सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पृष्ठ 249, कुल 760 में से

संदर्भ में पढ़ें
पृष्ठ 249

पुरुषलक्षणाध्यायः २२१
अचलं प्राप्यते राज्यं मण्डले तु न संशयः ।
ध्वजं वाप्यथवा शृङ्गं दृश्यते करसंस्थितम् ।।
धनेशत्वं विजानीयात् समुद्रवचनं यथा।
दक्षिणे तु कराङ्गुष्ठे यवो यस्य च दृश्यते ।।
सर्वविद्याप्रवक्ताऽसौ भवतीति च निर्दिशेत् ।
यस्य पाणितले रेखा कनिष्ठमूलसम्भवा ।।
गता मध्ये प्रदेशिन्यां स जीवेच्छरदां शतम् ।
अङ्गुष्ठमूले या रेखाः पुत्रास्ते परिकीर्तिताः ।।
सूक्ष्माः कन्या विनिर्दिष्टाः समुद्रवचनं यथा ।
छिन्नाभिर्वृक्षपतनं प्रभूताभिरनीश्वराः ।।
अङ्गुष्ठमूलतीर्थेन यज्ञयाजी भवेन्नरः ।। इति ।।४४-५० ।।
अथ चिबुकाधरदशनानां लक्षणमाह—
अतिकृशदीर्घैश्चिबुकैर्निर्द्रव्या मांसलैर्धनोपेताः ।
विम्बोपमैरवक्रैरधरैर्भूपास्तनुभिरस्वाः ।।५१ ।।
ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः ।।५२ ।।
अत्यन्त कृश और दीर्घ अधर वाले मनुष्य निर्धन एवं मांसयुत अधर वाले धनी
होते हैं। विम्ब-फल के समान लाल और वक्रता से रहित अधर वाले राजा, छोटे अधर
वाले राजा तथा फटे, खण्डित, वर्णरहित और रूखे अधर वाले मनुष्य धनहीन होते हैं।
मनुष्यों के स्निग्ध, घन, तीक्ष्ण और सम दाँत शुभ होते हैं।।५१-५२।।
चिबुकमधरस्याधोभागो मुखान्तम्। अतिकृशैर्निर्मांसैरतिदीर्घैश्च चिबुकैर्निर्द्रव्या दरिद्रा
भवन्ति। मांसलैश्चिबुकैर्धनोपेताः सधनाः। अधरैरोष्ठैर्विम्बोपमैरतिलोहितैरवक्रैः स्पष्टैर्भूपा
राजानो भवन्ति। तनुभिरमांसलैरधरैरस्वा निर्धना भवन्ति।
ओष्ठैरुत्तरैः स्फुटितैर्भग्नैर्विखण्डितैर्दलितैर्विवर्णैर्विगतवर्णै रूक्षै निःस्नेहैश्च धनपरित्यक्ता
दरिद्रा भवन्ति। दशना दन्ताः स्निग्धा निर्मला घनाश्च संहता। सुतीक्ष्णदंष्ट्रा येषां ते समाश्च
सर्वे तुल्याः शुभाः। मध्यभागवर्तिनो दन्तचतुष्टयस्य पार्श्ववर्तिनी दंष्ट्रे। तथा च—
निर्मांसैश्चिबुकैर्दीर्घैर्निर्द्रव्याश्चाशुवाचिनः ।
समांसलैर्धनोपेता बहुपुत्रसमावृताः ।।
रक्ताधरो नरपतिर्धनवान् कमलाधरः ।
स्थूलोष्ठा बहुलोमाश्च शुष्कैः क्षीणैश्च दुःखिताः ।।
उत्तरोष्ठैर्लोहितैश्च धनिनः सौख्यसंयुताः ।
खण्डैर्विवर्णैर्निर्द्रव्या रूक्षैर्दुःखसमन्विताः ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA