बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
wait, is it न or ने?
Wait, look at line 25:
Line 25: तत्प्रमाणेन ।
Char 1: त
Char 2: त्प्र
Char 3: मा
Char 4: णे
Char 5: न
Followed by a space and a single danda ।.
Yes, तत्प्रमाणेन ।!
Now line 30:
त्प्र मा णे न
Wait, does it have े on न? No, it is त्प्रमाणेन!
Wait, but is it त्प्रमाणेन or त्प्रमाणेने?
Wait, look at line 29:
यावत्-
Line 30:
त्प्रमाणेने? Why would someone write त्प्रमाणेने? That's not even a word!
Wait, could it be त्प्रमाणेन? Yes, of course, यावत्तत्प्रमाणेन द्वादशाङ्गुलान्येव!
Wait! यावत् + तत्प्रमाणेन = यावत्तत्प्रमाणेन!
In line 29: यावत्-
In line 30: त्प्रमाणेन!
१४२ बृहत्संहिता
अथान्यत्—
ऊरू चाङ्गुलमानैश्चतुर्युता विंशतिस्तथा जङ्घे ।
जानुकपिच्छे चतुरङ्गुले च पादौ च तत्तुल्यौ ॥१७॥
ऊरु ( घुटनों का ऊपरी प्रदेश ) और जंघा ( जाँघ ) चौबीस-चौबीस अंगुल, जानु
( घुटने ) और कपिच्छ चार-चार अंगुल तथा पाँव की गाँठी से नीचे तक भी चार-चार
अंगुल का बनाना चाहिये॥१७॥
ऊरू दीर्घा चाङ्गुलमानैश्चतुर्युता विंशतिः । तथा जङ्घे चतुर्विंशतिरेव दीर्घा । जानुकपिच्छे
चतुरङ्गुले च चतुरङ्गुलप्रमाणे कार्ये, ये च लोके एक्कलके इति प्रसिद्धे । पादौ च तत्तुल्यौ
तत्समौ गुल्फादारभ्याधोभागश्चतुरङ्गुलः कार्यः ॥१७॥
अथान्यदप्याह—
द्वादशदीर्घौ षट् पृथुतया च पादौ त्रिकायताङ्गुष्ठौ ।
पञ्चाङ्गुलपरिणाहौ प्रदेशिनी त्र्यङ्गुलं दीर्घा ॥१८॥
बारह अंगुल लम्बे और छः अंगुल चौड़े पाँव, पाँव के अँगूठे तीन अंगुल लम्बे
और प्रदेशिनी ( अंगूठे के समीप की अंगुली ) तीन अंगुल लम्बी बनाना चाहिये॥१८॥
पादौ चरणौ पार्ष्या आरभ्याङ्गुष्ठमूलं यावद् द्वादशाङ्गुलानि दीर्घौ कार्यौ, पृथुतया
विस्तारेण षडङ्गुलानि । अङ्गुष्ठौ त्रिकायतौ त्रीण्यङ्गुलानि दीर्घौ कार्यौ । पञ्चाङ्गुलपरिणाहौ
परिणाहात् पञ्चाङ्गुलानि कार्यौ । प्रदेशिन्यङ्गुष्ठसमीपवर्तिन्यङ्गुली त्रीण्यङ्गुलानि दीर्घा कार्या।
अन्यदप्याह—
अष्टांशाष्टांशोनाः शेषाङ्गुल्यः क्रमेण कर्तव्याः ।
सचतुर्थभागमङ्गुलमुत्सेधोऽङ्गुष्ठकस्योक्तः ॥१९॥
प्रदेशिनी से अष्टांश-अष्टांश कम करके क्रम से शेष तीन अंगुलियाँ बनानी चाहिये।
अंगूठे की ऊँचाई सवा अंगुल और शेष अंगुलियों की ऊँचाई उसी के अनुपात से कुछ-
कुछ कम करके बनानी चाहिये॥१९॥
शेषास्तिस्रोऽङ्गुल्यः क्रमेण परिपाट्या अष्टांशेनाष्टांशेन ऊनाः कर्तव्यः, प्रदेशिनीतो
मध्यमा अष्टांशोना कार्या। अङ्गुष्ठस्योत्सेध उच्छ्रायः सचतुर्भागमङ्गुलमुक्तः कथितः।
शेषाङ्गुलीनामष्टांशाष्टांशोनानामङ्गुष्ठप्रमाणात् प्रमाणं कार्यम्॥१९॥
अन्यदप्याह—
अङ्गुष्ठनखः कथितश्चतुर्थभागोनमङ्गुलं तज्ज्ञैः ।
शेषनखानामर्धाङ्गुलं क्रमात् किञ्चिदूनं वा ॥२०॥
प्रतिमा के लक्षणों को जानने वालों ने अंगूठे के नख की लम्बाई पौन अंगुल और
शेष अंगुलियों की लम्बाई आधा अंगुल अथवा कुछ-कुछ कम करके बनाने का विधान
बताया है, जिससे कि प्रतिमा सुन्दर दिखाई दे॥२०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमालक्षणाध्यायः १४३
तज्ज्ञैः प्रतिमालक्षणज्ञैरङ्गुष्ठनखश्चतुर्थभागोनमङ्गुलं कथितः । शेषानामङ्गुलीनखाना-
र्धाङ्गुलं प्रमाणम्। अथवा क्रमात् परिपाट्या किञ्चिदूनमर्धाङ्गुलप्रमाणं कार्यं यथा शोभा जायत
इति ।।२०।।
अन्यदप्याह—
जङ्घाग्रे परिणाहश्चतुर्दशोक्तस्तु विस्तरात् पञ्च ।
मध्ये तु सप्त विपुला परिणाहात् त्रिगुणिताः सप्त ।।२१।।
जाँघ के आगे के भाग की मोटाई चौदह अंगुल और विस्तार पाँच अंगुल तथा मध्य
भाग का विस्तार आठ अंगुल और मोटाई इक्कीस अंगुल होती है।।२१।।
जङ्घाग्रे जङ्घापर्यन्ते चतुर्दशाङ्गुलानि परिणाह उक्तः कथितः। विस्तरात् पञ्चाङ्गुलानि।
जङ्घामध्ये मध्यभागे सप्ताङ्गुलानि विपुला विस्तीर्णा। परिणाहात् सप्त त्रिगुणिताः। एक-
विंशत्यङ्गुलानीत्यर्थः ।।२१।।
अन्यदप्याह—
अष्टौ तु जानुमध्ये वैपुल्यं त्र्यष्टकं तु परिणाहः ।
विपुलौ चतुर्दशोरू मध्ये द्विगुणश्च तत्परिधिः ।।२२।।
घुटने के मध्य भाग - विस्तार आठ अंगुल, मोटाई चौबीस अंगुल और ऊरु के
मध्य का विस्तार चौद० अंगुल एवं परिधि अट्ठाईस अंगुल होती है।।२२।।
जानुमध्ये अष्टाङ्गुलानि वैपुल्यं पृथुत्वम्। त्र्यष्टकं चतुर्विंशत्यङ्गुलानि परिणाहः,
ऊरू मध्ये मध्यभागे चतुर्दशाङ्गुलानि विपुलौ विस्तीर्णौ। तत्परिधिस्तत्परिणाहस्तयोः
पारिमाण्डल्यं द्विगुणोऽष्टाविंशत्यङ्गुलानि भवन्ति।।२२।।
अन्यदप्याह—
कटिरष्टादश विपुला चत्वारिंशच्चतुर्युता परिधौ ।
अङ्गुलमेकं नाभी वेधेन तथा प्रमाणेन ।।२३।।
कमर की चौड़ाई अठारह अंगुल और परिधि चौवालीस अंगुल होती है तथा नाभिभाग
का विस्तार और वेध एक-एक अंगुल का होता है।।२३।।
कटिरष्टादशाङ्गुलानि विपुला विस्तीर्णा। परिधौ परिणाहे चत्वारिंशच्चतुर्युता चतुश्चत्वा-
रिंशदङ्गुलानि। नाभी वेधेन गाम्भीर्येण तथा प्रमाणेन वैपुल्येन चाङ्गुलमेकं भवति।।२३।।
अन्यदप्याह—
चत्वारिंशद्द्वियुता नाभीमध्येन मध्यपरिणाहः ।
स्तनयोः षोडश चान्तरमूर्ध्वं कक्ष्ये षडङ्गुलिके ।।२४।।
नाभिस्थान की मोटाई बयालीस अंगुल, दोनों स्तनों का अन्तर सोलह अंगुल और
स्तनों के ऊपर बगल में छः-छः अंगुल के कोख होते हैं।।२४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१४४ बृहत्संहिता
नाभीमध्येन मध्यभागे परिणाहश्चत्वारिंशद्द्वियुता द्वाचत्वारिंशदङ्गुलानि। स्तनयोर्द्वयोरन्तरं
मध्यं षोडशाङ्गुलानि। स्तनयोरूर्ध्वं तिर्यक् कृत्वा षडङ्गुलिके षडङ्गुलप्रमाणे कक्ष्ये कार्ये।
अन्यदप्याह—
अष्टावंसौ द्वादश बाहू कार्यों तथा प्रबाहू च।
बाहू षड्विस्तीर्णौ प्रतिबाहू त्वङ्गुलचतुष्कम्॥२५॥
गरदन से लेकर दोनों कन्धों की लम्बाई आठ अंगुल तथा बारह अंगुल बाहु और
प्रबाहु (बाहु के समीपवर्ती बाहु) बनानी चाहिये। बाहु का विस्तार छः अंगुल और
प्रबाहु का विस्तार चार अंगुल बनाना चाहिये॥२५॥
अंसौ स्कन्धौ ग्रीवापार्श्वदंसान्तं यावदष्टाङ्गुलं विस्तीर्णं कार्यम्। अंससमीपवर्तिनौ
बाहू द्वादशाङ्गुलानि दीर्घौ कार्यों। बाहुसमीपवर्तिनौ प्रतिबाहू तावेव द्वादशाङ्गुलानि दीर्घौ
कार्यों। बाहू षडङ्गुलानि विस्तीर्णौ, प्रतिबाहू त्वङ्गुलचतुष्कं विस्तीर्णौ॥२५॥
अन्यदप्याह—
षोडश बाहू मूले परिणाहाद् द्वादशाग्रहस्ते च।
विस्तारेण करतलं षडङ्गुलं सप्त दैर्घ्येण॥२६॥
बाहुमूल की मोटाई सोलह अंगुल, प्रकोष्ठ की मोटाई बारह अंगुल, हथेली की
चौड़ाई छः अंगुल और लम्बाई सात अंगुल बनानी चाहिये॥२६॥
बाहू मूले षोडशाङ्गुलानि परिणाहात्। अग्रहस्ते च प्रकोष्ठप्रदेशे द्वादशाङ्गुलानि परिणाहः।
करतलं हस्ततलं विस्तारेण षडङ्गुलं कार्यं दैर्घ्येणायामेन सप्ताङ्गुलानि॥२६॥
अन्यदप्याह—
पञ्चाङ्गुलानि मध्या प्रदेशिनी मध्यपर्वदलहीना।
अनया तुल्या चानामिका कनिष्ठा तु पर्वोना॥२७॥
मध्यमा पाँच अंगुल, प्रदेशिनी और अनामिका पर्व के आधे से रहित पाँच अंगुल
और कनिष्ठिका एक पर्व से रहित पाँच अंगुल लम्बी होती है॥२७॥
अङ्गुष्ठादनन्तरं या अङ्गुली सा मध्यमायाः पर्वदलेन पर्वणोऽर्धेन हीना कार्या। सार्धानि
चत्वार्यङ्गुलानि पूर्वरेखायाः प्रभृतिद्वितीयां रेखां यावत् पर्वोच्यते। अनया प्रदेशिन्या चाना-
मिका कार्या। तस्या अनामिकायाः पर्वोना कनिष्ठिका कार्या॥२७॥
अन्यदप्याह—
पर्वद्वयमङ्गुष्ठः शेषाङ्गुल्यस्त्रिभिस्त्रिभिः कार्याः।
नखपरिमाणं कार्यं सर्वासां पर्वणोऽर्धेन॥२८॥
अंगूठे में दो पर्व एवं शेष चार अंगुलियों में तीन-तीन पर्व बनाने चाहिये तथा
अपने-अपने पर्व के आधे के तुल्य नखों का परिमाण बनाना चाहिये॥२८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमालक्षणाध्यायः १४५
अङ्गुष्ठः पर्वद्वयं कार्यः। शेषाः परिशिष्टा अङ्गुल्यस्त्रिभिस्त्रिभिः पर्वभिः कार्याः। सर्वा-
सामङ्गुलीनां पर्वणोऽर्धेन नखपरिमाणं कार्यम्॥२८॥
एवमवयवलक्षणमभिधायाधुना स्वरूपप्रदर्शनार्थमाह—
देशानुरूपभूषणवेषालङ्कारमूर्तिभिः कार्या।
प्रतिमा लक्षणयुक्ता सन्निहिता वृद्धिदा भवति ॥२९॥
प्रतिमा के भूषण, वेष, अलंकार और मूर्ति अपने-अपने देश के अनुरूप बनाने चाहिये;
क्योंकि शुभ लक्षणों से युत प्रतिमा उसका निर्माण करने वाले की सदा उन्नति करती
है॥२९॥
देशानुरूपैर्देशसदृशैर्भूषणैराभरणैर्हारकेयूरकटकादिभिः। वेषालङ्कारैः शरीरालङ्कारैः।
यस्मिन् देशे यादृशाः पुरुषाणां वेषास्तादृशैः, मूर्तिभिर्देहैः, स्थूलसूक्ष्मावयवत्वेन देशानुरूपेणैव
कार्या। यतः प्रतिमा लक्षणैः शास्त्रोक्तैर्युक्ता सन्निहिता सर्वकालं वृद्धिदा भवति, कर्तुर्वृद्धिं
ददाति। तथा च काश्यपः—
द्वादशाङ्गुलकं वक्त्रं ललाटं चतुरङ्गुलम्।
नासा ग्रीवा तु कर्तव्या तुल्या चैतत्प्रमाणतः॥
शङ्खान्तरं ललाटस्य ज्ञेयमष्टाङ्गुलं पृथु।
हनुद्वयं तु चिबुकमङ्गुलद्वितयं स्मृतम्॥
चतुरङ्गुलिकौ कर्णौ भ्रुवावेव तथा स्मृते।
द्व्यङ्गुलौ पृथुलौ कर्णौ भ्रूमध्यं तत्प्रमाणतः॥
कर्णनेत्रान्तरं कुर्यात् तत्सार्धं चतुरङ्गुलम्।
अधरोऽङ्गुलमानं तु तदर्धेनोत्तरं स्मृतम्॥
चतुरङ्गुलकं वक्त्रं नासाग्रं द्व्यङ्गुलं स्मृतम्।
नेत्रे द्व्यङ्गुलके दीर्घे तत्रिभागेन तारकः॥
दृक्तारा पञ्चमांशेन दूषिकाङ्गुलसम्मिता।
द्व्यङ्गुलं चाक्षिपुटकं तथा नासापुटौ स्मृतौ॥
कर्णस्रोतोऽङ्गुलमितं सुकुमारं तथैव च।
गोच्छा चाङ्गुलिका कार्या तत्समा केशरेखिका॥
द्व्यङ्गुलौ तु स्मृतौ शङ्खावायतौ चतुरङ्गुलौ।
चतुर्दशाङ्गुलः शीर्षो द्वात्रिंशत् परिणाहतः॥
एकविंशत् स्मृता ग्रीवा विस्तारात्स्याद्दशाङ्गुला।
कण्ठाच्च हृदयं नाभीं मेढ्रं तद्द्वादशाङ्गुलम्॥
ऊरू जङ्घे चतुर्विंशा जानुनी चतुरङ्गुले।
द्वादशाङ्गुलिकौ पादौ विस्तारात्तु षडङ्गुलौ॥
बृ० सं० १९ CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१४६ बृहत्संहिता
गुल्फादधोभागगतं चतुरङ्गुलमुन्नतम्।
अङ्गुष्ठं त्र्यङ्गुलं दीर्घं पञ्चैव परिणाहतः।।
शेषाः पादानुसारेण परिमाणं प्रकल्पयेत्।
जङ्घाग्रे परिधिर्ज्ञेयो ह्यङ्गुलानि चतुर्दश।।
ऊरू तद्विगुणौ प्रोक्तौ कटिस्तत्रिगुणा स्मृता।
अङ्गुलं तु भवेन्नाभी वेधगाम्भीर्ययोरपि।।
नाभीमध्ये परीणाहश्चत्वारिंशद्द्विसंयुतः।
षोडश स्तनयोर्मध्यं कक्ष्ये ऊर्ध्वं षडङ्गुले।।
अष्टाङ्गुलौ स्मृतौ स्कन्धौ बाहू विंशच्चतुर्युतौ।
बाहू मूले षोडश स्याद्धस्ताग्रे द्वादश स्मृताः।।
षडङ्गुलं हस्ततलं सप्त दैर्घ्येण च स्मृतम्।
पञ्चाङ्गुला भवेद् मध्या तर्जन्यर्धाङ्गुलोनिता।।
अनामिका च तत्तुल्या कनिष्ठा चाङ्गुलोनिता।
सुरूपास्ताश्च कर्तव्या द्विपर्वाङ्गुष्ठिका स्मृता।।
त्रिपर्वाङ्गुलयः शेषा नखाः पर्वाधंविस्तृताः।
देशवेषयुतान् हस्तान् सौम्यरूपांश्च कारयेत्।।
स्वरूपा लक्षणोपेता प्रतिमा वृद्धिदा भवेत्।। इति।।२९।।
अधुना प्रतिमानां विशेषलक्षणमाह—
दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम्।
द्वादशहान्या शेषाः प्रवरसमन्यूनपरिमाणाः॥३०॥
दशरथतनय राम और विरोचन के तनय बलि की प्रतिमा एक सौ बीस अंगुल लम्बी
बनानी चाहिये। शेष समस्त प्रतिमायें एक सौ आठ अंगुल लम्बी उत्तम, छियानबे अंगुल
लम्बी मध्यम और चौरासी अंगुल लम्बी अधम होती हैं॥३०॥
दशरथतनयो दशरथपुत्रो रामः, वैरोचनिर्विरोचनपुत्रश्च बलिः। शतं विंशं विंशत्यधिक-
मङ्गुलशतं कार्यमित्यर्थः। शेषा अन्याः प्रतिमा द्वादशहान्या द्वादशकद्वादशकहीनत्वेन
प्रवरसमन्यूनपरिमाणा भवन्ति। विंशत्यधिकादङ्गुलशताद् द्वादशाङ्गुलान्यपास्याष्टाधिकं शत-
मङ्गुलानां प्रतिमा प्रधाना भवति। ततोऽपि द्वादशकमपास्य षण्णवत्यङ्गुलसमा मध्यमा
भवति। ततोऽपि द्वादशकमपास्य चतुरशीत्यङ्गुला न्यूनपरिमाणा प्रतिमा भवति। 'स्वैरङ्गुल-
प्रमाणैर्द्वादशविस्तीर्णमायतं च मुखम्' इत्यनेन न्यायेन या प्रतिमोक्ता साष्टाङ्गुलं शतमधिकं
भवति, यदत्रोक्तम्—'दशरथतनयो रामो बलिश्च वैरोचनिः शतं विंशम्' इत्यस्मिन् द्वादशा-
नामङ्गुलानामधिकानां तैरधिकेन परिमाणः कार्यः सर्वावयवानाम्। एवं हीनत्वेऽप्यनुपात
एवेत्यनुक्तं ज्ञायत इति॥३०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमालक्षणाध्यायः १४७
अधुना भगवतो विष्णोः स्वरूपकथनमाह—
कार्योऽष्टभुजो भगवांश्चतुर्भुजो द्विभुज एव वा विष्णुः।
श्रीवत्साङ्कितवक्षाः कौस्तुभमणिभूषितोरस्कः॥३१॥
अतसीकुसुमश्यामः पीताम्बरनिवसनः प्रसन्नमुखः।
कुण्डलकिरीटधारी पीनगलोरःस्थलांसभुजः॥३२॥
खड्गगदाशरपाणिर्दक्षिणतः शान्तिदश्चतुर्थकरः।
वामकरेषु च कार्मुकखेटकचक्राणि शङ्खश्च॥३३॥
अथ च चतुर्भुजमिच्छति शान्तिद एको गदाधरश्चान्यः।
दक्षिणपार्श्वे त्वेवं वामे शङ्खश्च चक्रं च॥३४॥
द्विभुजस्य तु शान्तिकरो दक्षिणहस्तोऽपरश्च शङ्खधरः।
एवं विष्णोः प्रतिमा कर्तव्या भूतिमिच्छद्भिः॥३५॥
विष्णु की प्रतिमा अष्टभुज, चतुर्भुज या द्विभुज बनानी चाहिये। उनके वक्षःस्थल
को श्रीवत्सचिह्न और कौस्तुभ मणि से शोभित करना चाहिये। अतसी-पुष्प के समान
श्याम वर्ण, पीताम्बर पहनी हुई, प्रसन्न मुख, पुष्ट कण्ठ, वक्षःस्थल, कन्धा और भुजा
वाली, दाहिने तीन हाथों में खड्ग, गदा और शर धारण की हुई, चौथा हाथ अभय मुद्रा
से युत, बाईं तरफ के चार हाथों से धनुष, ढाल, चक्र और शंख धारण की हुई अष्टभुज
विष्णु की प्रतिमा बनानी चाहिये।
चतुर्भुज विष्णु की प्रतिमा बनानी हो तो दाहिने तरफ के एक हाथ में अभय
मुद्रायुत, दूसरे में गदा धारण की हुई, बाईं तरफ के एक हाथ में शंख और दूसरे में चक्र
धारण की हुई मूर्ति बनानी चाहिये।
द्विभुज प्रतिमा बनानी हो तो दाहिने हाथ में अभय मुद्रा और बाँये में शंख धारण
की हुई मूर्ति बनानी चाहिये। ऐश्वर्य को चाहने वाले मनुष्य को इसी तरह विष्णु की
प्रतिमा बनानी चाहिये॥३१-३५॥
कार्योऽष्टभुजो भगवानिति। भगवान् विष्णुनारायणोऽष्टभुजोऽष्टहस्तः कार्यः,
चतुर्भुजो द्विभुज एव वा कार्यः। श्रीवत्साङ्कितवक्षाः। श्रीवत्सेन रोमावर्तेनाङ्कितं चिह्नितं
वक्ष उरो यस्य, तथा कौस्तुभाख्येन मणिना भूषितमलङ्कृतमुरो वक्षो यस्य।
अतसीकुसुमवदतसीपुष्पवत् श्यामः। पीतान्यम्बराणि वसनं परिधानं यस्य। प्रसन्नमुखः
सौम्यवदनः। कुण्डलं कर्णाभरणं किरीटं मुकुटं तद्धारणं शीलमस्य। पीनः पीवरो गलः
कण्ठो यस्य। मांसल इत्यर्थः। तथा पीनोरःस्थलः। पीनांसः पीनस्कन्धः। पीनभुजः पीनबाहुः।
दक्षिणतो दक्षिणभागे अष्टभुजस्य ये चत्वारः पाणयो हस्तास्तेष्वेकस्मिन् खड्गो
नन्दकः। द्वितीये गदा कौमोदकी। तृतीये शरः। चतुर्थे शान्तिदः। द्रष्टुरभिमुख ऊर्ध्वाङ्गुलिः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१४८ बृहत्संहिता
शान्तिदः करः। वामकरेषु वामहस्तेषु च कार्मुकं धनुः शार्ङ्गम्। खेटकं फरः। चक्रं सुदर्शनम्।
शङ्खश्च पाञ्चजन्यः।
अथशब्दो विकल्पे। तुशब्दो विशेषद्योतकः। यदि चतुर्भुजं कर्तुमिच्छति तदा दक्षिण-
पार्श्वे भुजद्वये एकः शान्तिदः करः। द्वितीयो गदाधरः। वामपार्श्वे भुजद्वये एकस्मिन् शङ्खो
द्वितीये चक्रम्।
द्विभुजस्य विष्णोर्दक्षिणहस्तः शान्तिदः। अपरो वामः शङ्खधरः। एवमनेन प्रकारेण
भूतिमिच्छद्भिः समृद्धिमभिलषद्भिर्विष्णोर्नारायणस्य प्रतिमाऽर्चा कार्या।।३१-३५।।
अथ हलधरस्य लक्षणमाह—
बलदेवो हलपाणिर्मदविभ्रमलोचनश्च कर्तव्यः।
बिभ्रत् कुण्डलमेकं शङ्खेन्दुमृणालगौरतनुः ॥३६॥
बलदेव की प्रतिमा के एक हाथ में हल धारण कराना चाहिये। मद से चलायमान
नेत्र बनाना चाहिये। उसके एक कान में कुण्डल धारण कराना चाहिये तथा प्रतिमा को
शंख, चन्द्र या मृणाल के समान सफेद वर्ण वाला बनाना चाहिये।।३६।।
बलदेवो हलधरो हलपाणिर्लाङ्गलहस्तः। मदविभ्रमलोचनो मदिरापानेन यो मदस्तेन
विभ्रमे चलिते लोचने नयने यस्य स तथाभूतः कर्तव्यः। एवं कुण्डलं कर्णाभरणं बिभ्रद्
धारयन्। शङ्खेन्दुमृणालगौरतनुः, शङ्खः प्रसिद्धः, इन्दुश्चन्द्रः। मृणालो बिसम्, तद्वद्गौरी
श्वेता तनुर्यस्य स तथाभूतः।।३६।।
अथैकानंशाया लक्षणमाह—
एकानंशा कार्या देवी बलदेवकृष्णयोर्मध्ये।
कटिसंस्थितवामकरा सरोजमितरेण चोद्वहती ॥३७॥
कार्या चतुर्भुजा या वामकराभ्यां सपुस्तकं कमलम्।
द्वाभ्यां दक्षिणपार्श्वे वरमर्थिष्वक्षसूत्रं च ॥३८॥
वामेऽथाष्टभुजायाः कमण्डलुश्चापमम्बुजं शास्त्रम्।
वरशरदर्पणयुक्ताः सव्यभुजाः साक्षसूत्राश्च ॥३९॥
बलदेव और कृष्ण की प्रतिमा के मध्य में 'एकानंशा' नाम की देवी की प्रतिमा
बनानी चाहिये। उसका बाँया हाथ उसके कमर पर रखना चाहिये और दाहिने हाथ में
कमल धारण कराना चाहिये। चतुर्भुजा एकानंशा देवी के बाईं तरफ एक हाथ में पुस्तक
और दूसरे में कमल तथा दाईं तरफ एक हाथ में वर देने वाली मुद्रा और दूसरे में माला
धारण कराना चाहिये। अष्टभुजा एकानंशा देवी की मूर्ति के बायें चार हाथों में क्रम से
कमण्डलु, धनुष, कमल और पुस्तक तथा दाहिने चार हाथों में क्रम से वर देने वाली
मुद्रा, बाण, दर्पण और अक्षसूत्र धारण कराना चाहिये।।३७-३९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमालक्षणाध्यायः १४९
एकानंशेति। बलदेवकृष्णयोर्हलधरवासुदेवयोर्मध्ये अन्तरे एकानंशाभिधाना देवी
देवता कार्या विधेया। कीदृशी? कटिसंस्थितवामकरा कटिसंस्थितो वामकरो वामहस्तो
यस्याः। इतरेण दक्षिणे सरोजं पद्ममुद्वहन्ती धारयन्ती कार्या—इति।
अथ चतुर्भुजा क्रियते तदा तस्या वामकरयोरेकस्मिन् पुस्तकं द्वितीये कमलं पद्मम्।
दक्षिणभागे द्वयोः करयोरेकस्मिन्नर्थिषु वरदो द्वितीयेऽक्षसूत्रम्। उत्तानोऽधोऽङ्गुलिर्हस्तो वरदः।
वामेऽथाष्टभुजाया इति। अथाऽष्टभुजा क्रियते तदा तस्य वामहस्तचतुष्के एकस्मिन्
कमण्डलुः। द्वितीये चापं धनुः। तृतीये अम्बुजं पद्मम्। चतुर्थे शास्त्रं पुस्तकम्। सव्ये दक्षिणभागे
एको हस्तो वरदः। द्वितीये शरः। तृतीये दर्पणमादर्शः। चतुर्थे अक्षसूत्रमिति।।३७-३९।।
अथ शाम्बप्रद्युम्नलक्षणमाह—
शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च।
अनयोः स्त्रियौ च कार्ये खेटकनिस्रिंशधारिण्यौ ।।४०।।
शाम्ब की प्रतिमा को गदा और प्रद्युम्न की प्रतिमा को धनुष धारण कराना चाहिये।
इन दोनों प्रतिमाओं को द्विभुज तथा सुन्दर बनाना चाहिये तथा इन दोनों के ही स्त्रियों की
भी प्रतिमा बनानी चाहिये, जिनके हाथों में खेटक ( फर ) और खड्ग धारण कराना
चाहिये।।४०।।
शाम्बो द्विभुजो गदाहस्तश्च कार्यः। प्रद्युम्नः कामदेवश्चापभृद्धनुः शरहस्तः। सुरूपः
शोभनरूपश्च। अनयोर्द्वयोः शाम्बप्रद्युम्नयोः स्त्रियौ कार्ये। कीदृश्यौ? खेटकनिस्रिंशधारिण्यौ,
खेटकः फरः, निस्रिंशः खड्गः, तौ धारयन्त्यौ।।४०।।
अथ ब्रह्मणः कुमारस्य च लक्षणमाह—
ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजासनस्थश्च।
स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ।।४१।।
ब्रह्मा की मूर्ति के एक हाथ में कमण्डलु धारण कराकर उसको चार मुख वाला
बनाना चाहिये और उसे कमलपुष्प के आसन पर बैठाना चाहिये। कार्तिकेय को बालक
के स्वरूप का बनाना चाहिये एवं उनके हाथ में शक्ति ( वर्छी ) और मयूरयुक्त ध्वजा
धारण कराना चाहिये।।४१।।
ब्रह्मा पितामहः कमण्डलुकरः कमण्डलुहस्तश्चतुर्मुखश्चतुर्वक्त्रश्च, पङ्कजासनस्थश्च
पङ्कजासने पद्मासने स्थितः। स्कन्दः कार्तिकेयः कुमाररूपो बालरूपः। शक्तिधरः शक्ति-
मायुधविशेषं धारयति। बर्हिकेतुर्मयूरध्वजः।।४१।।
अथेन्द्रलक्षणमाह—
शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम्।
तिर्यग् ललाटसंस्थं तृतीयमपि लोचनं चिह्नम् ।।४२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
इन्द्र के हाथी ( ऐरावत ) की प्रतिमा सफेद और चार दाँतों से युत बनानी चाहिये
तथा इन्द्र की प्रतिमा के हाथ में वज्र धारण कराना चाहिये और ललाट के मध्य में
तिरछा तीसरा नेत्र बनाना चाहिये ।।४२।।
महेन्द्रस्य द्विपो हस्ती ऐरावताख्यः शुक्लः श्वेतवर्णः। चतुर्विषाणश्चतुर्दन्तः स च
कार्यः। वज्रपाणित्वं वज्रमायुधविशेषः कुलिशाख्यः स पाणौ यस्य स वज्रपाणिस्तस्य
भावो वज्रपाणित्वम्। तृतीयं लोचनं नेत्रं तिर्यग् ललाटसंस्थं तिर्यक् कृत्वा ललाटे स्थितं
चिह्नमपि कार्यम् ।।४२।।
अथ भगवतो महेश्वरस्य लक्षणमाह—
शम्भोः शिरसीन्दुकला वृषध्वजोऽक्षि च तृतीयमपि चोर्ध्वम्।
शूलं धनुः पिनाकं वामार्धे वा गिरिसुतार्धम् ।।४३।।
शिव जी की प्रतिमा के मस्तक पर चन्द्रकला बनानी चाहिये, उनकी ध्वजा में वृष
का चिह्न बनाना चाहिये। उनके ललाट में खड़ा तीसरा नेत्र बनाना चाहिये। उनके एक
हाथ में त्रिशूल और दूसरे में पिनाक नामक धनुष धारण कराना चाहिये अथवा उनकी
बाईं तरफ आधे भाग में पार्वती की प्रतिमा बनानी चाहिये ।।४३।।
शम्भोर्महेश्वरस्य शिरसि मूर्धनि कला चन्द्रकला कार्या। वृषध्वजः वृषो दान्तः स
एव ध्वजः चिह्नं यस्य। ऊर्ध्वमूर्ध्वस्थितं तृतीयमपि अक्षि नेत्रं कार्यम्। शूलं त्रिशूलमेकस्मिन्
हस्ते। धनुः चापं तदेव पिनाकसंज्ञमन्यस्मिन्। गिरिसुता गौरी वामेऽर्धे वा कार्या। अर्ध-
गौरीश्वर इत्यर्थः ।।४३।।
अथ बुद्धस्य लक्षणमाह—
पद्माङ्कितकरचरणः प्रसन्नमूर्तिः सुनीचकेशश्च।
पद्मासनोपविष्टः पितेव जगतो भवति बुद्धः ।।४४।।
बुद्ध की प्रतिमा के हाथ एवं पाँव में कमल का चिह्न, प्रसन्नमुख, बहुत छोटे-छोटे
शिर के बालों से युत, पद्मासन से बैठी हुई और संसार के पिता के समान दिखाई देने
वाली बनानी चाहिये ।।४४।।
बुद्धः पद्माङ्कितकरचरणः कार्यः। करौ हस्तौ चरणौ पादौ पद्मेन कमलेनाङ्कितौ
चिह्नितौ कृताभी रेखाभिरित्यर्थः। प्रसन्नमूर्तिः सौम्यदेहः प्रसादपरः। सुनीचकेशश्च सुनीचा
अत्यल्पाः केशा मूर्धजा यस्य। केचित् सुनीतकेशश्चेति पठन्ति। सुनीता अतिनियमिताः।
पद्मासने कमलासने उपविष्टः स्थितः। पितेव जगतः, जगतो विश्वस्य पितेव जनक इति।
क्षान्तिशील इत्यर्थः ।।४४।।
अथार्हतां देवस्य लक्षणमाह—
आजानुलम्बबाहुः श्रीवत्साङ्कः प्रशान्तमूर्तिश्च।
दिग्वासास्तरुणो रूपवांश्च कार्योऽर्हतां देवः ।।४५।।
प्रतिमालक्षणाध्यायः १५१
जानु तक लम्बी भुजाओं से युत, श्रीवत्स-चिह्न से शोभित, शान्त, दिगम्बर, तरुण
और सुन्दर जिन की प्रतिमा बनानी चाहिये ।।४५।।
अर्हतां देवो जिन आजानुलम्बबाहुः कार्यः । जानुसम्प्राप्तहस्तः । श्रीवत्साङ्कः श्रीवत्स-
मङ्कं चिह्नविशेषो यस्य सः । प्रशान्तमूर्तिर्जितेन्द्रियो रागद्वेषरहितः । दिग्वासा नग्नः । तरुणो
यौवनोपेतः । रूपवान् सुशोभनवपुः ।।४५।।
अथ भगवतो भास्करस्य लक्षणमाह—
नासाललाटजङ्घोरुगण्डवक्षांसि चोन्नतानि रवेः ।
कुर्यादुदीच्यवेषं गूढं पादादुरो यावत् ।।४६।।
बिभ्राणः स्वकररुहे बाहुभ्यां पङ्कजे मुकुटधारी ।
कुण्डलभूषितवदनः प्रलम्बहारो वियद्वृतः ।।४७।।
कमलोदरद्युतिमुखः कञ्चुकगुप्तः स्मितप्रसन्नमुखः ।
रत्नोज्ज्वलप्रभामण्डलश्च कर्तुः शुभकरोऽर्कः ।।४८।।
सूर्य की प्रतिमा के नासिका, ललाट, जङ्घा, ऊरु, गाल और वक्षःस्थल ऊँचा,
उत्तर देशवासियों की तरह वेष, पाँव से लेकर छाती तक चोलक से गुप्त, दोनों भुजाओं
में दो नखरूप कमलों से युत, शर पर मुकुट, कानों में कुण्डल, गले में वियद्र-
( सारसन )-युक्त हार, कमलोदर के समान मुखकान्ति, कञ्चुक से आच्छादित शरीर,
ईषद हास्ययुक्त प्रसन्न मुख और रत्नों से दीप्यमान कान्ति बनानी चाहिये। इस तरह बना
हुआ सूर्य बनाने वाले के लिये शुभकारक होता है।।४६-४८।।
नासाललाटेति । रवेरादित्यस्य नासा नासिका, ललाटं मुखाग्रम्, जङ्घे ऊरू, गण्डो
मुखगण्डः, वक्ष उरःप्रदेशः—एतान्युन्नतानि उच्चानि। उदीच्यवेषमुत्तरपथवेषं कुर्यात्।
उदग्वेषमित्यर्थः । पादात् प्रभृत्यूरो वक्षो यावत् । गूढं चोलकगुप्तम्।
बिभ्राण इति । स्वकररुहे स्वनखे बाहुभ्यां पङ्कजे कमले बिभ्राणः । सहजनखस्य
करे लग्नत्वात् सपत्रभागस्य बाहोर्नालत्वाच्च कमले बिभ्राणः । मुकुटधारी मुकुटं मौलिं
तं च धारयति। कुण्डलभूषितवदनः, कुण्डलाभ्यां कर्णाभरणाभ्यां भूषितमलङ्कृतं वदनं
मुखं यस्य। प्रलम्बोऽतिदीर्घो हारो मुक्ताहारो यस्य। वियद्रं सारसनं तेन वृतः संयुक्तः।
कमलं पद्मं तस्योदरमभ्यन्तरं तद्वद्द्युतिः कान्तिर्मुखे वदने यस्य। कञ्चुकः प्रसिद्धस्तेन
गुप्त आच्छादितः। स्मितं हसितं प्रसन्नं सौम्यमतिशोभनं मुखं वक्त्रं यस्य। रत्नैर्मणिविशेषै-
रुज्ज्वलो दीप्यमानः प्रभामण्डलः कान्तिसमूहो यस्य। एवंविधोऽर्क आदित्यः कर्तुः शुभकरः
श्रेयःप्रदः ।।४६-४८।।
अथार्कमुद्दिश्य सर्वप्रतिमानां शुभाशुभमाह—
सौम्या तु हस्तमात्रा वसुदा हस्तद्वयोच्छ्रिता प्रतिमा ।
क्षेमसुभिक्षाय भवेत् त्रिचतुर्हस्तप्रमाणा या ।।४९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१५२ बृहत्संहिता
नृपभयमव्यङ्गायां हीनाङ्गायामकल्यता कर्तुः ।
शातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ॥५०॥
मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत् कर्तुः ।
वामावनता पत्नीं दक्षिणविनता हिनस्त्यायुः ॥५१॥
अन्धत्वमूर्ध्वदृष्ट्या करोति चिन्तामधोमुखी दृष्टिः ।
सर्वप्रतिमास्वेयं शुभाशुभं भास्करोक्तसमम् ॥५२॥
एक हाथ ऊँची सूर्य की प्रतिमा शुभ, दो हाथ ऊँची धन देने वाली तथा तीन हाथ
ऊँची प्रतिमा क्षेम और सुभिक्ष के लिये होती है। अधिक अंग वाली प्रतिमा राजा से
भय, हीनांग प्रतिमा बनाने वाले को रोगी, कृश उदर वाली प्रतिमा क्षुधा का भय और
कृश अंग वाली प्रतिमा धन का नाश करती है। क्षत प्रतिमा बनाने वाले की शस्त्र से
मृत्यु, बायीं ओर झुकी हुई प्रतिमा बनाने वाले की पत्नी का नाश और दाहिनी तरफ
झुकी हुई प्रतिमा आयु का नाश करती है। प्रतिमा की दृष्टि ऊपर की तरफ हो तो बनाने
वाले को अन्धा और नीचे की तरफ हो तो बनाने वाले को चिन्तित करती है। सूर्य की
प्रतिमा के सम्बन्ध में उक्त शुभाशुभ फल ही अन्य प्रतिमाओं के सम्बन्ध में भी जानना
चाहिये।।४९-५२।।
सौम्या तु हस्तमात्रेति । हस्तमात्रा हस्तप्रमाणा दीर्घा प्रतिमा सौम्या शुभावहा भवति।
हस्तद्वयोच्छ्रिता वसुदा धनप्रदा भवति। या त्रिचतुर्हस्तप्रमाणा सा यथासङ्ख्यं क्षेमसुभिक्षाय
भवेत्। त्रिहस्ता क्षेमाय चतुर्हस्ता सुभिक्षाय भवेत् स्यात्।
नृपभयमिति । अत्यङ्गायामिति । स्थूलावयवायां नृपभयं राजभयं भवति। हीनाङ्गायां
प्रमाणहीनावयवायां कर्तुरकल्यता अनारोग्यम्। शातोदर्यां तनूदरायां क्षुद्भयं भवति। कृशा-
ङ्गायां दुर्बलावयवायामर्थविनाशो वित्तक्षयः।
सक्षतायां क्षतसंयुक्तायां प्रतिमायां कर्तुः शस्त्रनिपातेन मरणं निर्दिशेद्वदेत्। वामे
वामभागे अवनता प्रतिमा कर्तुः पत्नीं भार्यां हिनस्ति मारयति, दक्षिणे विनता आयुर्जीवितं
हिनस्ति मारयति। आयुषः क्षयं करोति। अन्धत्वमूर्ध्वदृष्ट्या प्रतिमा नेत्रनाशं करोति। अधो-
मुखी दृष्टिश्चिन्तां शोकं करोति। एवं भास्करोक्तसमं सूर्यकथिततुल्यं शुभाशुभं सर्वासु
प्रतिमास्वन्यासु ज्ञेयं ज्ञातव्यम्।।४९-५२।।
अधुना लिङ्गस्य लक्षणमाह—
लिङ्गस्य वृत्तपरिधिं दैर्घ्येणासूत्र्य तत्रिधा विभजेत् ।
मूले तच्चतुरस्रं मध्ये त्वष्टाश्रिं वृत्तमत्तः ॥५३॥
चतुरस्रमवनिखाते मध्यं कार्यं तु पिण्डिकाश्वभ्रे ।
दृश्योच्छ्रायेण समा समन्ततः पिण्डिका श्वभ्रात् ॥५४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमालक्षणाध्यायः १५३
लिङ्ग की परिधि को लम्बाई में सूत्र से नाप कर उसके तुल्य पत्थर, लकड़ी या
मणि का लिङ्ग बनाना चाहिये। उसको तीन भाग करके मूल का प्रथम भाग चतुरस्र,
मध्य भाग अष्टास्र और ऊपर का भाग गोल बनाना चाहिये। प्रतिमा के चतुरस्र भाग को
भूमि में गाड़ना चाहिये, अष्टास्र भाग को पिण्डिका ( जलहरी = जलधरी ) के गड्ढे में
रखना चाहिये और वर्तुल भाग को ऊपर रखना चाहिये। ऊपर के दृश्य वर्तुल भाग की
ऊँचाई के तुल्य ही गड्ढे के चारो और पीठिका बनानी चाहिये।।५३-५४।।
लिङ्गस्य वृत्तभागे यः परिणाहस्तं सूत्रेण परिच्छिद्य तत् सूत्रं दैर्घ्येण दीर्घत्वेन आसूत्र्य
मित्वा तत्प्रमाणं पाषाणं काष्ठं मणिं वा कृत्वा त्रिधा विभजेत्, भागत्रयं कुर्यात्। ततो
लिङ्गस्य मूले योऽसौ त्रिभागस्तं चतुरस्रं कार्यम्। मध्ये यस्तमष्टाश्रिं कुर्यात्। अतः परं
यस्तृतीयभागस्तं वृत्तं परिवर्तुलं कुर्यात्।
तत्र चतुरस्रं यद्भागं तदवनिखाते भूखाते कार्यं क्षेप्यम्। मध्यं यदष्टाश्रि तत्
पिण्डिकाश्वभ्रे पीठगर्ते क्षिपेत्। श्वभ्रात् पीठविवरात् समन्ततः सर्वासु दिक्षु पीठिका दृश्यो-
च्छ्रायेण समा कार्या। दृश्यभागस्य परिवर्तुलस्य लभ्यो य उच्च्रायस्तत्समः। एतदुक्तं
भवति—यावत्प्रमाणं वृत्तभागस्य दैर्घ्यं तावत्प्रमाणं समन्ततः पीठिकापृथुत्वं कार्य-
मिति।।५३-५४।।
अन्यद्विशेषलक्षणमाह—
कृशदीर्घं देशघ्नं पार्श्वविहीनं पुरस्य नाशाय।
यस्य क्षतं भवेद् मस्तके विनाशाय तल्लिङ्गम् ॥५५॥
यदि शिवलिङ्ग पतला या लम्बा हो तो देश का नाश, दोनों तरफ से खण्डित हो तो
नगर का नाश और क्षत मस्तक वाला हो तो स्वामी का नाश करता है।।५५।।
यल्लिङ्गं कृशं दुर्बलं दीर्घमभ्युच्छ्रितं तद्देशघ्नं देशं हन्ति। यत् पार्श्वभ्यां विहीनं
तत् पुरस्य नगरस्य नाशाय भवति। यस्य मस्तके मूर्धनि क्षतं छिद्रं भवेत् स्यात् तल्लिङ्गं
विनाशाय भर्तुरिव भवति।।५५।।
अथ मातृगण एवं तस्य लक्षणमाह—
मातृगणः कर्तव्यः स्वनामदेवानुरूपकृतचिह्नः।
रेवन्तोऽश्वारूढो मृगयाक्रीडादिपरिवारः ॥५६॥
मातृगणों की प्रतिमा अपने नाम में जो देवता हों, उनके सदृश बनानी चाहिये। जैसे
ब्रह्मा के तुल्य ब्राह्मी की, इन्द्र के तुल्य इन्द्राणी की, शिव के तुल्य शिवा की इत्यादि;
परन्तु इन प्रतिमाओं में स्तन-शोभा, मध्य में कृश और पृथु नितम्ब भी बना देना चाहिये,
जिससे कि स्त्री की शोभा प्रतिमा में अवतरित हो जाय। घोड़े पर सवार और मृगयारूप
क्रीडा में संलग्न परिवार वाली प्रतिमा रेवन्त (सूर्य के पुत्र) की बनानी चाहिये।।५६।।
मातृगणो मातृसमूहः स्वनामदेवानुरूपकृतचिह्नः कर्तव्यः। स्वनामा यो देवस्तदनुरूपं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१५४ बृहत्संहिता
तादृक् कृतं चिह्नं लक्षणं यस्य। यथा ब्रह्मणो यल्लिङ्गम् 'ब्रह्माकमण्डलुकरश्चतुर्मुखः
पङ्कजासनस्थश्च' इति ब्राह्मी कार्या। 'कार्योऽष्टभुजो भगवान्' इति वैष्णवी। 'शम्भोः
शिरसीन्दुकला' इति रौद्र्यः कार्याः। 'स्कन्दः कुमाररूपः' इति कौमार्यः। 'शुक्लश्चतुर्विषाणो
द्विपो महेन्द्रस्य वज्रपाणित्वम्' इत्यैन्द्र्यः। 'दण्डी यमो महिषगः' इति याम्यः। 'हंसारूढः
पाशभृद्वरुणः' इति वारुण्यः। 'नरवाहनः कुबेरः' इति कौबेर्यः। एवमन्यासां नारसिंहिवाराहिवै-
नायकीनामप्यूह्यम्; किन्तु तासां स्तनशोभा मध्यक्षामता नितम्बवैपुल्यं कार्यम्, येन
प्रकारेण स्त्रीरूपस्य शोभा जायत इति। रेवन्तोऽर्कतनयोऽश्वारूढः कार्यः। अश्वस्तुरगः
तत्रारूढस्तदुपरि स्थित इत्यर्थः। तथा मृगया मृगवधस्तत्क्रीडादिपरिवार इति। यः परिवारः
स मृगयायुक्तः क्रीडायुक्तः। आदिग्रहणादश्ववाहने तत्परीक्षणं तदन्वेषणादि।।५६।।
अथ यमवरुणकुबेरलक्षणमाह—
दण्डी यमो महिषगो हंसारूढश्च पाशभृद्वरुणः।
नरवाहनः कुबेरो वामकिरीटी बृहत्कुक्षिः ।।५७।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रतिमालक्षणं
नामाष्टपञ्चाशत्तमोऽध्यायः ।।५८।।
यम की प्रतिमा को हाथ में दण्ड देकर भैंस पर चढ़ाना चाहिये। वरुण की प्रतिमा
को हंस पर चढ़ा कर हाथ में पाश धारण कराना चाहिये। कुबेर की प्रतिमा मनुष्य पर
चढ़ी हुई, बायीं ओर झुकी हुई किरीट वाली और बड़े उदर वाली बनानी चाहिये।।५७।।
यमः प्रेतपतिर्दण्डी दण्डहस्तो महिषारूढश्च कार्यः। वरुणोऽपाम्पतिः, हंसारूढः
हंसः पक्षी तस्मिन्नारूढस्तस्योपरि स्थितः, पाशभृत् पाशहस्तः कार्यः। कुबेरो वैश्रवणो
नरवाहनो मनुष्यारूढः। खरवाहन इति केचित् पठन्ति। वामकिरीटी वामभागे किरीटी
मुकुटं यस्य। बृहत्कुक्षिर्विस्तीर्णकुक्षिः कार्यः। अत्र प्रतिमालक्षणं देवानां देवतानां यल्लक्षण-
माचार्येणोक्तं तेषां लोकप्रसिद्धा यथा यथा शरीरशोभा भवति, तथा तथोक्तवत्प्रतिमा कार्या
लक्षणज्ञैः, स्वैरङ्गुलप्रमाणैरित्यादि यदुक्तं तत्सर्वं कार्यमिति। तथा च काश्यपः—
एकदंष्ट्रो गजमुखश्चतुर्बाहुर्विनायकः।
लम्बोदरः स्थूलदेहो नेत्रत्रयविभूषितः।।
नवकुवलयकान्तिमक्षमालां कमलकमण्डलुदर्पणाक्षहस्ताम्।
प्रणमतवरपीनपीठपद्मासनसुखितां परमेश्वरीं वितस्ताम्।।
ब्रह्मा चतुर्मुखो दण्डी कृष्णाजिनकमण्डली।
विष्णुश्चतुर्भुजः शार्ङ्गी शङ्खचक्रगदाधरः।
श्रीवत्साङ्कः पीतवासा वनमालाविभूषितः।।
नरसिंहः स्थूलदेहो रोमावर्तविभूषितः।
उद्घाटितमुखः स्रग्वी वह्निकान्तिर्बृहद्भुजः।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
प्रतिमालक्षणाध्यायः १५५
वराहः सूकरमुखश्चतुर्बाहुर्विभूषितः ।
नीलाञ्जनचयप्रख्यो ध्यानशक्तः सुलोचनः ।।
ईश्वरो जटिलस्त्र्यक्षो वृषचन्द्राङ्कभूषितः ।
उरगेन्द्रोपवीती च कृत्तिवासाः पिनाकधृक् ।।
चण्डिकाष्टदशभुजा सर्वप्रहरणान्विता ।
त्र्यक्षा सिंहरथा धन्या महिषासुरसूदिनी ।।
मयूरवाहनः स्कन्दः शक्तिकुक्कुटधारकः ।
सुरूपदेहो विक्रान्तो देवः सेनापतिः शिशुः ।।
आदित्यस्तरुणः स्रग्वी कवची खड्गधृक् तथा ।
तेजस्वी पङ्कजकरः षड्वर्गश्च किरीटवान् ।।
ऐरावतश्चतुर्दन्तः श्वेतगात्रो महागज़ः ।
तदारूढो महेन्द्रस्तु वज्रहस्तो महाबलः ।।
तिर्यग्ललाटगं नेत्रं तृतीयं तस्य कारयेत् ।
नीललोहितवर्णा च शची तस्य समीपगा ।।
एवं देवगणाः सर्वे स्वायुधाभरणोज्ज्वलाः ।
कर्तव्याः स्वस्वरूपाश्च सम्पूर्णाः शुभलक्षणाः ।।
हस्तमात्रा भवेत् सौम्या द्विहस्तानान्नधनप्रदा ।
सुभिक्षक्षेमदा पुण्या त्रिहस्ता तु चतुष्करा ।।
वैकल्यं कुरुते हीना कृशाङ्गी देहनाशिनी ।
मरणं सक्षतायां तु सुदीर्घा वित्तनाशिनी ।।
वामे नता हन्ति पत्नीं कर्तुर्दक्षिणभागगा ।
ऊर्ध्वदृष्टिर्नेत्ररोगं गोकर्णा स्यादधोमुखी ।।
सुरूपा सुप्रभागैव सर्वाभरणभूषिता ।
स्वायुधैश्च समायुक्ता कर्तव्या प्रतिमा शुभा ।। इति ।। ५७ ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ प्रतिमालक्षणं
नामाष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।
( प्रमथाधिपो गजमुखः प्रलम्बजठरः कुठारघाती स्यात् ।
एकविषाणो बिभ्रन्मूलककन्दं सुनीलदलकन्दम् ।।
हाथी के समान मुख वाली, लम्बे उदर वाली, कुठारधारिणी, एक दाँत वाली और
मूलककन्द तथा सुनीलदलकन्द धारण की हुई गणेश की प्रतिमा बनावे । )
इति 'विमला' हिन्दीटीकायां प्रतिमालक्षणाध्यायोऽष्टपञ्चाशत्तमः ॥ ५८ ॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ वनसम्प्रवेशाध्यायः
अथ वनसम्प्रवेशाध्यायो व्याख्यायते। तत्रादावेव विधानमाह—
कर्तुरनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्ते।
मङ्गलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ॥१॥
प्रतिमा बनाने वाले को चाहिये कि अनुकूल दिन में, दैवज्ञ के द्वारा विशोधित मुहूर्त
में, यात्रा प्रकरण में विहित शुभ शकुन को देख कर प्रतिमा बनाने हेतु लकड़ी लाने के
लिये वन में प्रवेश करे ॥१॥
कर्तुः प्रतिमाकर्तुः। अनुकूलदिवसे उपचयकर्तृग्रहस्य दिने निरुपहते नक्षत्रे च। दैवज्ञ-
विशोधिते शुभनिमित्ते, दैवज्ञेन कालविदा यच्च विशोधितं दत्तं शुभनिमित्तं शकुनं सुमुहूर्ता-
दिकं च तस्मिन्। प्रास्थानिकैर्मङ्गलशकुनैः, प्रस्थाने भवाः प्रास्थानिकाः प्रस्थाने यात्रायां यानि
मङ्गलशकुनानि उक्तानि तैः। सिद्धार्थकादर्शपयोऽञ्नानीत्यादिकानि मङ्गलानि। श्रेष्ठे हयसिते
प्राच्यामित्यादिकाः शकुनाः। एतैः प्रास्थानिकैर्मङ्गलशकुनैर्वनसम्प्रवेशः स्याद् भवेत्। वने
वृक्षबहुले देशे प्रवेशः प्रतिमाकाष्ठार्थं कार्य इति॥१॥
अत्र च वर्जनीयान् वृक्षानाह—
पितृवनमार्गसुरालयवल्मीकोद्यानतापसाश्रमजाः ।
चैत्यसरित्सङ्गमसम्भवाश्च घटतोयसिक्ताश्च ॥२॥
कुब्जानुजातवल्लीनिपीडिता वज्रमारुतोपहताः ।
स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ॥३॥
तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः ।
अभिमतवृक्षं गत्वा कुर्यात् पूजां सबलिपुष्पाम् ॥४॥
श्मशान के मार्ग, देवालय, वल्मीक, उपवन और तपस्वियों के आश्रम में उत्पन्न,
चैत्य (प्रधान), नदियों के संगम-स्थान में उत्पन्न, घड़ों के जल से सिञ्चित, कुबड़े
अन्य वृक्षों के संयोग से पीड़ित, लताओं से पीड़ित, बिजली से भग्न, वायु से भग्न,
हाथियों से भग्न, सूखे, अग्नि से दग्ध और मधुमक्खियों के छत्ते वाले वृक्षों का
(प्रतिमा-निर्माण हेतु लकड़ी के इच्छुक व्यक्ति द्वारा) त्याग कर देना चाहिये। स्निग्ध
पत्ते, फूल और फल वाले वृक्ष शुभ होते हैं। इस प्रकार अभीष्ट वृक्ष के पास जाकर
बलि और पुष्पों के द्वारा सर्वप्रथम उस वृक्ष की पूजा करनी चाहिये॥२-४॥
एवंविधास्तरवो वृक्षा वर्जयितव्याः। कीदृशाः ? पितृवनं श्मशानम्, मार्गः पन्थाः,
सुरालयं देवगृहम्, वल्मीको वल्मीककृतो मृत्स्तूपः, उद्यानमुपवनम्, तापसाश्रमस्तपोवनम्,
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
वनसम्प्रवेशाध्यायः १५७
एतेषु ये जाता उत्पन्ना वृक्षाः, तथा चैत्यः प्रधानवृक्षः, सरितो नद्यस्तासां सङ्गमो मेलक-
स्तत्र येषां वृक्षाणां सम्भव उत्पत्तिः, तथा घटतोयेन कलशजलेन सिक्ताः सेचिता ये
वृक्षाः, तेषां स्वयं रोपितत्वाच्छेदाईत्वात्।
कुब्जोऽस्पष्टः, अनुजातो वृक्षस्य अनु पश्चादन्यो यो वृक्षो जात उत्पन्नस्तेन योगेन
पीडितः। ये च वृक्षा वल्लीभिर्निपीडिताः, वज्रमशनिर्मारुतो वायुस्ताभ्यां ये चोपहता भग्नाः,
यश्च स्वपतितः स्वयमेव पतितः, हस्तिना गजेन निपीडितो यो भग्नः, शुष्को विगतरसः,
अग्निप्लुष्टोऽग्निना दग्धः, मधुनिलयो मधुमक्षिकाणामाश्रयः।
एवमेते यथोक्तास्तरवो वर्ज्याः। अन्ये परिशिष्टा वृक्षाः शुभदाः। ते च स्निग्धपत्राः स्निग्ध-
कुसुमाः सस्नेहपुष्पाः स्निग्धफलाश्च शुभदा एव। ततोऽभिमतमभीष्टं वृक्षं तरुं गत्वा आसाद्य
तस्य सबलिपुष्पां बलिभिरुपहारैः पुष्पैः कुसुमैः सहितां पूजामर्चां कुर्यात्।।२-४।।
अथ वर्णानुक्रमेण वृक्षानाह—
सुरदारुचन्दनशमीमधूकतरवः शुभा द्विजातीनाम्।
क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः ॥५॥
वैश्यानां जीवकखदिरसिन्धुकस्यन्दनाश्च शुभफलदाः।
तिन्दुककेसरसर्जार्जुनाम्रशालाश्च शूद्राणाम् ॥६॥
देवदारू, चन्दन, शमी और महुआ के वृक्ष ब्राह्मणों के लिये; निम्ब, पीपल, खैर
और बेल के वृक्ष क्षत्रियों के लिये; जीवक, खैर, सिन्धुक और स्यन्दन के वृक्ष वैश्यों
के लिये तथा तेन्दू, नागकेसर, सर्ज, अर्जुन और साल के वृक्ष शूद्रों के लिये शुभदायक
कहे गये हैं।।५-६।।
सुरदारुर्देवदारुः। चन्दनं मलयजम्। शमी प्रसिद्धा। मधूको वृक्षः प्रसिद्धः। एते तरवो
वृक्षाः प्रतिमार्थं देवविग्रहार्थं च द्विजातीनां ब्राह्मणानां शुभदाः। अरिष्टः, अश्वत्थः, खदिरो
बिल्वश्चैते सर्व एव वृक्षविशेषाः क्षत्रस्य क्षत्रियजातेर्विवृद्धिकराः।
जीवकः, खदिरः, सिन्धुकः, स्यन्दनः—एते वृक्षविशेषा वैश्यानां शुभफलदाः।
तिन्दुकः, केसरः, सर्जः, अर्जुनः, आम्रः, शालः—एते वृक्षाः शूद्राणां शुभदाः। तथा च
काश्यपः—
सुरदारुः शमीवृक्षो मधूकश्चन्दनस्तथा।
प्रतिष्ठार्थं ब्राह्मणानामेते प्रोक्ताः शुभावहाः।।
अरिष्टाश्वत्थखदिरबिल्वाः क्षत्रियजातिषु।
जीवकः खदिरश्चैव सिन्धुकः स्यन्दनस्तथा।।
वैश्यानां शुभदाः प्रोक्तास्तिन्दुकः केसरस्तथा।
सर्जार्जुनाम्रशालाश्च शूद्राणां शुभदाः स्मृताः।। इति।।५-६।।
१५८ बृहत्संहिता
अत्रैव विशेषमाह—
लिङ्गं वा प्रतिमा वा द्रुमवत् स्थाप्या यथा दिशं यस्मात् ।
तस्माच्चिह्नयितव्या दिशो द्रुमस्योर्ध्वमथवाधः ॥७॥
वृक्ष की दिशाओं की तरह शिवलिङ्ग या प्रतिमा को स्थापित करना चाहिये तथा
वृक्ष के ऊर्ध्व भाग से प्रतिमा का ऊर्ध्व भाग और वृक्ष के अधोभाग से प्रतिमा का
अधोभाग बनाना चाहिये। अतः अभीष्ट वृक्ष को काटने से पहले ही उसमें सभी दिशाओं
का चिह्न लगा देना चाहिये ॥७॥
लिङ्गं शिवलिङ्गं वा प्रतिमार्चा वा यस्माद् द्रुमवद्वृक्षवद्यथा दिशं स्थाप्याः। अयमर्थः—
द्रुमस्य यः पूर्वाभिमुखो भागः स एव प्रतिमायाः पूर्वभागः कार्यः। एवं दक्षिणो दक्षिणः,
पश्चिमः पश्चिमः, उत्तरभाग उत्तरभाग एव कार्यः। वृक्षस्य योऽधो भागः स एव प्रतिमाया
अधोभागः कार्यः, वृक्षस्य य ऊर्ध्वभागः सोऽपि प्रतिमाया ऊर्ध्वभागः कार्यः। तस्माद्धेतोर्द्रुमस्य
वृक्षस्य दिश आशाश्चिह्नयितव्याः। एवमूर्ध्वाधरौ भागावाप चिह्नयितव्यौ। तथा च काश्यपः—
वृक्षवत् प्रतिमा कार्या प्राग्भागाद्युपलक्षिता।
पादाः पादेषु कर्तव्याः शीर्षमूर्ध्वे तु कारयेत्।। इति।।७।।
अथ वृक्षच्छेदनविधानमाह—
परमान्नमोदकौदनदधिपललोल्लोपिकादिभिर्भक्ष्यैः ।
मद्यैः कुसुमैर्धूपैर्गन्धैश्च तरुं समभ्यर्च्य ॥८॥
सुरपितृपिशाचराक्षसभुजगासुरगणविनायकाद्यानाम् ।
कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात् ॥९॥
खीर, लड्डु, भात, दही, मांस, उल्लोपिका ( एक प्रकार की भोज्य वस्तु ) आदि
भक्ष्य वस्तुयें, पुष्प और सुगन्ध द्रव्यों से वृक्ष की पूजा करने के उपरान्त रात्रि में देवता,
पितर, पिशाच, राक्षस, नाग, सुरगण, गणेश आदि ( भूत, प्रेत, सिद्ध, विद्याधर और
गन्धर्व ) की पूजा करने के पश्चात् वृक्ष को स्पर्श करके वक्ष्यमाण मन्त्र का पाठ करना
चाहिये।।८-९।।
परमान्नं पायसम्, मोदका लड्डुकाः, ओदनं भक्तम्, दधि क्षीरविकारः, पललमर्ध-
निष्पीडितास्तिलाः, उल्लोपिकाः प्रसिद्धाः। आदिग्रहणाद् बहुभिर्भक्ष्यप्रकारैरपूपप्रभृतिभि-
र्लेह्यपेयचोष्यैः मद्यैः, कुसुमैः पुष्पैः, धूपैर्गन्धैः सुगन्धद्रव्यैश्च तरुं वृक्षं समभ्यर्च्य सम्पूज्य।
सुरा देवाः, पितरो देवयोनयः, पिशाचा देवयोनय एव, राक्षसा नक्तञ्चराः पिशिताशिनः,
भुजगाः पन्नगाः, असुरा दैत्याः, गणाः प्रमथाः, विनायका विघ्नाः, आदिग्रहणाद् भूतप्रेत-
सिद्धविद्याधरगन्धर्वाः। एतेषां रात्रौ निशि पूजामर्चां कृत्वा विधाय वृक्षं तरुं पाणिना संस्पृश्य
च इमं मन्त्रं ब्रूयाद् वदेत्।।८-९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
वनसम्प्रवेशाध्यायः १५९
किं तदित्याह—
अर्चार्थममुकस्य त्वं देवस्य परिकल्पितः।
नमस्ते वृक्ष पूजेयं विधिवत् सम्प्रगृह्यताम् ॥१०॥
यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत् प्रयुक्तम्।
अन्यत्र वासं परिकल्पयन्तु क्षमन्तु तान्यद्य नमोऽस्तु तेभ्यः ॥११॥
हे वृक्ष! अमुक देवता की पूजा के लिये कल्पित किये हुये आपको मैं नमस्कार
करता हूँ, मेरे द्वारा की गई विधिपूर्वक इस पूजा को आप ग्रहण करें तथा इस वृक्ष पर
जो प्राणी निवास करते हैं, वे सब विधिपूर्वक इस पूजा को ग्रहण करके कहीं अन्यत्र
अपना निवासस्थान कल्पित करें, आज वे सब मुझे क्षमा करें, उनको मैं नमस्कार करता
हूँ॥१०-११॥
हे वृक्ष! अमुकस्य अमुकनाम्नो देवस्य सुरस्यार्चार्थं पूजार्थं परिकल्पितो व्यवस्थापितः,
नमस्ते तव नमस्कारं भवतु। इयं पूजा मयोपनीता विधिवद्विधानेन सम्प्रगृह्यताम्।
इहास्मिन् वृक्षे यानि भूतानि वसन्ति व्यवस्थितानि तान्यमुं बलिमुपहारं विधिवद्विधानेन
प्रयुक्तमुपनीतं गृहीत्वा सङ्गृह्य अन्यत्रान्यस्मिन् वृक्षे वासं गृहं परिकल्पयन्तु व्यवस्थापयन्तु।
तानि भूतान्यद्य क्षमन्तु क्षांतिं कुर्वन्तु। तेभ्यो भूतेभ्यो नमोऽस्तु नमस्कारो भवतु।
ततः किं कुर्यादित्याह—
वृक्षं प्रभाते सलिलेन सिक्त्वा पूर्वोत्तरस्यां दिशि सन्निकृत्य।
मध्वाज्यदिग्धेन कुठारकेण प्रदक्षिणं शेषमतो निहन्यात् ॥१२॥
इसके पश्चात् प्रातःकाल जल से वृक्ष को सींच कर शहद और घृत से चुपड़े हुए
कुठार से पहले ईशान कोण में काट कर शेष को प्रदक्षिण क्रम से काटे॥१२॥
प्रभाते प्रभातकाले वृक्षं तरुं सलिलेनोदकेन सिक्त्वा संसिञ्च्य कुठारकेण परशुना
मध्वाज्यदिग्धेन मधुना माक्षिकेणाज्येन घृतेन दिग्धेनोपलिप्तेन प्रथमं पूर्वोत्तरस्यामैशान्यां
सन्निकृत्य छित्त्वा ततः शेषं प्रदक्षिणेन पूर्वाग्नेययाम्यनैर्ऋतपश्चिमवायव्योत्तरासु दिक्षु निहन्यात्
छिन्द्यात्॥१२॥
अथ पतितस्य तरोर्लक्षणमाह—
पूर्वेण पूर्वोत्तरतोऽथवोदक् पतेयदा वृद्धिकरस्तदा स्यात्।
आग्नेयकोणात् क्रमशोऽग्निदाहरुग्रागरोगास्तुरगक्षयश्च ॥१३॥
यदि कटा हुआ वृक्ष पूरब, ईशान कोण या उत्तर दिशा में गिरे तो वृद्धि करने वाला
होता है। अग्निकोण आदि पाँच दिशाओं में कटे हुये वृक्ष के गिरने से क्रमशः अग्निदाह,
रोग, रोग, रोग और घोड़े का नाश होता है अर्थात् अग्निकोण में अग्निदाह, दक्षिण में
रोग, नैर्ऋत्य कोण में रोग, पश्चिम में रोग और वायव्य कोण में यदि वृक्ष गिरता है तो
घोड़े का नाश होता है॥१३॥
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
१६० बृहत्संहिता
पूर्वेण पूर्वस्यां दिशि, अथवा पूर्वोत्तरत ऐशान्याम्, उदगुत्तरस्यां दिशि, यदा पतेत्,
तदा वृद्धिकरः स्याद् भवेत्। आग्नेयकोणात् प्रभृति क्रमेण यदा पतति, तदैतानि गर्गेण
फलानि उक्तानि। तद्यथा—आग्नेयकोणे यदि पतति, तदा अग्निदाहो भवति, दक्षिणे रुजो
रोगा भवन्ति, नैर्ऋते रोगा भवन्ति, पश्चिमायां रोगा एव, वायव्ये तुरगक्षयोऽश्वविनाशः ।।१३।।
अत्र यन्नोक्तं तदत्रोह्यमित्याह—
यन्नोक्तमस्मिन् वनसम्प्रवेशे निपातविच्छेदनवृक्षगर्भाः ।
इन्द्रध्वजे वास्तुनि च प्रदिष्टाः पूर्वं मया तेऽत्र तथैव योज्याः ।।१४।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वनसम्प्रवेशो
नामैकोनषष्टितमोऽध्यायः ।।५९।।
इस वनसम्प्रवेश नामक अध्याय में वृक्ष के निपात, विच्छेदन, वृक्षगर्भ आदि जो
मैंने नहीं कहे हैं, उनको पूर्वकथित इन्द्रध्वजाध्याय और वास्तुविद्याध्याय में कथित रीति
की तरह समझना चाहिये ।।१४।।
इति 'विमला' हिन्दीटीकायां वनसम्प्रवेशाध्याय एकोनषष्टितमः ।।५९।।
अस्मिन्निह वनसम्प्रवेशे यन्नोक्तं यन्न कथितम्। किं तत्? निपातविच्छेदनवृक्षगर्भाः,
निपातः पतनं वृक्षस्य। यथा—
नृपजयदमविध्वस्तं पतनमनाकुञ्चितं च पूर्वोदक्।
अविलग्नं चान्यतरौ विपरीतमतस्त्यजेत् पतितम् ।।
विच्छेदनं यथा—
परशोर्जर्जरशब्दो नेष्टः स्निग्धो घनश्च हितः। इति।
तथा वृक्षगर्भः—'पीते तु मण्डले निर्दिशेत्तरोर्मध्यगां गोधाम्' इत्यादि। एते निपात-
विच्छेदनवृक्षगर्भाः। ते मया पूर्वमादाविन्द्रध्वजे वास्तुनि च ये वास्तुविद्यायां प्रदिष्टा उक्तास्ते
चात्रास्मिन् वनसम्प्रवेशे तथैव तेनैव प्रकारेण योज्या योजनीया इति ।।१४।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ वनसम्प्रवेशो
नामैकोनषष्टितमोऽध्यायः ।।५९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA