बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
२०४ बृहत्संहिता
अथ जङ्घोरुजानूनां लक्षणमाह—
प्रविरलतनुरोमवृत्तजङ्घा द्विरदकरप्रतिमैर्वरोरुभिश्च ।
उपचितसमजानवश्च भूपा धनरहिताः श्वशृगालतुल्यजङ्घाः ॥४॥
विरल तथा सूक्ष्म रोमों से युत, गजशुण्ड के समान सुन्दर ऊरु वाले तथा पुष्ट और
समान जानु वाले मनुष्य राजा होते हैं एवं कुत्ते और सियार के सदृश जङ्घा वाले मनुष्य
धनहीन होते हैं॥४॥
प्रविरलैरघनैस्तनुभिः सूक्ष्मै रोमभिर्युते वृत्ते परिवर्त्तुले जङ्घे येषां ते तथाभूताः। तथा
वरोरुभिः श्रेष्ठैरुरुभिर्द्विरदकरप्रतिमैर्गजहस्तसदृशैरुपलक्षिताः। उपचितौ समांसलौ समावविषमौ
जानुनी येषां ते। भूपा राजानः, श्वशृगालतुल्यजङ्घाः। शुनां शृगालानां च तुल्याः सदृश्यो
जङ्घा येषां ते धनरहिता दरिद्रा भवन्ति। तथा च समुद्रः—
जङ्घाभिरभिवृत्ताभिरैश्वर्यमभिनिर्दिशेत् ।
शृगालजङ्घा दुःखान्ताः श्वजङ्घा नित्यमध्वगाः।। इति॥४॥
अथ जङ्घयोर्लोमलक्षणमाह—
रोमैकैकं कूपके पार्थिवानां द्वे द्वे ज्ञेये पण्डितश्रोत्रियाणाम् ।
त्र्याद्यैर्निःस्वा मानवा दुःखभाजः केशाश्चैवं निन्दिताः पूजिताश्च ॥५॥
राजाओं की जंघाओं के रोमकूपों में एक-एक रोम और पण्डित एवं श्रोत्रिय की
जंघाओं के रोमकूपों में दो-दो रोम होते हैं। जिनके एक रोमकूप में तीन-चार आदि रोम
होते हैं, वे मनुष्य निर्धन और दुःखी होते हैं॥५॥
एकैकं रोम कूपके पार्थिवानां राज्ञां भवेत्। द्वे द्वे रोमणी कूपके पण्डितानां विदुषां
श्रोत्रियाणां नियमिनां च भवतः। त्र्याद्यै रोमभिस्त्रिभिश्चतुर्भिर्वा कूपके मानवा मनुष्या निःस्वा
निर्धना दुःखभाजश्च भवन्ति। एवमनेन प्रकारेण केशा मूर्धजा निन्दिता गर्हिताः पूजिताः
शुभाश्च भवन्ति। तथा च—
रोमशाभिस्तु जङ्घाभिर्दुःखदारिद्र्यभागिनः।
एकरोमा भवेद्राजा द्विरोमा च महायशाः।।
त्रिरोमा बहुरोमा च नरो भाग्यविवर्जितः।। इति॥५॥
अथ जानुलक्षणमाह—
निर्मांसजानुर्म्रियते प्रवासे सौभाग्यमल्पैर्विकटैर्दरिद्राः ।
स्त्रीनिर्जिताश्चैव भवन्ति निम्नै राज्यं समांसैश्च महद्भिरायुः ॥६॥
मांसरहित जानु वाले मनुष्य का मरण प्रवास में होता है तथा छोटे जानु वाला
मनुष्य भाग्यशाली, अति विस्तीर्ण जानु वाला दरिद्र, निम्न जानु वाला स्त्रीजित्, मांसयुत
जानु वाला राज्यभोगी और बड़े जानु वाला मनुष्य दीर्घजीवी होता है॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणोध्यायः २०५
निर्मांसे मांरहिते जानुनी यस्य स प्रवासे पथि म्रियते। अल्पैः सूक्ष्मैर्जानुभिः
सौभाग्यम्। विकटैरतिविस्तीर्णैर्दरिद्रा निर्धना भवन्ति। निम्नैर्जानुभिः खेदयुक्तैः स्त्रीनिर्जिताः
स्त्रीभिर्निर्जिता भवन्ति। समांसैर्मांसयुक्तै राज्यं नृपत्वं भवति। महद्भिरतिस्थूलैरायुर्जीवितं
बहु भवति। तथा च समुद्रः—
निर्मांसे जानुनी यस्य प्रवासे म्रियते तु सः।
अल्पैर्भवति सौभाग्यं विकटैश्च दरिद्रता।।
स्त्रीजितः स्यात्तथा निम्नैर्मांसयुक्तैर्नराधिपः।
अतिस्थूलैश्चिरं कालं जीवेदैश्वर्यसंयुतः।। इति।।६।।
अथ लिङ्गलक्षणमाह—
लिङ्गेऽल्पे धनवानपत्यरहितः स्थूलेऽपि हीनो धनै-
र्मेढे वामनते सुतार्थरहितो वक्रेऽन्यथा पुत्रवान्।
दारिद्र्यं विनते त्वधोऽल्पतनयो लिङ्गे शिरासन्तते
स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहादिभिः ॥७॥
छोटे लिंग वाला मनुष्य धनी और सन्तानरहित, स्थूल लिंग वाला निर्धन, बाँईं
ओर झुका हुआ लिंग वाला पुत्र तथा धन से रहित, दाहिनी ओर झुका हुआ लिंग वाला
पुत्रवान, नीचे की ओर झुका हुआ लिंग वाला दरिद्र, नाड़ियों से व्याप्त लिंग वाला
अल्प पुत्र वाला, स्थूल ग्रन्थियुत लिंग वाला सुखी और कोमल आदि लिंग वाला
मनुष्य प्रमेह आदि रोगों से मरण पाने वाला होता है।।७।।
अल्पे लिङ्गे मेढ्रे धनवान् वित्तवान् भवति। अपत्यरहितश्च पुत्रवर्जितः, अतिस्थूले
लिङ्गे धनैर्हीनो दरिद्रो भवति। मेढ्रे लिङ्गे वामनते वामभागविनते सुतैः पुत्रैरर्थैर्धनै रहितो
वर्जितः। अन्यथा वक्रे दक्षिणविनते पुत्रवान् भवति। अधोभागे विनते लिङ्गदारिद्र्यं निर्धनत्वं
भवति। शिरासन्तते शिराबहुलेऽल्पतनयः स्वल्पपुत्रः। स्थूलेन ग्रन्थिना युते सुखी सुखितो
भवति। मृदुलिङ्गं मनुष्यं प्रमेहादिभिः कमलामूत्रकृच्छ्रगुह्यरोगैरन्तं करोति। म्रियत इत्यर्थः।।७।।
अत्रैवान्यलक्षणमाह—
कोशनिगूढैर्भूपा दीर्घैर्भग्नैश्च वित्तपरिहीनाः ।
ऋजुवृत्तशेफसो लघुशिरालशिश्नाश्च धनवन्तः ॥८॥
जिन पुरुषों का लिङ्ग चर्मकोश के द्वारा पूर्ण रूप से सुरक्षित अर्थात् आच्छादित
होता है, वे लोग राजा होते हैं एवं जिनका लिङ्ग लम्बायमान तथा स्पष्टतया टेढ़ा होता
है, वे लोग धनहीन होते हैं। इसी प्रकार जिनका लिङ्ग वर्तुलाकार, छोटे आकार वाला
या जिनके लिङ्ग की शिरायें ( अग्रभाग ) स्वल्प हों, वे धनवान होते हैं।।८।।
कोशेन चर्मणा भस्त्राकृतिना निगूढैराचितैर्लिङ्गैर्भूपा राजानो भवन्ति। दीर्घैर्लिङ्गैर्भग्नैः
स्फुटितैश्च वित्तपरिहीना निर्धना भवन्ति। ऋजुवृत्तशेफसः। ऋजु स्पष्टं वृत्तं परिवर्तुलं शेफो
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
२०६ बृहत्संहिता
लिङ्गं येषां ते ऋजुवृत्तशेफसः। तथा लघुशिरालशिश्नाः, लघु स्वल्पं शिराल शिरासन्ततं
शिश्नं येषां ते धनवन्तो वित्तयुक्ताः। तथा च समुद्रः—
दक्षिणावर्त्तलिङ्गो यः स भवेत् पुत्रवान् नरः।
वामावर्त्ते तथा कन्याः सुबह्व्यः सम्भवन्ति च।।
स्थूलैः शिरालैः कठिनैर्नरो दारिद्र्यभाजनः।
ऋजुभिर्वर्त्तुलैर्लिङ्गैः पुरुषाः सुखभागिनः।।
यस्य पादोपविष्टस्य भूमिं स्पृशति मेहनम्।
दुःखितः स तु विज्ञेयो नरो दारिद्र्यभाजनः।।
स्थूलग्रन्थियुते लिङ्गे नरोऽतिसुखभाग्भवेत्।
लिङ्गेन मृदुना मर्त्यो म्रियते कृच्छ्रपीडितः।। इति।।८।।
अथ वृषणलक्षणमाह—
जलमृत्युरेकवृषणो विषमैः स्त्रीचञ्चलः समैः क्षितिपः।
ह्रस्वायुश्चोद्बद्धैः प्रलम्बवृषणस्य शतमायुः ॥९॥
एक अण्ड वाला मनुष्य पानी में डूब कर मरण को प्राप्त करता है तथा विषम
(छोटे-बड़े) अण्ड वाला मनुष्य स्त्रीलम्पट, समान अण्ड वाला राजा, ऊपर को खींचे
हुये अण्ड वाला अल्पायु और लम्बे अण्ड वाला मनुष्य सौ वर्ष तक जीवित रहने वाला
होता है।।९।।
एकवृषण एकाण्डो जलमृत्युर्भवति जलमध्ये म्रियते। विषमैरतुल्यैर्वृषणैः स्त्रीचञ्चलः
स्त्रीष्वभिलाषुको भवति। समैस्तुल्यैर्वृषणैः क्षितिपो राजा भवति। उद्बद्धैरूर्ध्वसंलग्नैर्ह्रस्वायुः
स्वल्पजीवितः। प्रलम्बौ वृषणौ यस्य स प्रलम्बवृषणस्तस्य शतमायुः। शतं वर्षाणां जीवित-
मिति। तथा च समुद्रः—
एकाण्डो जलमृत्युः स्याद्विषमैः स्त्रीषु चञ्चलः।
समाण्डो नरनाथश्च संलग्नैरल्पजीवितः।।
प्रलम्बाण्डः समानां तु शतं जीवति मानवः।। इति।।९।।
अधुना मणिमूत्रलक्षणमाह—
रक्तैराढ्या मणिभिर्निद्र्व्याः पाण्डुरैश्च मलिनैश्च।
सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च ॥१०॥
द्वित्रिचतुर्धाराभिः प्रदक्षिणावर्तवलितमूत्राभिः।
पृथिवीपतयो ज्ञेया विकीर्णमूत्राश्च धनहीनाः ॥११॥
एकैव मूत्रधारा वलिता रूपप्रदा न सुतदात्री।
स्निग्धोन्नतसममणयो धनवनितारत्नभोक्तारः ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २०७
मणिभिश्च मध्यनिम्नैः कन्यापितरो भवन्ति निःस्वाश्च।
बहुपशुभाजो मध्योन्नतैश्च नात्युल्बणैर्धनिनः ॥१३॥
लाल रंग के मणि ( लिंग के अग्र भाग ) वाले पुरुष धनी तथा सफेद और मलिन
मणि वाले निर्धन होते हैं। जिनके मूत्रस्राव के समय शब्द हो, वे सुखी और शब्द न हो,
वे निर्धन होते हैं। जिनके दक्षिणावर्त क्रम से दो, तीन या चार मूत्र की धारा होकर गिरती
हो, वे राजा होते हैं। जिनकी मूत्रधार इधर-उधर बिखरती हो, वे निर्धन होते हैं। वेष्टित
एक मूत्रधारा मनुष्य को सुन्दर तो बनाती है, किन्तु पुत्र नहीं देती है। जिनके मणि
स्निग्ध, ऊँचे और सम हों, वे पुरुष धन, स्त्री और रत्नों को भोगने वाले होते हैं। जिनके
मणि के मध्य भाग विनत हों, वे कन्याओं के पिता और निर्धन होते हैं। जिनके मणि-
मध्य ऊँचे हों, वे बहुत पशुओं के स्वामी होते हैं तथा जिनके मणि ही न हों, वे मनुष्य
धनी होते हैं।।१०-१३।।
रक्तैराढ्या मणिभिरिति। लिङ्गस्याग्रं मणिशब्देनोच्यते। रक्तैर्लोहितैर्मणिभिराढ्या
ईश्वरा भवन्ति। पाण्डुरैः शुक्लाभैर्मलिनैश्च कृष्णवर्णैर्निर्द्रव्या निर्धना भवन्ति। सशब्दं शब्द-
सहितं मूत्रं येषां ते सुखिनः। निःशब्दाः शब्दरहिता मूत्रधारा येषां ते निःस्वा निर्धना भवन्ति।
द्वित्रिचतुर्धाराभिरिति। द्वाभ्यां मूत्रधाराभ्यां तिसृभिर्वा चतसृभिर्मूत्रधाराभिः प्रदक्षिणावर्त्त-
वलितमूत्राभिः प्रदक्षिणेनावर्त्तेन वलितं वेष्टितं मूत्रं यासां ताभिः पृथिवीपतयो ज्ञेया
राजानो वेदितव्याः। विकीर्णं विक्षिप्तं मूत्रं येषां ते विकीर्णमूत्रा धनहीना निर्धना भवन्ति।
एकैवेति। एकैव मूत्रधारा सा च वलिता वेष्टिता रूपप्रदा शोभनं रूपं प्रददाति।
न सुतदात्री, सुतान् पुत्रान् न ददाति। केचिद्रूपप्रधानसुतदात्रीति पठन्ति। रूपप्रधानान् सुतान्
ददाति। स्निग्धोन्नतसममणयः, स्निग्धाः सस्नेहाः, उन्नता उच्चाः, समास्तुल्या मणयो येषां
ते धनानां वित्तानां वनितानां स्त्रीणां रत्नानां मणीनां च भोक्तारः स्वामिनो भवन्ति।
मणिभिरिति। मध्यनिम्नैर्मध्यभागविनतैर्मणिभिः कन्यापितरः कन्याजनका निःस्वा
निर्धनाश्च भवन्ति। मध्योन्नतैर्मध्यभागोच्चैर्मणिभिर्बहुपशुभाजो बहूनां पशूनां चतुष्पदानां
भागिनो भवन्ति। अत्युल्बणैरतिस्थूलैर्मणिभिर्न धनिन ईश्वरा न भवन्ति। तथा च-
रक्ताकृतिर्मणिर्यस्य समो मध्ये विराजते।
पार्थिवः स तु विज्ञेयः समुद्रवचनं यथा।।
सुपूर्णरजतप्रख्यैर्मणिमुक्तासमप्रभैः ।
प्रवालसदृशैः स्निग्धैर्मणिभिः पार्थिवो भवेत्।।
पाण्डुरैर्मलिनै रूक्षैः श्यावैरल्पैश्च निर्धनः।
मूत्रधारा पतेद् देहाद् दक्षिणावलिता यदि।।
पार्थिवः स तु विज्ञेयः समुद्रवचनं यथा।
द्विधारं च पतेन्मूत्रं स्निग्धं शब्दविवर्जितम्।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२०८ बृहत्संहिता
भोगवान् स तु विज्ञेयो गवाढ्यो नात्र संशयः।
बहुधारे तथा रूक्षे सशब्दे पुरुषाधमः।। इति।।१०-१३।।
अधुना बस्तिशुक्रमैथुनानां लक्षणमाह—
परिशुष्कबस्तिशीर्षैर्धनरहिता दुर्भगाश्च विज्ञेयाः।
कुसुमसमगन्धशुक्रा विज्ञातव्या महीपालाः ।।१४।।
मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहून्यपत्यानि।
तनुशुक्रः स्त्रीजनको मांससगन्धो महाभोगी ।।१५।।
मदिरागन्धे यज्वा क्षार सगन्धे च रेतसि दरिद्रः।
शीघ्रं मैथुनगामी दीर्घायुरतोऽन्यथाऽल्पायुः ।।१६।।
जिनके बस्ति (नाभि और लिङ्ग के मध्यभाग) के ऊपर का भाग मांसरहित हो,
वे निर्धन और सबके लिये अप्रिय होते हैं। जिनके वीर्य में पुष्प के समान गन्ध हो, वे
राजा होते हैं। जिनके वीर्य में शहद के समान गन्ध हो, वे बहुत धनी होते हैं। जिनके
वीर्य में मछली के समान गन्ध हो, वे बहुत सन्तान वाले होते हैं। जिनका थोड़ा वीर्य
होता है, वे कन्याओं के पिता होते हैं। जिनके वीर्य में मांस के समान गन्ध हो, वे
अधिक भोगी होते हैं। वीर्य में मद्य के समान गन्ध हो तो यज्ञ करने वाला, खार के
तुल्य गन्ध हो तो निर्धन, शीघ्र मैथुन करने वाला दीर्घायु और देर तक मैथुन करने वाला
अल्पायु होता है।।१४-१६।।
परिशुष्केति। नाभिलिङ्गयोरन्तरं बस्तिः। परिशुष्कं निर्मासं बस्तिशीर्षं येषां ते
धनरहिता दरिद्रा दुर्भगा जनानामप्रिया विज्ञेया विज्ञातव्याः। अर्थादेवं सम्पूर्णबस्तिशीर्षाः
सुभगाः। तथा च—
विस्तीर्णमांसला स्निग्धा बस्तिः पुंसां प्रशस्यते।
निर्मांसा कर्कशा रूक्षा दुःखदारिद्र्यदा स्मृता।।
गोमायोः सदृशी यस्य खरोष्ट्रमहिषस्य च।
स भवेद् दुःखितो नित्यं धनहीनश्च मानवः।।
कुसुमसमं पुष्पतुल्यं शुक्रगन्धं रेतःसुरभिर्येषां ते महीपाला राजानो विज्ञातव्याः।
मधु माक्षिकम्। मधुतुल्यगन्धे शुक्रे बहुवित्ताः प्रभूतधनाः। मत्स्यसगन्धे मीनसदृशगन्धे
बहूनि प्रभूतानि अपत्यानि सुतादयो भवन्ति। तनुशुक्रोऽघनरेताः स्त्रीजनकः कन्यानां पिता
भवति। मांससगन्धे मांससदृशगन्धे महाभोगी भोगवान् भवति।
मदिरागन्धे मद्यगन्धे शुक्रे यज्वा याज्ञिको भवति। क्षार सगन्धे क्षारतुल्यगन्धे च रेतसि
शुक्रे दरिद्रो निःस्वो भवति। तथा च—
पुष्पगन्धो भवेद्राजाः बहुस्वा मधुगन्धिनः।
मत्स्यगन्धः पुत्रवान् स्यात् स्त्रीप्रजास्तनुरेतसः।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २०९
मांसगन्धो महाभोगी याज्ञिको मदिरासमः।
गन्धो येषां क्षारसमस्ते निःस्वा मनुजाः स्मृताः।।
शीघ्रमाश्वेव यो मैथुनगमनशीलः स दीर्घायुश्चिरजीवी भवति। अतोऽन्यथा चिरमैथुनगामी
स्वल्पायुर्भवेद् नरः। चिरं मैथुनगामी यः स ह्रस्वायुर्भवेदिति।।१४-१६।।
अथ स्फिजोर्लक्षणमाह—
निःस्वोऽतिस्थूलस्फिक् समांसलस्फिक् सुखान्वितो भवति।
व्याघ्रान्तोऽध्यर्धस्फिग् मण्डूकस्फिग् नराधिपतिः ।।१७।।
अति स्थूल स्फिक ( कुल्हा = कमर का मांसपिण्ड ) वाला मनुष्य निर्धन, मांसयुक्त
कुल्हा वाला सुखी, ड्योढे कुल्हा वाला बाघ के द्वारा मृत्यु को प्राप्त होने वाला और
मेढक के समान कुल्हा वाला मनुष्य राजा होता है।।१७।।
अतिस्थूलौ स्फिजौ यस्य स निःस्वो निर्धनो भवति। समांसलौ मांससंयुक्तौ स्फिजौ
यस्य स सुखान्वितः सुखयुक्तो भवति। योऽध्यर्धस्फिक् स व्याघ्रान्तः। व्याघ्रः प्राणी तं
मारयति। मण्डूको भेकस्तत्सदृशौ स्फिजौ यस्य स नराधिपती राजा भवति। तथा च—
अतिस्थूलौ स्फिजौ यस्य निर्धनः स भवेन्नरः।
समांसलस्फिक् सुखितो मण्डूकस्फिग् नराधिपः।।
अध्यर्धस्फिग् नरो यस्तु व्याघ्रान्तः स तु कीर्तितः।। इति।।१७।।
अथ कटिजठरलक्षणमाह—
सिंहकटिर्मनुजेन्द्रः कपिकरभकटिर्धनैः परित्यक्तः।
समजठरा भोगयुता घटपिठरनिभोदरा निःस्वाः ।।१८।।
सिंह के समान कटि वाला मनुष्य राजा, ऊँट के समान कटि वाला निर्धन,
समान ( न ऊँचा, न नीचा ) उदर वाला भोगी और घड़े या हाँड़ी के समान उदर वाला
मनुष्य निर्धन होता है।।१८।।
सिंहसदृशी कटिर्यस्य स मनुजेन्द्रो राजा भवति। कपिर्वानरः। करभ उष्ट्रः। कपिकर-
भसदृशी कटिर्यस्य स धनैर्वित्तैः परित्यक्तो वर्जितः। समजठरास्तुल्योदरा न निम्नं नोन्नतं
जठरं येषां ते भोगयुता भोगिनः। घटः कुम्भः, पिठरो भाण्डविशेषः, तन्निभमुदरं येषां
ते निःस्वा निर्धनाः। तथा च—
सिंहतुल्या कटिर्यस्य स नरेन्द्रो न संशयः।
श्वशृगालखरोष्ट्राणां तुल्या यस्य स निर्धनः।।
समोदरा भोगयुता विषमा निर्धनाः स्मृताः।। इति।।१८।।
अथ पार्श्वकुक्षोदरलक्षणमाह—
अविकलपार्श्वा धनिनो निम्नैर्वक्रैश्च भोगसन्त्यक्ताः।
समकुक्षा भोगाढ्या निम्नाभिर्भोगपरिहीनाः ।।१९।।
बृ० भ० द्वि०-१४
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२१० बृहत्संहिता
उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युर्मानवा विषमकुक्षाः ।
सर्पोदरा दरिद्रा भवन्ति बह्वाशिनश्चैव ॥२०॥
अविकल (परिपूर्ण) पार्श्व (कटि के ऊपर का चार अंगुल भाग) वाला मनुष्य
धनी, निम्न और वक्र पार्श्व वाला अभोगी एवं समान कुक्षी (उदरमध्य भाग) वाला
भोगी और निम्न कुक्षी वाला अभोगी होता है। उन्नत कुक्षी वाला मनुष्य राजा, विषम
कुक्षी वाला कठोर और सर्प के उदर के समान लम्बे उदर वाला मनुष्य निर्धन एवं बहुत
भोजन करने वाला होता है॥१९-२०॥
कट्या उपरि चतुरङ्गुलो भागः पार्श्वशब्दवाच्यः। अविकले परिपूर्णे समांसले पार्श्वे
येषां ते धनिन ईश्वराः। निम्नैः पार्श्वैर्वक्रैश्च दीर्घैर्भोगसन्त्यक्ता भोगरहिताः। कुक्षाशब्देनोदर-
मध्यभाग उच्यते। समा तुल्या कुक्षा येषां ते भोगयुक्ता निम्नाभिः कुक्षाभिर्भोगपरीहीना
भोगरहिता भवन्ति।
उन्नता उच्चा कुक्षा येषां ते क्षितिपा राजानः। विषमा अतुल्या कुक्षा येषां ते मानवाः
पुरुषाः कुटिलाः कठिनाः स्युर्भवेयुः। सर्पसदृशमतिदीर्घमुदरं येषां ते दरिद्रा निर्धना बह्वाशिनः
प्रभूताहाराश्च भवन्ति। तथा च—
पार्श्वैः समांसोपचितैर्धनिनो मानवाः स्मृताः।
निम्नैर्वक्रैश्च विषमैर्नरा भोगविवर्जिताः॥
समकुक्षा भोगयुक्ता निम्नाभिर्भोगवर्जिताः।
नृपाश्चोन्नतकुक्षाः स्युर्विषमाभिर्दुराशयः॥
सर्पोदरा नरा निःस्वाः स्मृता बह्वाशिनस्तथा॥ इति॥१९-२०॥
अथ नाभिलक्षणमाह—
परिमण्डलोन्नताभिर्विस्तीर्णाभिश्च नाभिभिः सुखिनः।
अल्पा त्वदृश्यनिम्ना नाभिः क्लेशावहा भवति॥२१॥
वलिमध्यगता विषमा शूलाद् बाधां करोति नैःस्वं च।
शाठ्यं वामावर्ता करोति मेधां प्रदक्षिणतः ॥२२॥
पार्श्वयिता चिरायुषमुपरिष्टाच्चेश्वरं गवाढ्यमधः।
शतपत्रकर्णिकाभा नाभिर्मनुजेश्वरं कुरुते॥२३॥
गोल, ऊँची और विस्तीर्ण नाभि वाले मनुष्य सुखी होते हैं। छोटी, अदृश्य और
अनिम्न नाभि दुःखदायी होती है। पेट की वलि के मध्य में स्थित एवं विषम नाभि शूली
पर चढ़ाती और निर्धन बनाती है। वामावर्त नाभि शठ एवं दक्षिणावर्त नाभि तत्त्वज्ञानी
करती है। दोनों पार्श्व में आयत नाभि दीर्घायु, ऊपर की तरफ आयत नाभि ऐश्वर्य, नीचे की
तरफ आयत नाभि गायों से युक्त और कमलकोर की आकृति के समान आकृति वाली
नाभि मनुष्य को राजा बनाती है॥२१-२३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २११
परिमण्डलाभिः परिवर्त्तुलाभिरुन्नताभिरुच्चाभिर्विस्तीर्णाभिः पृथुलाभिर्नाभिभिः सुखिनो
भवन्ति। अल्पाऽसङ्कुला, अदृश्याऽलक्ष्या, निम्ना गम्भीरा नातिविस्तीर्णा नाभिः क्लेशावहा
क्लेशप्रदा भवति।
वलिमध्यगतेति। वलिमध्ये यस्य नाभी गता। तथा विषमा अतुल्या शूलाद्वाधां
करोति शूलाद्विद्धतनोस्तस्य मृत्युर्भवति। नैःस्वयं निर्धनत्वं च करोति। वामावर्ता नाभिः
शाठ्यं शठभावं करोति। शठः परकार्यविमुखः। तथा च—
वचसा मनसा यश्च दृश्यतेऽकार्यतत्परः।
कर्मणा विपरीतश्च स शठः सद्भिरिष्यते।।
प्रदक्षिणतः प्रदक्षिणावर्ता मेधां बुद्धिं शोभनां करोति। अत्राष्टगुणयुक्ता बुद्धिविवक्षिता।
तथा च—
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा।
ऊहाऽपोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः।। इति।
पार्श्वयोरायता विस्तीर्णा चिरायुषं चिरजीवितं कुरुते। उपरिष्टादायता चेश्वरं समृद्धम्।
अध आयता गवांढ्यं गोबाहुल्यम्। शतपत्रं पद्मं तस्य कर्णिका मध्यभागस्तदाभा तत्सदृशी
नाभिर्मध्योन्नता। मध्येऽन्तः पद्मकणिकाकार उच्चभागो भवति। सा मनुजेश्वरं कुरुते।
तथा च—
वर्तुला विपुलात्युच्चा नाभिर्यदि नरेश्वरः।
अल्पदृश्या तथा निम्ना नाभिः क्लेशावहा भवेत्।।
वलिमध्यगता या च सा शूलाद् बधकारिणी।
वामावर्ता शाठ्यभावं धिषणां च प्रदक्षिणा।।
पार्श्वायता दीर्घजीवं धनयुक्तं तथोर्ध्वगा।
अधो गोबहुलं कुर्यान्नाभिभोगसमन्वितम्।।
पद्मस्य कर्णिकातुल्या नाभिः कुर्यान्नरेश्वरम्।। इति।।२१-२३।।
अथोदरवर्तिनीनां वलीनां लक्षणमाह—
शस्त्रान्तं स्त्रीभोगिनमाचार्यं बहुसुतं यथासंख्यम्।
एकद्वित्रिचतुर्भिर्वलिभिर्विन्द्याद् नृपं त्ववलिम् ॥२४॥
विषमवलयो मनुष्या भवन्त्यगम्याभिगामिनः पापाः।
ऋजुवलयः सुखभाजः परदारद्वेषिणश्चैव ॥२५॥
एक वलि ( उदर की रेखा ) वाले मनुष्य का शस्त्र से मरण होता है। दो वलि
वाले मनुष्य बहुत स्त्रियों को भोगने वाले होते हैं। इसी प्रकार तीन वलि वाले उपदेशक,
चार वलि वाले बहुत पुत्रों से युत और वलिरहित उदर वाले मनुष्य राजा होते हैं। विषम
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
२१२ बृहत्संहिता
(छोटी-बड़ी) वलि वाले अगम्या स्त्री में गमन करने वाले तथा सीधी वलि वाले
मनुष्य सुखी एवं परस्त्री से विमुख होते हैं।।२४-२५।।
शस्त्रान्तमिति। उदरमध्यगताभिरेकाद्याभिर्वलिभिर्यथासंख्यं यथाक्रमं शस्त्रान्तादयो
भवन्ति। तद्यथा—एकवलिर्यस्योदरे भवति स शस्त्रान्तम्। शस्त्रेण म्रियते। द्वाभ्यां स्त्रीभोगिनं
*स्त्रीबहुलम्। त्रिभिराचार्यमुपदेशकारिणम्, चतुर्भिर्बहुसुतं प्रभूतपुत्रम्। अवलिं वलिरहितं
नृपं राजानं विन्द्याज्जानीयात्।
ये मनुष्याः पुरुषा विषमवलयोऽसमवलयः। काश्चिद् दीर्घाः काश्चिद् ह्रस्वा येषां ते,
अगम्याभिगामिनः, अगम्यागमनशीलाः पापाश्च भवन्ति। ये च ऋजुवलयः स्पष्टवलयस्ते
सुखभाजः सुखिताः परदारद्वेषिणः परस्त्रीषु द्वेषशीला वैरिणो भवन्ति। तथा च—
एकवलिः शस्त्रमृत्युः स्त्रीभोगी द्विवलिः स्मृतः।
त्रिभिराचार्य इत्याहुश्चतुर्भिः स्याद् बहुप्रजः।।
अवलिस्तु नृपः प्रोक्तो यज्वा दानैकतत्परः।
विषमा वलयो येषु ते चागम्याभिगामिनः।।
ऋज्व्यस्तु वलयो येषु ते नराः सुखभागिनः।। इति।।२४-२५।।
अथ पार्श्वलक्षणमाह—
मांसलमृदुभिः पार्श्वैः प्रदक्षिणावर्तरोमभिर्भूपाः।
विपरीतैर्निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः।।२६।।
पुष्ट, कोमल और दक्षिणावर्त रोमों से युक्त पार्श्व वाले मनुष्य राजा होते हैं। विपरीत
लक्षणों (मांसरहित, कठोर तथा वामावर्त रोमों) से युक्त पार्श्व वाले मनुष्य निर्धन,
दुःखी और दूसरे के दास होते हैं।।२६।।
कटेरुपरि चतुरङ्गुलो भागः पार्श्वशब्दवाच्यः। पार्श्वैर्मांसलैर्घनैः। मृदुभिः कोमलैः।
प्रदक्षिणावर्तरोमभिः प्रदक्षिणावर्तेन रोमाणि यानि तथाभूतैर्भूपा राजानो भवन्ति। विपरीतैरमांसलै
रूक्षैर्वामावर्तरोमभिर्निर्द्रव्या निर्धनाः सुखैः परिहीना रहिताः परेषां प्रेष्याः कर्मकराश्च भवन्ति।
तथा च—
मांसलैर्मृदुभिः पार्श्वैर्दक्षिणावर्तरोमभिः।
नरा भूम्यधिपा ज्ञेया विपरीतैः सुदुःखिताः।। इति।।२६।।
अथ चूचुकानां लक्षणमाह—
सुभगा भवन्त्यनुद्बद्धचूचुका निर्धना विषमदीर्घैः।
पीनोपचितनिमग्नैः क्षितिपतयश्चूचुकैः सुखिनः।।२७।।
जिनके चूचुक (स्तन के अग्र भाग) ऊपर की ओर खींचे न हों, वे पुरुष सुभग
होते हैं। जिनके विषम (छोटे-बड़े) और लम्बे हों, वे निर्धन होते हैं तथा जिनके
चूचुक कठोर, पुष्ट तथा नीचे हों, वे राजा और सुखी होते हैं।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणोध्यायः २१३
चूचुकं स्तनाग्रम्। अनुद्बद्धैरनूर्ध्वप्रेक्षकैश्चूचुकैः सुभगा भवन्ति। विषमैरतुल्यैर्दीर्घैश्च
चूचुकैर्निर्धना दरिद्रा भवन्ति। पीनैः कठिनैरुपचितैः समांसलैर्निमग्नैरनुद्बद्धैश्चूचुकैः क्षितिपतयो
राजानो भवन्ति, ते च सुखिनः सुखभाजः। तथा च—
चूचुकैश्चाप्यनुद्बद्धैः सुभगाः सुखभागिनः।
निर्धना विषमैर्दीर्घैर्मग्नैर्मांसयुतैर्नृपाः।। इति।।२७।।
अथ हृदयलक्षणमाह—
हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम्।
अधनानां विपरीतं खररोमचितं शिरालं च।।२८।।
राजाओं का हृदय ऊँचा, विस्तीर्ण और कम्प से रहित होता है। निर्धनों का हृदय
विपरीत लक्षणों ( नीचा, कृश, सकम्प तथा कठोर रोम ) से युक्त तथा शिराओं से
व्याप्त होता है।।२८।।
हृदयं समुन्नतमुच्चं पृथु विस्तीर्णं न वेपनमकम्पनं मांसलं च नृपतीनां राज्ञां भवति।
विपरीतं निम्नमविस्तीर्णं कम्पनममांसलमधनानां दरिद्राणां भवति। तथा खररोमचितं रूक्ष-
स्थूलरोमसंयुक्तं शिरालं शिरासन्ततं च अधनानामेव। तथा च—
अचलं च पृथूच्चं च नृपाणां हृदयं स्मृतम्।
विपरीतं शिरालं च रोमशं दुःखभागिनम्।। इति।।२८।।
अथ वक्षोलक्षणमाह—
समवक्षसोऽर्थवन्तः पीनैः शूरा ह्यकिञ्चनास्तनुभिः।
विषमं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च ।।२९।।
समान ( न ऊँची, न नीची ) छाती वाले धनी, छोटी छाती वाले पुरुषार्थ से रहित
एवं विषम छाती वाले मनुष्य निर्धन और शस्त्र से मृत्यु पाने वाले होते हैं।।२९।।
समं न निम्नं नात्युच्चं वक्ष उरो येषां ते अर्थवन्तो धनिनः। पीनैर्मांसलैः कठिनैश्च
वक्षोभिः शूरा भवन्ति। तनुभिरल्पमांसैर्हि, अकिञ्चना अकिञ्चित्कराः पुरुषकारहीनाः। येषां
वक्षो विषममतुल्यं ते निःस्वा निर्धनाश्च शस्त्रनिधनाश्च शस्त्रमृत्यवो भवन्ति। तथा च—
अर्थवान् समवक्षाः स्याद् दीर्घैः शूरा धनान्विताः।
अल्पैश्च विकला दीना विषमैः शस्त्रमृत्युवः।। इति।।२९।।
अथ जत्रुलक्षणमाह—
विषमैर्विषमो जत्रुभिरर्थविहीनोऽस्थिसन्धिपरिणद्धैः ।
उन्नतजत्रुर्भोगी निम्नैर्निःस्वोऽर्थवान् पीनैः ॥३०॥
विषम जत्रु ( कन्धों के जोड़ ) वाला मनुष्य क्रूर, अस्थिसन्धियों से व्याप्त जत्रु
वाला मनुष्य निर्धन तथा पुष्ट जत्रु वाला पुरुष धनी होता है।।३०।।
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
२१४ बृहत्संहिता
जत्रुः कुक्षयोः सन्धिः। विषमैरतुल्यैर्जत्रुभिर्विषमः क्रूरो भवति। अस्थिसन्धिपरिणद्धैः,
अस्थ्नां सन्धयोऽस्थिसन्धयः, तैः परिणद्धैर्बद्धैरर्थविहीनो निर्धनो भवति। उन्नत उच्चो
जत्रुर्यस्य स भोगी भोगवान् भवति। निम्नैर्जत्रुभिर्निःस्वो दरिद्रो भवति। पीनैः पीवरैर्जत्रुभिरर्थवान्
धनी भवति। तथा च—
जत्रुभिर्विषमैः क्रूरा दरिद्राः क्रूरसन्धिभिः।
भोगी चोन्नतजत्रुः स्यान्निम्नैर्निःस्वोऽन्यथा धनी।। इति।।३०।।
अथ ग्रीवापृष्ठलक्षणमाह—
चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा।
महिषग्रीवः शूरः शस्त्रान्तो वृषसमग्रीवः ।।३१।।
कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रभक्षणो भवति।
पृष्ठमभग्नमरोमशमर्थवतामशुभदमतोऽन्यत् ।।३२।।
चपटी ग्रीवा वाला पुरुष निर्धन, सूखी हुई नाड़ियों से युत ग्रीवा वाला निर्धन,
महिष के समान ग्रीवा वाला शूर और बैल के समान ग्रीवा वाला शस्त्र से मरण पाने
वाला होता है। साथ ही शंख के समान ग्रीवा वाला मनुष्य राजा और लम्बी ग्रीवा वाला
बहुत खाने वाला होता है। अभग्न और रोमरहित पीठ धनिक लोगों की तथा भग्न और
रोमों से युत पीठ निर्धनों की होती है।।३१-३२।।
चिपिटा चर्पटाऽस्पृष्टा ग्रीवा यस्य स निःस्वो निर्धनो भवति। यस्य च शुष्का निर्मांसा
सशिरा शिरासन्तता ग्रीवा भवति स निःस्व एव निर्धन एव। महिषसदृशग्रीवः शूरो भवति।
वृषसमग्रीवो दान्ततुल्यकन्धरः शस्त्रान्तो भवति शस्त्रेण म्रियते।
वलित्रयं ग्रीवायां यस्य भवति स कम्बुग्रीवः। तथा चोक्तम्—
वलित्रयचितग्रीवः कम्बुग्रीवोऽभिधीयते। इति।
यश्च कम्बुग्रीवः स राजा भवति। प्रलम्बकण्ठः प्रलम्बः कण्ठो यस्य स प्रभक्षणो
भवति, असञ्चयशीलः। तथा च—
ग्रीवा च वर्तुला यस्य स नरो धनवान् स्मृतः।
कम्बुग्रीवा नरा ये तु राजानस्ते न संशयः।।
दीर्घग्रीवा नरा ये तु तेऽपि दुःखस्य भागिनः।
वक्रग्रीवा नरा ये ते दाम्भिका पिशुनास्तथा।।
निःस्वस्तु चिपिटग्रीवः शुष्कग्रीवस्तथैव च।
शूरस्तु महिषग्रीवः शस्त्रान्तो वृषकन्धरः।।
पृष्ठमभग्नमस्फुटितमरोमशं रोमवर्जितमर्थवतां सधनानां भवति। अतोऽस्मादन्यद्भग्नं
रोमशमशुभदं निर्धनानां भवति। तथा च—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २१५
सुस्निग्धं मांसलं पृष्ठमभग्नं चाप्यरोमशम्।
सधनानां विपर्यस्तं निर्धनानां प्रकीर्तितम्।। इति।।३१-३२।।
अथ कक्षालक्षणमाह—
अस्वेदनपीनोन्नतसुगन्धसमरोमसङ्कुलाः कक्षाः।
विज्ञातव्या धनिनामतोऽन्यथार्थैर्विहीनानाम् ।।३३।।
पसीने से रहित, पुष्ट, ऊँची, सुगन्धयुक्त, समान तथा रोमों से व्याप्त काँख धनिकों
की होती है। पसीने से युत, अपुष्ट, नीची, दुर्गन्धयुत, विषम और रोमरहित काँख निर्धनों
की होती है।।३३।।
बाहुमूलतलं कक्षाशब्देनोच्यते। कक्षा अस्वेदनाः स्वेदरहिताः पीनाः समांसला उन्नता
उच्चाः सुगन्धाः शोभनगन्धाः समास्तुल्या रोमसङ्कुला रोमभिर्युक्ता धनिनामीश्वराणां विज्ञातव्या
ज्ञेयाः। अतोऽस्मादन्यथा विपरीतलक्षणाः सस्वेदना निर्मांसा निम्ना दुर्गन्धा विषमा रोम-
वर्जिता अर्थैर्विहीनानां धनरहितानां भवन्ति। तथा च—
निःस्वेदमांसलाः कक्षाः सुगन्धा रोमसङ्कुलाः।
धनिनां तु विजानीयान्निर्धनानामतोऽन्यथा।। इति।।३३।।
अथांसलक्षणमाह—
निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धनस्यांसौ।
विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम् ।।३४।।
मांसहीन, रोमों से युत, भग्न तथा छोटे कन्धे निर्धन मनुष्यों के होते हैं तथा
विस्तीर्ण, अभग्न और परस्पर संलग्न कन्धे सुखी और बली पुरुषों के होते हैं।।३४।।
अंसौ स्कन्धौ निर्मांसौ मांसरहितौ रोमचितौ रोमव्याप्तौ भग्नौ स्फुटितावल्पौ निर्धनस्य
दरिद्रस्य। विपुलावव्युच्छिन्नावभग्नौ सुश्लिष्टौ सुसंलग्नौ सौख्यवीर्यवतां सुखिनां बलिनां
च भवतः। तथा च—
कदलीस्तम्भसङ्काशा अजस्कन्धाश्च ये नराः।
राजानस्ते विजानीयुर्महाकोशा महाबलाः।
निर्मांसरोमबहुला निर्धनस्य प्रकीर्तिताः ।। इति ।।३४।।
अथ बाहुलक्षणमाह—
करिकरसदृशौ वृत्तावाजान्ववलम्बिनौ समौ पीनौ।
बाहू पृथिवीशानामधनानां रोमशौ ह्रस्वौ ।।३५।।
हाथी के सूँड़ के समान वर्तुलाकार, जानुपर्यन्त लम्बे, सम तथा मोटे बाहु राजा के
होते हैं। रोमों से युत तथा छोटे बाहु निर्धन के होते हैं।।३५।।
बाहू भुजौ करिकरसदृशौ गजहस्ततुल्यौ वृत्तौ परिवर्तुलौ। आजान्ववलम्बिनौ जानु-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२१६ बृहत्संहिता
सम्प्रापिणौ समौ तुल्यौ पीनौ समांसलौ पृथिवीशानां राज्ञां विज्ञातव्यौ। रोमशौ रोमयुक्तौ
ह्रस्वावदीर्घावधनानां निर्धनानां विज्ञेयौ। तथा च—
उद्बद्धबाहुः पुरुषो बधबन्धमवाप्नुयात्।
दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा।।
प्रलम्बबाहुरीश्वर्यं प्राप्नुयाद् गुणसंयुतम्।
ह्रस्वबाहुर्भवेद् दासः परप्रेष्यकरस्तथा।।
वामावर्तभुजा ये तु ये तु दीर्घभुजा नराः।
सम्पूर्णबाहवो ये तु राजानस्ते प्रकीर्तिताः।। इति।।३५।।
इदानीं हस्तलक्षणान्याह—
हस्ताङ्गुलयो दीर्घाश्चिरायुषामवलिताश्च सुभगानाम् ।
मेधाविनां च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम् ॥३६॥
स्थूलाभिर्धनरहिता बहिर्नताभिश्च शस्त्रनिर्याणाः ।
कपिसदृशकरा धनिनो व्याघ्रोपमपाणयः पापाः ॥३७॥
दीर्घायु वाले मनुष्यों की अंगुली लम्बी, सुभग पुरुषों की सीधी, बुद्धिमानों की
पतली और दूसरों की सेवा करने वाले की अंगुली चिपटी होती है। मोटी अंगुली वाले
निर्धन और बाहर को झुकी हुई अंगुली वाले शस्त्र से मृत्यु पाने वाले होते हैं। वानर के
समान हाथ वाले धनी और बाघ के समान हाथ वाले पापी होते हैं।।३६-३७।।
दीर्घा अह्रस्वा हस्ताङ्गुलयः करशाखाः चिरायुषां दीर्घजीविनां भवन्ति। अवलिता
अवेष्टिताः सुस्पष्टाश्च सुभगानां सौभाग्ययुक्तानां भवन्ति। सूक्ष्मा अस्थूला मेधाविनां बुद्धिमतां
भवन्ति। अत्र केचिन्मेधाबुद्धिप्रज्ञाणां विशेषमिच्छन्ति। तथा चोक्तम्—
अतितानस्मृतिर्मेधा तत्कालग्राहिणी मतिः।
शुभाशुभविचारज्ञा प्रज्ञा धीरैरुदाहृता।।
परकर्मनिरतानां परप्रेष्याणां चिपिटाश्चर्पटा भवन्ति।
स्थूलाभिरतिबृहतीभिरङ्गुलीभिर्धनरहिता निर्धना भवन्ति। बहिर्नताभिर्बाह्यविनताभिः शस्त्र-
निर्याणाः शस्त्रेण निर्याणं मरणं येषाम्। कपिसदृशकरा वानरतुल्यहस्ता धनिन ईश्वरा
भवन्ति। व्याघ्रोपमपाणयो व्याघ्रः प्राणी तत्सदृशहस्ताः पापा भवन्ति।।३६-३७।।
अन्यदप्याह—
मणिबन्धनैर्निगूढैर्दृढैश्च सुश्लिष्टसन्धिभिर्भूपाः ।
हीनैर्हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः ॥३८॥
निगूढ, दृढ और सुश्लिष्ट सन्धियों से युत मणिबन्ध ( हस्तमूल या पहुँचा ) वाले
मनुष्य राजा होते हैं। छोटे मणिबन्ध वाले का हाथ कट जाता है और शब्दसहित मणि-
बन्ध वाले निर्धन होते हैं।।३८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २१७
मणिबन्धनशब्देन हस्तमूलमुच्यते। निगूढैरनुल्बणैर्मणिबन्धनैर्दृढैरशिथिलैः सुश्लिष्ट-
सन्धिभिः सुसंलग्नमर्मभिर्भूपा राजानो भवन्ति। हीनैर्मणिबन्धैर्हस्तच्छेदो भवति। श्लथैः
शिथिलैः सशब्दैः शब्दयुक्तैर्निर्द्रव्या निर्धना भवन्ति।।३८।।
अन्यदप्याह—
पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन नराः।
संवृतनिम्नैर्धनिनः प्रोत्तानकराश्च दातारः ॥३९॥
विषमैर्विषमा निःस्वाश्च करतलैरैश्वरास्तु लाक्षाभैः ।
पीतैरगम्यवनिताभिगामिनो निर्धना रूक्षैः ॥४०॥
निम्न हथेली वाले मनुष्य पिता के धन से विहीन, वर्तुलाकार निम्न हथेली वाले
धनी तथा ऊँची हथेली वाले दानी होते हैं। विषम हथेली वाले दुष्ट और निर्धन, लाख
के समान लाल वर्ण की हथेली वाले धनी, पीली हथेली वाले अगम्या स्त्री में गमन
करने वाले और रूखी हथेली वाले निर्धन होते हैं॥३९-४०॥
नरा मनुष्या निम्नेन करतलेन पितृवित्तेन पैतृकेण धनेन विहीना रहिता भवन्ति,
संवृतनिम्नैः समं परिवर्तुलं कृत्वा निम्नैर्धनिनः सधना भवन्ति। प्रोत्तानकराः प्रकर्षेणोत्तान
उच्चः करो हस्तो येषां ते दातारो दानशीला भवन्ति।
विषमैरसमैः करतलैर्विषमाः क्रूरा निःस्वा निर्धनाश्च भवन्ति। लाक्षाभैरतिलोहितैः
करतलैरैश्वराः सधना भवन्ति। पीतैर्हस्ततलैरगम्यानां वनितानां स्त्रीणामभिगामिनो गमनशीला
भवन्ति। रूक्षैर्हस्ततलैर्निर्धना दरिद्राः॥३९-४०॥
अन्यदप्याह—
तुषसदृशनखाः क्लीबाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः ।
कुनखविवर्णैः परतर्कुकाश्च ताम्रैश्चमूपतयः ॥४१॥
तुष के समान रेखाओं से युत नख वाले नपुंसक, बुरे और वर्णहीन नख वाले दूसरे
के मुख को देखने वाले तथा ताम्र वर्ण के नख वाले सेनापति होते हैं॥४१॥
तुषैः सदृशाः संकुलरेखान्विता रूक्षा नखा येषां ते क्लीबाः षण्ढा भवन्ति। चिपि-
टैश्चर्पटैः स्फुटितैर्भग्नैश्च वित्तसन्त्यक्ता धनरहिता भवन्ति। कुनखैः कुत्सितैर्नखैर्विगत-
वर्णैरपि परतर्कुकाः परमुखप्रेक्षिणो भवन्ति। ताम्रैस्ताम्रवर्णैश्च नखैश्चमूपतयः सेनाधिपा भवन्ति।
अन्यदप्याह—
अङ्गुष्ठयवैराढ्याः सुतवन्तोऽङ्गुष्ठमूलजैश्च यवैः ।
दीर्घाङ्गुलिपर्वाणः सुभगा दीर्घायुषश्चैव ॥४२॥
यवरेखा से युत अंगुष्ठमध्य या अंगुष्ठमूल वाले मनुष्य पुत्रवान होते हैं। जिनकी
अंगुलियों के पर्व लम्बे हों, वे भाग्यशाली तथा दीर्घायु होते हैं॥४२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२१८ बृहत्संहिता
यवो यवाकार एव। अङ्गुष्ठमध्यगतैर्यवैराढ्या धनिनो भवन्ति। अङ्गुष्ठमूलजातैर्यवैः
सुतवन्तः पुत्रवन्तः। दीर्घाङ्गुलिपर्वाणः दीर्घान्यङ्गुलिपर्वाणि येषां ते सुभगाः सौभाग्योपेता
दीर्घायुषश्चिरजीविनश्च भवन्ति॥४२॥
अन्यदप्याह—
स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निःस्वानाम्।
विरलाङ्गुलयो निःस्वा धनसञ्चयिनो घनाङ्गुलयः ॥४३॥
स्निग्ध तथा गहरी रेखायें धनिकों की तथा रूखी और ऊँची रेखायें निर्धनों की
होती हैं। हाथ में विरल अंगुली वाले मनुष्य निर्धन और सघन अंगुली वाले धनसञ्चय
करने वाले होते हैं॥४३॥
स्निग्धा निर्मला निम्ना गम्भीरा रेखाः करगता धनिनामीश्वराणां भवन्ति। तद्व्यत्ययेन
विपरीतेनास्निग्धा अनिम्ना निःस्वानां निर्धनानां भवन्ति। विरला विप्रकृष्टा अङ्गुलयः करशाखा
येषां ते निःस्वा निर्धनाः। घनाङ्गुलयो धनसञ्चयिनो धनार्जनशीला भवन्ति॥४३॥
अन्यदप्याह—
तिस्रो रेखा मणिबन्धनोत्थिताः करतलोपगा नृपतेः।
मीनयुगाङ्कितपाणिर्नित्यं सत्रप्रदो भवति ॥४४॥
वज्राकारा धनिनां विद्याभाजां च मीनपुच्छनिभाः ।
शङ्खातपत्रशिविकागजाश्वपद्मोपमा नृपतेः ॥४५॥
कलशमृणालपताकाङ्कुशोपमाभिर्भवन्ति निधिपालाः।
दामनिभाभिश्चाढ्याः स्वस्तिकरूपाभिरैश्वर्यम् ॥४६॥
चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः।
कुर्वन्ति चमूनाथं यज्वानमुलूखलाकाराः ॥४७॥
मकरध्वजकोष्ठागारसन्निभाभिर्महाधनोपेताः। ।
वेदीनिभेन चैवाग्निहोत्रिणो ब्रह्मतीर्थेन ॥४८॥
वापीदेवकुलाद्यैर्धर्मं कुर्वन्ति च त्रिकोणाभिः।
अङ्गुष्ठमूलरेखाः पुत्राः स्युर्दारिकाः सूक्ष्माः ॥४९॥
रेखाः प्रदेशिनिगताः शतायुषं कल्पनीयमूनाभिः।
छिन्नाभिर्द्रुमपतनं बहुरेखारेखिणो निःस्वाः ॥५०॥
जिसकी तीन रेखा पहुँचे से निकल कर हथेली में जाय, वह मनुष्य राजा होता है।
दो मत्स्यरेखाओं से युत हथेली वाला सदावर्त्त देने वाला होता है। यदि हाथ में वज्र के
समान ( मध्य में पतला और दोनों ओर विस्तृत ) रेखा हो तो वह मनुष्य धनी, मछली
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणोध्यायः २१९
के समान हो तो विद्वान् तथा शंख, छत्र, पालकी, हाथी, घोड़ा और कमल के समान
रेखा हो तो राजा होता है। यदि कलश, मृणाल ( कमल की जड़ ), पताका या अंकुश
के समान हाथ में रेखा हो तो वह व्यक्ति भूमि में धन गाड़ने वाला होता है। रस्सी की
तरह हाथ में रेखा हो तो अति धनी और स्वस्तिक ( राजगृह-समान ) की रेखा हो तो
ऐश्वर्यशाली होता है। यदि चक्र, खड्ग, फरशा, तोमर, बर्छी, धनुष या भाला के समान
हाथ में रेखा हो तो सेनापति और ऊखल के समान हो तो याज्ञिक होता है। मकर
( मगर = घड़ियाल ), ध्वजा और कोष्ठागार की तरह हाथ में रेखा हो तो बहुत धनी
तथा वेदी की तरह जिसका ब्रह्मतीर्थ ( अंगुष्ठमूल ) हो वह पुरुष अग्निहोत्री होता है।
वापी, देवमन्दिर आदि ( सिंहासन, श्रीवृक्ष और यूप ) या त्रिभुज की तरह हाथ में रेखा
हो तो वह मनुष्य धार्मिक होता है। मनुष्य के अंगुष्ठमूल में जितनी स्थूल रेखायें हों,
उतने उसके पुत्र और जितनी सूक्ष्म रेखायें हों, उतनी उसकी कन्यायें होती हैं। जिनकी
तर्जनी के मूल तक तीन रेखा गई हो, वे सौ वर्ष तक जीवित रहते हैं। यदि छोटी रेखा
हो तो अनुपात से आयु की कल्पना करनी चाहिये। जिनके हाथ में टूटी हुई रेखा हो, वे
वृक्ष से गिरते हैं। अधिक रेखायुत या रेखारहित व्यक्ति निर्धन होते हैं।।४४-५०।।
तिस्रो रेखा इति । मणिबन्धनोत्थितास्तिस्रो रेखाः करतलोपगाः करतले हस्ततले
उपगाः प्राप्ता नृपते राज्ञो भवन्ति। मीनयुगेन मत्स्यद्वयेनाङ्कितश्चिह्नितः पाणिर्हस्तो यस्य
स नित्यं सर्वकालं सत्रप्रदो भवति, मषकृद्भवतीत्यर्थः।
वज्रं मध्यक्षाममुभयाग्रविस्तृतम्, तदाकारास्तत्सदृश्यः करतले रेखा धनिनामीश्वराणां
भवन्ति। मीनपुच्छनिभा मत्स्यपुच्छाकारा विद्याभाजां भवन्ति। विद्यावन्तश्च ते भवन्तीत्यर्थः।
शङ्खः प्रसिद्धः, आतपत्रं छत्रम्, शिविका युग्यादिकम्, गजो हस्ती, अश्वस्तुरगः, पद्मं
कमलम्, एषामुपमास्तदाकारा रेखा नृपते राज्ञो भवन्ति।
कलशः कुम्भः, मृणालं विसं स्पष्टं मध्याद् मध्याद् ग्रन्थियुक्तम्। पताका वैजयन्ती,
अङ्कुशः प्रसिद्धः। एषामुपमाभिस्तदाकाराभिर्लेखाभिर्निधिपाला भूमावस्थापनशीला भवन्ति।
अतिधनिनश्च। दामनिभाभी रज्ज्वाभाभिश्चाढ्या ईश्वरा भवन्ति, स्वस्तिकश्चिह्नविशेषस्तद्रूपा-
भिस्तदाकाराभिरैश्वर्यं भवति।
चक्रमायुधम्, असिः खड्गः, परशुरायुधविशेषः कुठारः, तोमरः प्रसिद्धः, शक्तिः
प्रसिद्धा, धनुश्चापम्, कुन्त आयुधविशेषः। एषां सन्निभास्तदाकारा रेखाः करतलोपगाश्चमूनाथं
सेनापतिं कुर्वन्ति। उलूखलाकारा रेखा यज्वानं याज्ञिकं कुर्वन्ति।
मकरो जलप्राणी। ध्वजश्चिह्नम्। विचित्रपटनिर्मितत्वाद्वैचित्र्यमस्य भवति पताकातः।
कोष्ठागारं प्रसिद्धमेव। एषां सन्निभाभिः सदृशीभी रेखाभिर्महाधनोपेता अतिधनिनः। मणिबन्ध-
नस्योपरि ब्रह्मतीर्थमङ्गुष्ठमूले। ब्रह्मतीर्थेन अङ्गुष्ठमूलतीर्थेन वेदिनिभेन वेद्याकृतिना अग्निहोत्रिणो
यजमाना भवन्ति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२२० बृहत्संहिता
वापी प्रसिद्धा चतुरस्रा पुष्करिणी। देवकुलं देवप्रासादः। आदिग्रहणात् सिंहासनश्रीवृक्षयूपा
गृह्यन्ते। तैर्धर्मं कुर्वन्ति, धर्मिष्ठा भवन्ति। त्रिकोणाभिरूयस्त्राभिः शृङ्गाटकाकाराभिश्चशब्दाद्
धर्ममेव कुर्वन्ति। अङ्गुष्ठमूले यावत्यो रेखास्तान्यपत्यानि। तासां याः स्थूलास्ते पुत्राः
सुताः, याश्च सूक्ष्मास्ता दारिका दुहितारः।
प्रदेशिनी अङ्गुष्ठानन्तरा। बहुवचननिर्देशात् तिस्रो रेखा अत्र ज्ञातव्याः। प्रदेशिनीगता-
स्तत्राप्तरेखाः शतायुषं शतजीवितं कुर्वन्ति। रेखाभिरूनाभिः स्वबुद्ध्या कल्पनीयम्।
यथा हस्तमध्यप्राप्ताभिः पञ्चाशत्। अन्यत्रानुपातादायुषः परिकल्पना कार्या। रेखाभिश्छिन्नाभि-
र्मध्याद्विच्छिन्नाभिर्द्रुमपतनं वृक्षपतनं भवति। बह्व्यो रेखा येषां ते बहुरेखाः, न विद्यन्ते
रेखा येषां ते अरेखिणः। बहुरेखा अरेखिणश्च निःस्वा निर्धना भवन्ति। तथा च—
सुवर्तुलैर्निगूढैश्च मणिबन्धैः समन्विताः।
दृढैश्च शब्दरहितै राजानस्ते प्रकीर्तिताः॥
हीनैश्च छिन्नपाणिः स्यात् श्लथैर्दारिद्र्यभाजनः।
निम्ने करतले यस्य पितृवित्तविवर्जितः॥
निम्नेन संवृतेनैव वित्तवान् सौख्यसंयुतः।
समुत्तानकरा ये च दातारस्ते न संशयः॥
विषमैर्विषमा निःस्वा लाक्षाभैरीश्वराः करैः।
अगम्यागामिनः पीतैर्नखैर्ह्रस्वैश्च निर्धनाः॥
शर्षशुक्तौ तुषनखा नैकवर्णा महानखाः।
स्फुटितार्धनखाश्चैव स्मृता द्रव्यविवर्जिताः॥
निर्मलैर्लोहिताभैश्च नखैर्भवति पार्थिवः।
पाण्डुरा विरला रूक्षा अङ्गुल्यः करसंस्थिताः॥
येषां ते च नरा ज्ञेया दुःखदारिद्र्यभाजनाः।
यस्य मीनसमा रेखाः कर्मसिद्धिस्तु तस्य वै॥
धनवान् स तु विज्ञेयो बहुपुत्रश्च मानवः।
तुला यस्य तु वेदिर्वा करमध्ये प्रदर्शिता॥
वाणिज्यं सिद्ध्यते तस्य पुरुषस्य न संशयः।
वेदी पाणितले यस्य द्विजस्य तु विशेषतः॥
यज्ञयाजी भवेन्नित्यं बहुवित्तश्च मानवः।
श्रीवत्समथवा पद्मं वज्रं चामरमेव वा॥
यस्य हस्ते तु दृश्येत स भवेत् पृथिवीपतिः।
शक्तितोमरखड्गाभा रेखाश्चापसमास्तथा॥
यस्य हस्ते प्रदृश्यन्ते चमूनाथं च तं विदुः।
वृक्षो वाप्यथवा शैलः करमध्ये तु दृश्यते॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २२१
अचलं प्राप्यते राज्यं मण्डले तु न संशयः ।
ध्वजं वाप्यथवा शृङ्गं दृश्यते करसंस्थितम् ।।
धनेशत्वं विजानीयात् समुद्रवचनं यथा।
दक्षिणे तु कराङ्गुष्ठे यवो यस्य च दृश्यते ।।
सर्वविद्याप्रवक्ताऽसौ भवतीति च निर्दिशेत् ।
यस्य पाणितले रेखा कनिष्ठमूलसम्भवा ।।
गता मध्ये प्रदेशिन्यां स जीवेच्छरदां शतम् ।
अङ्गुष्ठमूले या रेखाः पुत्रास्ते परिकीर्तिताः ।।
सूक्ष्माः कन्या विनिर्दिष्टाः समुद्रवचनं यथा ।
छिन्नाभिर्वृक्षपतनं प्रभूताभिरनीश्वराः ।।
अङ्गुष्ठमूलतीर्थेन यज्ञयाजी भवेन्नरः ।। इति ।।४४-५० ।।
अथ चिबुकाधरदशनानां लक्षणमाह—
अतिकृशदीर्घैश्चिबुकैर्निर्द्रव्या मांसलैर्धनोपेताः ।
विम्बोपमैरवक्रैरधरैर्भूपास्तनुभिरस्वाः ।।५१ ।।
ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः ।।५२ ।।
अत्यन्त कृश और दीर्घ अधर वाले मनुष्य निर्धन एवं मांसयुत अधर वाले धनी
होते हैं। विम्ब-फल के समान लाल और वक्रता से रहित अधर वाले राजा, छोटे अधर
वाले राजा तथा फटे, खण्डित, वर्णरहित और रूखे अधर वाले मनुष्य धनहीन होते हैं।
मनुष्यों के स्निग्ध, घन, तीक्ष्ण और सम दाँत शुभ होते हैं।।५१-५२।।
चिबुकमधरस्याधोभागो मुखान्तम्। अतिकृशैर्निर्मांसैरतिदीर्घैश्च चिबुकैर्निर्द्रव्या दरिद्रा
भवन्ति। मांसलैश्चिबुकैर्धनोपेताः सधनाः। अधरैरोष्ठैर्विम्बोपमैरतिलोहितैरवक्रैः स्पष्टैर्भूपा
राजानो भवन्ति। तनुभिरमांसलैरधरैरस्वा निर्धना भवन्ति।
ओष्ठैरुत्तरैः स्फुटितैर्भग्नैर्विखण्डितैर्दलितैर्विवर्णैर्विगतवर्णै रूक्षै निःस्नेहैश्च धनपरित्यक्ता
दरिद्रा भवन्ति। दशना दन्ताः स्निग्धा निर्मला घनाश्च संहता। सुतीक्ष्णदंष्ट्रा येषां ते समाश्च
सर्वे तुल्याः शुभाः। मध्यभागवर्तिनो दन्तचतुष्टयस्य पार्श्ववर्तिनी दंष्ट्रे। तथा च—
निर्मांसैश्चिबुकैर्दीर्घैर्निर्द्रव्याश्चाशुवाचिनः ।
समांसलैर्धनोपेता बहुपुत्रसमावृताः ।।
रक्ताधरो नरपतिर्धनवान् कमलाधरः ।
स्थूलोष्ठा बहुलोमाश्च शुष्कैः क्षीणैश्च दुःखिताः ।।
उत्तरोष्ठैर्लोहितैश्च धनिनः सौख्यसंयुताः ।
खण्डैर्विवर्णैर्निर्द्रव्या रूक्षैर्दुःखसमन्विताः ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२२२ बृहत्संहिता
कुन्दकुड्मलसङ्काशैः प्राकारैर्दशनैर्नृपः ।
ऋक्षवानरदन्ताश्च नित्यं क्षुत्परिपीडिताः ।।
हस्तिदन्ताः खररदाः स्निग्धदन्ता गुणान्विताः ।
करालैर्विषमैर्दीर्घैर्दशनैर्दुःखजीविनः ।।
द्वात्रिंशद्दन्ता राजान एकोनश्रापि भोगवान् ।
त्रिंशद्दन्ता नरा ये ते सुखदुःखस्य भागिनः ।।
एकोनत्रिंशद्दशनाः पुरुषा दुःखजीविनः ।
अष्टाविंशद्रदा येषां तेऽतिदुःखस्य भाजनाः ।। इति ।। ५१-५२ ।।
अथ जिह्वाताल्वोर्लक्षणमाह—
जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो ज्ञेया ।
श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु ।। ५३ ।।
लाल, लम्बी, श्लक्ष्ण और समान जीभ वाले मनुष्य भोगी होते हैं। सफेद, काली
और रूखी जीभ वाले पुरुष निर्धन होते हैं। इसी प्रकार मनुष्य के तालु का लक्षण भी
जानना चाहिये ।। ५३ ।।
जिह्वा रसना रक्ता लोहितवर्णा दीर्घा आयामिनी श्लक्ष्णा तनुप्राया सुस्पर्शा सुसमा
च तुल्या भोगिनो ज्ञेया। अथवा भोगिनामिति पाठः। भोगिनां जिह्वा ज्ञेया ज्ञातव्येत्यर्थः।
श्वेता पाण्डुरा कृष्णा असिता निर्द्रव्याणां दरिद्राणां भवति। तथा तालु। तथा तेनैव प्रकारेण
तालु ज्ञेयम्। यथा जिह्वा रक्ता श्लक्ष्णा सुसमा च शोभना तथा ताल्वपि शोभनम्। श्वेतं
कृष्णं परुषं ताल्वप्यशोभनम्। तथा च—
कृष्णजिह्वा भवेद्यस्य समला यदि वा भवेत्।
स पापवान् भवेन्मर्त्यः कुक्षा स्थूला तथा भवेत्।।
श्वेतजिह्वा नरा ज्ञेयाः शौचाचारविवर्जिताः ।
पद्मपत्रसमा जिह्वा सूक्ष्मा दीर्घा सुशोभना।
न स्थूला नातिविस्तीर्णा येषां ते मनुजाधिपाः ।।
निम्ना दीर्घा च ह्रस्वा च रक्ताग्रा रसना यदि।
सर्वविद्याप्रवक्ताऽसौ भवेन्नास्त्यत्र संशयः ।।
कृष्णतालुर्नरो यस्तु स भवेत् कुलनाशनः।
विकृतं स्फुटितं यस्य तालु तस्य न शोभनम् ।।
सिंहतालुर्नरपतिर्गजतालुस्तथैव च।
पद्मतालुर्भवेद्राजा श्वेततालुश्च निर्धनः ।। इति ।। ५३ ।।
अथास्यलक्षणमाह—
वक्त्रं सौम्यं संवृतममलं श्लक्ष्णं समं च भूपानाम् ।
विपरीतं क्लेशभुजां महामुखं दुर्भगाणां च ।। ५४ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
पुरुषलक्षणाध्यायः २२३
सुन्दर, वर्तुलाकार, निर्मल, श्लक्ष्ण और समान मुख राजाओं का होता है। इससे
उलटा ( कुरूप, वक्राकार, मलिन, अश्लक्ष्ण और विषम ) मुख भाग्यरहित लोगों का
होता है।।५४।।
वक्त्रं मुखं सौम्यमनाकुलं संवृतं परिवर्तुलमविकासितम्। अमलं निर्मलं श्लक्ष्णं
नातिमांसलं सुपार्श्वम्, समं तुल्यम्, भूपानां राज्ञां ज्ञेयम्। विपरीतं व्यस्तलक्षणम्। असौम्यम-
संवृतमनिर्मलमश्लक्ष्णमसमं क्लेशभुजां दरिद्राणां ज्ञेयम्, महामुखमतिविस्तीर्णमास्यं दुर्भगाणां
भवति। तथा च—
सौम्यं च संवृतं वक्त्रममलं यस्य देहिनः।
महाराजॊ भवेन्नित्यं विपरीते तु निर्धनः।। इति।।५४।।
अथ मुखलक्षणमाह—
स्त्रीमुखमनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम्।
दीर्घं निर्द्रव्याणां भीरुमुखाः पापकर्माणः ।।५५।।
चतुरस्रं धूर्तानां निम्नं वक्रं च तनयरहितानाम्।
कृपणानामतिह्रस्वं सम्पूर्णं भोगिनां कान्तम् ।।५६।।
स्त्री के समान मुख वाले सन्तानहीन, गोल मुख वाले शठ, लम्बे मुख वाले निर्धन,
भयानक मुख वाले धूर्त्त, निम्न मुख वाले पुत्रहीन, छोटे मुख वाले कृपण एवं सम्पूर्ण
तथा सुन्दर मुख वाले मनुष्य भोगी होते हैं।।५५-५६।।
स्त्रीसदृशं मुखं वदनमनपत्यानामपुत्राणां भवति। मण्डलं मण्डलाकारं परिवर्तुलं
शाठ्यवतां शठभावसंयुक्तानां परिज्ञेयं ज्ञातव्यम्। शठः परकार्यविमुखः। दीर्घं मुखं निर्द्रव्याणां
भवति। भीरुमुखा भीतस्येव मुखं येषां ते पापकर्माणः पापानुरता भवन्ति।
चतुरस्रं चतुष्कोणं मुखं धूर्तानां परवञ्चनदक्षाणां भवति। निम्नं हीनं वक्रमस्पष्टं च
तनयरहितानामपुत्राणां भवति। अतिह्रस्वमत्यल्पं कृपणानां भवति। कृपणोऽर्थलुब्धः स्तो-
कार्थश्च। सम्पूर्णं समांसलं कान्तं दीप्तिमद्भोगिनां भोगवतां च भवति। तथा च—
स्त्रीमुखं निरपत्यानां मण्डलं शाठ्यसेविनाम्।
दीर्घं मुखं च निःस्वानां भीरुवक्त्रा दुराशयाः।।
चतुरस्रं तु धूर्तानां निम्नं सुतविवर्जितम्।
कृपणानां तथा ह्रस्वं चिपिटं परजीविनाम्।।
यन्मुखं मांसलं स्निग्धं सप्रभं प्रियदर्शनम्।
वर्णाढ्यं सन्धिविश्लिष्टमजस्रं सुखभागिनाम्।। इति।।५५-५६।।
अथ श्मश्रुलक्षणमाह—
अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं चैव।
रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः ।।५७।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA