सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

२१० बृहत्संहिता
उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युर्मानवा विषमकुक्षाः ।
सर्पोदरा दरिद्रा भवन्ति बह्वाशिनश्चैव ॥२०॥
अविकल (परिपूर्ण) पार्श्व (कटि के ऊपर का चार अंगुल भाग) वाला मनुष्य
धनी, निम्न और वक्र पार्श्व वाला अभोगी एवं समान कुक्षी (उदरमध्य भाग) वाला
भोगी और निम्न कुक्षी वाला अभोगी होता है। उन्नत कुक्षी वाला मनुष्य राजा, विषम
कुक्षी वाला कठोर और सर्प के उदर के समान लम्बे उदर वाला मनुष्य निर्धन एवं बहुत
भोजन करने वाला होता है॥१९-२०॥
कट्या उपरि चतुरङ्गुलो भागः पार्श्वशब्दवाच्यः। अविकले परिपूर्णे समांसले पार्श्वे
येषां ते धनिन ईश्वराः। निम्नैः पार्श्वैर्वक्रैश्च दीर्घैर्भोगसन्त्यक्ता भोगरहिताः। कुक्षाशब्देनोदर-
मध्यभाग उच्यते। समा तुल्या कुक्षा येषां ते भोगयुक्ता निम्नाभिः कुक्षाभिर्भोगपरीहीना
भोगरहिता भवन्ति।
उन्नता उच्चा कुक्षा येषां ते क्षितिपा राजानः। विषमा अतुल्या कुक्षा येषां ते मानवाः
पुरुषाः कुटिलाः कठिनाः स्युर्भवेयुः। सर्पसदृशमतिदीर्घमुदरं येषां ते दरिद्रा निर्धना बह्वाशिनः
प्रभूताहाराश्च भवन्ति। तथा च—
पार्श्वैः समांसोपचितैर्धनिनो मानवाः स्मृताः।
निम्नैर्वक्रैश्च विषमैर्नरा भोगविवर्जिताः॥
समकुक्षा भोगयुक्ता निम्नाभिर्भोगवर्जिताः।
नृपाश्चोन्नतकुक्षाः स्युर्विषमाभिर्दुराशयः॥
सर्पोदरा नरा निःस्वाः स्मृता बह्वाशिनस्तथा॥ इति॥१९-२०॥
अथ नाभिलक्षणमाह—
परिमण्डलोन्नताभिर्विस्तीर्णाभिश्च नाभिभिः सुखिनः।
अल्पा त्वदृश्यनिम्ना नाभिः क्लेशावहा भवति॥२१॥
वलिमध्यगता विषमा शूलाद् बाधां करोति नैःस्वं च।
शाठ्यं वामावर्ता करोति मेधां प्रदक्षिणतः ॥२२॥
पार्श्वयिता चिरायुषमुपरिष्टाच्चेश्वरं गवाढ्यमधः।
शतपत्रकर्णिकाभा नाभिर्मनुजेश्वरं कुरुते॥२३॥
गोल, ऊँची और विस्तीर्ण नाभि वाले मनुष्य सुखी होते हैं। छोटी, अदृश्य और
अनिम्न नाभि दुःखदायी होती है। पेट की वलि के मध्य में स्थित एवं विषम नाभि शूली
पर चढ़ाती और निर्धन बनाती है। वामावर्त नाभि शठ एवं दक्षिणावर्त नाभि तत्त्वज्ञानी
करती है। दोनों पार्श्व में आयत नाभि दीर्घायु, ऊपर की तरफ आयत नाभि ऐश्वर्य, नीचे की
तरफ आयत नाभि गायों से युक्त और कमलकोर की आकृति के समान आकृति वाली
नाभि मनुष्य को राजा बनाती है॥२१-२३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २११
परिमण्डलाभिः परिवर्त्तुलाभिरुन्नताभिरुच्चाभिर्विस्तीर्णाभिः पृथुलाभिर्नाभिभिः सुखिनो
भवन्ति। अल्पाऽसङ्कुला, अदृश्याऽलक्ष्या, निम्ना गम्भीरा नातिविस्तीर्णा नाभिः क्लेशावहा
क्लेशप्रदा भवति।
वलिमध्यगतेति। वलिमध्ये यस्य नाभी गता। तथा विषमा अतुल्या शूलाद्वाधां
करोति शूलाद्विद्धतनोस्तस्य मृत्युर्भवति। नैःस्वयं निर्धनत्वं च करोति। वामावर्ता नाभिः
शाठ्यं शठभावं करोति। शठः परकार्यविमुखः। तथा च—
वचसा मनसा यश्च दृश्यतेऽकार्यतत्परः।
कर्मणा विपरीतश्च स शठः सद्भिरिष्यते।।
प्रदक्षिणतः प्रदक्षिणावर्ता मेधां बुद्धिं शोभनां करोति। अत्राष्टगुणयुक्ता बुद्धिविवक्षिता।
तथा च—
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहाऽपोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।। इति।
पार्श्वयोरायता विस्तीर्णा चिरायुषं चिरजीवितं कुरुते। उपरिष्टादायता चेश्वरं समृद्धम्।
अध आयता गवांढ्यं गोबाहुल्यम्। शतपत्रं पद्मं तस्य कर्णिका मध्यभागस्तदाभा तत्सदृशी
नाभिर्मध्योन्नता। मध्येऽन्तः पद्मकणिकाकार उच्चभागो भवति। सा मनुजेश्वरं कुरुते।
तथा च—
वर्तुला विपुलात्युच्चा नाभिर्यदि नरेश्वरः।
अल्पदृश्या तथा निम्ना नाभिः क्लेशावहा भवेत्।।
वलिमध्यगता या च सा शूलाद् बधकारिणी।
वामावर्ता शाठ्यभावं धिषणां च प्रदक्षिणा।।
पार्श्वायता दीर्घजीवं धनयुक्तं तथोर्ध्वगा।
अधो गोबहुलं कुर्यान्नाभिभोगसमन्वितम्।।
पद्मस्य कर्णिकातुल्या नाभिः कुर्यान्नरेश्वरम्।। इति।।२१-२३।।
अथोदरवर्तिनीनां वलीनां लक्षणमाह—
शस्त्रान्तं स्त्रीभोगिनमाचार्यं बहुसुतं यथासंख्यम्।
एकद्वित्रिचतुर्भिर्वलिभिर्विन्द्याद् नृपं त्ववलिम् ॥२४॥
विषमवलयो मनुष्या भवन्त्यगम्याभिगामिनः पापाः।
ऋजुवलयः सुखभाजः परदारद्वेषिणश्चैव ॥२५॥
एक वलि ( उदर की रेखा ) वाले मनुष्य का शस्त्र से मरण होता है। दो वलि
वाले मनुष्य बहुत स्त्रियों को भोगने वाले होते हैं। इसी प्रकार तीन वलि वाले उपदेशक,
चार वलि वाले बहुत पुत्रों से युत और वलिरहित उदर वाले मनुष्य राजा होते हैं। विषम
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

२१२ बृहत्संहिता
(छोटी-बड़ी) वलि वाले अगम्या स्त्री में गमन करने वाले तथा सीधी वलि वाले
मनुष्य सुखी एवं परस्त्री से विमुख होते हैं।।२४-२५।।
शस्त्रान्तमिति। उदरमध्यगताभिरेकाद्याभिर्वलिभिर्यथासंख्यं यथाक्रमं शस्त्रान्तादयो
भवन्ति। तद्यथा—एकवलिर्यस्योदरे भवति स शस्त्रान्तम्। शस्त्रेण म्रियते। द्वाभ्यां स्त्रीभोगिनं
*स्त्रीबहुलम्। त्रिभिराचार्यमुपदेशकारिणम्, चतुर्भिर्बहुसुतं प्रभूतपुत्रम्। अवलिं वलिरहितं
नृपं राजानं विन्द्याज्जानीयात्।
ये मनुष्याः पुरुषा विषमवलयोऽसमवलयः। काश्चिद् दीर्घाः काश्चिद् ह्रस्वा येषां ते,
अगम्याभिगामिनः, अगम्यागमनशीलाः पापाश्च भवन्ति। ये च ऋजुवलयः स्पष्टवलयस्ते
सुखभाजः सुखिताः परदारद्वेषिणः परस्त्रीषु द्वेषशीला वैरिणो भवन्ति। तथा च—
एकवलिः शस्त्रमृत्युः स्त्रीभोगी द्विवलिः स्मृतः।
त्रिभिराचार्य इत्याहुश्चतुर्भिः स्याद् बहुप्रजः।।
अवलिस्तु नृपः प्रोक्तो यज्वा दानैकतत्परः।
विषमा वलयो येषु ते चागम्याभिगामिनः।।
ऋज्व्यस्तु वलयो येषु ते नराः सुखभागिनः।। इति।।२४-२५।।
अथ पार्श्वलक्षणमाह—
मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्तरोमभिर्भूपाः।
विपरीतैर्निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः।।२६।।
पुष्ट, कोमल और दक्षिणावर्त रोमों से युक्त पार्श्व वाले मनुष्य राजा होते हैं। विपरीत
लक्षणों (मांसरहित, कठोर तथा वामावर्त रोमों) से युक्त पार्श्व वाले मनुष्य निर्धन,
दुःखी और दूसरे के दास होते हैं।।२६।।
कटेरुपरि चतुरङ्गुलो भागः पार्श्वशब्दवाच्यः। पार्श्वैर्मांसलैर्घनैः। मृदुभिः कोमलैः।
प्रदक्षिणावर्तरोमभिः प्रदक्षिणावर्तेन रोमाणि यानि तथाभूतैर्भूपा राजानो भवन्ति। विपरीतैरमांसलै
रूक्षैर्वामावर्तरोमभिर्निर्द्रव्या निर्धनाः सुखैः परिहीना रहिताः परेषां प्रेष्याः कर्मकराश्च भवन्ति।
तथा च—
मांसलैर्मृदुभिः पार्श्वैर्दक्षिणावर्तरोमभिः।
नरा भूम्यधिपा ज्ञेया विपरीतैः सुदुःखिताः।। इति।।२६।।
अथ चूचुकानां लक्षणमाह—
सुभगा भवन्त्यनुद्बद्धचूचुका निर्धना विषमदीर्घैः।
पीनोपचितनिमग्नैः क्षितिपतयश्चूचुकैः सुखिनः।।२७।।
जिनके चूचुक (स्तन के अग्र भाग) ऊपर की ओर खींचे न हों, वे पुरुष सुभग
होते हैं। जिनके विषम (छोटे-बड़े) और लम्बे हों, वे निर्धन होते हैं तथा जिनके
चूचुक कठोर, पुष्ट तथा नीचे हों, वे राजा और सुखी होते हैं।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणोध्यायः २१३
चूचुकं स्तनाग्रम्। अनुद्बद्धैरनूर्ध्वप्रेक्षकैश्चूचुकैः सुभगा भवन्ति। विषमैरतुल्यैर्दीर्घैश्च
चूचुकैर्निर्धना दरिद्रा भवन्ति। पीनैः कठिनैरुपचितैः समांसलैर्निमग्नैरनुद्बद्धैश्चूचुकैः क्षितिपतयो
राजानो भवन्ति, ते च सुखिनः सुखभाजः। तथा च—
चूचुकैश्चाप्यनुद्बद्धैः सुभगाः सुखभागिनः।
निर्धना विषमैर्दीर्घैर्मग्नैर्मांसयुतैर्नृपाः।। इति।।२७।।
अथ हृदयलक्षणमाह—
हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम्।
अधनानां विपरीतं खररोमचितं शिरालं च।।२८।।
राजाओं का हृदय ऊँचा, विस्तीर्ण और कम्प से रहित होता है। निर्धनों का हृदय
विपरीत लक्षणों ( नीचा, कृश, सकम्प तथा कठोर रोम ) से युक्त तथा शिराओं से
व्याप्त होता है।।२८।।
हृदयं समुन्नतमुच्चं पृथु विस्तीर्णं न वेपनमकम्पनं मांसलं च नृपतीनां राज्ञां भवति।
विपरीतं निम्नमविस्तीर्णं कम्पनममांसलमधनानां दरिद्राणां भवति। तथा खररोमचितं रूक्ष-
स्थूलरोमसंयुक्तं शिरालं शिरासन्ततं च अधनानामेव। तथा च—
अचलं च पृथूच्चं च नृपाणां हृदयं स्मृतम्।
विपरीतं शिरालं च रोमशं दुःखभागिनम्।। इति।।२८।।
अथ वक्षोलक्षणमाह—
समवक्षसोऽर्थवन्तः पीनैः शूरा ह्यकिञ्चनास्तनुभिः।
विषमं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च ।।२९।।
समान ( न ऊँची, न नीची ) छाती वाले धनी, छोटी छाती वाले पुरुषार्थ से रहित
एवं विषम छाती वाले मनुष्य निर्धन और शस्त्र से मृत्यु पाने वाले होते हैं।।२९।।
समं न निम्नं नात्युच्चं वक्ष उरो येषां ते अर्थवन्तो धनिनः। पीनैर्मांसलैः कठिनैश्च
वक्षोभिः शूरा भवन्ति। तनुभिरल्पमांसैर्हि, अकिञ्चना अकिञ्चित्कराः पुरुषकारहीनाः। येषां
वक्षो विषममतुल्यं ते निःस्वा निर्धनाश्च शस्त्रनिधनाश्च शस्त्रमृत्यवो भवन्ति। तथा च—
अर्थवान् समवक्षाः स्याद् दीर्घैः शूरा धनान्विताः।
अल्पैश्च विकला दीना विषमैः शस्त्रमृत्युवः।। इति।।२९।।
अथ जत्रुलक्षणमाह—
विषमैर्विषमो जत्रुभिरर्थविहीनोऽस्थिसन्धिपरिणद्धैः ।
उन्नतजत्रुर्भोगी निम्नैर्निःस्वोऽर्थवान् पीनैः ॥३०॥
विषम जत्रु ( कन्धों के जोड़ ) वाला मनुष्य क्रूर, अस्थिसन्धियों से व्याप्त जत्रु
वाला मनुष्य निर्धन तथा पुष्ट जत्रु वाला पुरुष धनी होता है।।३०।।
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA

२१४ बृहत्संहिता
जत्रुः कुक्षयोः सन्धिः। विषमैरतुल्यैर्जत्रुभिर्विषमः क्रूरो भवति। अस्थिसन्धिपरिणद्धैः,
अस्थ्नां सन्धयोऽस्थिसन्धयः, तैः परिणद्धैर्बद्धैरर्थविहीनो निर्धनो भवति। उन्नत उच्चो
जत्रुर्यस्य स भोगी भोगवान् भवति। निम्नैर्जत्रुभिर्निःस्वो दरिद्रो भवति। पीनैः पीवरैर्जत्रुभिरर्थवान्
धनी भवति। तथा च—
जत्रुभिर्विषमैः क्रूरा दरिद्राः क्रूरसन्धिभिः।
भोगी चोन्नतजत्रुः स्यान्निम्नैर्निःस्वोऽन्यथा धनी।। इति।।३०।।
अथ ग्रीवापृष्ठलक्षणमाह—
चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा।
महिषग्रीवः शूरः शस्त्रान्तो वृषसमग्रीवः ।।३१।।
कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रभक्षणो भवति।
पृष्ठमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत् ।।३२।।
चपटी ग्रीवा वाला पुरुष निर्धन, सूखी हुई नाड़ियों से युत ग्रीवा वाला निर्धन,
महिष के समान ग्रीवा वाला शूर और बैल के समान ग्रीवा वाला शस्त्र से मरण पाने
वाला होता है। साथ ही शंख के समान ग्रीवा वाला मनुष्य राजा और लम्बी ग्रीवा वाला
बहुत खाने वाला होता है। अभग्न और रोमरहित पीठ धनिक लोगों की तथा भग्न और
रोमों से युत पीठ निर्धनों की होती है।।३१-३२।।
चिपिटा चर्पटाऽस्पृष्टा ग्रीवा यस्य स निःस्वो निर्धनो भवति। यस्य च शुष्का निर्मांसा
सशिरा शिरासन्तता ग्रीवा भवति स निःस्व एव निर्धन एव। महिषसदृशग्रीवः शूरो भवति।
वृषसमग्रीवो दान्ततुल्यकन्धरः शस्त्रान्तो भवति शस्त्रेण म्रियते।
वलित्रयं ग्रीवायां यस्य भवति स कम्बुग्रीवः। तथा चोक्तम्—
वलित्रयचितग्रीवः कम्बुग्रीवोऽभिधीयते। इति।
यश्च कम्बुग्रीवः स राजा भवति। प्रलम्बकण्ठः प्रलम्बः कण्ठो यस्य स प्रभक्षणो
भवति, असञ्चयशीलः। तथा च—
ग्रीवा च वर्तुला यस्य स नरो धनवान् स्मृतः।
कम्बुग्रीवा नरा ये तु राजानस्ते न संशयः।।
दीर्घग्रीवा नरा ये तु तेऽपि दुःखस्य भागिनः।
वक्रग्रीवा नरा ये ते दाम्भिका पिशुनास्तथा।।
निःस्वस्तु चिपिटग्रीवः शुष्कग्रीवस्तथैव च।
शूरस्तु महिषग्रीवः शस्त्रान्तो वृषकन्धरः।।
पृष्ठमभग्नमस्फुटितमरोमशं रोमवर्जितमर्थवतां सधनानां भवति। अतोऽस्मादन्यद्भग्नं
रोमशमशुभदं निर्धनानां भवति। तथा च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २१५
सुस्निग्धं मांसलं पृष्ठमभग्नं चाप्यरोमशम्।
सधनानां विपर्यस्तं निर्धनानां प्रकीर्तितम्।। इति।।३१-३२।।
अथ कक्षालक्षणमाह—
अस्वेदनपीनोन्नतसुगन्धसमरोमसङ्कुलाः कक्षाः।
विज्ञातव्या धनिनामतोऽन्यथार्थैर्विहीनानाम् ।।३३।।
पसीने से रहित, पुष्ट, ऊँची, सुगन्धयुक्त, समान तथा रोमों से व्याप्त काँख धनिकों
की होती है। पसीने से युत, अपुष्ट, नीची, दुर्गन्धयुत, विषम और रोमरहित काँख निर्धनों
की होती है।।३३।।
बाहुमूलतलं कक्षाशब्देनोच्यते। कक्षा अस्वेदनाः स्वेदरहिताः पीनाः समांसला उन्नता
उच्चाः सुगन्धाः शोभनगन्धाः समास्तुल्या रोमसङ्कुला रोमभिर्युक्ता धनिनामीश्वराणां विज्ञातव्या
ज्ञेयाः। अतोऽस्मादन्यथा विपरीतलक्षणाः सस्वेदना निर्मांसा निम्ना दुर्गन्धा विषमा रोम-
वर्जिता अर्थैर्विहीनानां धनरहितानां भवन्ति। तथा च—
निःस्वेदमांसलाः कक्षाः सुगन्धा रोमसङ्कुलाः।
धनिनां तु विजानीयान्निर्धनानामतोऽन्यथा।। इति।।३३।।
अथांसलक्षणमाह—
निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धनस्यांसौ।
विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम् ।।३४।।
मांसहीन, रोमों से युत, भग्न तथा छोटे कन्धे निर्धन मनुष्यों के होते हैं तथा
विस्तीर्ण, अभग्न और परस्पर संलग्न कन्धे सुखी और बली पुरुषों के होते हैं।।३४।।
अंसौ स्कन्धौ निर्मांसौ मांसरहितौ रोमचितौ रोमव्याप्तौ भग्नौ स्फुटितावल्पौ निर्धनस्य
दरिद्रस्य। विपुलावव्युच्छिन्नावभग्नौ सुश्लिष्टौ सुसंलग्नौ सौख्यवीर्यवतां सुखिनां बलिनां
च भवतः। तथा च—
कदलीस्तम्भसङ्काशा अजस्कन्धाश्च ये नराः।
राजानस्ते विजानीयुर्महाकोशा महाबलाः।
निर्मांसरोमबहुला निर्धनस्य प्रकीर्तिताः ।। इति ।।३४।।
अथ बाहुलक्षणमाह—
करिकरसदृशौ वृत्तावाजान्ववलम्बिनौ समौ पीनौ।
बाहू पृथिवीशानामधनानां रोमशौ ह्रस्वौ ।।३५।।
हाथी के सूँड़ के समान वर्तुलाकार, जानुपर्यन्त लम्बे, सम तथा मोटे बाहु राजा के
होते हैं। रोमों से युत तथा छोटे बाहु निर्धन के होते हैं।।३५।।
बाहू भुजौ करिकरसदृशौ गजहस्ततुल्यौ वृत्तौ परिवर्तुलौ। आजान्ववलम्बिनौ जानु-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२१६ बृहत्संहिता
सम्प्रापिणौ समौ तुल्यौ पीनौ समांसलौ पृथिवीशानां राज्ञां विज्ञातव्यौ। रोमशौ रोमयुक्तौ
ह्रस्वावदीर्घावधनानां निर्धनानां विज्ञेयौ। तथा च—
उद्बद्धबाहुः पुरुषो बधबन्धमवाप्नुयात्।
दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा।।
प्रलम्बबाहुरीश्वर्यं प्राप्नुयाद् गुणसंयुतम्।
ह्रस्वबाहुर्भवेद् दासः परप्रेष्यकरस्तथा।।
वामावर्तभुजा ये तु ये तु दीर्घभुजा नराः।
सम्पूर्णबाहवो ये तु राजानस्ते प्रकीर्तिताः।। इति।।३५।।
इदानीं हस्तलक्षणान्याह—
हस्ताङ्गुलयो दीर्घाश्चिरायुषामवलिताश्च सुभगानाम् ।
मेधाविनां च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम् ॥३६॥
स्थूलाभिर्धनरहिता बहिर्नताभिश्च शस्त्रनिर्याणाः ।
कपिसदृशकरा धनिनो व्याघ्रोपमपाणयः पापाः ॥३७॥
दीर्घायु वाले मनुष्यों की अंगुली लम्बी, सुभग पुरुषों की सीधी, बुद्धिमानों की
पतली और दूसरों की सेवा करने वाले की अंगुली चिपटी होती है। मोटी अंगुली वाले
निर्धन और बाहर को झुकी हुई अंगुली वाले शस्त्र से मृत्यु पाने वाले होते हैं। वानर के
समान हाथ वाले धनी और बाघ के समान हाथ वाले पापी होते हैं।।३६-३७।।
दीर्घा अह्रस्वा हस्ताङ्गुलयः करशाखाः चिरायुषां दीर्घजीविनां भवन्ति। अवलिता
अवेष्टिताः सुस्पष्टाश्च सुभगानां सौभाग्ययुक्तानां भवन्ति। सूक्ष्मा अस्थूला मेधाविनां बुद्धिमतां
भवन्ति। अत्र केचिन्मेधाबुद्धिप्रज्ञाणां विशेषमिच्छन्ति। तथा चोक्तम्—
अतितानस्मृतिर्मेधा तत्कालग्राहिणी मतिः।
शुभाशुभविचारज्ञा प्रज्ञा धीरैरुदाहृता।।
परकर्मनिरतानां परप्रेष्याणां चिपिटाश्चर्पटा भवन्ति।
स्थूलाभिरतिबृहतीभिरङ्गुलीभिर्धनरहिता निर्धना भवन्ति। बहिर्नताभिर्बाह्यविनताभिः शस्त्र-
निर्याणाः शस्त्रेण निर्याणं मरणं येषाम्। कपिसदृशकरा वानरतुल्यहस्ता धनिन ईश्वरा
भवन्ति। व्याघ्रोपमपाणयो व्याघ्रः प्राणी तत्सदृशहस्ताः पापा भवन्ति।।३६-३७।।
अन्यदप्याह—
मणिबन्धनैर्निगूढैर्दृढैश्च सुश्लिष्टसन्धिभिर्भूपाः ।
हीनैर्हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः ॥३८॥
निगूढ, दृढ और सुश्लिष्ट सन्धियों से युत मणिबन्ध ( हस्तमूल या पहुँचा ) वाले
मनुष्य राजा होते हैं। छोटे मणिबन्ध वाले का हाथ कट जाता है और शब्दसहित मणि-
बन्ध वाले निर्धन होते हैं।।३८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २१७
मणिबन्धनशब्देन हस्तमूलमुच्यते। निगूढैरनुल्बणैर्मणिबन्धनैर्दृढैरशिथिलैः सुश्लिष्ट-
सन्धिभिः सुसंलग्नमर्मभिर्भूपा राजानो भवन्ति। हीनैर्मणिबन्धैर्हस्तच्छेदो भवति। श्लथैः
शिथिलैः सशब्दैः शब्दयुक्तैर्निर्द्रव्या निर्धना भवन्ति।।३८।।
अन्यदप्याह—
पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन नराः।
संवृतनिम्नैर्धनिनः प्रोत्तानकराश्च दातारः ॥३९॥
विषमैर्विषमा निःस्वाश्च करतलैरैश्वरास्तु लाक्षाभैः ।
पीतैरगम्यवनिताभिगामिनो निर्धना रूक्षैः ॥४०॥
निम्न हथेली वाले मनुष्य पिता के धन से विहीन, वर्तुलाकार निम्न हथेली वाले
धनी तथा ऊँची हथेली वाले दानी होते हैं। विषम हथेली वाले दुष्ट और निर्धन, लाख
के समान लाल वर्ण की हथेली वाले धनी, पीली हथेली वाले अगम्या स्त्री में गमन
करने वाले और रूखी हथेली वाले निर्धन होते हैं॥३९-४०॥
नरा मनुष्या निम्नेन करतलेन पितृवित्तेन पैतृकेण धनेन विहीना रहिता भवन्ति,
संवृतनिम्नैः समं परिवर्तुलं कृत्वा निम्नैर्धनिनः सधना भवन्ति। प्रोत्तानकराः प्रकर्षेणोत्तान
उच्चः करो हस्तो येषां ते दातारो दानशीला भवन्ति।
विषमैरसमैः करतलैर्विषमाः क्रूरा निःस्वा निर्धनाश्च भवन्ति। लाक्षाभैरतिलोहितैः
करतलैरैश्वराः सधना भवन्ति। पीतैर्हस्ततलैरगम्यानां वनितानां स्त्रीणामभिगामिनो गमनशीला
भवन्ति। रूक्षैर्हस्ततलैर्निर्धना दरिद्राः॥३९-४०॥
अन्यदप्याह—
तुषसदृशनखाः क्लीबाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः ।
कुनखविवर्णैः परतर्कुकाश्च ताम्रैश्चमूपतयः ॥४१॥
तुष के समान रेखाओं से युत नख वाले नपुंसक, बुरे और वर्णहीन नख वाले दूसरे
के मुख को देखने वाले तथा ताम्र वर्ण के नख वाले सेनापति होते हैं॥४१॥
तुषैः सदृशाः संकुलरेखान्विता रूक्षा नखा येषां ते क्लीबाः षण्ढा भवन्ति। चिपि-
टैश्चर्पटैः स्फुटितैर्भग्नैश्च वित्तसन्त्यक्ता धनरहिता भवन्ति। कुनखैः कुत्सितैर्नखैर्विगत-
वर्णैरपि परतर्कुकाः परमुखप्रेक्षिणो भवन्ति। ताम्रैस्ताम्रवर्णैश्च नखैश्चमूपतयः सेनाधिपा भवन्ति।
अन्यदप्याह—
अङ्गुष्ठयवैराढ्याः सुतवन्तोऽङ्गुष्ठमूलजैश्च यवैः ।
दीर्घाङ्गुलिपर्वाणः सुभगा दीर्घायुषश्चैव ॥४२॥
यवरेखा से युत अंगुष्ठमध्य या अंगुष्ठमूल वाले मनुष्य पुत्रवान होते हैं। जिनकी
अंगुलियों के पर्व लम्बे हों, वे भाग्यशाली तथा दीर्घायु होते हैं॥४२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२१८ बृहत्संहिता
यवो यवाकार एव। अङ्गुष्ठमध्यगतैर्यवैराढ्या धनिनो भवन्ति। अङ्गुष्ठमूलजातैर्यवैः
सुतवन्तः पुत्रवन्तः। दीर्घाङ्गुलिपर्वाणः दीर्घान्यङ्गुलिपर्वाणि येषां ते सुभगाः सौभाग्योपेता
दीर्घायुषश्चिरजीविनश्च भवन्ति॥४२॥
अन्यदप्याह—
स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निःस्वानाम्।
विरलाङ्गुलयो निःस्वा धनसञ्चयिनो घनाङ्गुलयः ॥४३॥
स्निग्ध तथा गहरी रेखायें धनिकों की तथा रूखी और ऊँची रेखायें निर्धनों की
होती हैं। हाथ में विरल अंगुली वाले मनुष्य निर्धन और सघन अंगुली वाले धनसञ्चय
करने वाले होते हैं॥४३॥
स्निग्धा निर्मला निम्ना गम्भीरा रेखाः करगता धनिनामीश्वराणां भवन्ति। तद्व्यत्ययेन
विपरीतेनास्निग्धा अनिम्ना निःस्वानां निर्धनानां भवन्ति। विरला विप्रकृष्टा अङ्गुलयः करशाखा
येषां ते निःस्वा निर्धनाः। घनाङ्गुलयो धनसञ्चयिनो धनार्जनशीला भवन्ति॥४३॥
अन्यदप्याह—
तिस्रो रेखा मणिबन्धनोत्थिताः करतलोपगा नृपतेः।
मीनयुगाङ्कितपाणिर्नित्यं सत्रप्रदो भवति ॥४४॥
वज्राकारा धनिनां विद्याभाजां च मीनपुच्छनिभाः ।
शङ्खातपत्रशिविकागजाश्वपद्मोपमा नृपतेः ॥४५॥
कलशमृणालपताकाङ्कुशोपमाभिर्भवन्ति निधिपालाः।
दामनिभाभिश्चाढ्याः स्वस्तिकरूपाभिरैश्वर्यम् ॥४६॥
चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः।
कुर्वन्ति चमूनाथं यज्वानमुलूखलाकाराः ॥४७॥
मकरध्वजकोष्ठागारसन्निभाभिर्महाधनोपेताः। ।
वेदीनिभेन चैवाग्निहोत्रिणो ब्रह्मतीर्थेन ॥४८॥
वापीदेवकुलाद्यैर्धर्मं कुर्वन्ति च त्रिकोणाभिः।
अङ्गुष्ठमूलरेखाः पुत्राः स्युर्दारिकाः सूक्ष्माः ॥४९॥
रेखाः प्रदेशिनिगताः शतायुषं कल्पनीयमूनाभिः।
छिन्नाभिर्द्रुमपतनं बहुरेखारेखिणो निःस्वाः ॥५०॥
जिसकी तीन रेखा पहुँचे से निकल कर हथेली में जाय, वह मनुष्य राजा होता है।
दो मत्स्यरेखाओं से युत हथेली वाला सदावर्त्त देने वाला होता है। यदि हाथ में वज्र के
समान ( मध्य में पतला और दोनों ओर विस्तृत ) रेखा हो तो वह मनुष्य धनी, मछली
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणोध्यायः २१९
के समान हो तो विद्वान् तथा शंख, छत्र, पालकी, हाथी, घोड़ा और कमल के समान
रेखा हो तो राजा होता है। यदि कलश, मृणाल ( कमल की जड़ ), पताका या अंकुश
के समान हाथ में रेखा हो तो वह व्यक्ति भूमि में धन गाड़ने वाला होता है। रस्सी की
तरह हाथ में रेखा हो तो अति धनी और स्वस्तिक ( राजगृह-समान ) की रेखा हो तो
ऐश्वर्यशाली होता है। यदि चक्र, खड्ग, फरशा, तोमर, बर्छी, धनुष या भाला के समान
हाथ में रेखा हो तो सेनापति और ऊखल के समान हो तो याज्ञिक होता है। मकर
( मगर = घड़ियाल ), ध्वजा और कोष्ठागार की तरह हाथ में रेखा हो तो बहुत धनी
तथा वेदी की तरह जिसका ब्रह्मतीर्थ ( अंगुष्ठमूल ) हो वह पुरुष अग्निहोत्री होता है।
वापी, देवमन्दिर आदि ( सिंहासन, श्रीवृक्ष और यूप ) या त्रिभुज की तरह हाथ में रेखा
हो तो वह मनुष्य धार्मिक होता है। मनुष्य के अंगुष्ठमूल में जितनी स्थूल रेखायें हों,
उतने उसके पुत्र और जितनी सूक्ष्म रेखायें हों, उतनी उसकी कन्यायें होती हैं। जिनकी
तर्जनी के मूल तक तीन रेखा गई हो, वे सौ वर्ष तक जीवित रहते हैं। यदि छोटी रेखा
हो तो अनुपात से आयु की कल्पना करनी चाहिये। जिनके हाथ में टूटी हुई रेखा हो, वे
वृक्ष से गिरते हैं। अधिक रेखायुत या रेखारहित व्यक्ति निर्धन होते हैं।।४४-५०।।
तिस्रो रेखा इति । मणिबन्धनोत्थितास्तिस्रो रेखाः करतलोपगाः करतले हस्ततले
उपगाः प्राप्ता नृपते राज्ञो भवन्ति। मीनयुगेन मत्स्यद्वयेनाङ्कितश्चिह्नितः पाणिर्हस्तो यस्य
स नित्यं सर्वकालं सत्रप्रदो भवति, मषकृद्भवतीत्यर्थः।
वज्रं मध्यक्षाममुभयाग्रविस्तृतम्, तदाकारास्तत्सदृश्यः करतले रेखा धनिनामीश्वराणां
भवन्ति। मीनपुच्छनिभा मत्स्यपुच्छाकारा विद्याभाजां भवन्ति। विद्यावन्तश्च ते भवन्तीत्यर्थः।
शङ्खः प्रसिद्धः, आतपत्रं छत्रम्, शिविका युग्यादिकम्, गजो हस्ती, अश्वस्तुरगः, पद्मं
कमलम्, एषामुपमास्तदाकारा रेखा नृपते राज्ञो भवन्ति।
कलशः कुम्भः, मृणालं विसं स्पष्टं मध्याद् मध्याद् ग्रन्थियुक्तम्। पताका वैजयन्ती,
अङ्कुशः प्रसिद्धः। एषामुपमाभिस्तदाकाराभिर्लेखाभिर्निधिपाला भूमावस्थापनशीला भवन्ति।
अतिधनिनश्च। दामनिभाभी रज्ज्वाभाभिश्चाढ्या ईश्वरा भवन्ति, स्वस्तिकश्चिह्नविशेषस्तद्रूपा-
भिस्तदाकाराभिरैश्वर्यं भवति।
चक्रमायुधम्, असिः खड्गः, परशुरायुधविशेषः कुठारः, तोमरः प्रसिद्धः, शक्तिः
प्रसिद्धा, धनुश्चापम्, कुन्त आयुधविशेषः। एषां सन्निभास्तदाकारा रेखाः करतलोपगाश्चमूनाथं
सेनापतिं कुर्वन्ति। उलूखलाकारा रेखा यज्वानं याज्ञिकं कुर्वन्ति।
मकरो जलप्राणी। ध्वजश्चिह्नम्। विचित्रपटनिर्मितत्वाद्वैचित्र्यमस्य भवति पताकातः।
कोष्ठागारं प्रसिद्धमेव। एषां सन्निभाभिः सदृशीभी रेखाभिर्महाधनोपेता अतिधनिनः। मणिबन्ध-
नस्योपरि ब्रह्मतीर्थमङ्गुष्ठमूले। ब्रह्मतीर्थेन अङ्गुष्ठमूलतीर्थेन वेदिनिभेन वेद्याकृतिना अग्निहोत्रिणो
यजमाना भवन्ति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२२० बृहत्संहिता
वापी प्रसिद्धा चतुरस्रा पुष्करिणी। देवकुलं देवप्रासादः। आदिग्रहणात् सिंहासनश्रीवृक्षयूपा
गृह्यन्ते। तैर्धर्मं कुर्वन्ति, धर्मिष्ठा भवन्ति। त्रिकोणाभिरूयस्त्राभिः शृङ्गाटकाकाराभिश्चशब्दाद्
धर्ममेव कुर्वन्ति। अङ्गुष्ठमूले यावत्यो रेखास्तान्यपत्यानि। तासां याः स्थूलास्ते पुत्राः
सुताः, याश्च सूक्ष्मास्ता दारिका दुहितारः।
प्रदेशिनी अङ्गुष्ठानन्तरा। बहुवचननिर्देशात् तिस्रो रेखा अत्र ज्ञातव्याः। प्रदेशिनीगता-
स्तत्राप्तरेखाः शतायुषं शतजीवितं कुर्वन्ति। रेखाभिरूनाभिः स्वबुद्ध्या कल्पनीयम्।
यथा हस्तमध्यप्राप्ताभिः पञ्चाशत्। अन्यत्रानुपातादायुषः परिकल्पना कार्या। रेखाभिश्छिन्नाभि-
र्मध्याद्विच्छिन्नाभिर्द्रुमपतनं वृक्षपतनं भवति। बह्व्यो रेखा येषां ते बहुरेखाः, न विद्यन्ते
रेखा येषां ते अरेखिणः। बहुरेखा अरेखिणश्च निःस्वा निर्धना भवन्ति। तथा च—
सुवर्तुलैर्निगूढैश्च मणिबन्धैः समन्विताः।
दृढैश्च शब्दरहितै राजानस्ते प्रकीर्तिताः॥
हीनैश्च छिन्नपाणिः स्यात् श्लथैर्दारिद्र्यभाजनः।
निम्ने करतले यस्य पितृवित्तविवर्जितः॥
निम्नेन संवृतेनैव वित्तवान् सौख्यसंयुतः।
समुत्तानकरा ये च दातारस्ते न संशयः॥
विषमैर्विषमा निःस्वा लाक्षाभैरीश्वराः करैः।
अगम्यागामिनः पीतैर्नखैर्ह्रस्वैश्च निर्धनाः॥
शर्षशुक्तौ तुषनखा नैकवर्णा महानखाः।
स्फुटितार्धनखाश्चैव स्मृता द्रव्यविवर्जिताः॥
निर्मलैर्लोहिताभैश्च नखैर्भवति पार्थिवः।
पाण्डुरा विरला रूक्षा अङ्गुल्यः करसंस्थिताः॥
येषां ते च नरा ज्ञेया दुःखदारिद्र्यभाजनाः।
यस्य मीनसमा रेखाः कर्मसिद्धिस्तु तस्य वै॥
धनवान् स तु विज्ञेयो बहुपुत्रश्च मानवः।
तुला यस्य तु वेदिर्वा करमध्ये प्रदर्शिता॥
वाणिज्यं सिद्ध्यते तस्य पुरुषस्य न संशयः।
वेदी पाणितले यस्य द्विजस्य तु विशेषतः॥
यज्ञयाजी भवेन्नित्यं बहुवित्तश्च मानवः।
श्रीवत्समथवा पद्मं वज्रं चामरमेव वा॥
यस्य हस्ते तु दृश्येत स भवेत् पृथिवीपतिः।
शक्तितोमरखड्गाभा रेखाश्चापसमास्तथा॥
यस्य हस्ते प्रदृश्यन्ते चमूनाथं च तं विदुः।
वृक्षो वाप्यथवा शैलः करमध्ये तु दृश्यते॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २२१
अचलं प्राप्यते राज्यं मण्डले तु न संशयः ।
ध्वजं वाप्यथवा शृङ्गं दृश्यते करसंस्थितम् ।।
धनेशत्वं विजानीयात् समुद्रवचनं यथा।
दक्षिणे तु कराङ्गुष्ठे यवो यस्य च दृश्यते ।।
सर्वविद्याप्रवक्ताऽसौ भवतीति च निर्दिशेत् ।
यस्य पाणितले रेखा कनिष्ठमूलसम्भवा ।।
गता मध्ये प्रदेशिन्यां स जीवेच्छरदां शतम् ।
अङ्गुष्ठमूले या रेखाः पुत्रास्ते परिकीर्तिताः ।।
सूक्ष्माः कन्या विनिर्दिष्टाः समुद्रवचनं यथा ।
छिन्नाभिर्वृक्षपतनं प्रभूताभिरनीश्वराः ।।
अङ्गुष्ठमूलतीर्थेन यज्ञयाजी भवेन्नरः ।। इति ।।४४-५० ।।
अथ चिबुकाधरदशनानां लक्षणमाह—
अतिकृशदीर्घैश्चिबुकैर्निर्द्रव्या मांसलैर्धनोपेताः ।
विम्बोपमैरवक्रैरधरैर्भूपास्तनुभिरस्वाः ।।५१ ।।
ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः ।।५२ ।।
अत्यन्त कृश और दीर्घ अधर वाले मनुष्य निर्धन एवं मांसयुत अधर वाले धनी
होते हैं। विम्ब-फल के समान लाल और वक्रता से रहित अधर वाले राजा, छोटे अधर
वाले राजा तथा फटे, खण्डित, वर्णरहित और रूखे अधर वाले मनुष्य धनहीन होते हैं।
मनुष्यों के स्निग्ध, घन, तीक्ष्ण और सम दाँत शुभ होते हैं।।५१-५२।।
चिबुकमधरस्याधोभागो मुखान्तम्। अतिकृशैर्निर्मांसैरतिदीर्घैश्च चिबुकैर्निर्द्रव्या दरिद्रा
भवन्ति। मांसलैश्चिबुकैर्धनोपेताः सधनाः। अधरैरोष्ठैर्विम्बोपमैरतिलोहितैरवक्रैः स्पष्टैर्भूपा
राजानो भवन्ति। तनुभिरमांसलैरधरैरस्वा निर्धना भवन्ति।
ओष्ठैरुत्तरैः स्फुटितैर्भग्नैर्विखण्डितैर्दलितैर्विवर्णैर्विगतवर्णै रूक्षै निःस्नेहैश्च धनपरित्यक्ता
दरिद्रा भवन्ति। दशना दन्ताः स्निग्धा निर्मला घनाश्च संहता। सुतीक्ष्णदंष्ट्रा येषां ते समाश्च
सर्वे तुल्याः शुभाः। मध्यभागवर्तिनो दन्तचतुष्टयस्य पार्श्ववर्तिनी दंष्ट्रे। तथा च—
निर्मांसैश्चिबुकैर्दीर्घैर्निर्द्रव्याश्चाशुवाचिनः ।
समांसलैर्धनोपेता बहुपुत्रसमावृताः ।।
रक्ताधरो नरपतिर्धनवान् कमलाधरः ।
स्थूलोष्ठा बहुलोमाश्च शुष्कैः क्षीणैश्च दुःखिताः ।।
उत्तरोष्ठैर्लोहितैश्च धनिनः सौख्यसंयुताः ।
खण्डैर्विवर्णैर्निर्द्रव्या रूक्षैर्दुःखसमन्विताः ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२२२ बृहत्संहिता
कुन्दकुड्मलसङ्काशैः प्राकारैर्दशनैर्नृपः ।
ऋक्षवानरदन्ताश्च नित्यं क्षुत्परिपीडिताः ।।
हस्तिदन्ताः खररदाः स्निग्धदन्ता गुणान्विताः ।
करालैर्विषमैर्दीर्घैर्दशनैर्दुःखजीविनः ।।
द्वात्रिंशद्दन्ता राजान एकोनश्रापि भोगवान् ।
त्रिंशद्दन्ता नरा ये ते सुखदुःखस्य भागिनः ।।
एकोनत्रिंशद्दशनाः पुरुषा दुःखजीविनः ।
अष्टाविंशद्रदा येषां तेऽतिदुःखस्य भाजनाः ।। इति ।। ५१-५२ ।।
अथ जिह्वाताल्वोर्लक्षणमाह—
जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो ज्ञेया ।
श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु ।। ५३ ।।
लाल, लम्बी, श्लक्ष्ण और समान जीभ वाले मनुष्य भोगी होते हैं। सफेद, काली
और रूखी जीभ वाले पुरुष निर्धन होते हैं। इसी प्रकार मनुष्य के तालु का लक्षण भी
जानना चाहिये ।। ५३ ।।
जिह्वा रसना रक्ता लोहितवर्णा दीर्घा आयामिनी श्लक्ष्णा तनुप्राया सुस्पर्शा सुसमा
च तुल्या भोगिनो ज्ञेया। अथवा भोगिनामिति पाठः। भोगिनां जिह्वा ज्ञेया ज्ञातव्येत्यर्थः।
श्वेता पाण्डुरा कृष्णा असिता निर्द्रव्याणां दरिद्राणां भवति। तथा तालु। तथा तेनैव प्रकारेण
तालु ज्ञेयम्। यथा जिह्वा रक्ता श्लक्ष्णा सुसमा च शोभना तथा ताल्वपि शोभनम्। श्वेतं
कृष्णं परुषं ताल्वप्यशोभनम्। तथा च—
कृष्णजिह्वा भवेद्यस्य समला यदि वा भवेत्।
स पापवान् भवेन्मर्त्यः कुक्षा स्थूला तथा भवेत्।।
श्वेतजिह्वा नरा ज्ञेयाः शौचाचारविवर्जिताः ।
पद्मपत्रसमा जिह्वा सूक्ष्मा दीर्घा सुशोभना।
न स्थूला नातिविस्तीर्णा येषां ते मनुजाधिपाः ।।
निम्ना दीर्घा च ह्रस्वा च रक्ताग्रा रसना यदि।
सर्वविद्याप्रवक्ताऽसौ भवेन्नास्त्यत्र संशयः ।।
कृष्णतालुर्नरो यस्तु स भवेत् कुलनाशनः।
विकृतं स्फुटितं यस्य तालु तस्य न शोभनम् ।।
सिंहतालुर्नरपतिर्गजतालुस्तथैव च।
पद्मतालुर्भवेद्राजा श्वेततालुश्च निर्धनः ।। इति ।। ५३ ।।
अथास्यलक्षणमाह—
वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च भूपानाम् ।
विपरीतं क्लेशभुजां महामुखं दुर्भगाणां च ।। ५४ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २२३
सुन्दर, वर्तुलाकार, निर्मल, श्लक्ष्ण और समान मुख राजाओं का होता है। इससे
उलटा ( कुरूप, वक्राकार, मलिन, अश्लक्ष्ण और विषम ) मुख भाग्यरहित लोगों का
होता है।।५४।।
वक्त्रं मुखं सौम्यमनाकुलं संवृतं परिवर्तुलमविकासितम्। अमलं निर्मलं श्लक्ष्णं
नातिमांसलं सुपार्श्वम्, समं तुल्यम्, भूपानां राज्ञां ज्ञेयम्। विपरीतं व्यस्तलक्षणम्। असौम्यम-
संवृतमनिर्मलमश्लक्ष्णमसमं क्लेशभुजां दरिद्राणां ज्ञेयम्, महामुखमतिविस्तीर्णमास्यं दुर्भगाणां
भवति। तथा च—
सौम्यं च संवृतं वक्त्रममलं यस्य देहिनः।
महाराजॊ भवेन्नित्यं विपरीते तु निर्धनः।। इति।।५४।।
अथ मुखलक्षणमाह—
स्त्रीमुखमनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम्।
दीर्घं निर्द्रव्याणां भीरुमुखाः पापकर्माणः ।।५५।।
चतुरस्रं धूर्तानां निम्नं वक्रं च तनयरहितानाम्।
कृपणानामतिह्रस्वं सम्पूर्णं भोगिनां कान्तम् ।।५६।।
स्त्री के समान मुख वाले सन्तानहीन, गोल मुख वाले शठ, लम्बे मुख वाले निर्धन,
भयानक मुख वाले धूर्त्त, निम्न मुख वाले पुत्रहीन, छोटे मुख वाले कृपण एवं सम्पूर्ण
तथा सुन्दर मुख वाले मनुष्य भोगी होते हैं।।५५-५६।।
स्त्रीसदृशं मुखं वदनमनपत्यानामपुत्राणां भवति। मण्डलं मण्डलाकारं परिवर्तुलं
शाठ्यवतां शठभावसंयुक्तानां परिज्ञेयं ज्ञातव्यम्। शठः परकार्यविमुखः। दीर्घं मुखं निर्द्रव्याणां
भवति। भीरुमुखा भीतस्येव मुखं येषां ते पापकर्माणः पापानुरता भवन्ति।
चतुरस्रं चतुष्कोणं मुखं धूर्तानां परवञ्चनदक्षाणां भवति। निम्नं हीनं वक्रमस्पष्टं च
तनयरहितानामपुत्राणां भवति। अतिह्रस्वमत्यल्पं कृपणानां भवति। कृपणोऽर्थलुब्धः स्तो-
कार्थश्च। सम्पूर्णं समांसलं कान्तं दीप्तिमद्भोगिनां भोगवतां च भवति। तथा च—
स्त्रीमुखं निरपत्यानां मण्डलं शाठ्यसेविनाम्।
दीर्घं मुखं च निःस्वानां भीरुवक्त्रा दुराशयाः।।
चतुरस्रं तु धूर्तानां निम्नं सुतविवर्जितम्।
कृपणानां तथा ह्रस्वं चिपिटं परजीविनाम्।।
यन्मुखं मांसलं स्निग्धं सप्रभं प्रियदर्शनम्।
वर्णाढ्यं सन्धिविश्लिष्टमजस्रं सुखभागिनाम्।। इति।।५५-५६।।
अथ श्मश्रुलक्षणमाह—
अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं चैव।
रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः ।।५७।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

२२४ बृहत्संहिता
आगे से बिना फटी, स्निग्ध, कोमल और नीचे को झुकी हुई दाढ़ी शुभ होती है
तथा लाल, रूखी और अल्प दाढ़ी वाले चोर होते हैं।।५७।।
श्मश्रु कूर्चम्। अस्फुटिताग्रमभिन्नप्रान्तं स्निग्धं चारूक्षं मृदु कोमलं सन्नतं सम्यग्
नतं शुभं प्रशस्तम्। केचिन्मृदुसमुन्नतं चैवेति पठन्ति। रक्तैर्लोहितैः परुषैः खरैरल्पैश्च
श्मश्रुभिश्चौरास्तस्करा विज्ञेया ज्ञातव्याः। तथा च—
स्निग्धमस्फुटिताग्रं च सन्नतं श्मश्रु चेष्यते।
रक्तैरल्पैस्तथा रूक्षैः श्मश्रुभिस्तस्कराः स्मृताः।। इति।।५७।।
अथ कर्णलक्षणमाह—
निर्मांसैः कर्णैः पापमृत्युवश्चर्पटैः सुबहुभोगाः।
कृपणाश्च ह्रस्वकर्णाः शङ्कुश्रवणाश्चमूपतयः ।।५८।।
रोमशकर्णा दीर्घायुषश्च धनभागिनो विपुलकर्णाः।
क्रूरा शिरावनद्धैर्व्यालम्बैर्मांसलैः सुखिनः ।।५९।।
मांसरहित कान वाले मनुष्य पापकर्म से मरते हैं तथा चपटे कान वाले अधिक
भोगी, छोटे कान वाले कृपण, शंकु के समान आगे से तीखे कान वाले सेनापति,
रोमयुक्त कान वाले दीर्घायु, बड़े कान वाले धनी, नाड़ियों से युत कान वाले क्रूर तथा
लम्बे और पुष्ट कान वाले सुखी होते हैं।।५८-५९।।
निर्मांसैर्मांसरहितैः कर्णैः पापमृत्युवः पापेन कर्मणा म्रियन्ते। चर्पटैर्विकीर्णैः सुबहुभोगा
अतिभागिनो भवन्ति। ह्रस्वकर्णा अल्पश्रोत्राः कृपणा अदानशीला भवन्ति। शङ्कुश्रवणा-
स्तीक्ष्णाग्रकर्णाश्चमूपतयः सेनापतयो भवन्ति।
रोमशकर्णा लोमशश्रवणा दीर्घायुषश्चिरजीविनो भवन्ति। विपुलकर्णा विस्तीर्णश्रोत्रा
धनभागिनो वित्तवन्तः। शिरावनद्धैः शिराबहुलैः कर्णैः क्रूरा विषमा भवन्ति। व्यालम्बैर्दीर्घ-
मांसलैश्च सुखिनो भवन्ति। तथा च—
ह्रस्वकर्णा महाभोगा महाकर्णाश्च ये नराः।
आवर्तकर्णा धनिनः स्निग्धकर्णास्तथैव च।।
दीर्घायुषः शङ्ककर्णाः स्फुटकर्णा महाधनाः।
सुखान्विता दीर्घकर्णा लम्बकर्णास्तपस्विनः।।
निर्मांसैः पापमरणाश्चर्पटैर्भोगिनो नराः।
दीर्घायुषो लोमकर्णा धनिनो विपुलैः स्मृताः।।
शिरावनद्धैर्विषमा मांसलैः सुखभागिनः।। इति।।५८-५९।।
अथ गण्डनासालक्षणमाह—
भोगी त्वनिम्नगण्डो मन्त्री सम्पूर्णमांसगण्डो यः।
सुखभाक् शुकसमनासश्चिरजीवी शुष्कनासश्च ॥६०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २२५
च्छिन्नानुरूपयागम्यगामिनो दीर्घया तु सौभाग्यम्।
आकुञ्चितया चौरः स्त्रीमृत्युः स्याच्चिपिटनासः ॥६१॥
धनिनोऽग्रवक्रनासा दक्षिणविनताः प्रभक्षणाः क्रूराः।
ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्यानाम् ॥६२॥
ऊँचे गाल वाले पुरुष धनी और मांसयुत गाल वाले राजा के मन्त्री होते हैं। तोते के
समान नासिका वाले भोगी और सुखी, मांसरहित नासिका वाले दीर्घायु, कटी हुई की
तरह नासिका वाले अगम्या स्त्री में गमन करने वाले, लम्बी नासिका वाले भाग्यशाली,
ऊपर को खिची हुई नासिका वाले चोर, चिपटी नासिका वाले स्त्री के हाथ से मृत्यु पाने
वाले, आगे से टेढ़ी नासिका वाले धनी, दाहिनी ओर झुकी हुई नासिका वाले सर्वदा
भक्षण में रत और क्रूर तथा सीधी और छोटे छिद्रों से युत सुन्दर पुट वाली नासिका
वाले मनुष्य भाग्यशाली होते हैं॥६०-६२॥
भोगीति। अनिम्नावुच्चौ गण्डौ मुखगण्डौ यस्य स भोगी भोगवान् भवति। यस्य
सम्पूर्णौ मांसलौ गण्डौ स मन्त्री सचिवो भवति। तथा च—
पुमान् सम्पूर्णगण्डो यः स मन्त्री समुदाहृतः।
निम्नगण्डो भवेद्यस्तु स नरो भोगवान् स्मृतः॥
सुखभागिति। शुकः पक्षी। शुकसमा तदाकारा नासा यस्य। अग्रः कुञ्चितलोहित
इति यावत्। स सुखभाग् भवति। शुष्का निर्मांसा नासा यस्य स चिरजीवी दीर्घायुर्भवति।
छिन्नैव या नासा दृश्यते, सा च्छिन्नानुरूपा, तयागम्यगामिनोऽगम्यगमनशीला भवन्ति।
दीर्घया नासया सौभाग्यं भवति। आकुञ्चितया नासयाऽस्पृष्टया नासया चौरस्तस्करो भवति।
चिपिटनासश्चर्पटघ्राणः स्त्रीमृत्युः स्याद् भवेत्, स्त्री तस्य मारयति।
अग्रवक्रा प्रान्तकुटिला नासा येषां ते धनिनो वित्तान्विताः। दक्षिणभागे विनता वक्रा
नासा येषां ते प्रभक्षणा असञ्चयशीलाः क्रूरा विषमाश्च भवन्ति। ऋज्वी स्पष्टा स्वल्पच्छिद्रा
अल्परन्ध्रा सुपुटा शोभनपुटा सभाग्यानां भाग्यसंयुक्तानां नासा भवति। तथा च—
शुकनासः सौख्यभागी शुष्कनासश्चिरायुषः।
च्छिन्नानुरूपा येषां स्यान्नासा तेऽगम्यगामिनः॥
दीर्घनासा भोगयुक्ता अग्रवक्रा धनान्विताः।
क्रूरा दक्षिणवक्राश्च स्पष्टनासा नृपोत्तमाः॥
स्त्रीमृत्युश्चर्पटाभिः कुटिलाभिश्च तस्कराः॥ इति॥६१-६२॥
अथ क्षुतलक्षणमाह—
धनिनां क्षुतं सकृद् द्वित्रिपिण्डितं ह्लादि सानुनादं च।
दीर्घायुषां प्रमुक्तं विज्ञेयं संहतं चैव ॥६३॥
बृ० भ० द्वि०-१५
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२२६ बृहत्संहिता
जो छींकने के समय केवल एक बार छींके वह धनी तथा दो-तीन बार मिला हुआ
हृादि ( बोलते हुये बहुतों के मध्य में जो सुनाई दे ), सानुनाद ( अतिदीर्घ ) और पूर्वोक्त
संहत ( आदि, मध्य तथा अन्त में समान ) छींकने वाले मनुष्य दीर्घायु होते हैं।।६३।।
धनिनामीश्वराणां क्षुतं नासाशब्दितं सकृदेकवारं द्वित्रिपिण्डितं द्विगुणितं त्रिगुणितम्।
एवं केचित्। अन्ये पुनर्व्याचक्षते। धनिनामीश्वराणां क्षुतं सकृदेकवारमेव भवति। दीर्घायुषमुद्दिश्य
द्वित्रिपिण्डितमेकीकृतं हृादि सानुनादं प्रमुक्तं संहतं चेति। ये दीर्घायुषः चिरजीविनस्तेषां
द्विपिण्डितं द्विगुणितम्, त्रिपिण्डितं त्रिगुणितं भवति। तथा हृादि युगपद् बहूनां जल्पतामुपहृत्य
योऽधिकं श्रूयते स हृादि। तथा सानुनादं दूरादपि शनैः शनैरुच्चार्यमाणः श्रुतिपथं याति
सोऽनुनादः। तथा प्रमुक्तमतिदीर्घम्। संहतं चैवमनेन प्रकारेण विज्ञेयं ज्ञातव्यम्। तत्रोदीरितः—
आदिमध्यावसानेषु तुल्यो यः स च संहतः।
क्रोधहर्षव्याधिभयादिष्वविकृतः श्रोत्रपथं याति यः स स्निग्धः। यतः सर्वजनमनोऽभिप्रेतः
स रक्तः। एतदेव व्याख्यानं शोभनम्। यस्मात् पराशरः—
सकृत् क्षुतं भोगवतां द्विर्धनाय चिरायुषे।
चतुः स्याद्भोगनाशाय परमस्मात् तदीशजाः।। इति।।६३।।
अथ लोचनलक्षणमाह—
पद्मदलाभैर्धनिनो रक्तान्तविलोचनाः श्रियो भाजः।
मधुपिङ्गलैर्महार्था मार्जारविलोचनैः पापाः ।।६४।।
हरिणाक्षा मण्डललोचनाश्च जिह्मेश्च लोचनैश्चौराः।
क्रूराः केकरनेत्रा गजसदृशविलोचनाश्चमूपतयः ।।६५।।
ऐश्वर्यं गम्भीरैर्नीलोत्पलकान्तिभिश्च विद्वांसः।
अतिकृष्णतारकाणामक्ष्णामुत्पाटनं भवति ।।६६।।
मन्त्रित्वं स्थूलदृशां श्यावाक्षाणां भवति सौभाग्यम्।
दीना दृग् निःस्वानां स्निग्धा विपुलार्थभोगवताम् ।।६७।।
कमलदल के समान नेत्र वाले पुरुष धनी, लाल नेत्रान्त वाले लक्ष्मीवान, शहद
के समान पीले नेत्र वाले धनी, बिल्ली के समान ( कञ्जे = कुहर ) नेत्र वाले पापी,
हरिण के समान गोल और अचल नेत्र वाले चोर, नीले नेत्र वाले क्रूर, हाथी के समान
नेत्र वाले सेनापति, गहरे नेत्र वाले ऐश्वर्यशाली तथा नीलकमलदल के समान नेत्र वाले
पुरुष विद्वान् होते हैं। अति काले तारा वाले नेत्र उखाड़े जाते हैं। मोटे नेत्र वाले मन्त्री,
कपिल वर्ण के नेत्र वाले भाग्यशाली, दीन नेत्र वाले निर्धन तथा स्थूल नेत्र वाले पुरुष
धनी एवं भोगी होते हैं।।६४-६७।।
पद्मदलाभैः कमलसदृशलोचनैर्धनिनो वित्तान्विता भवन्ति। रक्तान्तविलोचना रक्ता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २२७
लोहितवर्णा अन्ताः पर्यन्ता विलोचनयोर्येषां ते रक्तान्तविलोचनास्ते च श्रियो भाजो लक्ष्मीवन्तः।
मधुपिङ्गलैर्मधुवत् कपिलवर्णैर्नयनैर्महार्था महाधनाः। मार्जारो विडालस्तत्सदृशविलोचना-
स्तदाकाराक्षाः पापा भवन्ति।
हरिणाक्षा मृगलोचनास्तथा मण्डललोचनाः परिवर्तुलनेत्रा जिह्मैश्चरैश्च लोचनैश्चौ-
रास्तस्करा भवन्ति। केकरनेत्रा नीलाक्षाः क्रूराः कराला विषमा भवन्ति। गजसदृशविलोचना
हस्तितुल्यनेत्राश्चभूपतयः सेनापतयो भवन्ति।
गम्भीरैर्नेत्रैश्वर्यं भवति। नीलोत्पलकान्तिभिनेत्रैस्तत्सदृशतारकैर्विद्वांसः पण्डिता भवन्ति।
अतिकृष्णतारकाणामक्ष्णां नेत्राणामुत्पाटनं भवति। अत्यसिततारके अक्षिणी उत्पाट्येते।
स्थूला दृष्टियेषां ते स्थूलदृशस्तेषां मन्त्रित्वं भवति। मन्त्री भवतीत्यर्थः। श्यावाक्षाणां
श्यावे मुद्गाभे अक्षिणी तारके येषां तेषां सौभाग्यं भवति। दीना दैत्यं गता दृग् दृष्टियेषां
ते निःस्वा निर्धना भवन्ति। स्निग्धा निर्मला विपुला विस्तीर्णा च दृष्टिरर्थवतां धनिनां भोगवतां
च भवति। तथा च—
समे गोक्षीरवर्णाभे रक्तान्ते कृष्णतारके।
प्रसन्ने च विशाले च स्निग्धे चैवायते शुभे।।
अतसी पुष्पसङ्काशे भवेतां यस्य लोचने।
भूपतिः स तु विज्ञेयो समुद्रवचनं यथा।।
व्याघ्रचक्षुर्धनैर्युक्तः कर्कटाक्षः कलिप्रियः।
विडालहंसनेत्राश्च भवन्ति पुरुषाधमाः।।
मयूरनकुलाक्षाश्च नरास्ते मध्यमाः स्मृताः।
न स्त्रीस्त्यजति सर्वत्र पुरुषं मधुपिङ्गलम्।।
आज्यपिङ्गलनेत्राश्च राजानो भोगसंयुताः।
रोचनाहरितालाक्ष गजपिङ्गा धनेश्वराः।।
बलवन्तो गुणोपेताः पृथिव्यां चक्रवर्तिनः।
तप्तहाटकवर्णाभे भवेतां यस्य लोचने।।
भूपतिः स तु विज्ञेयः समुद्रवचनं यथा।
द्विमात्रस्पन्दिनो ये तु धनिनस्ते प्रकीर्तिताः।।
त्रिमात्रस्पन्दिनो ज्ञेयाः पुरुषाः सुखजीविनः।
चतुर्मात्रनिमेषश्च धनवान् परिकीर्तितः।।
दीर्घायुषो धर्मरताः पञ्चमात्रनिमेषिणः।। इति।।६४-६७।।
अथ भ्रूलक्षणमाह—
अभ्युन्नताभिरल्पायुषो विशालोन्नताभिरतिसुखिनः।
विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः।।६८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२२८ बृहत्संहिता
दीर्घासंसक्ताभिर्धनिनः खण्डाभिरर्थपरिहीनाः ।
मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु ॥६९॥
मध्य में ऊँची भ्रू वाले पुरुष अल्पायु, बड़ी और ऊँची भ्रू वाले अतिसुखी, विषम
( एक में बड़ी तथा एक में छोटी ) भ्रू वाले निर्धन, बाल चन्द्र की तरह झुकी हुई भ्रू
वाले धनवान, लम्बी तथा परस्पर विना मिली भ्रू वाले धनी, टूटी हुई भ्रू वाले निर्धन
तथा मध्य में नत भ्रू वाले मनुष्य अगम्या स्त्री में गमन करने वाले होते हैं॥६८-६९॥
अभ्युन्नताभिरभिमुख्येनोच्चाभिर्भ्रूर्भिरल्पायुषः स्वल्पजीविनो भवन्ति। विशालाभिर्विस्ती-
र्णाभिरुन्नताभिरुच्चाभिरतिसुखिनो भवन्ति। ये सर्वे विषमभ्रुवोऽतुल्यभ्रुवस्ते दरिद्रा निर्धना
भवन्ति। बालेन्दुसदृश्यो बालचन्द्रतुल्या नता भ्रुवो येषां ते सधनाः।
दीर्घाश्च ता असंसक्ता दीर्घासंसक्तास्ताभिर्दीर्घासंसक्ताभिर्भ्रूर्भिर्धनिनो भवन्ति; खण्डाभि-
रर्थपरिहीना दरिद्रा भवन्ति। ये मनुष्या मध्यविनतभ्रुवो मध्याद् विनता अस्पृष्टा भ्रुवो येषां
ते अगम्यासु स्त्रीषु सक्ता निरता भवन्ति। तथा च—
अभ्युन्नताभिः स्वल्पायुर्विशालाभिः सुखान्विताः।
मध्योन्नतभ्रुवो ये च पापसक्ताश्च ते नराः॥
बालेन्दुभ्रूसमाश्चाढ्या दरिद्रा विषमभ्रुवः।
असंलग्नभ्रुवो ये तु धनिनस्ते नराः स्मृताः॥
खण्डाभिर्निर्धना ज्ञेया विषमाभिर्नराधमाः॥ इति॥६८-६९॥
अथ शङ्खललाटलक्षणमाह—
उन्नतविपुलैः शङ्खैर्धनिनो निम्नैः सुतार्थसन्त्यक्ताः ।
विषमललाटा विधना धनवन्तोऽर्द्धेन्दुसदृशेन ॥७०॥
शुक्तिविशालैराचार्य्यता शिरासन्ततैरधर्मरताः ।
उन्नतशिराभिराढ्याः स्वस्तिकवत् संस्थिताभिश्च ॥७१॥
निम्नललाटा वधबन्धभागिनः क्रूरकर्मनिरताश्च ।
अभ्युन्नतैश्चभूपाः कृपणाः स्युः संवृतललाटाः ॥७२॥
ऊँची तथा बड़ी शंख ( कनपटी ) वाले धनी तथा नीची शंख वाले पुरुष पुत्र
तथा धन से रहित होते हैं। टेढ़ी ललाट वाले धनी, सीप के समान विशाल ललाट वाले
आचार्य, नाड़ियों से व्याप्त ललाट वाले पाप में रत, ललाट के मध्य में ऊँची नाड़ी
वाले धनी और ललाट में स्वस्तिक की तरह रेखा वाले पुरुष धनाढ्य होते हैं। निम्न
ललाट वाले वध, बन्धन के भागी और पाप कर्म में रत, ऊँचे ललाट वाले राजा तथा
गोल ललाट वाले कृपण होते हैं॥७०-७२॥
उन्नतैरुच्चैर्विपुलैर्विस्तीर्णैः शङ्खैर्धनिन ईश्वरा भवन्ति। निम्नैरनुच्चैः शङ्खैः सुतैः पुत्रैरथैर्धनैः
सन्त्यक्ता रहिता भवन्ति। तथा च—
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २२९
उन्नतैर्विपुलैः शङ्खैर्धनिनः सुखजीविनः।
सुतार्थरहिता निम्नैर्मानुषा दुःखभागिनः।।
विषममसमं ललाटं मुखपृष्ठं येषां ते निर्धना दरिद्रा भवन्ति। अर्धेन्दुसदृशेनार्धचन्द्रतुल्येन
ललाटेन धनवन्त ईश्वरा भवन्ति।
शुक्तिविशालैः शुक्तिविस्तीर्णैर्ललाटैराचार्यता आचार्यत्वं भवति। परोपदेशक आचार्यः।
शिरासन्ततैः शिराबहुलैर्ललाटैर्धर्मरता भवन्ति। उन्नताभिः शिराभिर्ललाटगताभिराढ्या
ईश्वरा भवन्ति। स्वस्तिकवत् स्वस्तिकाकारेण संस्थिताभिः शिराभिराढ्या भवन्ति।
निम्नं ललाटं येषां ते निम्नलाटा वधे कुट्टने बन्धे च भागिनो योग्याः क्रूरे विषमे
च कर्मणि कार्ये निरताः सक्ता भवन्ति। अभ्युन्नतैरभिमुख्येनोन्नतैर्ललाटैश्चमृपाः सेनापतयो
भवन्ति। संवृतं परिवर्तुलमल्पं च ललाटं येषां ते कृपणा अदानशीलाः स्युर्भवेयुः। तथा च—
ललाटेनार्धचन्द्रेण भवन्ति पृथिवीश्वराः।
विपुलेन ललाटेन महाधनयुताः स्मृताः।।
विषमेनाधना ज्ञेयाः पापा मर्त्याः शिराततैः।
निम्नेन तु ललाटेन क्रूरकर्मरता नराः।।
अभ्युन्नतैश्चमृपाः स्युः संवृतैः कृपणाः स्मृताः।। इति।।७०-७२।।
अथ रुदितलक्षणमाह—
रुदितमदीनमनश्रु स्निग्धं च शुभावहं मनुष्याणाम्।
रूक्षं दीनं प्रचुराश्रु चैव न शुभप्रदं पुंसाम् ।।७३।।
मनुष्यों का दीनताहीन, आँसुओं से रहित और स्निग्ध रुदन अच्छा होता है तथा
रूखे, दीन और बहुत आँसुओं से युत रुदन अच्छा नहीं होता है।।७३।।
यद्रुदितमदीनं दैन्यरहितम्। अनश्रु बाष्परहितम्। स्निग्धमरूक्षमेवंविधं मनुष्याणां
पुरुषाणां शुभावहं प्रशस्तम्। रूक्षं परुषम्। दीनं दैन्ययुक्तम्। प्रचुराश्रु बहुबाष्पम्। पुंसां
नराणां न शुभदम्। तथा च—
अदीनाक्षहतं स्निग्धं रुदितं च शुभावहम्।
रूक्षं दीनं वाष्पयुतं पुरुषाणामनिष्टदम्।। इति।।७३।।
अथ हसितलक्षणमाह—
हसितं शुभदमकम्पं सनिमीलितलोचनं तु पापस्य।
दुष्टस्य हसितमसकृत् सोन्मादस्यासकृत् प्रान्ते ॥७४॥
विना काँपते हुये हँसना शुभ होता है तथा आँख मूंद कर हँसने वाला पापी, बार-
बार हँसने वाला दुष्ट तथा हँसने के अन्त में पुनः-पुनः हँसना उन्मादयुत पुरुष का
लक्षण है।।७४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA