बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 390, कुल 760 में से
संदर्भ में पढ़ें३६२ बृहत्संहिता
मूल्यं भवति। विषमकपीतयोश्च यथासंख्यं षड्भागदलहीनम्। अतिविषमस्य षड्भागहीनं
पीतस्यार्धहीनमिति।।१८-१९।।
अथ गजमुक्ताफललक्षणमाह—
ऐरावतकुलजानां पुष्यश्रवणेन्दुसूर्यदिवसेषु।
ये चोत्तरायणभवा ग्रहणेऽर्केन्द्वोश्च भद्रेभाः ॥२०॥
तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु।
बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः ॥२१॥
नैषामर्घः कार्यो न च वेधोऽतीव ते प्रभायुक्ताः।
सुतविजयारोग्यकरा महापवित्रा धृता राज्ञाम् ॥२२॥
पुष्य या श्रवण नक्षत्र में, चन्द्र या रविवार में, उत्तरायण में, रवि और चन्द्र के
ग्रहणकाल में ऐरावतकुल में उत्पन्न जिन भद्र हाथियों का जन्म होता है, उनके दन्तकोष
या कुम्भों में बड़े-बड़े अनेक प्रकार के और कान्तियुक्त बहुत से मोती निकलते हैं।
इनका मूल्य तथा इनमें छिद्र नहीं करना चाहिये। उन प्रभायुक्त महापवित्र मोतियों को
धारण करने से राजाओं को पुत्र, विजय और आरोग्य की प्राप्ति होती है।।२१-२२।।
ऐरावतकुलजानामिति। ऐरावतो नाम हस्ती, तस्य कुले वंशे जाता ये गजास्तेषां
तद्वंशप्रभवाणां तद्वंशप्रसूतानां गजानां च प्रजाताः पुष्ये पुष्यनक्षत्रे श्रवणे च नक्षत्रे। इन्दुदिने
चन्द्रवासरे सूर्यदिवसे अर्कवासरे यद्युत्पद्यन्ते। ये चैते गजा उत्तरायणभवा उत्तरायणे जाताः।
अर्केन्द्वोः सूर्याचन्द्रमसोश्च ग्रहण उपरागे च ये जातास्ते भद्रेभाः, भद्रनामानस्ते गजाः।
तेषामिति। किलेत्यागमदर्शनार्थम्। तेषामैरावतकुलजानां तथा भद्रेभानां कुम्भेषु
मस्तकेषु सरदकोशेषु दन्तकोशसंयुक्तेषु मुक्ता जायन्ते उत्पद्यन्ते च। बहवः प्रभूता बृहत्प्रमाणाः
स्थूलाः। बहुसंस्थाना अनेकाकाराः। प्रभायुक्तास्तेजस्विन्यः।
नैषामर्घः कार्य इति। तेषां मुक्ताफलानामर्घो मूल्यं न कार्यं न च वेधस्तेषां कार्यः।
यतस्ताः सर्वा अतीवात्यर्थं प्रभायुक्तास्तेजस्विन्यो महापवित्रा अतिसाधना राज्ञां नृपाणां
धृता देहस्थिताः सुतविजयाऽऽरोग्यकरा भवन्ति। सुताः पुत्राः। विजयः शत्रुनिग्रहः। आरोग्यं
नीरोगत्वं च कुर्वन्ति।।२०-२२।।
अथ वराहजस्य मुक्ताफलस्य तिमिजस्य च लक्षणमाह—
दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम्।
तिमिजं मत्स्याक्षिनिभं बृहत् पवित्रं बहुगुणं च ॥२३॥
सूअर के दन्तमूल में चन्द्रप्रभा के समान कान्ति वाले, बहुत गुणों से युक्त मुक्ता-
फल निकलते हैं तथा मछली से मछली के नेत्र के समान, स्थूल, पवित्र और बहुत
गुणों से युक्त मुक्ताफल निकलते हैं।।२३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA