव (शुभाशुभ फल) की परीक्षा
करनी चाहिये॥१॥
नृपाणां राज्ञां रत्नेन मणिना शुभेन शुभलक्षणेन संयुक्तेन शुभं दैवं भवति; अशुभेनानिष्टम-
शुभं दैवं भवति। दैवशब्देन प्राक्तनकर्मणां विपाक उच्यते। यस्मादेवमतोऽस्मात्तज्ज्ञै रत्न-
लक्षणज्ञै रत्नाश्रितं रत्नसंस्थितं दैवं परीक्ष्यं विचार्यम्॥१॥
रत्नपरीक्षायामुपलरत्नानामधिकारः क्रियत इत्येतदाह—
द्विपहयवनितादीनां स्वगुणविशेषेण रत्नशब्दोऽस्ति।
इह तूपलरत्नानामधिकारो वज्रपूर्वाणाम् ॥२॥
हाथी, घोड़ा, स्त्री आदि में अपने-अपने गुण की विशेषता से 'रत्न' शब्द का प्रयोग
होता है; जैसे गजरत्न, अश्वरत्न, स्त्रीरत्न आदि। किन्तु यहाँ पर वज्र आदि पाषाणरत्नों का
अधिकार है॥२॥
द्विपो हस्ती। हयोऽश्वः। वनिता स्त्री। अधिकरणाज्जातौ जातौ यदुत्कृष्टं रत्नं तदभिधीयते।
एवमादीनां स्वगुणविशेषेणात्मीयगुणप्रभावेण रत्नशब्दोऽस्ति विद्यते। तथा च—
जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते। इति।
इह त्वस्यां रत्नपरीक्षायामुपलरत्नानां पाषाणमणीनां वज्रपूर्वाणां वज्रप्रथमानाधिकारः
क्रियते॥२॥
तत्र रत्नानामुत्पत्तिप्रदर्शनार्थं मतभेदमाचार्याणामाह—
रत्नानि बलाद्दैत्याद्दधीचितोऽन्ये वदन्ति जातानि।
केचिद् भुवः स्वभावाद् वैचित्र्यं प्राहुरुपलानाम् ॥३॥
किसी का मत है कि बलसंज्ञक दैत्य से रत्न की उत्पत्ति हुई है। कोई दधीचि मुनि
की अस्थि से रत्नोत्पत्ति मानते हैं। कोई पृथ्वी के स्वभाव से उपलों में विचित्रता आकर
रत्न हो जाता है—ऐसा मानते हैं॥३॥
बल इति दैत्याख्यस्तस्माद्बलाद्रत्नानि जातानि सम्भूतानि। स किलेन्द्रेण निहतस्त-
स्यास्थिभ्यो रत्नान्युत्पन्नानि। तथा च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

रत्नपरीक्षाध्यायः ३५१
सम्भूतानि बलाद्दैत्याद्रत्नानि विविधानि च।
गतानि नानावर्णत्वमस्थिभ्यो भूमिसंश्रयात् ।।
दधीचितोऽन्य इति । अन्येऽपरे दधीचिमुनेरस्थिभ्यो जातानीति वदन्ति। तथा च—
रत्नानि दधीचिमुनेर्जातानि सहस्रशो लोके।
अस्थिभ्यो भूमिवशाद् नानावर्णत्वमागतानि गुणैः।।
केचिदिति । केचिदन्ये आचार्या भुवो भूमेः स्वभावाज्जातानि रत्नानि विविधानि च।
उपला रत्नरूपत्वं प्राप्ताः कालान्तरेणेति प्राहुरुक्तवन्तः।।३।।
अथ रत्नानां नामान्याह—
वज्रेन्द्रनीलमरकतकर्कैतरपद्मरागरुधिराख्याः ।
वैदूर्यपुलकविमलकराजमणिस्र्फटिकशशिकान्ताः ॥४॥
सौगन्धिकगोमेदकशङ्खमहानीलपुष्परागाख्याः ।
ब्रह्ममणिज्योतीरससस्यकमुक्ताप्रवालानि ॥५॥
वज्र ( हीरा ), इन्द्रनील ( नीलम ), मरकत ( पन्ना ), कर्केतर, पद्मराग, रुधिर,
वैदूर्य, पुलक, विमलक, राजमणि, स्फटिक, चन्द्रकान्त, सौगन्धिक, गोमेद, शङ्ख,
महानील, पुष्पराज, ब्रह्ममणि, ज्योतीरस, सस्यक, मुक्ता ( मोती ), मूंगा—इन सबों
को 'रत्न' कहते हैं।।४-५।।
वज्रेन्द्रनीलेति । वज्रम्। इन्द्रनीलः। मरकतः। कर्केतरः। पद्मरागः। रुधिराख्यः।
वैदूर्यम्। पुलकः। विमलकः। राजमणी राजवान्। स्फटिकः। शशिकान्तश्चन्द्रकान्तः।
सौगन्धिकः। गोमेदकः। शङ्खः। महानीलः। पुष्परागाख्यः। ब्रह्ममणिः। ज्योतीरसः। सस्यकः।
मुक्ता मुक्ताफलानि। प्रवालं विद्रुमः। एतानि रत्नभेदानि। इत्यत उत्कृष्टानि चत्वारि वज्रमुक्ता-
पद्मरागमर्कताख्यानि, तेषामेव लक्षणमाचार्यः करोतीति सम्बन्धः।।४-५।।
अथ वज्रमणेः सप्ताकारस्थानानि लक्षणं चाह—
वेणातटे विशुद्धं शिरीषकुसुमप्रभं च कौशालकम् ।
सौराष्ट्रकमाताम्रं कृष्णं सौपरिकं वज्रम् ॥६॥
ईषत्ताम्रं हिमवति मतङ्गजं वल्लपुष्पसङ्काशम् ।
आपीतं च कलिङ्गे श्यामं पौण्ड्रेषु सम्भूतम् ॥७॥
वेणा नदी के तट पर सर्वथा शुद्ध, कौशल देश में शिरीष पुष्प के समान, सौराष्ट्र
देश में कुछ लाल, सूरपारक देश में काला, हिमवान् पर्वत पर कुछ लाल, मतङ्ग देश
में वल्लपुष्प के समान, कलिंग देश में पीले वर्ण का और पौण्ड्र देश में श्याम वर्ण का
हीरा उत्पन्न होता है।।६-७।।
वेणा नाम नदी तस्यास्तटे तीरे विशुद्धं दोषरहितम्। शिरीषकुसुमप्रभं शिरीषकुसुमसङ्काशं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३५२ बृहत्संहिता
श्वेतपीत वर्णं तत्कौशलकं कोशलदेशसम्भूतम्। वज्रमाताम्रमाताम्रवर्णमीषल्लोहितम्,
तत्तु सौराष्ट्रं सुराष्ट्रसम्भूतं वज्रम्। वज्रं कृष्णं कृष्णवर्णं सौर्पारकं सौर्पारदेशे सम्भूतं जातम्।
ईषत्ताम्रमिति। ईषत् किञ्चित्ताम्रं ताम्रवर्णं वज्रं हिमवति पर्वते हिमवत्सम्भूतम्। वल्ल-
पुष्पसङ्काशं वल्लपुष्पनिभमीषत्पाण्डुरं मातङ्गं मातङ्गदेशसम्भूतम्। आपीतं पीतवर्णं कलिङ्गे
कलिङ्गदेशोद्भवं वज्रम्। श्यामं श्यामवज्रं पौण्ड्रेषु सम्भूतं पौण्ड्रदेशजातमिति॥६-७॥
अथैतेषां दैवत्यमाह—
ऐन्द्रं षडश्रि शुक्लं याम्यं सर्पास्यरूपमसितं च।
कदलीकाण्डनिकाशं वैष्णवमिति सर्वसंस्थानम् ॥८॥
वारुणमबलागुह्योपमं भवेत् कर्णिकारपुष्पनिभम्।
शृङ्गाटकसंस्थानं व्याघ्राक्षिनिभं च हौतभुजम् ॥९॥
वायव्यं च यवोपममशोककुसुमप्रभं समुद्दिष्टम्।
स्रोतः खनिः प्रकीर्णकमित्याकरसम्भवस्त्रिविधः ॥१०॥
छः कोण वाले सफेद हीरे का इन्द्र, सर्पाकार मुख वाले काले हीरे का यम, कदली-
काण्ड के समान ( नील-पीत ) वर्ण वाले हीरे का विष्णु और सामान्य रूप से समस्त
प्रकार के हीरे का भी विष्णु ही देवता है। स्त्री की भग के समान आकृति वाले हीरे का
वरुण, कर्णिकारपुष्प के समान, सिंघाड़े के समान ( त्रिभुजाकार ) या बाघ के नेत्र के
समान हीरे का अग्नि तथा अशोक के पुष्प के समान वर्ण वाले हीरे का वायव्य देवता
है। नदी के प्रवाह, खान, प्रकीर्णक ( जिस भूमि में मणि होती है अर्थात् समुद्र आदि )—
ये तीन हीरों की उत्पत्ति के आकरस्थान कहे गये हैं॥८-१०॥
ऐन्द्रमिति। यद्वज्रं षडश्रि षड्भिरश्रिभिर्युक्तम्। षट्कोणमित्यर्थः। शुक्लं शुक्लवर्णम्।
तदैन्द्रम्। इन्द्रो देवतास्येन्द्रम्। यच्चासितं कृष्णवर्णं सर्पास्यरूपं भुजङ्गमुखसदृशम्, तद्याम्यं
यमदैवतम्। यच्च कदलीकाण्डनिकाशं नीलपीतमित्यर्थः। सर्वसंस्थानं सर्वाण्यशेषाणि
संस्थानानि यस्य, सर्वकारम्। तद्वैष्णवं विष्णुदैवत्यम्।
वारुणमिति। अबला स्त्री तस्या गुह्यं वराङ्गं तदुपमं तद्दिकारस्त्रीमणिसदृशम्, तद्वारु-
णम्। कर्णिकारपुष्पनिभम्, कर्णिकारो वृक्षस्तत्कुसुमप्रभम्। शृङ्गाटकसंस्थानं त्र्यस्रम्।
व्याघ्राक्षिनिभं व्याघ्रनेत्रसदृशं नीललोहितम्, तद्वज्रं हौतभुजमाग्नेयम्।
वायव्यं चेति। यद्वज्रं यवोपमं यवाकारं मध्यस्थूलम्। अशोककुसुमप्रभमशोकपुष्पसदृशं
लोहितवर्णं तद्वायव्यं वायुदैवत्यमुक्तम्। स्रोतः खनिः प्रकीर्णकमिति। श्रोतो यतो जलं
स्रवति। खनिः खन्यत इति खनिः खातम्। प्रकीर्णकं यस्यां भूमौ मणयो भवन्ति। समुद्रे यथा।
एवं स्रोतः खनिः प्रकीर्णकमिति त्रिविधः त्रिप्रकार आकरसम्भवो वज्रस्येति॥८-१०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

रत्नपरीक्षाध्यायः ३५३
अथ ब्राह्मणादीनां कीदृशं वज्रं प्रशस्यत इत्याह—
रक्तं पीतं च शुभं राजन्यानां सितं द्विजातीनाम् ।
शौरीषं वैश्यानां शूद्राणां शस्यतेऽसिनिभम् ॥११॥
लाल और पीला हीरा क्षत्रियों को, सफेद हीरा ब्राह्मणों को, शिरीष-पुष्प के समान
वर्ण वाला वैश्यों को और नीला हीरा शूद्रों को शुभ करने वाला होता है॥११॥
रक्तं रक्तवर्णं पीतं च राजन्यानां क्षत्रियाणां शुभं प्रशस्तम्। सितं श्वेतवर्णं द्विजातीनां
ब्राह्मणानां शुभम्। शैरीषं शिरीषकुसुमसदृशं वैश्यानां शुभम्। असिनिभं खड्गसदृशं कृष्ण-
मित्यर्थः। शूद्राणां स्तूयते। शुभमित्यर्थः॥११॥
अधुनास्य वज्रमणेर्मूल्यपरिज्ञानार्थमाह—
सितसर्षपाष्टकं तण्डुलो भवेत्तण्डुलैस्तु विंशत्या ।
तुलितस्य द्वे लक्षे मूल्यं द्विव

३५४ बृहत्संहिता
लक्षद्वयं त्र्यंशोनं त्रिभागरहितं मूल्यम्। लक्षमेकं त्रयस्त्रिंशत्सहस्त्राणि शतत्रयं त्रयस्त्रिंशदधिकं
सत्रिभागमित्यर्थः। चतुर्दशभिस्तण्डुलैस्तुलितं तस्यार्धोनं लक्षद्वयं लक्षमेकमित्यर्थः। द्वादश-
भिस्तण्डुलैस्तुलितस्य लक्षद्वयत्रिभागो मूल्यम्। षट्षष्टिसहस्त्राणि षट्शतानि सप्तषष्ट्यधिकानि
त्रिभागद्वय इत्यर्थः। दशभिस्तुलितस्य लक्षद्वयपञ्चांशो मूल्यम्। चत्वारिंशत्सहस्त्राणीत्यर्थः।
अष्टाभिस्तण्डुलैस्तुलितस्य लक्षद्वयषोडशांशो मूल्यम्। द्वादशसहस्त्राणि पञ्चशतानीत्यर्थः।
षड्भिस्तण्डुलैस्तुलितस्य लक्षद्वयात् पञ्चविंशतिको भागो मूल्यम्। अष्टौ सहस्त्राणीत्यर्थः।
चतुर्भिस्तण्डुलैस्तुलितस्य लक्षद्वयाच्छतभागो मूल्यम्। सहस्त्रद्वयं कार्षापणानामित्यर्थः।
अन्तरे स्वबुद्ध्या व्यस्तत्रैराशिकेन मूल्यमूह्यमिति।।१२-१३।।
अथ शुभवज्रलक्षणान्याह—
सर्वद्रव्याभेद्यं लघ्वम्भसि तरति रश्मिवत् स्निग्धम्।
तडिदनलशक्रचापोपमं च वज्रं हितायोक्तम् ।।१४।।
जो हीरा किसी भी वस्तु से टूटने वाला न हो, अल्प जल में भी किरण की तरह
तैरता रहे, निर्मल हो एवं बिजली, अग्नि या इन्द्रधनुष के समान वर्ण वाला हो, वह
कल्याणकारी कहा गया है।।१४।।
यद्वज्रं सर्वद्रव्याभेद्यं न केनचिच्छस्त्रादिनापि भिद्यते। लघु गौरववर्जितम्। अम्भसि
जले तरति निमज्जतीत्यर्थः। रश्मिवत् रश्मयः किरणा विद्यन्ते यस्य तत्। स्निग्धं स्नेह-
संयुक्तम्। तडिद् विद्युत्। अनलोऽग्निः। शक्रचापमिन्द्रधनुः। एषामुपमं सदृशं तद्वज्रं हितायोक्तं
श्रेयसे कथितम्।।१४।।
अथाशुभलक्षणान्याह—
काकपदमक्षिकाकेशधातुयुक्तानि शर्करैर्विद्धम्।
द्विगुणाश्रि दग्धकलुषत्रस्तविशीर्णानि न शुभानि ।।१५।।
काकपद के समान चिह्न वाला, मक्खी के समान चिह्न वाला, केश के समान रेखा-
रूप चिह्न वाला, धातुओं ( मिट्टियों ) से युक्त, कंकड़ से विद्ध, कथित लक्षण से दुगुने
कोण वाला, आग से जला हुआ, मलिन, कान्तिहीन एवं जर्जर हीरा शुभदायी नहीं होता
है।।१५।।
यानि वज्राणि काकपदैः काकपदाकृतिभिश्चिह्नैः। मक्षिकाभिस्तदाकृतिभिः। केशैर्बाल-
सदृशरेखाभिः। धातुभिर्मृत्तिकाभिः। एतैर्युक्तानि। तथा यच्छर्करैर्युक्तं यच्च विद्धं वेधसंयुक्तम्।
यच्च द्विगुणाश्रि लक्षणाभिरश्रिभिर्द्विगुणाभिर्युक्तम्। दग्धमग्निना। कलुषं विवर्णम्। त्रस्तं
विगतकान्ति। विशीर्णं जर्जरितम्। एतानि न शुभानि, अशोभनानि ।।१५।।
अन्यदप्याह—
यानि च बुद्बुददलिताग्रचिपिटवासीफलप्रदीर्घाणि।
सर्वेषां चैतेषां मूल्याद् भागोऽष्टमो हानिः ।।१६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पानी के बुलबुले के समान आगे से फटा, चिपटा और वासी फल के समान
लम्बा हीरा शुभ करने वाला नहीं होता। इसलिये इन दोषयुक्त हीरों का मूल्य पूर्वोक्त
मूल्य से अष्टमांश कम हो जाता है।।१६।।
यानि च वज्राणि बुद्बुदानि जलबुद्बुदसदृशानि। दलिताग्राणि दलितं विदारितमग्रं प्रान्तं
येषाम्। चिपिटानि चर्पटानि। वासीफलवत्प्रदीर्घाणि वासिका द्रव्यविशेषः। एतेषां सर्वेषां
प्राग्विधानेन यन्मूल्यं भवति तस्मादष्टमो भागो हानिर्भवति। अष्टमभागोनं मूल्यं भवती-
त्यर्थः।।१६।।
अथ वज्रमणेर्धारणे गुणानाह—
वज्रं न किञ्चिदपि धारयितव्यमेके
पुत्रार्थिनीभिरबलाभिरुशन्ति तज्ज्ञाः।
शृङ्गाटकत्रिपुटधान्यकवत् स्थितं यत्
श्रोणीनिभं च शुभदं तनयार्थिनीनाम् ।।१७।।
हीरा के लक्षणों को जानने वाले पण्डितों का कहना है कि पुत्र चाहने वाली स्त्रियों
को किसी भी प्रकार का हीरा नहीं धारण करना चाहिये। सिंघाड़े की आकृति वाले तीन
पुटों से युक्त, धान्यफल के समान या श्रोणी के समान हीरे को धारण करना पुत्र चाहने
वाली स्त्रियों के लिये शुभदायक होता है।।१७।।
वज्रं वज्रमणिर्बलाभिः स्त्रीभिः पुत्रार्थिनीभिः सुताभिलाषिणीभिर्न किञ्चिदपि
धारयितव्यमित्येके आचार्या उशन्ति कथयन्ति। यच्छृङ्गाटकाकारं त्र्यस्रम्। त्रिपुटं त्रिभिः
पुटैर्युक्तम्। धान्यकबद्द्धान्यकाफलवत्स्थितम्। श्रोणीनिभं रूह्यधररागसदृशम्। तत्तनयार्थिनीनां
शुभदम्। तथा च—
सुतार्थिनीभिर्धन्याभिर्न धार्यं वज्रसंज्ञकम्।
यच्च शृङ्गाटकाकारं त्रिपुटं धान्यवत्स्थितम्।।
श्रोणीनिभं सुवर्णं च स्निग्धं किरणसंयुक्तम्।
तच्छस्तं धारणे स्त्रीणां पुत्रवृद्धिप्रदं स्मृतम्।। इति।।१७।।
अन्यदप्याह—
स्वजनविभवजीवितक्षयं जनयति वज्रमनिष्टलक्षणम्।
अशनिविषभयारिनाशनं शुभमुपभोगकरं च भूभृताम् ।।१८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां रत्नपरीक्षा-
नामाशीतितमोऽध्यायः ॥८०॥
अशुभ लक्षणों से युक्त हीरे को धारण करने से राजाओं के बन्धु, धन और प्राण

३५६ बृहत्संहिता
का नाश होता है तथा शुभ लक्षणों से युक्त हीरे को धारण करने से वज्रभय, विष एवं
शत्रु का नाश तथा भोग की वृद्धि होती है।।१८।।
इति 'विमला'हिन्दीटीकायां रत्नपरीक्षाध्यायोऽशीतितमः ॥८०॥
अनिष्टलक्षणमशुभलक्षणसंयुक्तं वज्रं वज्रमणिः स्वजनानां बान्धवानां विभवस्यैश्वर्यस्य
जीवितस्यायुषः क्षयं हानिं जनयत्युत्पादयति। शुभलक्षणं वज्रमशनिभयं विद्युद्भीतिम्। विष-
भयम्। अरिभयं शत्रुभयं च नाशयति। भूभृतां राज्ञामुपभोगकरं भवति। केचिदुरुभोगकरं
विस्तीर्णभोगकरमितीच्छन्ति।।१८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वज्रमणिपरीक्षा-
नामाशीतितमोऽध्यायः ॥८०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ मुक्तालक्षणाध्यायः
अथ मुक्तालक्षणं व्याख्यायते। तत्रादावेव मुक्ताफलानामुत्पत्तिप्रदर्शनार्थमाह—
द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि ।
मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति ॥१॥
हाथी, सर्प, सीपी, शंख, मेघ, बांस, मछली और सूअर से मोती की उत्पत्ति होती
हैं। उनमें से सीपी से उत्पन्न मोती को सबसे उत्तम कहा गया है॥१॥
द्विपो हस्ती। भुजगः सर्पः। शुक्तिः प्राणिविशेषः। शङ्खः प्राणी। अभ्रं मेघः। वेणुर्वंशः।
तिमिर्मत्स्यः। सूकरो वराहः। एभ्यः प्रसूतानि उत्पन्नानि मुक्ताफलानि भवन्ति। तेषां सर्वेषां
मध्याच्छुक्तिजं शुक्तिसम्भूतं बहुसाध्वतिश्रेष्ठं भवति। प्राचुर्येण व्यवहारीत्यर्थः॥१॥
अथ मुक्ताफलानामष्टावाकरानाह—
सिंहलकपारलौकिकसौराष्ट्रिकताम्रपर्णिपारशवाः ।
कौबेरपाण्ड्यवाटकहैमा इत्याकरास्त्वष्टौ ॥२॥
सिंहलक देश, परलोक देश, सुराष्ट्र देश, ताम्रपर्णी नदी, पारशव देश, कौबेर देश,
पाण्ड्यवाटक देश और हिम—ये आठ मोतियों के आकरस्थान हैं॥२॥
सिंहलको देशः। परलोको देशः, तत्र भवः पारलौकिकः। सौराष्ट्रिकः। सुराष्ट्रको
देशभेदः। ताम्रपर्णी नदी। पारशवो देशः। कौबेरो देशः। पाण्ड्यवाटको देशः। तत्र भवाः।
हैमा हिमभवाः। इत्येवं प्रकारा अष्टौ मुक्ताफलानामाकरा उत्पत्तिस्थानानि॥२॥
अथैतेषां लक्षणमाह—
बहुसंस्थानाः स्निग्धाः हंसाभाः सिंहलाकराः स्थूलाः ।
ईषत्ताम्राः श्वेतास्तमोवियुक्ताश्च ताम्राख्याः ॥३॥
कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः ।
न स्थूला नात्यल्पा नवनीतनिभाश्च सौराष्ट्राः ॥४॥
ज्योतिष्मत्यः शुभ्रा गुरवोऽतिमहागुणाश्च पारशवाः ।
लघु जर्जरं दधिनिभं बृहद् द्विसंस्थानमपि हैमम् ॥५॥
विषमं कृष्णश्वेतं लघु कौबेरं प्रमाणतेजोवत् ।
निम्बफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटभवाः ॥६॥
सिंहलक देश में अनेक आकृति वाले, स्निग्ध, हंस के समान सफेद और स्थूल
मोती उत्पन्न होते हैं। ताम्रपर्णी नदी में कुछ लाल, सफेद और निर्मल मोती निकलते हैं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३५८ बृहत्संहिता
परलोक देश में काले, सफेद, पीले, कंकड़युक्त और विषम मोती होते हैं। सौराष्ट्र देश में
न बहुत मोटे, न बहुत छोटे और मक्खन के समान कान्ति वाले मोती होते हैं। पारशव
देश में तेजोयुक्त, सफेद, भारी और अधिक गुण वाले मोती होते हैं। हिम में छोटे,
जर्जर, दही के समान कान्ति वाले, बड़े और श्रेष्ठ आकृति वाले मोती होते हैं। कौबेर
देश में विषम, काले, सफेद, हल्के और अति तेजस्वी मोती होते हैं। पाण्ड्य देश में
निम्बफल के समान, तीन पुटों से युत, धान्यक फल के समान और अति सूक्ष्म मोती
उत्पन्न होते हैं।।३-६।।
बहुसंस्थाना इति । या मुक्ता बहुसंस्थाना बहुप्रकारसंस्थानमाकारो यासाम्। स्निग्धा
निर्मलाः। हंसाभा हंसवर्णसदृशकान्तयः। स्थूला बृहत्यस्ताः सिंहलाकराः, सिंहल आकरो
यासाम्। ईषत्ताम्राः किञ्चित्ताम्रवर्णाः। श्वेताः शुक्लाः। तमोवियुक्तास्तमोविरहिता निर्मला
इत्यर्थः। तास्ताम्राख्यास्ताम्रपर्णभवाः।
कृष्णाः श्वेता इति । कृष्णाः कृष्णवर्णाः। श्वेताः सिताः। पीताः पीतवर्णाः। सशर्करा
धातुयुक्ताः। विषमाश्चासमाः। ताः पारलौकिकाः परलोकभवाः। याश्च नातिस्थूला नातिबृहत्यः,
नात्यल्पा नातिसूक्ष्माः। नवनीतनिभा नवनीतकान्तयस्ताः सौराष्ट्राः।
ज्योतिष्मत्य इति। या मुक्ता ज्योतिष्मत्यस्तेजोयुक्ताः। शुभ्राः श्वेताः गुरवोऽतिगौरव-
युक्ताः। महागुणा महद्भिर्गुणैर्युक्ताः, ताः पारशवाः। लघु स्वल्पम्। जर्जरं विवर्णम्। दधिनिभं
दधिसदृशम्। बृहद्विस्तीर्णम्। द्विसंस्थानं द्वे संस्थाने यस्य तद्धैमं हिमवति सम्भूतम्।
विषममिति । विषममसमम्। कृष्णश्वेतं कृष्णवर्णं श्वेतवर्णं च। लघु गौरववर्जितम्।
प्रमाणतेजोवत्। प्रमाणं महत्त्वं तेजश्च कान्तिर्विद्यते यस्मिंस्तत्। निम्बफलसदृशम्। त्रिपुटं
त्रिभिः पुटैरुपलक्षितम्। धान्यकं धान्यकाफलसदृशम्। चूर्णं चातिसूक्ष्मम्। एताः सर्वा एव
मुक्ताः पाण्ड्यवाटभवाः पाण्ड्यवाटे जाताः स्युर्भवेयुः।।३-६।।
अथैतेषां विशेषमाह—
अतसीकुसुमश्यामं वैष्णवमैन्द्रं शशाङ्कसदृशम् ।
हरितालनिभं वारुणमसितं यमदैवतं भवति ॥७॥
परिणतदाडिमगुलिकागुञ्जाताम्रं च वायुदैवत्यम् ।
निर्धूममानलकमलप्रभं च विज्ञेयमाग्नेयम् ॥८॥
अलसी-पुष्प के समान श्याम वर्ण के मोतियों का देवता विष्णु, चन्द्र की कान्ति
के समान मोती का देवता इन्द्र, हरिताल के समान मोती का देवता वरुण, काले वर्ण के
मोती का देवता यम, पके हुये अनार के बीज या चोंटनी ( करजनी ) के समान रक्त
वर्ण वाले मोती का देवता वायु तथा धूमरहित अग्नि या कमल के समान कान्ति वाले
मोती का देवता अग्नि कहा गया है।।७-८।।
अतसीकुसुमश्याममिति । अतसीकुसुममतिप्रसिद्धं तद्वत् श्यामं यन्मुक्ताफलं तद्वैष्णवं
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

मुक्तालक्षणाध्यायः ३५.
विष्णुदैवत्यम्। शशाङ्कसदृशं चन्द्राभं तदैन्द्रम्। यच्च हरितालनिभं हरितालवर्णं तद्वारुणम्।
यच्चासितं कृष्णं तद्यमदैवत्यम्।
परिणतदाडिमगुलिकागुञ्जाताम्रं चेति । परिपक्वदाडिमगुञ्जाफलरक्तं यत्तद्वायुदैवत्यं
वायव्यम्। निर्धूमस्य धूमरहितस्यानलस्याग्नेः सदृशी प्रभा कान्तिर्यस्य तथा कमलस्य
पद्मस्य च सदृशप्रभं यत्तदाग्नेयमग्निदैवत्यं विज्ञेयम्।।७-८।।
अथैतेषां मूल्यपरिज्ञानार्थनाह—
माषकचतुष्टयधृतस्यैकस्य शताहता त्रिपञ्चाशत् ।
कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ॥९॥
माषकदलहान्यातो द्वात्रिंशद्विंशतिस्त्रयोदश च।
अष्टौ च शतानि शतत्रयं त्रिपञ्चाशता सहितम् ॥१०॥
पञ्चत्रिंशं शतमिति चत्वारः कृष्णला नवतिमूल्याः ।
सार्धास्तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम् ॥११॥
गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य ।
रूपकपञ्चत्रिंशत्तस्य गुञ्जार्धहीनस्य ॥१२॥
चार मासे के बराबर तजोगुणयुक्त एक मोती का मूल्य ५३०० कार्षापण होता है
तथा चार मासे तुल्य मोती में आधे-आधे कम करने पर क्रमशः ३२००, २०००,
१३००, ८००, ३५३ कार्षापणतुल्य मूल्य होते हैं। जैसे—साढ़े तीन मासे तुल्य एक
मोती का मूल्य ३२००, तीन माशे तुल्य एक मोती का मूल्य २०००, ढाई माशे तुल्य
एक मोती का मूल्य १३०० कार्षापण इत्यादि होते हैं। एक माशे तुल्य एक मोती का
मूल्य १३५, पाँच कृष्णला ( गुञ्जा ) तुल्य मोती का मूल्य ९०, साढे तीन गुञ्जा तुल्य
मोती का मूल्य ७०, तीन गुञ्जा तुल्य एक मोती का मूल्य ५० और ढाई गुञ्जा तुल्य एक
मोती का मूल्य ३५ कार्षापण होता है॥९-१२॥
माषकचतुष्टयधृतस्येति । एकस्य मुक्ताफलस्य तेजोगुणयुक्तस्य गुणान् वक्ष्यति—
‘स्निग्धः प्रभानुलेपी’त्याद्येवं माषकचतुष्टयेन धृतस्य तुलितस्य त्रिपञ्चाशत्कार्षापणाः शताहताः
शतगुणिता मूल्यम्। त्रिपञ्चाशत्कार्षापणशतानीत्यर्थः।
माषकदलेति । अतोऽस्मान्माषकचतुष्टयधृतान्मुक्ताफलान्माषकदलहान्या माषकार्धो-
नितया एतद्वक्ष्यमाणं मूल्यम्। तद्यथा—सार्धैस्त्रिभिर्माषकैस्तुलितस्य द्वात्रिंशत्कार्षापणशतानि
मूल्यम्। त्रिभिर्माषकैस्तुलितस्य विंशतिकार्षापणशतानि मूल्यम्। द्वाभ्यां सार्धाभ्यां तुलितस्य
त्रयोदशकार्षापणशतानि। द्वाभ्यां तुलितस्याष्टौ शतानि। अध्यर्धेन माषेकेन तुलितस्य त्रिपञ्चाश-
दधिकं शतत्रयं कार्षापणानां मूल्यम्।
एकेन माषेकेन तुलितस्य पञ्चत्रिंशदधिकं शतं कार्षापणानां मूल्यम्। चत्वारः कृष्णला
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

नवतिमूल्या इति। पञ्चकृष्णला एको माष इति। कृष्णलाशब्देन गुञ्जा उच्यते। यस्य
मुक्ताफलस्य चत्वारः कृष्णला धृतं रूपम्, तस्य नवतिः कार्षापणा मूल्यम्। यस्य मुक्ता-
फलस्य रूपं प्रमाणं सार्धास्तिस्रो गुञ्जा धृतम्, तस्य सप्ततिमूल्यम्। सप्ततिः कार्षापणास्तस्य
मूल्यमित्यर्थः।
गुञ्जात्रयस्येति। गुणयुक्तस्य सगुणस्य गुञ्जात्रयस्य पञ्चाशद्रूपका मूल्यम्। रूपकाः
सुप्रसिद्धा एव। गुञ्जात्रयस्य गुञ्जार्धहीनस्य पञ्चत्रिंशद्रूपका मूल्यम्॥९-१२॥
अथान्यन्मूल्यपरिज्ञानमाह—
पलदशभागो धरणं तद्यदि मुक्तास्त्रयोदश सुरूपाः।
त्रिशती सपञ्चविंशा रूपकसङ्ख्यया कृतं मूल्यम्॥१३॥
षोडशकस्य द्विशती विंशतिरूपस्य सप्ततिः सशता।
यत्पञ्चविंशतिधृतं तस्य शतं त्रिंशता सहितम्॥१४॥
त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं च।
षष्टिः पञ्चोना वा धरणं पञ्चाष्टकं मूल्यम्॥१५॥
मुक्ताशीत्या त्रिंशच्छतस्य सा पञ्चरूपकविहीना।
द्वित्रिचतुःपञ्चशता द्वादशषट्पञ्चकत्रितयम्॥१६॥
यदि एक धरण (पल के दशमांश) तुल्य तौल में तेरह मोती चढें तो उनका
मूल्य २०० रुपये, बीस मोती चढें तो उनका मूल्य १३० रुपये, तीस मोती चढें तो
उनका मूल्य ७० रुपये, ४० चढें तो उनका मूल्य ५० रुपये, पैंतालिस मोती चढें तो
उनका मूल्य ४० रुपये, अस्सी मोती चढें तो उनका मूल्य ३० रुपये, सौ मोती चढें तो
उनका मूल्य २५ रुपये, दो सौ मोती चढें तो उनका मूल्य १२ रुपये, तीन सौ मोती
चढें तो उनका मूल्य ६ रुपये, चार सौ मोती चढें तो उनका मूल्य ५ रुपये और पाँच सौ
मोती चढें तो उनका मूल्य ३ रुपये होता है॥१३-१६॥
पलदशभागो धरणमिति। ‘पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश। पलं सुवर्णाश्च-
त्वारः’ इति। एवं पलस्य यो दशभागः स धरणमित्युच्यते। तद्धरणं यदि त्रयोदश मुक्ताः
सुरूपा गुणसंयुता भवति, तदा सपञ्चविंशा त्रिशती रूपकसंख्याकृतं गूल्यम्। त्रयाणां शतानां
समाहारस्त्रिशती। सह पञ्चविंशत्या वर्तते या सा सपञ्चविंशा।
षोडशकस्येति। मुक्ताषोडशयुक्तस्य चेद्धरणं तदा द्विशती रूपकसंख्याकृतं मूल्यं
भवति। एवं विंशतिरूपस्य सप्ततिः सशता। मुक्ताविंशतेर्धरणधृतायाः सप्तत्यधिकं शतं
मूल्यम्। पञ्चविंशतिमुक्ताया धृतं धरणं भवति, तस्य त्रिंशता सहितं शतं मूल्यमिति।
त्रिंशन्मुक्ता यद्धरणं भवति तस्य सप्ततिमूल्यम्। चत्वारिंशन्मुक्ता यद्धरणं तस्य
शतार्धं पञ्चाशद्रूपका मूल्यम्। अत्र वाशब्दश्चार्थे। यच्च षष्टिः पञ्चोना वा पञ्चपञ्चाशन्मुक्ता
धरणं भवति, तस्य पञ्चाष्टकमष्टौ पञ्चकाः। चत्वारिंशन्मूल्यमित्यर्थः।

मुक्तालक्षणाध्यायः ३६१
मुक्ताशीत्येति । मुक्ताशीत्या धृतस्य धरणस्य त्रिंशद्रूपकमूल्यम्। मुक्ताशतधृतस्य
सा त्रिंशत्पञ्चरूपकविहीना पञ्चविंशतिरूपका मूल्यम्। द्विशतधरणस्य द्वादशरूपकाः।
त्रिशतधरणस्य षड्रूपकाः। चतुःशतधरणस्य रूपकपञ्चकम्। पञ्चशतधरणस्य त्रितयं रूप-
काणां मूल्यमिति ।।१३-१६।।
अधुना त्रयोदशाद्यानां धरणानां संज्ञार्थमाह—
पिक्कापिच्चार्धार्धा रवकः सिक्थं त्रयोदशाद्यानाम् ।
संज्ञाः परतो निगराश्रूर्णाश्चाशीतिपूर्वाणाम् ।।१७।।
एक धरण पर १३ मोती चढ़े तो 'पिक्का', सोलह मोती चढ़े तो 'पिच्चा', पच्चीस
मोती चढ़े तो 'अर्ध', तीस मोती चढ़े तो 'रवक', चालीस मोती चढ़े तो 'सिक्थ' और
पचपन मोती चढ़े तो 'निगर' कहलाता है। इसके बाद अस्सी मोती से लेकर पाँच सौ
तक एक धरण पर चढ़े तो उसको 'चूर्ण' कहते हैं।।१७।।
त्रयोदशाद्यानां धरणानां पिक्काद्या संज्ञाः। तद्यथा—त्रयोदशमुक्ताधृतस्य धरणस्य
पिक्केति संज्ञा। षोडशकस्य पिच्चा। विंशतिकस्यार्धा। पञ्चविंशतिकस्यार्धा। त्रिंशत्कधृतस्य
रवकः। चत्वारिंशत्कस्य सिक्थम्। परतोऽनन्तरं पञ्चपञ्चाशत्कस्य निगरा। अशीतिपूर्वाणां
सर्वधरणानां चूर्णा इति संज्ञा। एताश्चाकरस्थाने व्यवहारार्थमुपयुज्यन्ते ।।१७।।
अथोत्तराणां मूल्यपरिज्ञानमाह—
एतद्गुणयुक्तानां धरणधृतानां प्रकीर्तितं मूल्यम् ।
परिकल्प्यमन्तराले हीनगुणानां क्षयः कार्यः ।।१८।।
कृष्णश्वेतकपीतकताम्राणामीषदपि च विषमाणाम् ।
त्र्यंशोनं विषमकपीतयोश्च षड्भागदलहीनम् ।।१९।।
ये एक धरणतुल्य गुणयुक्त मोतियों के मूल्य कहे गये हैं। मध्य में व्यस्त त्रैराशिक
से मूल्य का ज्ञान करना चाहिये। गुणहीन मोतियों के मूल्य में वक्ष्यमाण रीति से हानि
करनी चाहिये। कुछ काले, कुछ सफेद, कुछ पीले, कुछ लाल और कुछ विषम मोतियों
का तृतीयांशोन पूर्वोक्त मूल्यतुल्य मूल्य होता है। विषम तथा पीले मोतियों का षष्ठांशोन
पूर्वोक्त मूल्यतुल्य मूल्य होता है।।१८-१९।।
एतदिति । गुणयुक्तानां मुक्ताफलानां धरणधृतानामेतद्यथोक्तं मूल्यम्। अन्तराले मध्ये
परिकल्प्यं स्वबुद्ध्या मूल्यमूह्यम्। यथा त्रयोदशकस्य धरणस्य त्रिशती सपञ्चविंशा उक्ता।
षोडशकस्य द्विशती। अन्तराले मध्ये चतुर्दशधृतस्य पञ्चदशधृतस्य वा व्यस्तत्रैराशिकेन
मूल्यान्वयनं कार्यमित्यर्थः। हीनगुणानां वक्ष्यमाणेनैवं क्रमेण क्षयः कार्यः।
कृष्णश्वेतिकेति । ईषदिति प्रत्येकमभिसम्बध्यते। ईषत्किञ्चित्कृष्णानामसितवर्णानाम्।
ईषच्छुक्लानामीषत्ताम्राणामीषद्विषमाणां प्राग्विधानेन यन्मूल्यं तदेव त्र्यंशोनं त्रिभागहीनं तेषां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३६२ बृहत्संहिता
मूल्यं भवति। विषमकपीतयोश्च यथासंख्यं षड्भागदलहीनम्। अतिविषमस्य षड्भागहीनं
पीतस्यार्धहीनमिति।।१८-१९।।
अथ गजमुक्ताफललक्षणमाह—
ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु।
ये चोत्तरायणभवा ग्रहणेऽर्केन्द्वोश्च भद्रेभाः ॥२०॥
तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु।
बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥२१॥
नैषामर्घः कार्यो न च वेधोऽतीव ते प्रभायुक्ताः।
सुतविजयारोग्यकरा महापवित्रा धृता राज्ञाम् ॥२२॥
पुष्य या श्रवण नक्षत्र में, चन्द्र या रविवार में, उत्तरायण में, रवि और चन्द्र के
ग्रहणकाल में ऐरावतकुल में उत्पन्न जिन भद्र हाथियों का जन्म होता है, उनके दन्तकोष
या कुम्भों में बड़े-बड़े अनेक प्रकार के और कान्तियुक्त बहुत से मोती निकलते हैं।
इनका मूल्य तथा इनमें छिद्र नहीं करना चाहिये। उन प्रभायुक्त महापवित्र मोतियों को
धारण करने से राजाओं को पुत्र, विजय और आरोग्य की प्राप्ति होती है।।२१-२२।।
ऐरावतकुलजानामिति। ऐरावतो नाम हस्ती, तस्य कुले वंशे जाता ये गजास्तेषां
तद्वंशप्रभवाणां तद्वंशप्रसूतानां गजानां च प्रजाताः पुष्ये पुष्यनक्षत्रे श्रवणे च नक्षत्रे। इन्दुदिने
चन्द्रवासरे सूर्यदिवसे अर्कवासरे यद्युत्पद्यन्ते। ये चैते गजा उत्तरायणभवा उत्तरायणे जाताः।
अर्केन्द्वोः सूर्याचन्द्रमसोश्च ग्रहण उपरागे च ये जातास्ते भद्रेभाः, भद्रनामानस्ते गजाः।
तेषामिति। किलेत्यागमदर्शनार्थम्। तेषामैरावतकुलजानां तथा भद्रेभानां कुम्भेषु
मस्तकेषु सरदकोशेषु दन्तकोशसंयुक्तेषु मुक्ता जायन्ते उत्पद्यन्ते च। बहवः प्रभूता बृहत्प्रमाणाः
स्थूलाः। बहुसंस्थाना अनेकाकाराः। प्रभायुक्तास्तेजस्विन्यः।
नैषामर्घः कार्य इति। तेषां मुक्ताफलानामर्घो मूल्यं न कार्यं न च वेधस्तेषां कार्यः।
यतस्ताः सर्वा अतीवात्यर्थं प्रभायुक्तास्तेजस्विन्यो महापवित्रा अतिसाधना राज्ञां नृपाणां
धृता देहस्थिताः सुतविजयाऽऽरोग्यकरा भवन्ति। सुताः पुत्राः। विजयः शत्रुनिग्रहः। आरोग्यं
नीरोगत्वं च कुर्वन्ति।।२०-२२।।
अथ वराहजस्य मुक्ताफलस्य तिमिजस्य च लक्षणमाह—
दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम्।
तिमिजं मत्स्याक्षिनिभं बृहत् पवित्रं बहुगुणं च ॥२३॥
सूअर के दन्तमूल में चन्द्रप्रभा के समान कान्ति वाले, बहुत गुणों से युक्त मुक्ता-
फल निकलते हैं तथा मछली से मछली के नेत्र के समान, स्थूल, पवित्र और बहुत
गुणों से युक्त मुक्ताफल निकलते हैं।।२३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

मुक्तालक्षणाध्यायः ३६३
वराहाणां सूकराणाम्। दंष्ट्रामूलं यतो दंष्ट्रोत्पद्यते तत्र शशिकान्तिसप्रभं चन्द्रप्रभाभं
बहुगुणमनेकगुणं वाराहं वराहसम्भूतं तन्मुक्ताफलं भवति। मत्स्याक्षिनिभं मीननेत्रसदृशं
तिमिजं मत्स्यजं भवति। बृहत् स्थूलम्। पवित्रं पावनम्। बहुगुणं च तज्ज्ञेयमिति।।२३।।
अथ मेघसम्भूतस्य मुक्ताफलस्य लक्षणमाह—
वर्षोपलवज्जातं वायुस्कन्धाच्च सप्तमाद् भ्रष्टम्।
ह्रियते किल खाद् दिव्यैस्तडित्प्रभं मेघसम्भूतम्।।२४।।
वर्षाकालिक उपल ( पत्थर ) के समान, सप्तम वायु स्कन्ध से पतित, बिजली
के समान, मेघ से उत्पन्न, आकाश से गिरते हुये मोती का आकाशस्थित देवयोनियों के
द्वारा ऊपर ही ऊपर हरण कर लिया जाता है।।२४।।
वर्षे उपलो वर्षोपलः। वर्षोपलवज्जातम्। यथा वर्षमध्ये उपला जायन्ते तद्वत् सप्तमा-
द्वायुस्कन्धाद् भ्रष्टं पतितम्। किलेत्यागमार्थम्। दिवि भवा दिव्याः। खादन्तरिक्षात् पतमानं
दिव्यैराकाशस्थैर्देवयोनिभिर्ह्रियते। तडित्प्रभं विद्युत्कान्तिसदृशं मेघसम्भूतमभ्रजं मुक्ता-
फलम्।।२४।।
अधुना नागजमुक्ताफलस्य लक्षणमाह—
तक्षकवासुकिकुलजाः कामगमा ये च पन्नगास्तेषाम्।
स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणस्यान्ते ।।२५।।
जो तक्षक और वासुकि के कुल में उत्पन्न स्वेच्छाचारी सर्प होते हैं, उनके फणों के
अग्र भाग में स्निग्ध एवं नीली कान्ति वाले मोती उत्पन्न होते हैं।।२५।।
तक्षकवासुकिकुलजा इति। ये पन्नगास्तक्षकवासुकिकुलजाः। तक्षककुले वासु-
किकुले जाताः। कामगमा इच्छागामिनो ये च। तेषां नागानां फणस्यान्ते शिरःपर्यन्ते मुक्ताः
स्निग्धाः सस्नेहा नीलद्युतयो नीलकान्तयो भवन्ति।।२५।।
शस्तेऽवनिप्रदेशे रजतमये भाजने स्थिते च यदि।
वर्षति देवोऽकस्मात् तज्ज्ञेयं नागसम्भूतम् ।।२६।।
यदि प्रशस्त भूमि पर चाँदी के पात्र में उस मोती को रख देने से अचानक वर्षा होने
लगे तो नाग से उत्पन्न मोती जानना चाहिये।।२६।।
शस्त इति। कथं नागजं मुक्ताफलं ज्ञातव्यम्? ज्ञायते तत्प्रत्ययार्थमिदमाह—यस्मिन्
मुक्ताफले शस्ते प्रशस्तेऽवनिप्रदेशे भूभागे तत्र च रजतमये रौप्ये भाजने पात्रे स्थिते सति
अकस्मादनाशङ्कितमेव देवो वर्षति, तन्मुक्ताफलं नागसम्भूतं ज्ञेयं ज्ञातव्यम्।।२६।।
अस्य च गुणानाह—
अपहरति विषमलक्ष्मीं क्षपयति शत्रून् यशो विकाशयति।
भौजङ्गं नृपतीनां धृतमकृतार्थं विजयदं च।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३६४ बृहत्संहिता
बिना मोल किये सर्पोत्पन्न मोती को धारण करने से राजाओं के विष और अलक्ष्मी
का नाश, शत्रुओं को भय, यश का विस्तार तथा विजय करता है।।२७।।
भौजङ्गं सार्पं सर्पमुक्ताफलम्। अकृतार्घमकृतमूल्यं राज्ञां नृपतीनां धृतं विषमलक्ष्मीं चाप-
हरति। शत्रून् रिपून् क्षपयति। यशः कीर्तिं विकाशयति। विजयदं च विजयं ददाति।।२७।।
अथ वेणुशङ्खोद्भवस्य लक्षणमाह—
कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम् ।
शङ्खोद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च ॥२८॥
बाँस से उत्पन्न मोती कर्पूर या स्फटिक के समान कान्ति वाला, चिपटा और विषम
होता है तथा शंख से उत्पन्न मोती चन्द्रमा के समान कान्ति वाला, गोल, चमकीला और
सुन्दर होता है।।२८।।
कर्पूरनिभं स्फटिकनिभं चिपिटं विषमं च तद्वेणुजं वेणुसम्भूतम्। शशिनिभं चन्द्रसदृशं
वृत्तं परिवर्तुलं भ्राजिष्णु भ्राजनशीलं रुचिरं तेजस्वि शङ्खोद्भवं शङ्खजं ज्ञेयम्।।२८।।
अथैतेषां परिभाषाज्ञानार्थमाह—
शङ्खतिमिवेणुवारणवराहभुजगाभ्रजान्यवेद्यानि ।
अमितगुणत्वाच्चैषामर्घः शास्त्रे न निर्दिष्टः ॥२९॥
शंख, मछली, बाँस, हाथी, सूअर, सर्प और मेघ से उत्पन्न मोती छिद्र करने लायक
नहीं होते। अमित गुणों से समन्वित होने के कारण शास्त्रों में इसका मूल्य नहीं कहा
गया है अर्थात् ये सभी अमूल्य होते हैं।।२९।।
शङ्खः प्राणी। तिमिर्मत्स्यः। वेणुर्वंशः। वारणो हस्ती। वराहः सूकरः। भुजगः सर्पः।
अभ्रं मेघः। एभ्यो यानि जातानि सम्भूतानि तान्यवेद्यानि न वेदनीयानि। एषां सर्वेषाम-
मितगुणत्वाद्वहुगुणत्वाच्छास्त्रे अर्घो मूल्यं न निर्दिष्टो नोक्तः।।२९।।
एतेषां प्रशस्तार्थमाह—
एतानि सर्वाणि महागुणानि सुतार्थसौभाग्ययशस्कराणि ।
रुक्शोकहन्तॄणि च पार्थिवानां मुक्ताफलानीप्सितकामदानि ॥३०॥
महान् गुणों वाले उपर्युक्त समस्त मोती राजाओं के लिये पुत्र, सौभाग्य और यश
प्रदान करने वाले, रोग और शोक को हरण करने वाले एवं अभिलषित समस्त कामों
को देने वाले होते हैं।।३०।।
एतानि सर्वाणि निःशेषाणि शङ्खादिसम्भूतानि मुक्ताफलानि महागुणानि प्रभूतगुणानि।
सुताः पुत्राः। अर्थो धनम्। सौभाग्यं सर्वजनप्रियत्वम्। यशः कीर्तिं कुर्वन्ति। पार्थिवानां
राज्ञां रुक्शोकहन्तॄणि, रुग् रोगः, शोको दुःखं हरन्ति, ईप्सितमभिलषितं काममिच्छां च
ददति।।३०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

मुक्तालक्षणाध्यायः ३६५
अधुना मुक्तारचितानामाभरणानां संज्ञा आह—
सुरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम्।
इन्दुच्छन्दो नाम्ना विजयच्छन्दस्तदर्धेन ॥३१॥
शतमष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता ।
अष्टाष्टकोऽर्धहारो रश्मिकलापश्च नवषट्कः ॥३२॥
द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितोऽर्धगुच्छाख्यः ।
षोडशभिर्माणवको द्वादशभिश्चार्धमाणवकः ॥३३॥
मन्दरसंज्ञोऽष्टाभिः पञ्चलता हारफलकमित्युक्तम्।
सप्ताविंशतिमुक्ता हस्तो नक्षत्रमालेति ॥३४॥
अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैर्वा।
तरलकमणिमध्यं तद्विज्ञेयं चाटुकारमिति ॥३५॥
एकावली नाम यथेष्टसङ्ख्या हस्तप्रमाणा मणिविप्रयुक्ता ।
संयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्ता ॥३६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां मुक्तालक्षणं
नामैकाशीतितमोऽध्यायः ॥८१॥
एक हजार आठ लड़ी वाली मोतियों के माला की लम्बाई चार हाथ हो तो वह
माला 'इन्दुच्छन्द' संज्ञक होती है। यह देवताओं के भूषण के लिये होती है। पाँच सौ
चार लड़ी वाली माला की लम्बाई दो हाथ हो तो 'विजयच्छन्द', एक सौ आठ लड़ी
वाली अथवा इक्यासी लड़ी वाली माला की लम्बाई हो तो 'देवच्छन्द' संज्ञा है। चौंसठ
लड़ी वाली माला की संज्ञा 'अर्धहार', चौवन लड़ी वाली माला की संज्ञा 'रश्मिकलाप',
बत्तीस लड़ी वाली माला की संज्ञा 'गुच्छ', बीस लड़ी वाली माला की संज्ञा 'अर्धगुच्छ',
सोलह लड़ी वाली माला की संज्ञा 'माणवक', बारह लड़ी वाली माला की संज्ञा
'अर्धमाणवक', आठ लड़ी वाली माला की 'मन्दर' और पाँच लड़ी वाली माला की संज्ञा
'फलक' है। साथ ही एक हाथ लम्बी सत्ताईस मोतियों की माला का नाम 'नक्षत्रमाला'
है। पूर्वोक्त एक हाथ लम्बी माला के मध्य में मणि या सुवर्ण की गुलिका पिरोई जाय
या उस माला में मणिसोपान तथा हेमनिबद्ध मणि पिरोई जाय तो उसको 'चाटुकार'
कहते हैं। यथेष्ट मोतियों से युक्त हाथ भर लम्बी मध्यमणि से रहित माला को 'एकावलि'
और मध्यमणि से युक्त माला को भूषण के लक्षणों को जानने वालों ने 'यष्टी' नाम से
कहा है॥३१-३६॥
इति 'विमला'हिन्दीटीकायां मुक्तालक्षणाध्याय एकाशीतितमः ॥८१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३६६ बृहत्संहिता
सुरभूषणं लतानामिति । अष्टाधिकसहस्रं लतानां चतुर्हस्तं चत्वारो हस्ता दीर्घं
सुरभूषणं सुराणां देवानां भूषणमलङ्कारं तच्च क्रियते। तस्य नाम संज्ञा इन्दुच्छन्दः। तस्यैवेन्दु-
च्छन्दसोऽर्धेन दलेन पञ्चशतानि चतुरधिकानि लतानां द्विहस्तं च विजयच्छन्दःसंज्ञम्।
शतमष्टयुतमिति । अष्टयुतं शतं लतानां द्विहस्तं च हारः। एकयुताशीतिरेकाशीतिर्लतानां
द्विहस्तं च देवच्छन्दः। अष्टाष्टकोऽर्धहारः। अष्टाभिरष्टकैश्चतुःषष्ट्या लतानामर्धहारः। नव-
षट्कश्चतुष्पञ्चाशल्लता रश्मिकलापाख्यः।
द्वात्रिंशता त्विति । लतानां द्वात्रिंशता युक्तं गुच्छाख्यम्। विंशत्या लतानामर्धगुच्छाख्यः
कीर्तित उक्तः। षोडशभिर्लताभिर्माणवकाख्यः। द्वादशभिर्लताभिरर्धमाणवकः। द्विहस्त इति
सर्वत्रानुवृत्तिः।
मन्दरसंज्ञोऽष्टाभिरिति । अष्टाभिर्लताभिर्मन्दरसंज्ञः। पञ्चभिर्लताभिर्हारफलकमिति
उक्तं कथितम्। सप्तविंशतिर्मुक्ताफलानि हस्तप्रमाणा च नक्षत्रमालेति संज्ञा।
अन्तरमणिसंयुक्तेति । सैव लता हस्तप्रमाणा अन्तरे मध्ये मणिभिः संयुक्ता सुवर्ण-
गुलिकैर्वा कनकगुलिकैरथवान्तरे संयुक्ता मणिसोपानसंज्ञम्। तदेव तरलमणिमध्यम्।
हेमनिबद्धो मणिस्तरलमणिः, स मध्ये यस्य। तेन संयुक्तं चाटुकारमिति ज्ञेयम्।
एकावलीति । यथेष्टसङ्ख्या यथेष्टैर्मुक्ताफलैर्युक्ता हस्तप्रमाणा हस्तसम्मिता मणिभिर्वि-
प्रयुक्ता रहिता एकावली नाम तस्या भवति। या तु यथेष्टसङ्ख्या हस्तप्रमाणा मणिना तु
मध्ये संयोजिता सा भूषणविद्भिर्भूषणलक्षणज्ञैर्यष्टीत्युक्ता कथिता।।३१-३६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ मुक्तालक्षणं
नामैकाशीतितमोऽध्यायः॥८१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ पद्मरागलक्षणाध्यायः
अथ पद्मरागलक्षणं व्याख्यायते। तत्रादावेव पद्मरागाणामुत्पत्तेर्लक्षणमाह—
सौगन्धिककुरुविन्दस्फटिकेभ्यः पद्मरागसम्भूतिः ।
सौगन्धिकजा भ्रमराञ्जनाब्जजम्बूरसद्युतयः ॥१॥
कुरुविन्दभवाः शबला मन्दद्युतयश्च धातुभिर्विद्धाः ।
स्फटिकभवा द्युतिमन्तो नानावर्णा विशुद्धाश्च ॥२॥
सौगन्धिक, कुरुविन्द, स्फटिक—इन तीन प्रकार के पत्थरों से पद्मराग (लाल)
की उत्पत्ति होती है। सौगन्धिक पत्थर से उत्पन्न पद्मराग भ्रमर, अञ्जन, मेघ या जामुन के
रस के समान कान्ति वाले होते हैं। कुरुविन्द पत्थर से उत्पन्न पद्मराग शुक्ल-कृष्णमिश्रित,
मन्द कान्ति वाले और धातुओं से विद्ध होते हैं तथा स्फटिक से उत्पन्न पद्मराग कान्ति
वाले, अनेक वर्ण वाले और विशुद्ध होते हैं॥१-२॥
सौगन्धिकेति। सौगन्धिककुरुविन्दौ धातुविशेषौ। स्फटिकः स्फटिकोपलः। एभ्यः
पद्मरागाणां सम्भूतिरुत्पत्तिः। तत्र च ये भ्रमरद्युतयो द्विरेफसमकान्तयः। अञ्जनद्युतयः। अब्ज-
वर्णा उत्पलवर्णा वा तत्तुल्यकान्तयः। जम्बूरसद्युतयः, जम्बूवृक्षविशेषः, तद्रससमकान्तयो
लोहितवर्णाः। ते सौगन्धिकजाः सौगन्धिकसम्भूताः।
कुरुविन्दभवा इति। ये तु शबलाः शुक्लकृष्णव्यामिश्राः। मन्दद्युतयोऽल्पकान्तयः।
धातुभिर्मृत्तिकादिभिर्विद्धाः सकलङ्कास्तत्संयोगाज्जातास्ते कुरुविन्दभवाः कुरुविन्दजाताः।
ये च द्युतिमन्तः प्रभावन्तो नानावर्णा विचित्रा विशुद्धा निर्मलास्ते स्फटिकभवाः स्फटिक-
सम्भूताः॥१-२॥
अधुनैतेषां गुणानाह—
स्निग्धः प्रभानुलेपी स्वच्छोऽर्चिष्मान् गुरुः सुसंस्थानः ।
अन्तःप्रभोऽतिरागो मणिरत्नगुणाः समस्तानाम् ॥३॥
स्निग्ध, कान्ति से दीपित, स्वच्छ कान्ति से युत, भारी, सुन्दर आकार वाले, मध्य
में प्रभावयुक्त, अति लोहित, श्रेष्ठ गुणों से युक्त—ये सभी पद्मराग मणि के प्रधान गुण
कहे गये हैं॥३॥
स्निग्धः स्नेहसंयुक्तः। प्रभानुलेपी प्रभया कान्त्या अनुलिम्पति तच्छीलः। स्वच्छो
निर्मलः। अर्चिष्मान् दीप्तियुक्तः। गुरुर्गौरवयुक्तः। सुसंस्थानः शोभनाकृतिः। अन्तःप्रभोऽन्तर्मध्ये
प्रभा कान्तिर्यस्य अतिरागोऽतीव रागेण लौहित्येन युक्तः। एते समस्तानां सर्वेषां पद्म-
रागादीनां मणिरत्नगुणाः प्रधानरत्नगुणाः॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३६८ बृहत्संहिता
अथैतेषामपि दोषानाह—
कलुषा मन्दद्युतयो लेखाकीर्णाः सधातवः खण्डाः।
दुर्विद्धा न मनोज्ञाः सशर्कराश्चेति मणिदोषाः ॥४॥
मलिन कान्ति वाले, रेखाओं से व्याप्त, मिट्टी आदि धातुओं से युत, फटे हुये,
अप्रशस्त, छिद्र से युत, सुन्दरता से रहित, कंकड़ों से युक्त—ये सभी मणियों के दोष
कहे गये हैं॥४॥
कलुषा अनिर्मलाः। मन्दद्युतयः स्वल्पकान्तयः। लेखाकीर्णा लेखाभिर्व्याप्ताः। सधातवो
धातुभिर्मृत्तिकादिभिः सहिताः। खण्डाः स्फुटिताः। दुर्विद्धा दुष्टेनाप्रशस्तेन वेधेन संयुक्ताः।
न मनोज्ञा न चित्ताह्लादकाः। सशर्कराः शर्करासंयुक्ताः। इत्येवम्प्रकारा मणिदोषाः ॥४॥
अथ सर्पमणिलक्षणमाह—
भ्रमरशिखिकण्ठवर्णो दीपशिखासमप्रभो भुजङ्गानाम्।
भवति मणिः किल मूर्धनि योऽनर्घेयः स विज्ञेयः ॥५॥
भ्रमर या मयूरकण्ठ के समान वर्ण वाला, दीपशिखा के समान कान्ति वाला और
अमूल्य मणि सर्पों के शिर में होता है॥५॥
भुजङ्गानां सर्पाणां मूर्धनि शिरसि भ्रमरसदृशो द्विरेफकान्तिः। शिखिकण्ठसदृशवर्णो
मयूरगलसमप्रभः। दीपशिखासमप्रभः प्रदीपाग्रकान्तिः। यो मणिर्भवति सोऽनर्घेयोऽमूल्यो
विज्ञेयो ज्ञातव्यः ॥५॥
अस्य प्रभावमाह—
यस्तं बिभर्ति मनुजाधिपतिर्न तस्य
दोषा भवन्ति विषरोगकृताः कदाचित्।
राष्ट्रे च नित्यमभिवर्षति तस्य देवः
शत्रूंश्च नाशयति तस्य मणेः प्रभावात् ॥६॥
जो राजा पूर्वोक्त मणि को धारण करता है, उसको कभी भी विष या रोगसम्बन्धी
दोष नहीं होते। उसके राज्य में इन्द्र सदा वर्षा करते हैं और उस मणि के प्रभाव से वह
राजा अपने शत्रुओं का नाश करने में समर्थ होता है॥६॥
यो मनुजाधिपती राजा तं सर्पमणिं बिभर्ति धारयति तस्य विषकृता रोगकृता दोषा
न कदाचिद्भवन्ति। तस्य च राज्ञो राष्ट्रे देवः शक्रो नित्यं सर्वकालं वर्षति। तस्य च मणेः
प्रभावाच्छत्रून् रिपून् स राजा नाशयति ॥६॥
अथास्य मूल्यपरिज्ञानार्थमाह—
षड्विंशतिः सहस्त्राण्येकस्य मणेः पलप्रमाणस्य।
कर्षत्रयस्य विंशतिरुपादिष्टा पद्मरागस्य ॥७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पद्मरागलक्षणाध्यायः ३६९
अर्धपलस्य द्वादश कर्षस्यैकस्य षट्सहस्राणि।
यच्चाष्टमाषकधृतं तस्य सहस्रत्रयं मूल्यम् ॥८॥
माषकचतुष्टयं दशशतक्रयं द्वौ तु पञ्चशतमूल्यौ।
परिकल्प्यमन्तराले मूल्यं हीनाधिकगुणानाम् ॥९॥
वर्णन्यूनस्यार्द्धं तेजोहीनस्य मूल्यमष्टांशम्।
अल्पगुणो बहुदोषो मूल्यात् प्राप्नोति विंशांशम् ॥१०॥
आधूम्रं व्रणबहुलं स्वल्पगुणं चाप्नुयाद् द्विशतभागम्।
इति पद्मरागमूल्यं पूर्वाचार्यैः समुद्दिष्टम् ॥११॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पद्मरागलक्षणं
नाम द्व्यशीतितमोऽध्यायः ॥८२॥
एक पलतुल्य पद्मराग का मूल्य २६००० रूपये, तीन कर्षतुल्य पद्मराग का मूल्य
२०००० रूपये, आधे पलतुल्य पद्मराग का मूल्य १२००० रूपये, एक कर्षतुल्य
पद्मराग का मूल्य ६००० रूपये, आठ मासे-तुल्य पद्मराग का मूल्य ३००० रूपये,
चार मासे तुल्य पद्मराग का मूल्य १००० रूपये और दो मासे तुल्य पद्मराग का मूल्य
५०० रूपये होता है। मध्य में गुणों की न्यूनता और अधिकता के अनुसार मूल्य की
कल्पना करनी चाहिये। अल्प वर्ण वाले पद्मराग का मूल्य आधा, तेजोहीन पद्मराग का
मूल्य अष्टमांश, थोड़े गुण वाले एवं बहुत दोष वाले पद्मराग का मूल्य विंशांश तथा
कुछ धूम्र वर्ण वाले, बहुत छिद्र वाले और थोड़े गुणों से युत पद्मराग का मूल्य शत-
द्वयांश होता है। इस तरह पूर्वाचार्यों द्वारा पद्मराग के मूल्य का अच्छी प्रकार उपदेश
किया गया है॥७-११॥
इति 'विमला'हिन्दीटीकायां पद्मरागलक्षणाध्यायः द्व्यशीतितमः ॥८२॥
षड्विंशतिः सहस्राणीति। एकस्य पद्मरागस्य पलप्रमाणस्य चतुष्कर्षस्य मूल्यं
षड्विंशतिः सहस्राणि रूपकाणामुपदिष्टान्युक्तानि। कर्षत्रयस्य विंशतिसहस्राण्युपदिष्टान्युक्तानि।
अर्धपलस्य द्वादशसहस्राणि मूल्यम्। एकस्य कर्षस्य षट्सहस्राणि। यश्च पद्मरागो-
ऽष्टाभिर्माषकैर्धृतस्तुलितस्तस्य सहस्रत्रयं रूपकाणां मूल्यम्।
माषकचतुष्टयमिति। माषकचतुष्टयेन यो धृतः पद्मरागस्तस्य दशशतक्रयं सहस्र-
मूल्यम्। द्वौ तु माषकौ पञ्चशतमूल्यौ। अन्तराले मध्ये हीनाधिकगुणानां परिकल्प्यं स्वबुद्ध्या
मूल्यमूह्यम्। यथा पलप्रमाणस्य षड्विंशतिः सहस्राणि। कर्षत्रयस्य विंशतिरेव। अर्ध-
कर्षोनपलस्य त्रैराशिकविधानेन क्षयः कार्यः।
बृ० भ० द्वि०-२४
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA