सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 389, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 389

मुक्तालक्षणाध्यायः ३६१
मुक्ताशीत्येति । मुक्ताशीत्या धृतस्य धरणस्य त्रिंशद्रूपकमूल्यम्। मुक्ताशतधृतस्य
सा त्रिंशत्पञ्चरूपकविहीना पञ्चविंशतिरूपका मूल्यम्। द्विशतधरणस्य द्वादशरूपकाः।
त्रिशतधरणस्य षड्रूपकाः। चतुःशतधरणस्य रूपकपञ्चकम्। पञ्चशतधरणस्य त्रितयं रूप-
काणां मूल्यमिति ।।१३-१६।।
अधुना त्रयोदशाद्यानां धरणानां संज्ञार्थमाह—
पिक्कापिच्चार्धार्धा रवकः सिक्थं त्रयोदशाद्यानाम् ।
संज्ञाः परतो निगराश्रूर्णाश्चाशीतिपूर्वाणाम् ।।१७।।
एक धरण पर १३ मोती चढ़े तो 'पिक्का', सोलह मोती चढ़े तो 'पिच्चा', पच्चीस
मोती चढ़े तो 'अर्ध', तीस मोती चढ़े तो 'रवक', चालीस मोती चढ़े तो 'सिक्थ' और
पचपन मोती चढ़े तो 'निगर' कहलाता है। इसके बाद अस्सी मोती से लेकर पाँच सौ
तक एक धरण पर चढ़े तो उसको 'चूर्ण' कहते हैं।।१७।।
त्रयोदशाद्यानां धरणानां पिक्काद्या संज्ञाः। तद्यथा—त्रयोदशमुक्ताधृतस्य धरणस्य
पिक्केति संज्ञा। षोडशकस्य पिच्चा। विंशतिकस्यार्धा। पञ्चविंशतिकस्यार्धा। त्रिंशत्कधृतस्य
रवकः। चत्वारिंशत्कस्य सिक्थम्। परतोऽनन्तरं पञ्चपञ्चाशत्कस्य निगरा। अशीतिपूर्वाणां
सर्वधरणानां चूर्णा इति संज्ञा। एताश्चाकरस्थाने व्यवहारार्थमुपयुज्यन्ते ।।१७।।
अथोत्तराणां मूल्यपरिज्ञानमाह—
एतद्गुणयुक्तानां धरणधृतानां प्रकीर्तितं मूल्यम् ।
परिकल्प्यमन्तराले हीनगुणानां क्षयः कार्यः ।।१८।।
कृष्णश्वेतकपीतकताम्राणामीषदपि च विषमाणाम् ।
त्र्यंशोनं विषमकपीतयोश्च षड्भागदलहीनम् ।।१९।।
ये एक धरणतुल्य गुणयुक्त मोतियों के मूल्य कहे गये हैं। मध्य में व्यस्त त्रैराशिक
से मूल्य का ज्ञान करना चाहिये। गुणहीन मोतियों के मूल्य में वक्ष्यमाण रीति से हानि
करनी चाहिये। कुछ काले, कुछ सफेद, कुछ पीले, कुछ लाल और कुछ विषम मोतियों
का तृतीयांशोन पूर्वोक्त मूल्यतुल्य मूल्य होता है। विषम तथा पीले मोतियों का षष्ठांशोन
पूर्वोक्त मूल्यतुल्य मूल्य होता है।।१८-१९।।
एतदिति । गुणयुक्तानां मुक्ताफलानां धरणधृतानामेतद्यथोक्तं मूल्यम्। अन्तराले मध्ये
परिकल्प्यं स्वबुद्ध्या मूल्यमूह्यम्। यथा त्रयोदशकस्य धरणस्य त्रिशती सपञ्चविंशा उक्ता।
षोडशकस्य द्विशती। अन्तराले मध्ये चतुर्दशधृतस्य पञ्चदशधृतस्य वा व्यस्तत्रैराशिकेन
मूल्यान्वयनं कार्यमित्यर्थः। हीनगुणानां वक्ष्यमाणेनैवं क्रमेण क्षयः कार्यः।
कृष्णश्वेतिकेति । ईषदिति प्रत्येकमभिसम्बध्यते। ईषत्किञ्चित्कृष्णानामसितवर्णानाम्।
ईषच्छुक्लानामीषत्ताम्राणामीषद्विषमाणां प्राग्विधानेन यन्मूल्यं तदेव त्र्यंशोनं त्रिभागहीनं तेषां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA