सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

वास्तुविद्याध्यायः ६३
कार्यः। एतदुक्तं भवति—यथा छत्रस्रगम्बरयुतः कृतधूपविलेपनस्तम्भ उत्थाप्यस्तथा द्वार-
मप्युत्थापनीयमिति। तथा च गर्गः—
शिलाविन्यासकाले तु सम्भारांश्चोपकल्पयेत्।
समुद्रजानि रत्नानि सुवर्णं रजतं तथा।।
सर्वबीजानि गन्धांश्च शरान् दर्भांस्तथैव च।
शुक्लान् सुमनसः सर्पिः केतकीं मधुरोचनाम्।।
आमिषं च तथा मद्यं फलानि विविधानि च।
क्षीरोदनं पूर्णकुम्भान् कोणे कोणे प्रदापयेत्।।
नानाविधानि भक्ष्याणि पानानि विविधानि च।
हुत्वाऽग्निं विधिवत् काले मुहूर्ते चोपपादिते।।
गृहकोणेषु सर्वेषु पूजां कृत्वा विधानतः।
ततः पुण्याहघोषेण शिलान्यासं प्रकल्पयेत्।।
ऐशानमादितः कृत्वा प्राग्दाक्षिण्येन विन्यसेत्।
अनेनैव विधानेन स्तम्भद्वारावरोहणम्।।
वास्तुविद्याविधानज्ञः कारयेत् सुसमाहितः।
शिलान्यासमन्त्रोऽयं निर्दिष्टो मुनिभिः पुरा।।
नन्दे नन्दाय वासिष्ठे वसुभिश्च हितप्रजे।
सुचिरे नन्ददे नन्दे वासिष्ठे रम्यतां गृहे।।
भद्रे काश्यपदायादे पूजनं भद्रमावह।
सुभगे सुव्रते देवि गृहे काश्यपि रम्यताम्।।
जये भार्गवदायादे प्रजानां भद्रमावह।
भव भूतिकरी देवि गृहे भार्गवि रम्यताम्।।
सर्वबीजसमायुक्ते सर्वगन्धौषधैर्वृते।
प्रजापतिसुते देवि सुखदाऽस्तु महीसुते।।
पूर्णेऽङ्गिरसदायादे पूर्णकामाः प्रजाः कुरु।
पूजिते परमाचार्ये गन्धमाल्यैरलंकृते।।
अव्यङ्गे चाक्षते पूर्णे मुनेरङ्गिरसः सुते।
इष्टके त्वं प्रयच्छेष्टं प्रतिष्ठां गृहिणः कुरु।।
ग्रामस्वामिपुरस्वामिगृहस्वामिपरिग्रहे ।
मनुष्यपशुभृत्यश्वधनवृद्धिकरी भव।। इति।
अत्रास्माभिः क्रमेण शङ्कुप्रतिष्ठालक्षणं प्रसङ्गेन लिख्यतेऽन्यशास्त्रात्। तत्र शङ्कु-
लक्षणम्—
स्निग्धादिभूभागसमुत्थितानां न्यग्रोधबिल्वद्रुमखादिराणाम्।
शमीवटोडुम्बरदेवदारुक्षीरिस्वदेशोत्थफलद्रुमाणाम् ।।

६४ बृहत्संहिता
उपोषितः शिल्पिजनस्त्वथैशां मध्यात्तु तीक्ष्णेन कुठारकेण।
भित्त्वा ततो दिक्पतिनोत्तरस्यां शुभे च लग्ने परिगृह्य शङ्कुम् ।।
करप्रमाणं परतश्चतस्रस्तदर्धमानेन ततोऽनुगृह्य।
नीत्वा न्यसेत्तांश्च गृहे तु तावद्यावत् प्रतिष्ठासमयोऽस्य शङ्कोः ।।
नन्देति सूक्तिः कथितैशकोणे हुताशनाख्ये सुभगेति चान्या ।
सुमङ्गली नैर्ऋतभागसंस्था भद्रङ्करी मारुतकोणयाता ।।
वृषाश्वपुत्रागपदाङ्कितानां नन्दादिकानां क्रमशः शिलानाम् ।
अखण्डितानां सुदृढीकृतानां सुलक्षणानां ग्रहणं निरुक्तम् ।।
कूर्मोऽथ शेषो हि जनार्दनः श्रीध्रुवश्च मध्ये भवनस्य संस्था।
द्वाराधिपा दिक्पतयो गजाश्च सम्पूजनीया बलिभिः सुमन्त्रैः ।।
स्नानार्घ्यमाल्याम्बरधूपलेपैर्बल्यौपहारैः प्रतिपूज्य शङ्कुम्।
ध्रुवे शिलायाश्च ततः खनित्वा शङ्कुं प्रतिष्ठाप्य तथा च कुम्भम् ।।
लाजाक्षतव्रीहिसपञ्चगव्यमध्वाज्ययातं परिपूर्य सम्यक्।
ऋग्भिस्तथैशां विधिवत् प्रकुर्याद्धोमो ध्रुवादुत्तरतस्तु कार्यः ।।
अथ लग्नशुद्धिः—
धनुर्व्वणिग्गोयुगनारिकुम्भे वास्तुप्रतिष्ठाकरणं प्रधानम्।
एतच्चतुर्थं गृहसंज्ञमृक्षं जलोद्भवं तच्छुभमुद्दिशन्ति ।।
असम्भवे शुक्रशशाङ्कयोगाज्जलाशयं प्राहुरतीन्द्रियज्ञाः।
एषां नवांशोऽन्यगृहे शुभर्क्षे कर्तुर्व्ययाष्टत्रिकोणवर्जे ।।
केन्द्रत्रिकोणज्वलनाख्यलाभार्थावस्थितेष्वीज्यसितेन्दुजेषु ।
गृहं समृद्धं सुदृढं जनाढ्यं व्यये तृतीये ज्ञगुरू समृद्धौ ।।
वाच्यं तथा सूर्यकुजार्कजेषु तृतीयषष्ठायगतेषु नित्यम्।
शेषेष्वतोऽन्येषु विशेषतस्तु चौरग्निदाहक्षतरोगजाड्यम् ।।
लग्नात्तृतीयाम्बुषडायगेन्दौ कार्यं गृहं स्त्रीधनधान्यदासैः ।
अभीष्टमन्येषु गतोऽन्यथातो धिष्णं गृहं चात्र गुणातिरिक्तम् ।।
प्रवेश एवं भवनस्य कार्यों विप्रादिकानां यदुदीरितं प्राक्।
किन्त्वत्र गोजाविकवाहनानां विना स्थिरैः स्वाष्टसमैः प्रवेशः ।।
अथ वैदिकमन्त्राः—
ध्रुवे वास्तुनरे चैव द्वाराणां ग्रन्थिषु स्मृतान्।
वैदिकांश्चैव मन्त्रांश्च प्रवक्ष्याम्यनुपूर्वशः।।
कूर्मे मन्त्रमयो यज्ञो वर्धतां बलिकर्मणि।
शेषे नमोऽस्तु सर्पेभ्य इदं विष्णुर्जनार्दने।।
तव श्रियो श्रिये यान्तु ध्रुवाद्यास्तु ध्रुवे स्मृतम्।
सविता श्रियः प्रसविता शङ्कोराहुर्मनीषिणः।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ६५
अथ शङ्कुदेवताः—
ब्रह्मणे ब्रह्मजज्ञानमर्यम्णे यान्तु अर्यमम्।
सविता श्रियः प्र सविता तथैवेति विवस्वतः।।
इन्द्रस्येन्द्रो मयं वाच्यं मित्रे मित्राञ्जनं स्मृतम्।
तथा मृडानो रुद्रोऽथ रुद्रस्य परिकीर्तितम्।।
भूधराय इहैवैधि रम्भराय हयं महत्।
प्रोक्ता वास्तुनरस्यैवं देवताश्च त्रयोदश।।
ये देवा हि चतुर्दिक्षु द्वाराणां मन्त्रसंग्रहे।
नक्षत्राणां पुरा प्रोक्तं सूक्तीनामधुना शृणु।।
यो रुद्रोऽग्नौ तु नन्दिन्यामाहुत्यं शुभगाय च।
सुमङ्गलीः सुमङ्गल्या भद्रङ्कर्णीति भद्रिका।।
एतेषां बलयो वक्ष्ये हविषं पायसं दधि।
मोदकाज्यपयोव्रीहिलाजाक्षतफलानि च।।
ध्रुवादुत्तरतो होममनादेश्यं तु कारयेत्।
तव श्रियादिमन्त्रैस्तु हुनेदाज्यं समाहितः।।
एवं प्रवेशकाले तु स्थालीपाकसमो हि सः।
मन्त्रैर्होमस्तु सूक्तीनां पञ्चरङ्गप्रवाहणः।।
ये देवादिकरण्डाश्च काण्डात्काण्डात्प्ररोहणम्।
ततो युवा सुधामेति वाचनीयः प्रदक्षिणम्।।
पाद्यमर्घ्यादिकं यत्तु शान्तिकल्पेन दर्शितम्।
तदिहापि ग्रहीतव्यं सर्वमेतच्छुतार्थकम्।।
एवं देवालये शान्तौ दीक्षायाज्ञादिसर्वतः।
स्वतन्त्रोक्तेन वक्तव्यं निर्माणस्य प्रवेशनम्।। इति। ११०-१११।।
अथ स्तम्भादीनां प्राणिषूपविष्टेषु तस्मिंश्च कम्पितपतितदुःस्थिते सति फलमाह—
विहगादिभिरवलीनैराकम्पितपतितदुःस्थितैश्च तथा।
शक्रध्वजसदृशफलं तदेव तस्मिन् विनिर्दिष्टम् ।। ११२ ।।
यदि स्तम्भ या द्वार के ऊपर पक्षी बैठे हों, खड़ा करने के समय स्तम्भ में कम्पन
हो, स्तम्भ गिर जाय या ठीक प्रकार से खड़ा ही न हो सके तो पूर्वकथित इन्द्रध्वज के
समान उसका फल समझना चाहिये।।११२।।
विहगाः पक्षिणः। आदिग्रहणात् सरीसृपमधुमक्षिकाप्रभृतयो ग्रहीतव्याः। स्तम्भेषु द्वारेषु
वा विहगादिभिरवलीनैः श्लिष्टैस्तेषु संलग्नैरित्यर्थः। तथा स्तम्भादिभिराकम्पितैश्चलितैः
पतितैर्वा अधोगतैश्च शक्रध्वजसदृशफलम्। शक्रध्वज इन्द्रध्वजे शुभाशुभे यत् फलमुक्तं
तदेव स्तम्भादौ विनिर्दिष्टमुक्तमिति। तथैन्द्रध्वजे—
बृ० भ० द्वि०-५
CC-0. JK Sanskrit Academy, Jammmụ. Digitized by S3 Foundation USA

६६ बृहत्संहिता
क्रव्यादकौशिककपोतकाककङ्कैः केतुस्थितैर्महदुशन्ति भयं नृपस्य।
चाषेण चापि युवराजभयं वदन्ति श्येनो विलोचनभयं निपतन् करोति।।
छत्रभङ्गपतने नृपमृत्युस्तस्करान् मधु करोति निलीनम्।
हन्ति चाप्यथ पुरोहितमुल्का पार्थिवस्य महिषीमशनिश्च।।
राज्ञीविनाशं पतिता पताका करोत्यवृष्टिं पिटकस्य पातः।
मध्याग्रमूलेषु तु केतुभङ्गो निहन्ति मन्त्रिक्षितिपालपौरान्।।
धूमावृते शिखिभयं तमसा च मोहो व्यालैश्च भग्नपतितैर्न भवन्त्यमात्याः।
ग्लायन्त्युदक्प्रभृति च क्रमशो द्विजाद्यान् भङ्गे तु बन्धकिवधः कथितः कुमार्याः।।
रज्जूत्सङ्गच्छेदने बालपीडा राज्ञो मातुः पीडनं मातृकायाः।
यद्यत् कुर्य्युश्चारणा बालका वा तत्तत् तादृग्भावि पापं शुभं वा।।
इत्यत्र यदुक्तं तत्सर्वं गृहपतेर्वक्तव्यमिति ।।११२।।
अथ वास्तुनो विशेषमाह—
प्रागुत्तरोन्नते धनसुतक्षयः सुतवधश्च दुर्गन्धे।
वक्रे बन्धुविनाशो न सन्ति गर्भाश्च दिङ्गूढे ।।११३।।
इच्छेद्यदि गृहवृद्धिं ततः समन्ताद्विवर्धयेत्तुल्यम्।
एकोद्देशे दोषः प्रागथवाऽप्युत्तरे कुर्यात् ।।११४।।
यदि वास्तु भूमि पूर्व या उत्तर में ऊँची हो तो गृहपति के पुत्र और धन का नाश,
दुर्गन्धयुत हो तो पुत्र का नाश, टेढ़ी हों तों बन्धुओं का नाश और दिग्भ्रम (दिशाओं के
ज्ञान से रहित) हो तो स्त्रियों को गर्भ का अभाव होता है। घर की वृद्धि चाहने वाले
मनुष्य को वास्तु भूमि में चारो तरफ समान रूप से वृद्धि करनी चाहिये। यदि वास्तु
भूमि की वृद्धि करनी हो तो वह वृद्धि उत्तर या पूर्व की ओर करनी चाहिये; क्योंकि उत्तर
या पूर्व की ओर वास्तुभूमि की वृद्धि करने पर अल्प दोष होता है अर्थात् वह दोष
(मित्रों से द्वेष, चित्त में सन्ताप आदि) सहन करने योग्य होता है। फिर भी जिस
मनुष्य में इन दोषों को सहन करने की शक्ति न हो, उसके द्वारा वास्तु भूमि की वृद्धि
नहीं करनी चाहिये।।११३-११४।।
वास्तुनि प्राक् पूर्वस्यां दिश्युन्नते उत्तरस्यां वोन्नते स्थिते धनस्यार्थस्य सुतानां पुत्राणां
च क्षयो विनाशो भवति। एवं दुर्गन्धे दुष्टगन्धे वास्तुनि सुतवधः पुत्रमरणं भवति। वक्रे-
ऽस्पष्टे यथादिग्विभागमनवस्थिते बन्धुविनाशो बन्धुमरणम्। दिङ्गूढे दिग्भ्रष्टे यस्य दिग्
न ज्ञायते तत्र गर्भा न सन्ति, न भवन्ति, विनश्यन्तीत्यर्थः।
एवमन्यास्वपि दिक्षून्नतस्थितेऽनिष्टमेव फलं ज्ञेयम्। तस्माद्यदि गृहवृद्धिमिच्छेद्वाञ्छेत्
ततस्तस्माद्धेतोः समन्तात् सर्वासु दिक्षु तुल्यं समं विवर्धयेत्, कदाचिदप्येकोद्देशे एकस्मिन्
प्रदेशे स्थाने यः परिहार्यो वृद्धिदोषोऽस्ति स प्राक् पूर्वस्यां दिशि कुर्यादथवोत्तरे उत्तरस्यां
दिशि कुर्यादिति ।।११३-११४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ६७
नन्वत्र यदुक्तमेकोद्देशे दोषः प्रागथवाऽप्युत्तरे कुर्यात्, केन हेतुना क्रियत इति तदर्थं
स्वल्पदोषमाह—
प्राग्भवति मित्रवैरं मृत्युभयं दक्षिणेन यदि वृद्धिः ।
अर्थविनाशः पश्चादुदग्विवृद्धिर्मनस्तापः ॥११५॥
यदि वास्तु भूमि की वृद्धि पूर्व की ओर की जाय तो मित्रों से द्वेष, दक्षिण की ओर
की जाय तो मृत्यु का भय, पश्चिम की ओर की जाय तो धन का नाश और उत्तर की ओर
की जाय तो मन में सन्ताप होता है ॥११५॥
वास्तुनि प्राक् पूर्वस्यां दिशि वृद्धिर्भवति, तदा मित्रवैरं सुहृद्भिः सह द्वेषो भवति।
एवं दक्षिणे यदि वृद्धिर्भवति, तदा मृत्युभयं मरणभीतिः। पश्चात् पश्चिमायां दिशि वृद्धे-
रर्थस्य धनस्य विनाशः क्षयः। उदगुत्तरस्यां दिशि वृद्धेर्मनस्तापश्चित्तसन्तापो भवति। एवं
स्वल्पदोषत्वादुक्तमेकोद्देशे दोषः प्रागथवाऽप्युत्तरे कुर्यादिति ॥११५॥
अथ चतुःशालगृहे कस्यां दिशि किं कुर्यादित्याह—
ऐशान्यां देवगृहं महानसं चापि कार्यमाग्नेय्याम् ।
नैर्ऋत्यां भाण्डोपस्करोऽर्थधान्यानि मारुत्याम् ॥११६॥
ईशान कोण में देवगृह, अग्नि कोण में पाकगृह, नैर्ऋत्य कोण में गृहसामग्री गृह
और वायव्य कोण में धन-धान्यस्थापन गृह बनाना चाहिये ॥११६॥
चतुःशाले ऐशान्यां पूर्वोत्तरस्यां दिशि देवतागृहं कार्यम्। आग्नेय्यां पूर्वदक्षिणस्यां
महानसं रन्धनस्थानम्। नैर्ऋत्यां दक्षिणपश्चिमायां भाण्डोपस्करं गृहोपयिकानां स्थानं
कार्यम्। मारुत्यां वायव्यां पश्चिमोत्तरस्यामर्थानां धनानां धान्यानां च स्थापनं कार्यम्।
अत्राचार्येण सामान्येन प्रविभाग उक्तः किरणाख्ये तन्त्रे विशेषतः पठ्यते। तथा च—
पूर्वस्यां श्रीगृहं प्रोक्तमाग्नेय्यां स्यान्महानसम्।
शयनं दक्षिणायां च नैर्ऋत्यामायुधाश्रयम्॥
भोजनं पश्चिमायां च वायव्यां धनसञ्चयम्।
उत्तरे द्रव्यसंस्थानमैशान्यां देवतागृहम्॥
अत्रापि केचिद्वास्तुपुरुषप्रविभागमिच्छन्ति। तथा च—
श्रीगृहेऽत्र ध्वजः कार्यो धूपश्चैव महानसे।
सिंहो निद्रागृहे कार्यः श्वा कुर्यादायुधाश्रये॥
वृषो भोजनशालायां कपिर्धान्यगृहे सदा।
द्रव्यस्थाने सदा भद्रा रिक्तो देवगृहे तथा ॥ इति ॥११६॥
अथ जलस्य दिक्प्रविभागेन शुभाशुभफलमाह—
प्राच्यादिस्थे सलिले सुतहानिः शिखिभयं रिपुभयं च ।
स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्वयं वित्तात्मजविवृद्धिः ॥११७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

६८ बृहत्संहिता
वास्तु स्थान से पूर्व आदि दिशाओं में यदि जल स्थित हो तो क्रम से पुत्र का नाश,
अग्निभय, शत्रुभय, स्त्रियों में कलह, स्त्रियों में दुःशीलता, निर्धनता, धन की वृद्धि और
पुत्रों की वृद्धि होती है॥११७॥
वास्तुनः प्राच्यां पूर्वस्यां दिशि स्थिते सलिले सुतहानिः पुत्रमरणं भवति। एवमाग्नेय्यां
शिखिभयमग्निभयम्। दक्षिणस्यां रिपुभयं शत्रुभयम्। नैर्ऋत्यां स्त्रीकलहः स्त्रीणामप्रीतिः।
पश्चिमायां स्त्रीदौष्ट्यं स्त्रीणामुन्मत्तता दौःशील्यम्। वायव्ये नैःस्वयं निर्धनत्वम्। उत्तरस्यां
वित्तानां धनानां विवृद्धिः। ऐशान्यामात्मजानां पुत्राणां विवृद्धिर्भवति॥११७॥
अथ गृहार्थमेतान् वृक्षान् वर्जयित्वा अन्यान् छिन्द्यादित्याह—
खगनिलयभग्नसंशुष्कदग्धदेवालयश्मशानस्थान् ।
क्षीरतरुधवविभीतकनिम्बारणिवर्जितान् छिन्द्यात् ॥११८॥
पक्षियों के घोसलों से युक्त, टूटे हुये, देवालय के समीप में स्थित, श्मशान में
स्थित, दूध वाले, वच, बहेड़ा, नीम, अरलू—इन सबों को छोड़ कर शेष वृक्षों को घर
बनाने के लिये काटना चाहिये॥११८॥
खगाः पक्षिणस्तेषां निलयो गृहं यत्र यस्मिन् वृक्षे, तथा यो वृक्षो भग्नः, यश्च दग्धो-
ऽग्निप्लुष्टः, यश्च देवालयस्थः सुरगृहे स्थितः, श्मशाने स्थितः। तथा क्षीरतरुः क्षीरवृक्षः
पिप्पलादिकः, धवः, विभीतकः, निम्बः, अरणिः, एतान् वृक्षान् वर्जयित्वा विहायान्यान्
छिन्द्यात् शेषानन्यान् कल्पयेदिति॥११८॥
अथ तरुच्छेदलक्षणं पतितस्य च शुभाशुभज्ञानमाह—
रात्रौ कृतबलिपूजं प्रदक्षिणं छेदयेद् दिवा वृक्षम् ।
धन्यमुदक्प्राक्पतनं न ग्राह्योऽतोऽन्यथा पतितः ॥११९॥
जिस वृक्ष को काटना हो, उसके निमित्त रात में पूजा और बलि देकर दूसरे दिन
प्रातः ईशान कोण की ओर से प्रदक्षिणक्रम से उसको काटना चाहिये। कट जाने के बाद
यदि वह वृक्ष उत्तर या पूर्व दिशा की ओर गिरे तो शुभ और शेष दिशाओं में गिरे तो
अशुभ होता है॥११९॥
वृक्षं तरुं रात्रौ कृतबलिपूजं निशि कृतो बलिरुपहारः पूजाऽर्चा च यस्य तं दिवा
दिवसे प्रदक्षिणं प्रादक्षिणयेन प्राक्प्रभृति छेदयेद् ऐशानीमादितः कृत्वा पूर्वाग्नेययाम्यनैर्ऋत्य-
पश्चिमवायव्योत्तरान्तं यावत्। उदगुत्तरस्यां दिशि प्राक् पूर्वस्यां वा वृक्षस्य कल्पितस्य
पतनं धन्यं प्रशस्तम्। अतोऽन्यथा पतितोऽन्यासु परिशिष्टासु दिक्षु पतितो न ग्राह्यस्त्याज्य
इत्यर्थः ॥११९॥
अथ शुभाशुभत्वं वृक्षशल्यज्ञानमाह—
छेदो यद्यविकारी ततः शुभं दारु तद्गृहोपयिकम् ।
पीते तु मण्डले निर्दिशेत् तरोर्मध्यगां गोधाम् ॥१२०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ६९
मञ्जिष्ठाभे भेको नीले सर्पस्तथाऽरुणे सरटः ।
मुद्गाभेऽश्मा कपिले तु मूषकोऽम्भश्च खड्गाभे ।।१२१।।
यदि वृक्ष का कर्तित प्रदेश विकाररहित हो तो उसकी लकड़ी गृह-निर्माण के लिये
शुभ होती है। यदि उसमें (कर्तित प्रदेश में) पीत वर्ण का मण्डल दिखाई दे तो वृक्ष
के मध्य में गोधा (सनगोहि), मञ्जीठ की तरह लाल रङ्ग का मण्डल दिखाई दे तो
मेढ़क, नीले रंग का मण्डल दिखाई दे तो सर्प, लाल रङ्ग का मण्डल दिखाई दे तो
गिरगिट, मूँग के समान वर्ण का मण्डल दिखाई दे तो पत्थर, पीला मण्डल दिखाई दे तो
चूहे और खड्ग के सदृश मण्डल दिखाई दे तो वृक्ष के मध्य में जल का निवासस्थान
कहना चाहिये।।१२०-१२१।।
वृक्षस्याविकारी विकाररहितश्छेदो यदि भवति ततस्तस्माद्धेतोस्तद्दारु काष्ठं गृहौपयिकं
वेश्मन औपयोगिकं शुभं भवति। तरोर्वृक्षस्य छेदमध्ये पीते पीतवर्णे मण्डले दृष्टे स्वा-
भाविकं रूपमपहाय यदि दृश्यते तदा मध्यगां मध्ये तरोः स्थितां गोधां विनिर्दिशेद्
वदेत्। गोधा प्राणिविशेषः।
मञ्जिष्ठाभे मञ्जिष्ठावर्ण एवमेव मण्डले दृष्टे भेको मण्डूकः। एवं नीलमण्डले सर्प
उरगः। तथा तेनैव प्रकारेणारुणे लोहितवर्णे मण्डले सरटः प्राणिविशेषः। कृकलास इति
केचित्। मुद्गाभे मुद्गसदृशे मण्डले अश्मा पाषाणः। कपिले कपिलवर्णे मूषकः। खड्गाभे
खड्गसदृशे मण्डले कृष्णे अम्भो जलं वृक्षस्य मध्यगतं ज्ञेयम्। पाषाणाद्ये तदेव लक्षण-
मिति।।१२०-१२१।।
अथ गृहपतेः परिभाषार्थमाह—
धान्यगोगुरुहुताशसुराणां न स्वपेदुपरि नाप्यनुवंशम् ।
नोत्तरापरशिरा न च नग्नो नैव चार्द्रचरणः श्रियमिच्छन् ।।१२२।।
लक्ष्मी की कामना करने वाले मनुष्य को अन्न, गौ, गुरु, अग्नि एवं देवता तथा
वंशों ('रोगाद्वायुं पितृतो हुताशनं' इत्याद्युक्त वंशों) के ऊपर शयन नहीं करना चाहिये।
उत्तर या पश्चिम की ओर शिर करके भी शयन नहीं करना चाहिये; साथ ही साथ नङ्गे
एवं जल से भीगे पाँव विस्तर पर रखकर भी शयन नहीं करना चाहिये।।१२२।।
धान्यानां व्रीहीणां गवां सुरभीणां गुरूणां मित्रादीनां हुताशनस्याग्नेः सुराणां देवानामुपरि
‛पृष्ठे श्रियमिच्छँल्लक्ष्मीमभिलषन्न स्वपेन्न सुप्यात्। वंशान्युक्तानि—
रोगाद्वायुं पितृतो हुताशनं शोषसूत्रमपि विभवात्।
मुख्याद् भृशं जयन्ताच्च भृङ्गमदितेश्च सुग्रीवम् ।।
इत्येवं वंशानामुपरि तिर्यक् कृत्वा तदनुसारेण शय्यां दत्वा न स्वपेत् सुप्यात्।
उत्तरस्याम् उदीच्याम्, अपरस्यां पश्चिमायां वा दिशि शिरः कृत्वा न स्वपेत्। नग्नो दिग्वासाश्च
न स्वपेत्। नैव चार्द्रचरणो जलक्लिन्नपादः स्वपेत्। तथा च गृहस्थस्य स्वपतः पादस्थाने
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७० बृहत्संहिता
नागदन्ता न भवन्ति, तथा शयीत। तथा च विश्वकर्माह—
शय्यानुवंशविन्यस्ता तुला हन्यात् कुटुम्बिनः।
कर्तुः शय्या स्वतानस्था नागदन्ताः क्षयावहाः।। इति।।१२२।।
अथ प्रवेशलक्षणमाह—
भूरिपुष्पविकरं सतोरणं तोयपूर्णकलशोपशोभितम्।
धूपगन्धबलिपूजितामरं ब्राह्मणध्वनियुतं विशेद् गृहम्।।१२३।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वास्तुविद्या-
नाम त्रिपञ्चाशत्तमोऽध्यायः॥५३॥
अतिशय पुष्पों से सुवासित, तोरण से अलंकृत, जलपूर्ण कलशों से सुशोभित,
धूप-गन्ध-पुष्प आदि द्वारा पूजित देवताओं से समन्वित एवं ब्राह्मणों द्वारा की गई
वेदध्वनियों से पवित्र किये गये गृह में गृहस्वामी को प्रवेश करना चाहिये।
यहाँ पर 'धूपगन्धबलिपूजितामरं' यह सामान्य देवता के लिये कहा गया है।
सामान्य देवताओं की पूजा अतिरिक्त स्थान में करनी चाहिये। वास्तु-मध्य में शिखी-
पर्जन्य आदि और अर्यमा की ही पूजा की जानी चाहिये। इन स्थानों पर बाहरी देवताओं
का पूजन कथमपि नहीं करना चाहिये।।१२३।।
इति 'विमला' हिन्दीटीकायां वास्तुविद्याध्यायस्त्रिपञ्चाशत्तमः ॥५३॥
एवंविधं गृहं वेश्म विशेत् प्रविशेत्। कीदृशम् भूरिपुष्पविकरम्? बहुप्रकाराणां पुष्पाणां
कुसुमानां विकरः समूहो यत्र, तथा सतोरणं तोरणसंयुक्तं तोरणं गृहाग्रे कुर्यात्। तोयपूर्णै-
र्जलपूरितैः कलशैरूदकुम्भैरुपशोभितं भूषितम्। धूपैर्गूग्गुलप्रभृतिभिर्गन्धैः सुगन्धद्रव्यैरगुरु-
प्रभृतिभिर्बलिभिरुपहारैश्च पूजिता अर्चिता अमरा देवता यत्र, तथा ब्राह्मणध्वनियुतं ब्राह्मणानां
द्विजानां ध्वनिर्वेदशब्दस्तेन युतम्। अत्र सामान्येनोक्तं पूजितामरम्; तथापि वास्तुमध्यगता
अमराः पूजनीया न बाह्यस्थाः शिखिपर्जन्यप्रभृतयोऽर्यमाद्या वा। तन्त्रान्तरेऽप्युक्तम्—
ज्येष्ठस्य कर्मसिद्ध्यर्थं नव पञ्चगुणाः सुराः।
यतस्तत्र वसन्त्येते मूर्धाद्यङ्गेषु कृत्स्नशः।।
ततोऽपि विशिष्टा अन्येऽपि बाह्याः सुरा हिरण्यगर्भेणोक्ताः—
देवताः सम्प्रवक्ष्यामि वास्तूनामनुपूर्वशः।।
द्वारे प्रजापतिं विन्द्याद् द्वारदेशे ह्युमापतिम्।
बलदेवो यमश्चैव दक्षिणस्यां च संस्थितौ।।
स्कन्दः शेषोऽथ वरुणः पश्चिमायां दिशि स्थितः।
आदित्या वसवो रुद्रा उत्तरां दिशमाश्रिताः।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वास्तुविद्याध्यायः ७१
ब्रह्मा चैव महेन्द्रश्च दिशमैन्द्रीं समाश्रितौ ।
कीर्तिर्धृतिश्च लक्ष्मीश्च वास्तुमध्ये प्रतिष्ठिताः ।।
हुत्वाऽग्निं गृहमध्ये तु दैवतान्यर्चयेद् बुधः ।
दिगन्तरेषु सर्वेषु दिक्षु चैव यथाक्रमम् ।।
कुलदैवतपूजां च कृत्वा च कुलमेधिनाम् ।
दिक्षु देवीषु सर्वासु विदिक्षु च यथाक्रमम् ।।
तथा च तन्त्रान्तरे पठ्यते—
बाह्याभ्यन्तरदेवांस्तु वास्तुमध्ये यथास्थितान्।
तथा च सर्वान् सम्पूज्य विधिनैव पुरोहितः ।। इति ।। १२३ ।।
वराहमिहिराचार्यकृते वास्तुमहोदधौ ।
अर्थिनामुत्पलश्चक्रे स्वाप्तये विवृत्तिप्लवम् ।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्तौ वास्तुविद्यानाम
त्रिपञ्चाशत्तमोऽध्यायः ।। ५३ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ दकार्गलाध्यायः
अथ दकार्गलं व्याख्यायते। तत्रादावेव प्रयोजनप्रदर्शनार्थमाह—
धर्म्यं यशस्यं च वदाम्यतोऽहं दकार्गलं येन जलोपलब्धिः।
पुंसां यथाङ्गेषु शिरास्तथैव क्षितावपि प्रोन्नतनम्नसंस्थाः ॥१॥
एकेन वर्णेन रसेन चाम्भश्च्युतं नभस्तो वसुधाविशेषात्।
नानारसं बहुवर्णतां च गतं परीक्ष्यं क्षितितुल्यमेव ॥२॥
वास्तुविद्या का वर्णन करने के पश्चात् अब जिसका ज्ञान होने पर भूमिगत जल का
ज्ञान प्राप्त होता है, उस धर्म और यश को देने वाले 'दकार्गल' को कहते हैं। जिस तरह
मनुष्यों के अङ्ग में नाड़ियां होती हैं, उसी तरह भूमि में भी ऊँची-नीची शिरायें होती हैं।
आकाश से केवल एक स्वाद वाला जल पृथ्वी पर गिरता है; किन्तु वही जल पृथ्वी की
विशेषता से तत्तत् स्थानों में अनेक प्रकार के रस और स्वाद वाला हो जाता है। इस
तरह भूमि के वर्ण और रस के समान ही जल के भी रस और वर्ण सिद्ध होते हैं; अतः
भूमि, वर्ण और रस का परीक्षण-पूर्वक जल के रस और स्वाद का परीक्षण करना
चाहिये॥१-२॥
अतोऽस्माद्वास्तुविद्याप्रकरणादनन्तरमहं वराहमिहिरो दकार्गलं वदामि कथयामि।
कीदृशम्? धर्म्यं यशस्यं च, धर्मं चाऽऽवहति यशश्चाऽऽवहति ददातीत्यर्थः। दकार्गलं
किमुच्यते? अत आह—येन जलोपलब्धिः, जलस्योदकस्योपलब्धिरुपलम्भनं प्राप्तिः।
यथा येन प्रकारेण पुंसां पुरुषाणामङ्गेष्ववयवेषु शिरा नाड्यः प्रोन्नतनम्नसंस्था अधरोत्तरभावेन,
तथा तेन प्रकारेण क्षितौ भूमावप्यधरोत्तरभावेन प्रोन्नतनम्नसंस्थिताः, अन्याः प्रोन्नता उच्चा
अन्याश्च निम्नाः स्थिताः।
एकेन वर्णेनेति। अम्भो जलं नभस्त आकाशाच्च्युतं पतितमेकेन वर्णेनैकेन च
स्वादेन वसुधाविशेषाद्भुवो नानाप्रकारत्वाद् नानारसत्वं बहुस्वादुवर्णतां च गतं विचित्रवर्णत्वं
प्राप्तमेवानेन प्रकारेण क्षितितुल्यं भूमिवर्णतुल्यं परीक्ष्यं विचार्यम्, नानारसवर्णत्वेनेति।
तथा च वक्ष्यति—
सशर्करा ताम्रमही कषायं क्षारं धरित्री कपिला करोति।
आपाण्डुरायां लवणं प्रदिष्टमिष्टं पयो नीलवसुन्धरायाम्।। इति।।२।।
अथ शिरानामान्याह—
पुरुहूतानलयमनिर्ऋतिवरुणपवनेन्दुशङ्करा देवाः।
विज्ञातव्याः क्रमशः प्राच्याद्यानां दिशां पतयः ॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ७३
दिक्पतिसंज्ञा च शिरा नवमी मध्ये महाशिरानाम्नी ।
एताभ्योऽन्याः शतशो विनिःसृता नामभिः प्रथिताः ॥४॥
पातालादूर्ध्वशिरा शुभा चतुर्दिक्षु संस्थिता याश्च ।
कोणदिगुत्था न शुभाः शिरानिमित्तान्यतो वक्ष्ये ॥५॥
पूर्व आदि आठ दिशाओं के क्रम से इन्द्र, अग्नि, यम, राक्षस, वरुण, वायु, चन्द्र
और शिव स्वामी होते हैं। इन आठ दिक्पतियों के नाम से आठ ( ऐन्द्री, आग्नेयी, याम्या
इत्यादि ) ही शिरायें प्रसिद्ध हैं। इन आठ शिराओं के मध्य में महाशिरा नाम वाली
नवमी शिरा है। इन नव शिराओं के अतिरिक्त अन्य भी सैकड़ों शिरायें निकली हैं, जो
अपने-अपने नाम से प्रसिद्ध हैं। पाताल से ऊपर की तरफ जो शिरा निकली है, वह
और पूर्व आदि चारो दिशाओं में स्थित शिरायें शुभ तथा अग्निकोण आदि विदिशाओं में
स्थित शिरायें अशुभ होती हैं। अतः इसके बाद शिराओं के लक्षण कहते हैं॥३-५॥
पुरूहूतादय इन्द्राद्या देवाः क्रमशः क्रमेण प्राच्याद्यानां पूर्वाद्यानां दिशामाशानां पतयः
स्वामिनः। तद्यथा—पुरूहूत इन्द्रः स पूर्वस्यां दिश्यधिपतिः, अनलोऽग्निराग्नेय्याम्, यमः
पितृपतिर्दक्षिणस्याम्, निर्ऋती राक्षसाधिपतिर्नैर्ऋत्याम्, वरुणोऽपाम्पतिः पश्चिमायां, पवनो
वायुर्वायव्याम्, इन्दुश्चन्द्रश्चोत्तरस्याम्, शङ्करो रुद्र ऐशान्याम्।
दिक्पतिसंज्ञया तन्नाम्नोपलक्षिता शिरा भवति। यथा पूर्वस्यां दिशि या शिरा सैन्द्री,
आग्नेय्यामाग्नेयी, दक्षिणस्यां याम्या। एवं शेषास्वपि विज्ञेयम्। एवमष्टासु दिक्ष्वष्टौ शिरा
भवन्ति। नवमी मध्ये महाशिरानाम्नी। आसां सर्वासां दिग्विदिक्स्थानां मध्ये मध्यभागे
नवमी महाशिरा भवति। एताभ्यो नवभ्योऽन्याः शिराः शतशः शतप्रकारा विनिःसृता विनिर्गता
नामभिः संज्ञाभिश्च प्रथिताः प्रख्याताः। तथा च वक्ष्यति—
कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति।। इति।
पातालादूर्ध्वशिरा योद्गच्छति सा शुभा, याश्च शिराश्चतुर्दिक्षु संस्थितास्ताश्च शुभाः।
कोणदिगुत्था विदिगुत्पन्नाः शिरा न शुभाः, अतोऽस्मादनन्तरं शिरानिमित्तानि शिराचिह्नानि
वक्ष्ये कथयिष्ये॥३-५॥
तानि चाह—
यदि वेतसोऽम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् ।
सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ॥६॥
चिह्नमपि चार्धपुरुषे मण्डूकः पाण्डुरोऽथ मृत् पीता ।
पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः ॥७॥
यदि जलरहित देश में वेदमजनूँ का वृक्ष हो तो उससे तीन हाथ पश्चिम दिशा में
डेढ़ पुरुष नीचे जल कहना चाहिये। भुजा ऊपर की तरफ खड़ी करने से पुरुष की
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७४ बृहत्संहिता
जितनी लम्बाई हो, वह एक पुरुषप्रमाण ( १२० अंगुल ) यहाँ पर ग्रहण करना चाहिये।
इस खात में पश्चिमा शिरा बहती है। यहाँ पर खोदने के समय कुछ चिह्न निकलते हैं;
जैसे—आधा पुरुषप्रमाणतुल्य खोदने पर पाण्डु वर्ण का मेढ़क, उसके नीचे पीली मिट्टी,
उसके नीचे पत्थर और पत्थर के नीचे जल मिलता है॥६-७॥
अम्बुरहिते जलवर्जिते देशे यत्र स्वभावत एव जलं न विद्यते, तत्र देशे जाङ्गले यदि
वेतसो वेतसवृक्षो दृश्यते ततस्तस्माद्वेतसवृक्षात् त्रिभिर्हस्तैः करैः पश्चात् पश्चिमायां दिशि
सार्धे पुरुषे खाते अधस्तोयं वक्तव्यम्। पुरुषशब्देनात्रोर्ध्वबाहुः पुरुषो ज्ञेयः। स च विंशत्य-
धिकमङ्गुलशतं भवतीति सर्वत्र परिभाषा। ततश्च तस्मिन् खाते पश्चिमा शिरा वहति।
अर्धपुरुषे खाते चिह्नम्। किं तत्? मण्डूको भेकः पाण्डुरः पाण्डुरवर्ण ईषच्छ्वेतः।
तथानन्तरं पीता पीतवर्णा मृन्मृत्तिका। ततस्तस्मिन् खाते पुटभेदकः पाषाणो भवति।
पुटैर्भिद्यत इति पुटभेदस्तदधस्तोयं जलं भवति। तथा च सारस्वतः—
निर्जले वेतसं दृष्ट्वा तस्माद्वृक्षादपि त्रयम्।
पश्चिमायां दिशि ज्ञेयमधः सार्धेन वै जलम्॥
नरोऽत्र षष्टिर्द्विगुणा चाङ्गुलानां प्रकीर्तितः।
तत्र खात्वाऽर्धपुरुषं भेकः पाण्डुरवर्णकः॥
मृत् पीता पुटभेदश्च पाषाणोऽधस्ततो जलम्।
शिरा पश्चिमदिक्स्थात्र वहतीति विनिर्दिशेत्॥ इति॥६-७॥
अन्यदप्याह—
जम्ब्वाश्चोदग्घस्तैस्त्रिभिः शिराधो नरद्वये पूर्वा।
मृल्लोहगन्धिका पाण्डुरा च पुरुषेऽत्र मण्डूकः ॥८॥
यदि जलरहित देश में जामुन का वृक्ष हो तो उससे तीन हाथ उत्तर दिशा में दो
पुरुषतुल्य नीचे पूर्व शिरा होती है। वहाँ पर भी खोदने के समय में कुछ चिह्न निकलते
हैं; जैसे—एक पुरुषप्रमाणतुल्य नीचे लोहे के समान गन्ध वाली मिट्टी, उसके नीचे
कुछ सफेद मिट्टी और उसके नीचे मेढ़क निकलता है॥८॥
अम्बुरहिते देशे यदि जम्बूवृक्षो दृश्यते, तदा तस्माज्जम्बूवृक्षादुदगुत्तरस्यां दिशि
त्रिभिर्हस्तैः करैरनन्तरमधो नरद्वये खाते पूर्वा शिरा वहति। अत्रापि चिह्नानि भवन्ति। अत्र
पुरुषे खाते मृन्मृत्तिका लोहगन्धिका लोहसदृशगन्धा भवति। ततः परं पाण्डुरा ईषच्छुक्ला
ततो मण्डूको भेक इति॥८॥
अन्यदप्याह--
जम्बूवृक्षस्य प्राग्वल्मीको यदि भवेत् समीपस्थः।
तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ७५
अर्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः ।
मृद्भवति चात्र नीला दीर्घं कालं च बहु तोयम् ॥१०॥
जामुन के वृक्ष से पूर्व की तरफ समीप में ही बाँबी हो तो उससे तीन हाथ दक्षिण
दिशा में दो पुरुष नीचे मधुर जल मिलता है। आधा पुरुषप्रमाण नीचे मछली और उसके
नीचे कबूतर के समान रंग वाला पत्थर निकलता है तथा इस खात में नील वर्ण की
मिट्टी होती है और चिर काल तक अधिक जल होता है॥९-१०॥
जम्बूवृक्षस्य प्राक् पूर्वस्यां दिशि समीपस्थो निकटवर्ती वल्मीको वल्मीककृतो मृत्स्तूपो
भवति, तदास्माज्जम्बूवृक्षाद् दक्षिणपार्श्वे दक्षिणस्यां दिशि त्रिभिरेव हस्तैः। यत्र हस्त-
ग्रहणमाचार्यो न करोति तत्र प्रागुक्तं प्रमाणं सर्वत्र योज्यमित्यागमः। एवं त्रिभिर्हस्तैरधः
पुरुषद्वये खाते स्वादु मिष्टं जलं भवति।
तत्रापि चिह्नं भवति। अर्धपुरुषे च खाते मत्स्यो दृश्यते। ततः पारावतः पक्षी तत्सन्नि-
भस्तद्वर्णः पाषाणो भवति, तथा चात्र नीला नीलवर्णा मृद्भवति। दीर्घं चिरकालं बहु च
तोयं प्रभूतं जलं भवति। तथा च सारस्वतः—
जम्बूवृक्षात् पूर्वभागे वल्मीको यदि दृश्यते।
तरोर्दक्षिणतो हस्तांस्त्रींस्त्यक्त्वाऽधो जलं वदेत्॥
नरद्वयेऽर्धपुरुषो मत्स्योऽश्मा पक्षिसन्निभः।
ततोऽपि मृत्तिका नीला ततो मृष्टं जलं वदेत्॥ इति॥९-१०॥
अन्यदप्याह—
पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्धे।
पुरुषे सितोऽहिरश्माञ्जनोपमोऽधः शिरा सुजला ॥११॥
जलरहित देश में गूलर का वृक्ष हो तो उससे तीन हाथ पश्चिम दिशा में ढाई पुरुष
नीचे सुन्दर जल वाली शिरा होती है। यहाँ पर भी खोदने के समय कुछ चिह्न मिलते हैं;
जैसे—आधा पुरुष खोदने पर सफेद सर्प, उसके नीचे काला पत्थर और उसके नीचे
सुन्दर जल वाली शिरा निकलती है॥११॥
यदि जलवर्जिते देशे उदुम्बरस्य वृक्षोऽत्र दृश्यते, वल्मीकयुतो वियुतो वा, तदा
तत्रोदुम्बरस्य पश्चात् पश्चिमायां दिशि त्रिभिरेव हस्तैरनन्तरमधः सार्धे नरद्वये सुजला शोभन-
सलिला शिरा भवति। अत्राऽपि चिह्नानि अर्धे पुरुषे खाते सितः श्वेतोऽहिः सर्पो दृश्यते।
ततः पाषाणोऽञ्जनोपमोऽञ्जनसदृशोऽतिकृष्ण इत्यर्थः। ततोऽधः शिरा सुजला शोभनतोया
वहति॥११॥
अन्यदप्याह—
उदगर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद्धस्तैः ।
त्रिभिरम्बु भवति पुरुषैस्त्रिभिरर्धसमन्वितैः पश्चात् ॥१२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७६ बृहत्संहिता
श्वेता गोधार्धनरे पुरुषे मृद्धूसरा ततः कृष्णा ।
पीता सिता ससिकता ततो जलं निर्दिशेदमितम् ॥ १३॥
अर्जुन वृक्ष से तीन हाथ उत्तर दिशा में बाँबी हो तो उससे तीन हाथ पश्चिम दिशा
में साढ़े तीन पुरुष नीचे जल होता है। यहाँ पर भी खोदने पर कुछ चिह्न मिलते हैं;
जैसे—आधा पुरुष नीचे गोधा ( गोह ), एक पुरुषतुल्य नीचे काली-सफेद मिट्टी, उसके
नीचे काली मिट्टी, उसके नीचे पीली मिट्टी, उसके नीचे सफेद रेत और उसके नीचे
अधिक जल निकलता है॥ १२-१३॥
अर्जुनवृक्षस्योदगुत्तरस्यां दिशि यदि वल्मीको दृश्यते, वल्मीककृतो मृत्स्तूपो यदि
भवति, ततोऽस्मादर्जुनात् पश्चात् पश्चिमायां दिशि त्रिभिर्हस्तैरतीतैरधस्त्रिभिरर्धसमन्वितैः
सार्धैस्त्रिभिः पुरुषैरम्बु जलं भवति।
श्वेतेति । अत्र चिह्नानि भवन्ति। अर्धनरे खाते श्वेता शुक्लवर्णा गोधा प्राणिविशेषो
दृश्यते। पुरुषे खाते धूसरा कृष्णश्वेता मृन्मृत्तिका। ततोऽनन्तरं कृष्णा मृत्। ततः पीत-
वर्णाः। ततोऽपि सिता श्वेता ससिकता वालुकासहिता। ततोऽनन्तरममितं प्रभूतं जलमुदकं
निर्दिशेद् वदेत्॥ १२-१३॥
अन्यदप्याह—
वल्मीकोपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः ।
पुरुषद्वये सपादे स्वादु जलं भवति चाशोष्यम् ॥१४॥
रोहितमत्स्योऽर्धनरे मृत् कपिला पाण्डुरा ततः परतः ।
सिकता सशर्कराऽथ क्रमेण परतो भवत्यम्भः ॥ १५॥
वल्मीकयुक्त निर्गुण्डी ( सिन्दुवार वृक्ष ‘सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपी’-
त्यमरः ) हो तो उससे तीन हाथ दक्षिण दिशा में सवा दो पुरुष नीचे कभी नहीं सूखने
वाला जल होता है। यहाँ पर खोदने के समय वक्ष्यमाण चिह्न मिलते हैं—
आधा पुरुष नीचे लाल मछली, उसके नीचे पीली मिट्टी, उसके नीचे सफेद मिट्टी,
उसके नीचे पत्थर के सूक्ष्म कणों से समन्वित रेत और उसके नीचे जल की प्राप्ति होती
है॥ १४-१५॥
निर्गुण्डी द्रव्यविशेषः। वनमिति प्रसिद्धम्। वल्मीकोपचिता वल्मीककृता मृत्स्तूपसंयुक्ता
तत्र निर्गुण्ड्यां दक्षिणस्यां दिशि कथितकरैरुक्तहस्तैस्त्रिभिरित्यर्थः। पुरुषद्वये सपादे पादा-
धिके खाते अधः स्वादु मृष्टं जलमुदकमशोष्यं भवति।
रोहितवर्णो मत्स्योऽर्धनरे अर्धपुरुषे खाते। ततो मृत्तिका कपिला गौरवर्णा। ततः
परतः पाण्डुरा शुक्लवर्णा किञ्चित्। ततः सिकता वालुका सशर्कराऽथ सकर्णिका। क्रमेण
परिपाट्या। ततः परतोऽम्भो जलं भवति॥ १४-१५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ७७
अन्यदप्याह—
पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात्।
पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकाऽर्द्धनरे ॥१६॥
यदि बेर के वृक्ष से पूर्व दिशा में वल्मीक हो तो उससे तीन हाथ पश्चिम दिशा में
तीन पुरुष नीचे जल कहना चाहिये। यहाँ पर आधा पुरुष नीचे सफेद छिपकिली निकलती
है॥१६॥
यदि बदर्या बदरीवृक्षस्य पूर्वेण पूर्वभागे वल्मीको वल्मीककृतो मृत्स्तूपो दृश्यते,
तदा बदर्याः पश्चात् पश्चिमायां दिशि त्रिभिः करैः प्रागुक्तैः परतस्त्रिभिः पुरुषैरधो जलमुदकमादेश्यं
वक्तव्यम्। अर्धनरे खाते श्वेता गृहगोधिका दृश्यते। गृहगोधिका कुड्यमत्स्या। तथा च
सारस्वतः—
पूर्वभागं बदर्याश्चेद्वल्मीको दृश्यते जलम्।
पश्चाद्धस्तत्रये वाच्यं खाते तु पुरुषत्रये।।
अधःखातेऽर्धपुरुषे दृश्यते गृहगोधिका।
श्वेतवर्णा ततोऽधःस्थं जलं भवति निर्मलम्।। इति।।१६।।
अन्यदप्याह—
सपलाशा बदरी चेद् दिश्यपरस्यां ततो जलं भवति।
पुरुषत्रये सपादे पुरुषेऽत्र च डुण्डुभश्चिह्नम् ॥१७॥
जलरहित देश में पलाश (ढाक) के वृक्ष से युक्त बेर का वृक्ष हो तो उससे तीन
हाथ पश्चिम दिशा में सवा तीन पुरुष नीचे जल होता है। यहाँ पर एक पुरुष नीचे विषरहित
सर्प मिलता है॥१७॥
चेच्छब्दो यद्यर्थे। यदि जलरहिते देशे सपलाशा पलाशवृक्षसहिता बदरी दृश्यते
सवल्मीका वल्मीकविमुखा वा, तदाऽपरस्यां पश्चिमायां दिशि ततस्तस्या बदर्यास्त्रिभिरेव
करैः परतोऽधः सपादे पुरुषत्रये जलं तोयं भवति। अत्र च चिह्नम्—पुरुषे खाते डुण्डुभो
निर्विषः सर्पो दृश्यते। तथा च सारस्वतः—
पलाशयुक्ता बदरी यत्र दृश्या ततोऽपरे।
हस्तत्रयादधस्तोयं सपादे पुरुषत्रये।।
नरे तु डुण्डुभः सर्पो निर्विषश्चिह्नमेव च।
अधस्तोयं च सुस्वादु दीर्घकालं प्रवाहितम्।। इति।।१७।।
अन्यदप्याह—
बिल्वोदुम्बरयोगे विहाय हस्तत्रयं तु याम्येन।
पुरुषस्त्रिभिरम्बु भवेत् कृष्णोऽर्द्धनरे च मण्डूकः ॥१८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

७८ बृहत्संहिता
जहाँ वेल के वृक्ष से युक्त गूलर का वृक्ष हो तो उससे तीन हाथ दक्षिण दिशा में
तीन पुरुष नीचे जल की स्थिति होती है। यहाँ पर आधा पुरुष नीचे कृष्ण वर्ण का मेढ़क
निकलता है।।१८।।
बिल्वोदुम्बरयोर्यत्र योगो विल्व उदुम्बरवृक्षश्च यत्र समेतौ भवतः। तस्मिन् याम्येन
दक्षिणस्यां दिशि हस्तत्रयं विहाय त्यक्त्वा त्रिभिः सार्धैः पुरुषैरधोऽम्बुजलं भवेत् स्यात्।
अर्धनरे खाते कृष्णो मण्डूको दृश्यते।।१८।।
अन्यदप्याह—
काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन्।
पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च।।१९।।
आपाण्डुपीतिका मृद्गोरसवर्णश्च भवति पाषाणः।
पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति।।२०।।
यदि काकोदुम्बरिका वृक्ष ( कटुम्बरि = 'काकोदुम्बरिका फल्गुर्मलपूर्जघने फले'-
त्यमरः) के समीप वल्मीक हो तो उस वल्मीक के सवा तीन पुरुष नीचे पश्चिम दिशा
में बहने वाली शिरा निकलती है। यहाँ पर खोदने के समय सफेद और पीली मिट्टी
निकलती है। उसके नीचे सफेद पत्थर और आधा पुरुष नीचे सफेद चूहा दिखाई देता
है।।१९-२०।।
काकोदुम्बरिका फल्गुवृक्षः, स यत्र दृश्यते तस्यां दिशि यदि समीपे वल्मीको वल्मीक-
कृतो मृत्स्तूपो दृश्यते, तदा तस्मिन्नेव वल्मीके शिरा भवति। सपादे पुरुषत्रये खाते अधः
सा च शिरा पश्चिमदिक्स्था वहति।
अथ चिह्नानि आपाण्डुपीतिका मृत्, पाण्डुरा पीतवर्णा च मृत्तिका प्रथमं भवति,
ततो गोरसवर्णः शुक्लवर्णः पाषाणोऽश्मा भवति। पुरुषार्धे खाते कुमुदनिभः श्वेतवर्णो
मूषक आखुर्दृष्टिपथं दर्शनं याति दृश्यत इत्यर्थः।।१९-२०।।
अन्यदप्याह—
जलपरिहीने देशे वृक्षः कम्पिल्लको यदा दृश्यः।
प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ।।२१।।
मृन्नीलोत्पलवर्णा कापोता दृश्यते ततस्तस्मिन्।
हस्तेऽजगन्धको मत्स्यकः पयोऽल्पं च सक्षारम्।।२२।।
जलरहित देश में कम्पिल्ल वृक्ष ( कपिल = कवीला ) दिखाई दे तो उससे तीन
हाथ पूर्व दिशा में सवा तीन पुरुष नीचे दक्षिण शिरा बहती है। यहाँ पर खोदने के समय
पहले नील कमल के समान रंग वाली मिट्टी और उसके नीचे कबूतर के रंग की मिट्टी
दिखाई देती है तथा एक हाथ नीचे बकरे के समान गन्ध वाली मछली और उसके नीचे
खारा जल निकलता है।।२१-२२।।
CC-0. JK Sanskrit Academy, Jammmụ. Digitized by S3 Foundation USA

दकार्गलाध्यायः ७९
जलपरिहीने निर्जले देशे यदा कम्पिल्लको वृक्षो दृश्यो भवति, तदा तस्य वृक्षस्य
प्राच्यां पूर्वस्यां दिशि हस्तत्रितये करत्रयात् परतोऽधः सपादैस्त्रिभिर्नरैः शिरा वहति।
प्रथममादौ मृन्नीलोत्पलवर्णा भवति, ततोऽनन्तरं तस्मिन् खाते कापोता कपोतवर्णा
मृत्तिका दृश्यते। हस्तेन खातेनाजगन्धश्छागलसदृशगन्धो मत्स्यो मीनो दृश्यते। तदनन्तर-
मल्पं पयः पानीयम्, तच्च सक्षारं भवति। सलवणमित्यर्थः। तथा च सारस्वतः—
निर्जले यत्र कम्पिल्लो दृश्यस्तस्मात् करत्रये।
प्राच्यां त्रिभिर्नरैर्वारि सा भवेद् दक्षिणा शिरा।।
अधो नीलोत्पलाभासा मृत् कापोतप्रभा क्रमात्।
हस्तेऽजगन्धको मत्स्यो जलमल्पमशोभनम्।। इति।।२१-२२।।
अन्यदप्याह—
शोणाकत्तरोरपरोत्तरे शिरा द्वौ करावतिक्रम्य।
कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ।।२३।।
जलरहित देश में शोणाक (सरिवन) वृक्ष दिखाई दे तो उससे दो हाथ वायव्य
कोण में तीन पुरुष नीचे ‘कुमुदा’ नाम की शिरा होती है।।२३।।
जलपरिहीने देशे यत्र शोणाकवृक्षो दृश्यते, तस्माच्छोणाकत्तरोरपरोत्तरे वायव्यां दिशि
द्वौ करौ हस्तद्वयमतिक्रम्य परित्यज्य कुमुदा नाम शिरा भवति, सा च पुरुषत्रयवाहनी
नरत्रयेऽम्भो भवति।।२३।।
अन्यदप्याह—
आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि।
अध्यर्धे भवति शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ।।२४।।
यदि विभीतक (बहेड़ा) वृक्ष के समीप दक्षिण दिशा में वल्मीक दिखाई दे तो
उस वृक्ष से दो हाथ पूर्व डेढ़ पुरुष नीचे शिरा होती है।।२४।।
यदि विभीतकवृक्षस्य दक्षिणपार्श्वे दक्षिणस्यां दिशि आसन्नो निकटवर्ती वल्मीको
भवति, तदा तस्य विभीतकस्य प्राच्यां पूर्वस्यां हस्तद्वयात् परतः सार्धे पुरुषे अधः शिरा
ज्ञेया ज्ञातव्या। तथा च सारस्वतः—
विभीतकस्य याम्यायां वल्मीको यदि दृश्यते।
करद्वयान्तरे पूर्वे सार्धे च पुरुषे जलम्।। इति।।२४।।
अथान्यदप्याह—
तस्यैव पश्चिमायां दिशि वल्मीको यदा भवेद्धस्ते।
तत्रोदग् भवति शिरा चतुर्भिरर्धाधिकैः पुरुषैः ।।२५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

८० बृहत्संहिता
श्वेतो विश्वम्भरकः प्रथमे पुरुषे तु कुङ्कुमाभोऽश्मा।
अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेऽतीते ॥२६॥
यदि बहेड़े के वृक्ष से पश्चिम दिशा में वल्मीक हो तो उस वृक्ष से उत्तर दिशा में
साढ़े चार पुरुष नीचे शिरा होती है। यहाँ पर खोदने के समय एक पुरुष नीचे श्वेत रंग
का विश्वम्भरक (प्राणिविशेष) दिखाई देता है। उसके नीचे केशर के रंग का पत्थर
और उसके नीचे पश्चिम दिशा को बहने वाली शिरा निकलती है; परन्तु यह शिरा तीन
वर्ष बाद नष्ट हो जाती है अर्थात् जल नष्ट हो जाता है॥२५-२६॥
तस्यैव विभीतकस्य पश्चिमायां दिशि वल्मीको यदा भवेत् स्यात्, तदा तस्य विभीत-
कस्य उदगुत्तरस्यां दिशि हस्तै त्यक्ते अधश्चतुर्भिरर्धाधिकैः सार्धैश्चतुर्भिः पुरुषैः शिरा भवति।
अत्रापि चिह्नानि—प्रथमे पुरुषे खाते श्वेतः श्वेतवर्णो विश्वम्भरकः प्राणिविशेषो दृश्यते,
तदनन्तरं कुङ्कुमाभः कुङ्कुमकान्तिरश्मा पाषाणो दृश्यते। ततोऽनन्तरमपरस्यां पश्चिमायां
दिशि शिरा वहति। सा च शिरा वर्षत्रयेऽतीतेऽतिक्रान्ते नश्यति क्षयं याति।
अन्यदप्याह—
सकुशः सित ऐशान्यां वल्मीको यत्र कोविदारस्य।
मध्ये तयोर्नरैरर्धपञ्चमैस्तोयमक्षोभ्यम् ॥२७॥
प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता।
कुरुविन्दः पाषाणश्चिह्नान्येतानि वाच्यानि ॥२८॥
जहाँ पर कोविदारक (छितिवन = सप्तपर्ण) वृक्ष के ईशान कोण में कुशायुक्त
श्वेत वल्मीक हो, वहाँ पर सप्तपर्ण वृक्ष और वल्मीक के मध्य में साढ़े पाँच पुरुष नीचे
अधिक जल होता है। यहाँ पर खोदने के समय एक पुरुष नीचे कमलपुष्प के मध्य के
समान रंग का सर्प, उसके नीचे लाल वर्ण की भूमि और उसके नीचे कुरुविन्द नामक
पत्थर निकलता है। ये सभी चिह्न यहाँ पर कहने चाहिये॥२७-२८॥
यत्र यस्मिन् स्थाने कोविदारस्य कोविदारवृक्षस्य ऐशान्यां पूर्वोत्तरस्यां दिशि सकुशः
दर्भयुक्तो वल्मीको भवति। स च सितः श्वेतस्तत्र तयोः कोविदारवल्मीकयोर्मध्येऽन्तरे
नरैः पुरुषैरर्धपञ्चमैः सार्धैश्चतुर्भिरधस्तोयं जलमक्षोभ्यं यत् क्षोभयितुं न शक्यते तद्वद् भवति।
अत्र चिह्नानि भवन्ति—प्रथमे पुरुषे खातेऽधो भुजगः सर्पः कमलोदरसन्निभः पद्म-
गर्भाभो दृश्यते। ततोऽनन्तरं मही भू रक्ता लोहितवर्णा। तदनन्तरं कुरुविन्दः पाषाणः।
एतानि चिह्नानि लक्षणानि अत्र वाच्यानि वक्तव्यानि॥२७-२८॥
अन्यदप्याह—
यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे तोयम्।
वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि ॥२९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

दकार्गलाध्यायः ८१
पुरुषार्धे मण्डूको हरितो हरितालसन्निभा भूश्च।
पाषाणोऽभ्रनिकाशः सौम्या च शिरा शुभाम्बुवहा ॥३०॥
यदि वल्मीक से युक्त सप्तपर्ण वृक्ष हो तो उससे एक हाथ उत्तर पाँच पुरुष नीचे
जल कहना चाहिये। जहाँ पर भी वक्ष्यमाण चिह्न मिलते हैं; जैसे—आधा पुरुष नीचे
हरा मेढ़क, उसके बाद हरताल के समान पीली भूमि, उसके नीचे मेघ के समान काला
पत्थर और उसके नीचे मधुर जल वाली उत्तरवाहिनी शिरा निकलती है॥२९-३०॥
सप्तपर्णो वृक्षविशेषः। स च यदि वल्मीकसंयुतो भवति तदुत्तरे तस्मात् सप्तपर्णादुत्तरे
उत्तरस्यां दिशि हस्तात् परतः पञ्चभिः पुरुषैरधस्तोयं वाच्यम्। चिह्नानि वक्ष्यमाणानि भवन्ति।
पुरुषेऽर्धे हरितः शुकवर्णो मण्डूको दर्दुरः। तथाऽत्र हरितालसन्निभा हरितालवर्णा
भूर्वनिर्भवति। अभ्रनिकाशोऽभ्रसदृशो मेघाभः कृष्णः पाषाणोऽश्मा। ततः सौम्योत्तरा च
शिरा शुभाम्बुवहा मृष्टजलवाहिनी भवति। तथा च सारस्वतः—
भुजङ्गगृहसंयुक्तो यत्र स्यात् सप्तपर्णकः।
ततः सौम्ये हस्तमात्रात् पञ्चभिः पुरुषैरधः।।
वाच्यं जलं नराधे तु मण्डूको हरितो भवेत्।
हरितालनिभा भूश्च मेघाभोऽश्मा ततः शिरा।।
उत्तरा सुजला ज्ञेया दीर्घा मृष्टाम्बुवाहिनी।। इति।।२९-३०।।
अन्यदप्याह—
सर्वेषां वृक्षाणामधः स्थितो दर्दुरो यदा दृश्यः।
तस्माद्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः ॥३१॥
पुरुषे तु भवति नकुलो नीला मृत्पीतिका ततः श्वेता।
दर्दुरसमानरूपः पाषाणो दृश्यते चात्र ॥३२॥
जिस-किसी वृक्ष के मूल में मेढ़क दिखाई दे, उस वृक्ष से एक हाथ आगे उत्तर
दिशा में साढ़े चार पुरुष नीचे जल होता है। यहाँ पर खोदने के समय एक पुरुष नीचे
नेवला, उसके नीचे क्रम से नीली, पीली तथा सफेद मिट्टी, उसके नीचे मेढक के सदृश
पत्थर और उसके नीचे जल निकलता है।।३१-३२।।
सर्वेषां वृक्षाणामशेषाणां तरूणां येषां केषाञ्चिदधः स्थितो मूले समवस्थितो दर्दुरो
मण्डूको दृश्यते, ततस्तस्माद्वृक्षादुत्तरस्यां दिशि हस्ते तोयमधश्चतुर्भिरर्धाधिकैः पुरुषैः सार्धै-
श्चतुर्भिर्नरैर्भवति।
अत्र चिह्नानि—पुरुषे खाते नकुलो भवति, ततो नीला मृत्, ततः पीता। ततः श्वेता
मृत्, ततो दर्दुरसमानरूपो मण्डूकसदृशः पाषाणोऽत्र दृश्यते तदधस्तोयम्। तथा च
सारस्वतः—
बृ० भ० द्वि०-६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

८२ बृहत्संहिता
तरूणां यत्र सर्वेषामधःस्थो दर्दुरो भवेत्।
वृक्षादुदग्दिशि जलं हस्तात् सार्धैर्नरैरधः।।
चतुर्भिः पुरुषे खाते नकुलो नीलमृत्तिका।
पीतश्वेता ततो भेकसदृशोऽश्मा प्रदृश्यते।। इति।।३१-३२।।
अन्यदप्याह—
यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य ।
हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्धे ।। ३३ ।।
कच्छपकः पुरुषार्द्धे प्रथमं चोद्भिद्यते शिरा पूर्वा ।
उदगन्या स्वादुजला हरितोऽश्माधस्ततस्तोयम् ।। ३४ ।।
यदि करञ्जक वृक्ष के दक्षिण दिशा में वल्मीक दिखाई दे तो उस वृक्ष से दो हाथ
दक्षिण तीन पुरुष नीचे शिरा होती है। यहाँ पर आधा पुरुष नीचे कछुआ, उसके नीचे
पूर्ववाहिनी शिरा, उसके नीचे उत्तरवाहिनी शिरा, उसके नीचे हरे रंग का पत्थर और
उसके नीचे जल निकलता है।।३३-३४।।
यदि करञ्जवृक्षस्य दक्षिणतो दक्षिणस्यां दिशि संस्थितोऽहिनिलयः सर्पगृहं वल्मीको
दृश्यते, तदा याम्ये दक्षिणे करञ्जाद्धस्तद्वये हस्तद्वयं त्यक्त्वा अधः सार्धे पुरुषत्रितये शिरा
भवति।
अत्र चिह्नानि—पुरुषार्धे खाते कच्छपकः कूर्मो दृश्यते। तत्र प्रथममादौ पूर्वा शिरा
उद्भिद्यते दृश्यते। ततोऽन्या द्वितीया उदगुत्तरस्यां दिशि शिरा स्वादुजला मृष्टोदका उद्भिद्यते।
अधो हरितः शुकवर्णोऽश्मा भवति। ततः परं तोयं जलं भवति।।३३-३४।।
अन्यदप्याह—
उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोस्तोयम् ।
परिहृत्य पञ्च हस्तानर्धाष्टमपौरुषान् प्रथमम् ।। ३५ ।।
अहिराजः पुरुषेऽस्मिन् धूम्रा धात्री कुलुत्थवर्णोऽश्मा ।
माहेन्द्री भवति शिरा वहति सफेनं सदा तोयम् ।। ३६ ।।
महुए के वृक्ष से उत्तर वल्मीक हो तो उस वृक्ष से पाँच हाथ आगे पश्चिम दिशा में
साढ़े आठ पुरुष नीचे जल होता है। यहाँ पर एक पुरुष नीचे प्रधान सर्प, उसके नीचे
धूम्र वर्ण की पृथ्वी, उसके नीचे कुलथी के रंग का पत्थर और उसके नीचे सदा फेनयुक्त
जल देने वाली पूर्ववाहिनी शिरा निकलती है।।३५-३६।।
मधूकाद् मधूकवृक्षादुत्तरत उत्तरस्यां दिशि यद्यहिनिलयो वल्मीको दृश्यते, तदा तरोर्मधू-
कात् पश्चिमे पश्चिमायां दिशि पञ्च हस्तान् परिहृत्य त्यक्त्वा ततोऽधोऽर्धाष्टमपौरुषान् खात्वा
सार्धैः सप्तभिर्नरैरधस्तोयं जलं भवति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA