बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
अङ्गविद्याध्यायः ५९७
रस्निग्धैः। कुटिलैरस्पष्टैः। न शोभनम्। कौ भूमौ जायन्त इति कुजाः। तथा क्रूरैरनिष्टैः
पक्षिभिर्विहगैः काकगृध्रबकाद्यैर्युक्तैः। निन्द्यनामभिः कुत्सितसंज्ञैर्विभीतक्वेतसप्रभृतिभिः।
शुष्कैर्नीर सैः। तथा शीर्णानि च्युतानि बहूनि प्रभूतानि पर्णानि पत्राणि चर्माणि त्वचो येषां
तैः॥३॥
तथान्यदप्याह—
श्मशानशून्यायतनं चतुष्पथं तथाऽमनोज्ञं विषमं सदोषर ।
अवस्कराङ्गारकपालभस्मभिश्चतं तुषैः शुष्कतृणैर्न शोभनम् ॥४॥
श्मशान, शून्य देवगृह, चौराहा, चित्त में ग्लानि उत्पन्न करने वाला, विषम ( निम्नोन्नत ),
सदा ऊषर रहने वाला, अशुद्ध फूटे भाण्ड, कोयला, आदमी की खोपड़ी, भस्म, तुष
और सूखे घास से व्याप्त स्थान में प्रश्न करना अशुभ होता है॥४॥
एवंविधं स्थानं पृच्छायां न शोभनं न शुभदम्। कीदृशम्? श्मशानं शवशयनप्रदेशम्।
शून्यायतनं उद्वासितदेवगृहम्। चतुष्पथं चत्वारः पन्थानो यत्र। तथा अमनोज्ञमचित्ताह्लादकम्।
विषमं निम्नोन्नतम्। सदा सर्वकालमूपरं सिकतासंयुक्तम्। अवस्करैर्गृहच्युतैरशुचिभिरनु-
पयोग्यैर्भाण्डैश्चितं व्याप्तम्। तथा अङ्गारैर्दग्धकाष्ठैः कपालैरस्थिशकलैर्भस्मना च चितं
संयुक्तम्। तथा तुषैः शालिचर्मभिः शुष्कैर्नीरसैस्तृणैश्च चितं न शोभनमिति॥४॥
अन्यदप्याह—
प्रव्रजितनग्ननापितरिपुबन्धनसौनिकैस्तथा श्वपचैः ।
कितवयतिपीडितैर्युतमायुधमाध्वीकविक्रयैर्न शुभम् ॥५॥
जहाँ पर संन्यासी, नंगे आदमी, नाई ( हजाम ), शत्रु, बन्धनशाला, कसाई,
चाण्डाल, धूर्त, यति—ये सभी रहते हों, वहाँ प्रश्न नहीं करना चाहिये तथा शस्त्र और
मद्य के विक्रयस्थान में भी प्रश्न करना अशुभ होता है॥५॥
एवंविधं स्थानं पृच्छायां न शुभम्। कीदृशम्? प्रव्रजितस्तापसो लिङ्गी। नग्नो विवस्त्रः।
नापितः प्रसिद्धः शिल्पी। रिपुः शत्रुः। बन्धनं बन्धनशाला। सौनिकः पशुघातकः। एतै-
र्युक्तं यत्स्थानम्। तथा श्वपचैः प्रसिद्धैः। कितवो द्यूतकरः। यतिस्त्रिदण्डी। पीडितो व्याध्य-
र्दितः। एतैर्युतं यत्स्थानम्। तथा आयुधशाला यत्र। माध्वीकं मधु तच्छाला यत्र। विक्रय-
शाला यत्राऽऽकल्पपालगृहसमीपमेतैर्न शुभमिति॥५॥
अथ दिक्काललक्षणमाह—
प्रागुत्तरेशाश्च दिशः प्रशस्ताः प्रष्टुर्न वाय्वम्बुयमाग्निरक्षः ।
पूर्वाह्नकालेऽस्ति शुभं न रात्रौ सन्ध्याद्वये प्रश्नकृतोऽपराह्ने ॥६॥
पूर्व, उत्तर या ईशान कोण की तरफ मुंह करके प्रश्न करना शुभ और वायव्य,
पश्चिम, दक्षिण, आग्नेय या नैर्ऋत्य कोण की तरफ मुख करके प्रश्न करना अशुभ होता
है; साथ ही पूर्वाह्न समय में शुभ और रात्रि, दोनों सन्ध्याओं या अपराह्न में प्रश्न करना
अशुभ होता है॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
५९८ | बृहत्संहिता
दिश आशाः। प्रागुत्तरेशाः, पूर्वा उत्तरा ऐशानी, इन्द्रकुबेरशिवदिशः। पृच्छायां
प्रशस्ताः शुभाः। प्रष्टुः प्रच्छकस्य तदभिमुखः शुभ इत्यर्थः। न वाय्वम्बुयमग्निरक्षः,
वायवीवारुणदक्षिणाग्नेयीनैर्ऋताश्च न शुभाः। एता दिशः प्रष्टुः पूर्वाह्णिकाले दिनस्य प्राग्भाग-
समये प्रश्नकृतः प्रच्छकस्य शुभं शोभनफलमस्ति विद्यते। रात्रौ निशि सन्ध्याद्वये सायं
प्रातरपराह्णे च न शोभनमिति। तथा च पराशरः—
'छिन्नभिन्नशुष्करूक्षवक्रजन्तुजग्धदग्धकण्टकिक्रव्यादद्विजन्निषेविताप्रशस्तनामाङ्कित-
पादपच्छायाये श्मशानशून्यायतनचत्वरोषररिपुनापितायुधमद्यविक्रयशालासु नैर्ऋताग्नेययाम्य-
वारुणवायव्याशाभिमुखः प्रचोदयेत्तस्येष्टमर्थमनर्थाय विन्द्यात्'।। इति। अपि च—
वेलाः सर्वाः प्रशस्यन्ते पूर्वाह्णे परिपृच्छताम्।
सन्ध्ययोरपराह्णे तु क्षपायां तु विगर्हिताः।। इति।।६।।
अथान्यच्छुभाशुभलक्षणमाह—
यात्राविधाने हि शुभाशुभं यत्प्रोक्तं निमित्तं तदिहापि वाच्यम्।
दृष्ट्वा पुरो वा जनताहृतं वा प्रष्टुः स्थितं पाणितलेऽथ वस्त्रे ॥७॥
यात्रा के विधान में जो शुभाशुभ निमित्त कहे गये हैं, उन निमित्तों को सम्मुख,
किसी मनुष्य से लाये हुए, प्रश्नकर्ता के हस्त में या वस्त्र में देखकर शुभाशुभ फल
कहना चाहिये। जैसे सरसों, शीशा, जल और कागज देख कर शुभ तथा कपाल,
औषध और काले धान्य देख कर अशुभ कहना चाहिए।।७।।
यात्राविधाने यच्छुभाशुभं कथितं प्रोक्तम्—'सिद्धार्थकादर्शपयोऽञ्जनानि' इति शुभदम्।
'कार्पासौषधकृष्णधान्यम्' इत्यशुभदम्। तथा तत्र शाकुनं यन्निमित्तं प्रोक्तं तदिहापि प्रश्न-
समये वाच्यं वक्तव्यम्। पुरोऽग्रतो वा दृष्ट्वाऽवलोक्य जनतया जनसमूहेन वा आहृतमानीतं
प्रष्टुः प्रच्छकस्य पाणितले हस्ते वस्त्रे वा स्थितं दृष्ट्वा शुभमादिशेत्। तथा च पराशरः—
यात्राविधाने निर्दिष्टं निमित्तं यच्छुभाशुभम्।
तदेव दृष्ट्वा दैवज्ञो वाञ्छासिद्धिं विनिर्दिशेत्।। इति।।७।।
अधुना अङ्गानि पुंसंज्ञकान्याह—
अथाङ्गान्यूर्व्वोष्ठस्तनवृषणपादं च दशना
भुजौ हस्तौ गण्डौ कचगलनखाङ्गुष्ठमपि यत्।
सशङ्खं कक्षांसं श्रवणगुदसन्ध्रीति पुरुषे
ऊरु, ओठ, स्तन, अण्डकोश, पाँव, दाँत, बाहु, हाथ, गाल, केश, कण्ठ, नख,
अंगूठा, शंख, काँख, कन्धा, कान, गुप्तेन्द्रिय, दो अंगों के सन्धि स्थान—ये सब
पुरुष-संज्ञक कहे गये हैं।
अथानन्तरं पुंसञ्ज्ञकान्यङ्गानि भवन्ति। ऊरू। ओष्ठौ दन्तच्छदौ। स्तनौ प्रसिद्धौ।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
वृषणौ मुष्कौ। पादौ चरणौ। दशना दन्ताः। भुजौ बाहू। हस्तौ करौ। गण्डौ मुखकपोलौ।
कचाः केशाः। गलं कण्ठम्। नखाः कररुहाः। अङ्गुष्ठौ हस्तपादाङ्गुष्ठौ। सशङ्खं कक्षांसम्,
सह शङ्खाभ्यां वर्तते यत्कक्षांसम्। शङ्खौ प्रसिद्धौ। कक्षौ बाहुमूलतलौ। अंसौ स्कन्धौ।
श्रवणौ कर्णौ। गुदं पायुस्थानम्। सन्धिग्रहणेन सर्वाङ्गसन्धय उच्यन्ते। इत्येवं प्रकाराः
सर्व एव पुरुषे पुंसि ज्ञेयाः। तथा च पराशरः—
'अङ्गानि मुष्कस्तनपादोरुगुह्यभुजहस्तसमस्तककर्णांशिशङ्खदन्तौष्ठाङ्गुष्ठनखगलगण्ड-
केशसन्धयः पुरुषाख्यानि' इति।।
अथ स्त्रीसंज्ञकान्याह—
स्त्रियां भ्रूनासास्फिग्वलिकटिसुलेखाङ्गुलिचयं ॥८॥
जिह्वा ग्रीवा पिण्डिके पार्णियुग्मं जङ्घे नाभिः कर्णपाली कृकाटी ।
भौंह, नाक, स्फिक् ( नितम्ब ), त्रिवली, कमर, करमध्य की सुन्दर रेखा, अंगुली,
जीभ, गर्दन, दोनों जंघाओं के पृष्ठ भाग, एड़ी, जंघा, नाभि, कर्णपाली, कृकाटी ( गर्दन का
पृष्ठ-भाग )—ये सब स्त्रीसंज्ञक अंग हैं॥८॥
एतान्यङ्गानि स्त्रियो भवन्ति। भ्रूः प्रसिद्धा। नासा घ्राणम्। स्फिजौ प्रसिद्धौ। वली
लेखा यथा त्रिवली। कटिः प्रसिद्धा। सुलेखा शोभनलेखा करमध्यस्था। अङ्गुलिचयो-
ऽङ्गुलिसमूहः। जिह्वा रसना। ग्रीवा शिरोधरा। पिण्डिके जङ्घयोः पश्चिमभागौ। पार्णियुग्मं
प्रसिद्धम्। जङ्घे प्रसिद्धे। नाभिस्तुन्दिः। कर्णपाली प्रसिद्धा। कृकाटी ग्रीवापश्चिमभागः।
एतानि स्त्रीसंज्ञानि। तथा च पराशरः—'भ्रुवौ नासाग्रीवावलयोऽङ्गुलयो लेखा श्रोणिनाभी
रसना जङ्घे पिण्डिके पालिस्फिजौ पार्ष्णिः कृकाटिकेति स्त्रीसञ्ज्ञानि' इति॥८॥
अथ नपुंसकाख्यान्याह—
वक्त्रं पृष्ठं जत्रुजान्वस्थिपार्श्वं हृत्ताल्वक्षी मेहनोरस्त्रिकं च ॥९॥
नपुंसकाख्यं च शिरो ललाटमाद्याद्यसंज्ञैरपरैश्चिरेण ।
सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतैर्भग्नकृशैश्च पूर्वैः ॥१०॥
मुख, पृष्ठ, काँखों की सन्धि, जानु, हड्डी, बगल, हृदय, तालु, नेत्र, लिङ्ग, छाती, त्रिक
( कटि का पश्चिम भाग ), शिर, ललाट—ये सब नपुंसक अंग हैं।
आद्य ( पुरुष ) संज्ञक अंगस्पर्श करते हुये प्रश्न करे तो शीघ्र सिद्धि होती है।
अपर ( स्त्रीसंज्ञक ) अंग से देर में और नपुंसक संज्ञक अंग स्पर्श करते हुये प्रश्न करे
तो कदापि सिद्धि नहीं होती है। यदि पुरुष संज्ञक या स्त्री संज्ञक अंग रूखा, क्षत, भग्न
या कृश हो तो कदापि सिद्धि नहीं होती है॥९-१०॥
एतानि नपुंसकाख्यानि। वक्त्रं मुखम्। पृष्ठं शरीरपश्चिमभागः। जत्रुरुरःकक्षयोः
सन्धिः। जानुनी प्रसिद्धे। अस्थीनि प्रसिद्धानि। पार्श्वे प्रसिद्धे। हृद्धृदयम्। तालुरास्यपृष्ठ-
भागम्। अक्षिणी नेत्रे। मेहनं लिङ्गम्। उरो वक्षः। त्रिकं कटिपश्चिमभागो वलिप्रदेशः।
६०० बृहत्संहिता
शिरो मूर्धा। ललाटं मुखपृष्ठम्। एतत्सर्वं नपुंसकाख्यं स्यान्द्रवेदिति। तथा च
पराशरः—
‘शिरोललाटमुखचिबुकपृष्ठजठरजत्रुजान्वस्थिपार्श्वहृदयकर्णपीठाक्षिमेहनोरस्त्रिकताल्विति
नपुंसकाख्यानि’ इति।
आश्वाद्यसंज्ञैरिति। आद्यसंज्ञैः प्रथमोक्तैः पुन्नामभिः स्पृष्टैराशु क्षिप्रमेव सिद्धिः स्याद्
भवेत्। अपरैस्तदनन्तरोक्तैः स्त्रीनामभिः। चिरेण सिद्धिर्भवेत्। नपुंसकैः स्पृष्टैर्नो जातु न
कदाचिदपि सिद्धिः स्यात्।
रूक्षक्षतैरिति। नेत्यनुवर्तते। पूर्वैः पुन्नामभिः स्त्रीनामभिर्वा रूक्षैरस्निग्धैः। क्षतैः
सम्प्रहारैः। भग्नैः स्फुटितैः। कृशैरल्पमांसैः। न जातु न कदाचिदपि सिद्धिर्भवेदिति।
तथा च पराशरः—
‘तत्र पुन्नाम स्निग्धमुचितमनुपहतमक्षतमरोगमङ्गं स्पृष्टं दिग्देशकालव्याहारेष्टदर्शनैरुपपन्नं
प्रष्टुः पृच्छार्थं सकलफलमभिनिर्वर्तयति। स्त्रीसञ्ज्ञमपि पूर्वोक्तलक्षणयुक्तं यत्नात् कालान्तरेण
सफलम्। नपुंसकाख्यमकार्यसिद्धिममनर्थानां वाऽऽगमनं कुर्यात्’ इति। अपि च—
पुंसंज्ञेष्वाशु सिद्धिः स्यात् स्त्रीसंज्ञेषु चिराद्भवेत्।
अशुभं त्वेव निर्दिष्टं नपुंसकनामसु।।
पुरुषाख्ये नु संस्पृष्टे बाह्ये रूक्षेऽबले क्षते।
नार्थसिद्धिमतो ब्रूयादङ्गविद्याविशारदः।। इति।।९-१०।।
अथ पृथक् फलनिर्देशार्थमाह—
स्पृष्टे वा चालिते वापि पादाङ्गुष्ठेऽक्षिरुग्भवेत्।
अङ्गुल्यां दुहितुः शोकं शिरोघाते नृपाद् भयम्।।११।।
यदि प्रश्नकर्ता पाँव के अंगूठे का स्पर्श करते हुये या उसको हिलाते हुये प्रश्न करे
तो नेत्ररोग, अंगुली का स्पर्श करते हुये या हिलाते हुये प्रश्न करे तो कन्या को शोक
और शिर पर आघात करते हुए प्रश्न करे तो राजा से भय होता है।।११।।
तत्र पृच्छायां पादाङ्गुष्ठे स्पृष्टे चालिते वा प्रष्टुरक्षिरुग् नेत्रपीडा भवेत् स्यादिति
वदेत्। अङ्गुल्यां स्पृष्टायां दुहितृशोकं वदेत्। शिरोघाते शिरोऽभिहन्यमानं पृच्छेतदा
नृपाद्राजतो भयमिति। तथा च पराशरः—
‘अथ पृथक् पृथक् फलनिर्देशः। तत्र पादाङ्गुष्ठे प्रचलयन् स्पृष्ट्वा वा पृच्छेत्
प्रष्टुश्चक्षुरोगं विनिर्दिशेत्। अङ्गुलिं स्पृष्ट्वा दुहितृशोकं शिरोऽभिहन्यमानं राजतो भयम्’
इति।।११।।
अन्यदप्याह—
द्विप्रयोगमुरसि स्वगात्रतः कर्पटाहतिरनर्थदा भवेत्।
स्यात् प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः।।१२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अङ्गविद्याध्यायः ६०१
यदि प्रश्न करने वाला छाती को छूते हुए प्रश्न करे तो विप्रयोग ( किसी स्नेही से
वियोग ) होता है। अपने शरीर से कोई वस्त्र उतारते हुए प्रश्न करे तो अनर्थ होता है
और वस्त्र को पकड़ कर एक पाँव को दूसरे पाँव पर रखते हुए प्रश्न करे तो प्रिय का
लाभ होता है॥१२॥
उरसि वक्षसि स्पृष्टे प्रष्टुः केनचित् सह विप्रयोगं वदेत्। स्वगात्रात् आत्मीयशरीरात्
कर्पटाहतिः वस्त्रत्यागः, अनर्थदा अनिष्टदा भवेत् स्यात्। कर्पटं वसनमभिगृह्य प्राप्य
चरणं पादं द्वितीयचरणे योजयति तस्य पृच्छतः प्रष्टुः प्रियाप्तिः प्रियलाभः स्याद्वदेत्।
तथा च पराशरः—
उरः स्पृष्ट्वा विप्रयोगं स्वगात्राद्वस्त्रमुत्सृजेत्।
तस्यानर्थागमं पादं पादेन संस्पृशेत् पटम्॥
तमभिगृह्य वा पृच्छेद्विन्द्यात् प्रियसमागमम्॥ इति॥१२॥
अन्यदप्याह—
पादाङ्गुष्ठेन विलिखेद् भूमिं क्षेत्रोत्थचिन्तया ।
हस्तेन पादौ कण्डूयेत्तस्य दासीमयी च सा॥१३॥
यदि प्रश्नकर्त्ता पाँव के अंगूठे से भूमि पर लिखे तो खेत की चिन्ता और दोनों
हाथों से दोनों पाँवों को खुजलावे तो दासी की चिन्ता कहनी चाहिये॥१३॥
प्रष्टा क्षेत्रोत्थचिन्तया पादाङ्गुष्ठेन भूमिमवनिं विलिखेत्। हस्तेन करेण पादौ चरणौ
कण्डूयेत्तदा चित्तस्य सा च चिन्ता दासीमयी दासीकृता। तथा च पराशरः—
अङ्गुष्ठेन लिखेद् भूमिं क्षेत्रचिन्तां विचिन्तयेत्।
हस्तेन पादौ कण्डूयेत् कुर्याद्दासीकृतां स ताम्॥ इति ॥१३॥
अन्यदप्याह—
तालभूर्जपटदर्शनेंऽशुकं चिन्तयेत् कचतुषास्थिभस्मगम् ।
व्याधिराश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य बन्धनम् ॥१४॥
यदि प्रश्न करने के समय ताड़ के वृक्ष के पत्ते, भोजपत्र या वस्त्र का दर्शन हो तो
वस्त्र की चिन्ता कहनी चाहिये। केश, तुष ( धान्यों की भूसी ), हड्डी या भस्म पर बैठा
हुआ प्रश्नकर्ता प्रश्न करे तो व्याधि होती है तथा प्रश्नकाल में रस्सी का जाल और वृक्ष
का खाल देखने से बन्धन होता है॥१४॥
तालवृक्षपत्रदर्शने भूर्जपटदर्शने वा प्रष्टा अंशुकं वस्त्रं चिन्तयेत्। कचतुषास्थिभस्मगं
व्याधिराश्रयति। कचाः केशाः। तुषं शालिचर्म। अस्थि प्रसिद्धम्। भस्म प्रसिद्धमेव।
एषामन्यतम उपगतं प्रष्टारं व्याधिः पीडा। आश्रयति आवृणोति। रज्जुः प्रसिद्धा। जालकं
यत्र पक्षिणो बध्यन्ते। वल्कलं त्वक्। एषामन्यतमे स्थितं तं वा समवेक्ष्यावलोक्य गृहीत्वा
वा पृच्छेत् तदा बन्धनं वदेत्। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६०२ बृहत्संहिता
तालभूर्जपत्रदर्शने वस्त्रार्थं केशास्थि-
भस्मान्याक्रम्य व्याधिभयं ब्रूयात्।
निगडजालरज्ज्वाश्रित्य वल्कला-
न्यधिष्ठाय दर्शने वा बन्धनभयम्।। इति।।११४।।
अन्यदप्याह—
पिप्पलीमरिचशुण्ठिवारिदै रोध्रकुष्ठवसनाम्बुजीरकैः ।
गन्धमांसिशतपुष्पया वदेत्पृच्छतस्तगरकेण चिन्तयेत् ।।११५।।
स्त्रीपुरुषदोषपीडितसर्वार्थसुतार्थधान्यतनयानाम् ।
द्विचतुष्पदक्षितीनां विनाशतः कीर्तितैर्दृष्टैः ।।११६।।
यदि प्रश्नकाल में पीपल, मिर्च, सोंठ, मुस्ता ( नागरमोथा ), लोध्र, कूट, वस्त्र,
नेत्रबाला, जीरा, गन्धमांसि ( बाल छड़ ), सोंफ और तगर के फूल का दर्शन हो तो
क्रम से स्त्री के दोष, पुरुष के दोष, रोगी, सर्वनाश, अर्थनाश, पुत्रनाश, अर्थनाश,
धान्यनाश, पुत्रनाश, द्विपदनाश, चतुष्पदनाश और भूमिनाश की चिन्ता कहनी चाहिए।
जैसे पीपल के दर्शन से स्त्रीदोष की, मिर्च के दर्शन से पुरुषदोष की, सोंठ के दर्शन से
रोगी इत्यादि की चिन्ता कहनी चाहिये।।११५-११६।।
पिप्पल्यादिदर्शने स्त्र्यधिकृतां चिन्तां क्रमश्रो वदेत् । तत्र पिप्पलीदर्शने या स्त्री
दोषसंयुता सदोषा तत्कृतां चिन्तां प्रवदेत्। मरिचदर्शने पुरुषस्य दोषसंयुतस्य सपापस्य
चिन्तां वदेत्। शुण्ठिदर्शने पीडितस्य व्याधितस्य मृतस्य वा चिन्ताम्। वारिदा मुस्तास्तेषां
दर्शने सर्वनाशकृताम्। रोध्रदर्शने अर्थनाशकृताम्। कुष्ठदर्शने सुतनाशकृतां पुत्रविनाशजाम्।
वसनं वस्त्रं तद्दर्शने अर्थनाशकृताम्। अम्बुनो बालकस्य दर्शने धान्यनाशकृताम्।
जीरकमजाजी तद्दर्शने तनयस्य पुत्रस्य नाशकृताम्। गन्धमांस्या द्विपदानां द्विशफानां नाश-
कृताम्। शतपुष्पया चतुष्पदानां चतुःशफानां नाशकृताम्। तगरकेण क्षिते
अङ्गविद्याध्यायः ६०३
और बैर का फल हो तो क्रम से धन, सुवर्ण, द्विपद, लोहा, वस्त्र, चाँदी और औदुम्बर
( ताँबा ) की प्राप्ति कहनी चाहिए। जैसे बड़ का फल हाथ में हो तो धन की प्राप्ति,
महुआ का फल हाथ में हो तो सुवर्ण की प्राप्ति इत्यादि कहनी चाहिये।।१७।।
न्यग्रोधादिजातीफलैस्तत्सम्भवैः फलैः करगैर्हस्तगैर्धनाद्याप्तिर्भवति। तत्र न्यग्रोधजाती-
फलैः प्रष्टुर्हस्तस्थैर्धनाप्तिर्वित्तलाभो भवेत्। मधुकफलैः कनकस्य प्राप्तिः। तिन्दुकफलैः
पुरुषस्य द्विपदस्य प्राप्तिः। जम्बूफलैलौहस्य। प्लक्षफलैरंशुकस्य वस्त्रस्य। आम्रफलै
रूप्यस्य। बदरफलैरौदुम्बरस्य ताम्रस्येति। तथा च पराशरः—
'अश्वत्थन्यग्रोधफलैर्हस्तस्थैः पृच्छेद्वनागममादिशेत्। मधुकौदुम्बरफलैः काञ्चनागमम्।
द्विपदागमं तिन्दुकैः। वस्त्रागमं प्लक्षजैः। रूप्यस्यागममाम्रैः। ताम्रस्यागमं बदरैः। लोहस्या-
गमं जम्बूकैरिति वा' इति।।१७।।
अन्यदप्याह—
धान्यपरिपूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्धिकरौ।
गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम् ।।१८।।
यदि प्रश्नकाल में धान्यों से परिपूर्ण पात्र या पूर्ण घट दिखाई दे तो कुटुम्बों की
वृद्धि होती है। यदि हाथी की लीद, गाय का गोबर और कुत्ते की विष्ठा दिखाई दे तो
क्रम से धन का विनाश, युवती स्त्री का विनाश और मित्रों का विनाश कहना चाहिये।।१८।।
धान्येन परिपूर्णं पात्रं भाजनं कुम्भः पूर्णश्च तौ दृष्टौ कुटुम्बवृद्धिकरौ गजगोशुनां
पुरीषं यथासंख्यं धनयुवतिसुहृद्विनाशकरं भवति। गजस्य हस्तिन पुरीषं दृष्टं धनस्यैश्वर्यस्य
विनाशकरम्। गोपुरीषं गोमयं युवतीनां स्त्रीणां विनाशकरम्। शुनः पुरीषं सुहृदां मित्राणां
विनाशकरमिति। तथा च पराशरः—
'धान्यपात्रपूर्णोदकुम्भदर्शने कुटुम्बवृद्धिं जानीयात्। हस्तिना द्रव्यागमम्। हस्तिशकृतो
भ्रंशमैश्वर्यस्य वा। गोमयस्य स्त्रीव्यभिचारम्। शुनः सुहृद्विनाशम्' इति।।१८।।
अन्यदप्याह—
पशुहस्तिमहिषपङ्कजरजतव्याघ्रैर्लभेत् सन्दृष्टैः।
अविधननिवसनमलयजकौशेयाभरणसङ्घातम् ।।१९।।
यदि प्रश्नकाल में पशु, हाथी, भैंस, कमल, चाँदी और बाघ दिखाई दे तो क्रम से
कम्बल आदि ऊनी वस्त्र, धन, रेशमी वस्त्र, चन्दन, रेशमी वस्त्र और आभूषण की प्राप्ति
होती है।।१९।।
पश्वादिभिः पृच्छासमये सन्दृष्टैरवलोकितैरव्याद्याभरणानां सङ्घातं समूहं प्रष्टा लभते।
तत्र पशुदर्शने आविकस्यौर्णिकस्य कम्बलादेर्लाभः। हस्तिनः करिणो दर्शने धनागमः।
महिषस्य दर्शने निवसनस्य क्षौमवस्त्रस्य। पङ्कजस्य पद्मस्य दर्शने मलयजस्य चन्दनस्य।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६०४ बृहत्संहिता
रजतस्य रूप्यस्य दर्शने कौशेयवस्त्रस्य। व्याघ्रस्य सन्दर्शने आभरणागमः। तथा च
पराशरः—
'महिषस्य क्षौमवस्त्रागमम्। मणिभाण्डस्य गजवाजिनामौर्णिकानाम्। व्याघ्रस्या-
भरणागमम्। पङ्कजस्य रक्तवस्त्रचन्दनलाभम्। रूप्यस्य कौशेयवस्त्राणाम्' इति।।१९।।
अन्यदप्याह—
पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिर्विहिता।
मित्रद्यूतार्थभवा गणिकानृपसूतिकार्थकृता ॥२०॥
यदि प्रश्नकाल में वृद्ध श्रावक (कापालिक) का दर्शन हो तो मित्र, द्यूत और
धनसम्बन्धी चिन्ता तथा उत्तम संन्यासी का दर्शन हो तो वेश्या, राजा और प्रसूता स्त्री के
लिये चिन्ता कहनी चाहिये।।२०।।
वृद्धश्रावकः कापालिकस्तद्दर्शने तदालोकने नृभिः पुम्भिर्मित्रद्यूतार्थभवा पृच्छा
विहिता कृता मित्रार्थं द्यूतार्थं वा कृता। सुपरिव्राड्दर्शने यत्याद्यवलोकने लिङ्गिनो वा
गणिकानृपसूतिकार्थकृता पृच्छा। गणिका वेश्या। नृपो राजा। सूतिका प्रसूता स्त्री।
तत्कृता।।२०।।
अन्यदप्याह—
शाक्योपाध्यायार्हन्निग्र्रन्थिनिमित्तनिगमकैवर्तैः ।
चौरचमूपतिवणिजां दासीयोधापणस्थवध्यानाम् ॥२१॥
यदि प्रश्नकाल में बौद्धमतानुयायी, उपाध्याय, अर्हत्, निर्ग्रन्थी, दैवज्ञ, निगम और
धीवर दिखाई दे तो क्रम से चोर, सेनापति, बनियाँ, दासी, योद्धा, दुकानदार और वध-
सम्बन्धी चिन्ता कहनी चाहिये।।२१।।
शाक्यादीनां दर्शने चौरादीनां पृच्छा। शाक्यदर्शने चौरकृता। उपाध्यायदर्शने चमूपति-
कृता सेनापतिकृता। अर्हद्दर्शने वणिक्कृता। निर्ग्रन्थिदर्शने दासीकृता। नैमित्तिकस्य दैव-
विदो दर्शने योधकृता। निगमदर्शने आपणस्थस्य श्रेष्ठिनः कृता। कैवर्तस्य धीवरस्य
दर्शने वध्यकृता चिन्ता इति।।२१।।
अन्यदप्याह—
तापसे शौण्डिके दृष्टे प्रोषितं पशुपालनम्।
हृद्गतं प्रच्छकस्य स्यादुञ्छवृत्तौ विपन्नता ॥२२॥
यदि प्रश्नकाल में तापस (तपस्वी) का दर्शन हो तो प्रवासी की और कलाल
(मद्य बेचने वाले) का दर्शन हो तो पशुओं की रक्षासम्बन्धी चिन्ता कहनी चाहिए।
यदि उञ्छ वृत्ति (गिरे हुये एक-एक दाने को इकट्ठा करने वाले) का दर्शन हो तो
विपत्ति की चिन्ता कहनी चाहिए।।२२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
तापसे दृष्टेऽवलोकिते प्रच्छकस्य प्रष्टुर्हृद्गतं चित्तस्थम्। प्रोषितः प्रवासी यः कश्चित्
स्थितः। तं प्रवासिनम्। शौण्डिके मद्यासक्ते दृष्टे पशुपालनं चित्तस्थम्। उञ्छवृत्तौ
शिलोञ्छवृत्तौ दृष्टे विपन्नतार्था चिन्ता। तथा च पराशरः—
‘निर्ग्रन्थिदर्शने दासीपृच्छा। वृद्धश्रावकदर्शने मित्रद्यूतकृता वा। शाक्यस्य चौरकृता।
परिव्राजकस्य नृपसूतिकागणिकार्था वा। उपाध्यायस्य चमूपतिकृता। नैगमस्य श्रेष्ठिकृता।
नैमित्तिकस्य योधार्था। अर्हतो वाणिजिकार्था। उञ्छवृत्तिनो विपन्नार्था। तापसस्य प्रोषितार्था।
शौण्डिकस्य पशुपालनार्था। कैवर्तस्य वध्यघातकृता' इति॥२२॥
अन्यदप्याह—
इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशेत्युक्ते।
संयोगकुटुम्बोत्था लाभैश्वर्योद्गता चिन्ता॥२३॥
यदि प्रश्न करने के समय प्रश्नकर्त्ता के मुख से पहले-पहल ‘मैं पूछना चाहता हूँ
आप कहिए’ इस तरह का शब्द निकले तो सन्धि या कुटुम्बसम्बन्धी, ‘आप देखिये’
इस तरह का शब्द निकले तो लाभसम्बन्धी और ‘आप आज्ञा दें’ इस तरह का शब्द
निकले तो ऐश्वर्यसम्बन्धी चिन्ता कहनी चाहिये॥२३॥
इच्छामीत्याद्युक्ते यथासङ्ख्यं संयोगादिकृता चिन्ता ज्ञेया। इच्छामि प्रष्टुमिति भणेति
उक्ते संयोगकुटुम्बकृतां चिन्तां वदेत्। पश्यत्वार्य इत्युक्ते लाभोद्गतां लाभार्थकृतां चिन्तां
समादिशेत्। समादिशेत्युक्ते ऐश्वर्योद्गतां चिन्तामिति॥२३॥
अन्यदप्याह—
निर्देशेति गदिते जयाध्वजा प्रत्यवेक्ष्य मम चिन्तितं वद।
आशु सर्वजनमध्यगं त्वया दृश्यतामिति च बन्धुचौरजा॥२४॥
यदि प्रश्नकाल में प्रश्नकर्त्ता के मुख से पहले-पहल ‘बताइये’ ऐसा शब्द निकले
तो जय या मार्गसम्बन्धी चिन्ता कहनी चाहिए। ‘देख कर मेरे हृदयगत बात को बताइये’
ऐसा निकले तो बन्धुकृत और ‘आप शीघ्र देखिये’ ऐसा शब्द निकले तो सब लोगों के
मध्यगत प्रश्नकर्त्ता को चोरसम्बन्धी चिन्ता कहनी चाहिये॥२४॥
निर्देशेति गदिते उक्ते पृच्छा जयाध्वजा। जयार्थं जाता कृता। अध्वजा वा। प्रत्यवेक्ष्य
वेत्ति विचार्य मम चिन्तितं हृद्गतं वदेत्युक्ते बन्धुकृता। सर्वजनमध्यगं प्रष्टारमेवं वक्ति।
आशु क्षिप्रमेव त्वया च दृश्यतामिति चौरजा तस्करकृता चिन्ता। तथा च पराशरः—
‘आदिशार्येत्येवं पृच्छेदैश्वर्यचिन्ताम्। भणेत्युक्ते कुटुम्बकृताम्। इच्छामि प्रष्टुमिति
संयोगकृताम्। पश्यत्वार्य इति लाभकृताम्। निर्देशेत्यध्वकृताम्। जयपृच्छां वा। पृच्छामि
तावदाचार्येति वा सम्यक् मां प्रत्यवेक्षस्वेति बन्धुकृताम्। अथ काले निःश्वसनान्तः सहसा
बहुजनमध्यगतं दृश्यतामिति पृच्छेदिति चौरचिन्तां जानीयात्’ इति॥२४॥
६०६ बृहत्संहिता
अथ चौरविज्ञानमाह—
अन्तःस्थेऽङ्गे स्वजन उदितो बाह्यजे बाह्य एव
पादाङ्गुष्ठाङ्गुलिकलनया दासदासीजनः स्यात्।
जङ्घे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या
पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शने पुत्रकन्ये ॥२५॥
यदि प्रश्नकाल में प्रश्नकर्ता भीतर के अंग का स्पर्श करे तो अपना मनुष्य, बाहर
के अंग का स्पर्श करे तो बाहर के मनुष्य, पाँव के अंगूठे का स्पर्श करे तो दास, पाँव
की अंगुली का स्पर्श करे तो दासी, जङ्घा का स्पर्श करे तो प्रेष्य ( दूत ), नाभि का स्पर्श
करे तो बहन, हृदय का स्पर्श करे तो अपनी स्त्री, हाथ के अंगूठे का स्पर्श करे तो अपना
पुत्र और हाथ की अंगुली का स्पर्श करे तो अपनी कन्या को चोर कहना चाहिये॥२५॥
अन्तःस्थे अभ्यन्तरस्थितेऽङ्गे अवयवे स्पृष्टे पृच्छायां चौरः स्वजन आत्मीय एव उदित
उक्तः। बाह्यजेऽङ्गे स्पृष्टे बाह्य एवोदितश्चौरः। पादाङ्गुष्ठाङ्गुलिकलनया पादाङ्गुष्ठे स्पृष्टे
दासश्चौरः। अङ्गुलीषु पादस्थास्वेव स्पृष्टासु दासीजनः स्याद्भवेत्। जङ्घास्पर्शने प्रेष्यः कर्म-
करो भवति। नाभितो भगिनी। हृदि स्वभार्या आत्मीया जाया। पाणिर्हस्तः। तदङ्गुष्ठस्पर्शने
पुत्रः। अङ्गुलिचयस्पर्शने कन्या आत्मीया तनया चौरी। एवं कृतस्पर्शने चौरज्ञानम्॥२५॥
अन्यदप्याह—
मातरं जठरे मूर्ध्नि गुरुं दक्षिणवामकौ।
बाहू भ्राताऽथ तत्पत्नी स्पृष्ट्वैवं चौरमादिशेत् ॥२६॥
यदि प्रश्नकाल में प्रश्नकर्त्ता पेट का स्पर्श करे तो माता, शिर का स्पर्श करे तो
गुरु, दक्षिण भुजा का स्पर्श करे तो भाई और वाम भुजा का स्पर्श करे तो भाभी को चोर
कहना चाहिये॥२६॥
जठरे उदरे स्पृष्टे मातरं स्वजननीं चौरीम्। मूर्ध्नि शिरसि स्पृष्टे गुरुम्। दक्षिणवामकौ
बाहू तत्स्पर्शने यथासङ्ख्यं भ्राता तत्पत्नी। दक्षिणबाहुस्पर्शने। भ्राता वामे तत्पत्नी।
एवमङ्गस्पर्शने चौरं तस्करमादिशेद्वदेत्। तथा च पराशरः—
'बाह्याङ्गस्पर्शने बाह्यचौरम्। अन्तः स्वकृतम्। तत्र पादाङ्गुष्ठे दासम्। अङ्गुलीषु
दासीम्। जङ्घयोः प्रेष्यम्। जठरे मातरम्। हस्ताङ्गुलिषु दुहितरम्। अङ्गुष्ठे सुतम्। नाभ्यां
भगिनीम्। गुरुं शिरसि। हृदि भार्याम्। दक्षिणबाहौ भ्रातरम्। वामे भ्रातृभार्याम्' इति॥२६॥
अथापहृतस्य लाभज्ञानमाह—
अन्तरङ्गमवमुच्य बाह्यगस्पर्शनं यदि करोति पृच्छकः।
श्लेष्ममूत्रशकृतस्त्यजत्यथो पातयेत् करतलस्थवस्तु चेत् ॥२७॥
भृशमवनामिताङ्गपरिमोटनतोऽप्यथवा
जनधृतरिक्तभाण्डमवलोक्य च चौरजनम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अङ्गविद्याध्यायः ६०७
हृतपतितक्षतास्मृतविनष्टविभग्नगतो-
न्मुषितमृताद्यनिष्टरवतो लभते न हतम् ॥ २८ ॥
यदि प्रश्नकाल में प्रश्नकर्त्ता भीतर के अंगों को छोड़ कर बाहर के अंगों का स्पर्श
करे, कफ फेंके, मूत्रोत्सर्ग या मलोत्सर्ग करे, अपने हाथ की वस्तु को गिरावे, अपने शरीर
को झुकावे या अपने अंग को तोड़े तो चोरी गई वस्तु पुनः नहीं प्राप्त करता है तथा
किसी के हाथ में खाली पात्र या चोर को देख कर भी चोरी गई वस्तु नहीं प्राप्त करता
है। अथवा प्रश्न के समय 'हर लिया, गिर गया, कट गया, भूल गया, नष्ट हो गया, टूट
गया, चोरी गया, मर गया आदि अनिष्ट शब्द उत्पन्न हों तो भी चोरी गई वस्तु' पुनः प्राप्त
नहीं होती है ।। २७-२८ ।।
एवंविधैर्निमित्तैः प्रष्टा हतं न लभते। कैरित्याह—अन्तरङ्गमभ्यन्तरस्थितमवयवमवमुच्य
परित्यज्य बाह्यगावयवस्पर्शनं यदि पृच्छकः करोति, अथवा श्लेष्ममूत्रशकृतस्त्यजति
तत्कालं परित्यजति, अथवा करतलस्थं पाणितले स्थितं यत्किञ्चिद्वस्तु पातयेत्।
अथवा भृशमत्यर्थमवनामिताङ्ग अवनमितावयवाङ्गानामेव परिमोटनं चटचटाशब्द-
मुत्पादयति। तथा तत्कालं जनधृतं लोकगृहीतं रिक्तभाण्डमवलोक्य दृष्ट्वा। तथा चौरजनं
तस्करजनमवलोक्य, अथवा हतः पतितः क्षतः अस्मृतो विनष्टो विभग्नो गत उन्मुषितो
मृतः। एषामनिष्टरवतः शब्दश्रवणात्। आदिग्रहणात् कष्टदुष्टानिष्टशीर्णशब्दश्रवणाद् हतं
प्रहृतं न लभत इति। तथा च पराशरः—
'अभ्यन्तरगं स्पृष्ट्वा बाह्यं स्पृशेन्निर्हरणं वा श्लेष्मपुरीषमूत्रत्यागं कुर्याद्धस्ताद्वा
किञ्चित् पातयेत्। गात्राणि वा स्फोटयेत्। क्षतहतपतितमुषितविस्मृतनष्टकष्टदुष्टानिष्ट-
भग्नगतजीर्णशब्दप्रादुर्भावो वा स्यात्। रिक्तभाण्डतस्कराणां दर्शने न प्रष्टा लाभं विन्द्यात्'
इति ।। २८ ।।
अथ पीडार्तानां मरणज्ञानमाह—
निगदितमिदं यत्तत्सर्वं तुषास्थिविषादिकैः
सह मृतिकरं पीडार्तानां समं रुदितक्षतैः ।
नष्ट चिन्ता में प्रतिपादित पूर्वोक्त ( अन्तरङ्ग इत्यादि ) स्थिति यदि तुष ( धान्यों
की भूसी ), हड्डी, विष आदि देखने के साथ अथवा रोने या छींक के साथ हो तो
रोगियों की मृत्यु होती है।
अन्तरङ्गमवमुच्येति आरभ्य यदिदं नष्टचिन्तायां निगदितमुक्तम्। तत्सर्वं तुषास्थिविषादिकैः
सह साकं तथा रुदितक्षतैः सह समं पीडार्तानां रोगिणां मृतिकरं मरणं करोति। आदि-
ग्रहणाच्छिन्नमृतिजग्धपाटितशब्दर्दैरिति। तथा च पराशरः—
'अथ रोगाभिघातच्छर्द्दमूत्रपुरीषोत्सर्गे केशास्थिभस्मतुषविषादीनामशुभानां दर्शने तथा
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६०८ बृहत्संहिता
छिन्नभिन्नव्यापन्नहृतमृतावक्षतजग्धदग्धबद्धपाटितरुदितशब्दश्रवणे वा रोगिणां मरणमादिशेत्
इति।
अथ भोजनज्ञानमाह—
अवयवमपि स्पृष्ट्वाऽन्तःस्थं दृढं मरुदाहरे-
दतिबहु तदा भुक्त्वाऽन्नं संस्थितः सुहितो वदेत् ॥२९॥
यदि भीतर के दृढ अंगों को स्पर्श करके श्वास निकालते हुये प्रश्न करे तो प्रश्नकर्ता
अधिक अन्न खाकर प्रसन्न बैठा है—ऐसा दैवज्ञ को कहना चाहिए।।२९।।
अन्तःस्थमभ्यन्तरस्थितमवयवं स्पृष्ट्वा मरुद्वायुमाहरेदुद्गिरेन् पृच्छेत्तदा प्रच्छकोऽतिबहु
अतिप्रभूतमन्नं भुक्त्वा सुहितोऽग्नितृप्तः स्थित इति वदेत् ।।२९।।
अन्यदप्याह—
ललाटस्पर्शनाच्छूकदर्शनाच्छालीजौदनम् ।
उरःस्पर्शात् षष्टिकाख्यं ग्रीवास्पर्शे च यावकम् ॥३०॥
यदि प्रश्नकर्ता ललाट का स्पर्श करे या शूक धान्य ( यव आदि ) का दर्शन करे
तो साठी का चावल, छाती का स्पर्श करे तो षष्टिक ( साठ रात में होने वाला ) धान्य
एवं गर्दन का स्पर्श करे तो यव इसने खाया है—ऐसा कहना चाहिये।।३०।।
ललाटस्पर्शनात् शूकधान्यानां वा दर्शनाच्छालीजौदनं प्रच्छकेन भुक्तमिति वदेत्।
उरःस्पर्शात् षष्टिकाख्यं धान्यविशेषान्नं ग्रीवास्पर्शे च ग्रावकं यवान्नम्।।३०।।
अन्यदप्याह—
कुक्षिकुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः ।
आस्वादयते चोष्ठौ लिहते मधुरं रसं ज्ञेयम् ॥३१॥
यदि प्रश्न के समय कोख, स्तन, पेट और जानु का स्पर्श करे तो क्रम से
प्रश्नकर्त्ता माष ( उड़द ), जल और यव खाकर आया है तथा ओठ को चबावे या चाटे
तो मधुर रस खाकर आया है—ऐसा कहना चाहिए।।३१।।
कुक्षिस्पर्शने माषा मुक्ताः। कुचौ स्तनौ। तत्स्पर्शने पयः क्षीरौदनम्। जठरमुदरम्।
तत्स्पर्शने तिलौदनम्। जानुस्पर्शने यवागूः यावकम्। ओष्ठावास्वादयते लिहते वा प्रष्टा
पृच्छति तदा तेन मधुरं रसं भुक्तमिति ज्ञेयम्।।३१।।
अन्यदप्याह—
विसृक्के स्फोटयेज्जिह्वामाम्ले वक्त्रं विकूणयेत्।
कटुकेऽथ कषायेऽथ हिक्केत् ष्ठीवेच्च सैन्धवे ॥३२॥
यदि प्रश्न के समय में सृक्क ( ओष्ठप्रान्त ) में जिह्वा मारे तो प्रश्नकर्ता खट्टा, मुख
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अङ्गविद्याध्यायः ६०९
खुजलावे तो कडुआ, हिचकी करे तो कषैला और थूके तो नमक खाया है—ऐसा
कहना चाहिये॥३२॥
जिह्वां रसनां विसृक्के स्फोटयेत् प्रष्टा तदा तेनाम्लं भुक्तम्। वक्त्रं मुखं विकूणयेत्
कटुके भुक्ते। असौ प्रच्छकः कषाये भुक्ते हिक्केत्। सैन्धवे लवणे भुक्ते ष्ठीवेत्॥३२॥
अन्यदप्याह—
श्लेष्मत्यागे शुष्कतिक्तं तदल्पं
श्रुत्वा क्रव्यदं वा प्रेक्ष्य वा मांसमिश्रम्।
भ्रूगण्डौष्ठस्पर्शने शाकुनं तद्
भुक्तं तेनेत्युक्तमेतन्निमित्तम् ॥३३॥
यदि प्रश्नकाल में कफ फेंके तो थोड़ी सूखी तीती वस्तु और मांसभोजी पक्षी को सुने
या देखे तो मांसमिश्रित वस्तु तथा भ्रू, गाल या ओठ का स्पर्श करे तो प्रश्नकर्ता ने पक्षी का
मांस खाया है—ऐसा कहना चाहिये॥३३॥
श्लेष्मपरित्यक्ते शुष्कं नीरसं तिक्तं तदल्पं स्तोकं च भुक्तम्। क्रव्यादं मांसाशिनं
प्राणिनं श्रुत्वा प्रेक्ष्य दृष्ट्वा तन्मांसमिश्रं भुक्तम्। भ्रूगण्डौष्ठस्पर्शने शाकुनं मांसम्। तेन
प्रष्ट्रा तद्भुक्तम्। इत्युक्तमेतत्कथितं निमित्तं चिह्नम्॥३३॥
अन्यदप्याह—
मूर्धगलकेशहनुशङ्ककर्णजङ्घं बस्तिं च स्पृष्ट्वा।
गजमहिषमेषशूकरगोशशमृगमहिषमांसयुग्भुक्तम् ॥३४॥
यदि प्रश्नकाल में प्रश्नकर्ता शिर, कण्ठ, ठोढ़ी, केश, कनपटी, कान, जंघा और
बस्ति ( नाभि और लिंग के बीच का स्थान ) का स्पर्श करे तो क्रम से हाथी, भैंस, शूकर,
मेष, गौ, खरगोश, मृग और भैंस के मांस से मिश्रित भोजन किया है—ऐसा कहना
चाहिये॥३४॥
मूर्धादिस्पर्शने यथाक्रमं गजादिमांसं भुक्तं वक्तव्यम्। मूर्धा शिरस्तत्स्पर्शने गजमांसं
कौञ्जरम्। गलस्पर्शने माहिषम्। केशस्पर्शने मेषमांसमौरभ्रम्। हनुस्पर्शने शूकरमांसम्।
शङ्खस्पर्शने गोमांसम्। कर्णस्पर्शने शशमांसम्। जङ्घास्पर्शने मृगमांसम्। बस्तिस्पर्शने
महिषमांसयुतमेव भुक्तम्॥३४॥
अन्यदप्याह—
दृष्टे श्रुतेऽप्यशकुने गोधामत्स्यामिषं वदेद्भुक्तम्।
गर्भिण्या गर्भस्य च निपतनमेवं प्रकल्पयेत्प्रश्ने ॥३५॥
यदि प्रश्नकाल में प्रश्नकर्ता अशकुन देखे या सुने तो गोह या मछली का मांस
खाकर आया है—ऐसा कहना चाहिये। इसी तरह गर्भिणी के प्रश्न में गर्भस्राव की
बृ० भ० प्र०-३९
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
६१० बृहत्संहिता
कल्पना करनी चाहिये, जैसे गर्भिणी के प्रश्नकाल में अशकुन देखे या सुने तो गर्भस्राव
कहना चाहिए।
अशकुने दृष्टे अवलोकिते वा दुर्निमित्ते गोधामिषं मत्स्यामिषं वा भुक्तं वदेद् ब्रूयात्।
एवमेव गर्भपृच्छायामशकुने दुर्निमित्ते श्रुते दृष्टे वा गर्भिण्याः स्त्रियो गर्भनिपतनं प्रकल्पयेद्
निर्दिशेदिति। तथा च पराशरः—
‘अथ स्निग्धं दृढमभ्यन्तर्राङ्गं स्पृष्ट्वोद्गिरन् पृच्छेद् भुक्तमन्नं विन्द्यात्। तत्र ललाटस्पर्शे
शूकानां वा शाल्योदनम्। उरसि संस्पृष्टे षष्टिकौदनम्। ग्रीवायां यवान्नम्। जठरे तिलौदनम्।
कुक्षौ माषौदनम्। स्तनयोः क्षीरौदनम्। जानुनोर्यवकम्। स्वाद्येदोष्ठौ वा परिलिहेत
मधुरम्। आविसृक्के जिह्वामपि स्फोटयेदाम्लम्। विकूणयेत् कटुकम्। हिक्केत् कषायम्।
निष्ठोवेत्तिक्तम्। शुष्कमल्पं श्लेष्माणमुत्सृजेदतिलवणम्। क्रव्यादानां दर्शने मांसप्रायम्।
तत्र भ्रूगण्डजिह्वौष्ठसंस्पर्शने शाकुनम्। हन्वोर्वाराहम्। कर्णयोः पार्षदम्। जङ्घयोर्मार्गम्।
केशानामौरभ्रम्। शङ्खयोर्गव्यम्। बस्तिगलयोर्माहिषम्। मूर्ध्नि कौञ्जरम्। पाटितच्छिन्नभिन्नानां
स्पर्शने श्रवणे गोधामत्स्यमांसम्' इति।।३५।।
अथ गर्भिण्या जन्मज्ञानमाह—
पुंस्त्रीनपुंसकाख्ये दृष्टेऽनुमिते पुरःस्थिते स्पृष्टे ।
तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम् ।।३६।।
यदि गर्भिणी के प्रश्नकाल में प्रश्नकर्ता पुरुष, स्त्री या नपुंसक को देखे, उसकी चिन्ता
करे, उसको सम्मुख स्थित देखे या उनका स्पर्श करे तो क्रम से उसी का जन्म कहना
चाहिये अर्थात् पुरुष के दर्शन आदि से पुरुष का, स्त्री से स्त्री का और नपुंसक से नपुंसक
का जन्म कहना चाहिये। इस समय आसव, अन्न, पुष्प, फल का दर्शन शुभ होता है।
गर्भस्थायां स्त्रियां किं जनयिष्यतीति पृच्छायां पुरुषे दृष्टेऽवलोकितेऽनुमिते वा
चिन्तिते पुरोऽग्रतः स्थिते वा स्पृष्टे वा तस्मिंस्तज्जन्म पुंसो जन्म भवति। एवं स्त्रियां
दृष्टायामनुमितायां वा पुरतः स्थितायां वा पृष्टायां स्त्रीजन्म भवति। नपुंसकाख्ये दृष्टेऽनुमिते
वा पुरतः स्थिते स्पृष्टे वा नपुंसकजन्म भवति। पानान्नपुष्पफलदर्शने च शुभमिति।
पानस्याऽऽसवस्य अन्नस्य भोजनादेः पुष्पाणां कुसुमानां फलानां च दर्शने शुभं जन्म
सुखप्रसवो भवतीत्यर्थः।।३६।।
अन्यदप्याह—
अङ्गुष्ठेन भ्रूदरं वाङ्गुलिं वा स्पृष्ट्वा पृच्छेद्गर्भचिन्ता तदा स्यात् ।
मध्वाज्याद्यैर्हेमरत्नप्रवालैरग्रस्थैर्वा मातृधात्र्यात्मजैश्च ।।३७।।
यदि स्त्री अपने अंगूठे से भ्रूयुगल, पेट या अगुलियों का स्पर्श करके प्रश्न करे या
प्रश्नकाल में मधु, घृत आदि ( शोभन फल आदि ), सुवर्ण, रत्न, मूँगा, मोती, धाई या
पुत्र सम्मुख दिखाई दे तो गर्भ की चिन्ता कहनी चाहिये।।३७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अङ्गविद्याध्यायः ६११
स्त्री स्वाङ्गुष्ठेन भ्रुयुगमुदरमङ्गुलिं वा स्पृष्ट्वा पृच्छेत्तदा गर्भः स्याद्भवेत्। अथवा
अग्रस्थैः पुरोऽवस्थितैः। मध्वाज्याद्यैः। मधु माक्षिकम्। आज्यं घृतम्। आदिग्रहणात् पुंनामभिः
शोभनफलैश्च तथा हेमरत्नप्रवालैः हेम सुवर्णम्, रत्नानि मणयः, प्रवालं विद्रुमम्। तथा
मातृधात्र्यात्मजैश्च माता जननी, धात्री स्तनदायिनी, आत्मजः पुत्रः। एतैरप्यग्रस्थैर्गर्भ-
पृच्छामेव जानीयात्। तथा च पराशरः—
'अथ स्त्री भ्रुवौ जठरमङ्गुष्ठेन वाऽङ्गुलिं स्पृष्ट्वा पृच्छेद् गर्भपृच्छां जानीयात्। तथा
फलच्छायावृक्षप्रवालाङ्कुरमधुघृतहेमगर्भप्राजापत्ये वा मातृधात्रीपुत्रनिदर्शनशब्दप्रादुर्भावे
गर्भपृच्छामेव' इति।।३०।।
अन्यदप्याह—
गर्भयुता जठरे करगे स्याद् दुष्टनिमित्तबशात्तदुदासः।
कर्षति तज्जठरं यदि पीठोत्पीडनतः करगे च करेऽपि ।।३८।।
यदि प्रश्नकाल में स्त्री पेट पर हाथ रखकर प्रश्न करे तो गर्भ कहना चाहिये। यदि उस
समय अशकुन दिखाई दे, प्रश्न करने वाली पीठ को मल कर पेट को खुजलावे या हाथ
देकर प्रश्न करे तो गर्भपात कहना चाहिये।।३८।।
जठरे उदरे करगे हस्तेन स्पृष्टे स्त्रीगर्भयुता स्याद्भवेत्। तस्मिन्नेव पृच्छासमये
दुष्टनिमित्तवशाद् दुष्टनिमित्तदर्शनात्। क्षतक्षुभितभग्नविनष्टदग्धक्षीरादिदर्शने श्रवणात्तदुदासो
गर्भपतनं भवति। अथवा तज्जठरं पीठोत्पीडनतः पीठमर्दनं कृत्वा कर्षति कण्डूयेत्।
करगे च करेऽपि हस्तं हस्तेन वा अवलम्ब्य पृच्छति तदापि तदुदास इति।।३८।।
अथ गर्भग्रहणकालज्ञानमाह—
घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोत्तरं वदेत्।
वामेऽब्दौ कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने ।।३९।।
'गर्भ होगा या नहीं' इस तरह के प्रश्नकाल में स्त्री यदि नासिका के दक्षिण द्वार
(पिङ्गला नाड़ी) का स्पर्श करे तो एक मास बाद, वाम द्वार (इडा नाडी) का स्पर्श करे
तो दो वर्ष में, दक्षिण कर्ण का स्पर्श करे तो दो मास बाद, वाम कर्ण का स्पर्श करे तो
दो वर्ष बाद, दक्षिण स्तन का स्पर्श करे तो चार साल बाद और वाम स्तन का स्पर्श करे
तो दो वर्ष में गर्भस्थिति होगी—ऐसा कहना चाहिये।।३९।।
अङ्गुष्ठेनेत्यनुवर्तते घ्राणाया नासिकाया दक्षिणे द्वारे स्रोतसि अङ्गुष्ठेन स्पृष्टे गर्भग्रहणं
मासोत्तरं वदेद् ब्रूयात्। मासेन गर्भग्रहणं भविष्यतीति। वामे स्रोतसि स्पृष्टे अब्दौ अब्दद्वयेन
गर्भग्रहणं भवति। एवं वामे कर्णे वर्षद्वयेनैव। माःशब्देन मास उच्यते। मासो द्विचतुर्घ्नः
श्रुतिस्तन इति। श्रुतिः कर्णः। दक्षिणे कर्णच्छिद्रे स्पृष्टे मासो द्विघ्नो द्विगुणितः। मासद्वयेन
गर्भग्रहणं भवति। वामे वर्षद्वयेन। स्तनस्पर्शने मासश्चतुर्घ्नश्चतुर्भिर्मासैः। स्तनद्वयस्पर्शने-
नेति।।३९।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६१२ बृहत्संहिता
अन्यदप्याह—
वेणीमूले त्रीन् सुतान् कन्यके द्वे कर्णे पुत्रान् पञ्च हस्ते त्रयं च।
अङ्गुष्ठान्ते पञ्चकं चानुपूर्व्या पादाङ्गुष्ठे पार्ष्णियुग्मेऽपि कन्याम् ॥४०॥
यदि 'मुझे कितनी सन्तान होगी' इस तरह के प्रश्नकाल में स्त्री केशपाश का स्पर्श
करे तो तीन लड़के और दो लड़कियाँ, कान का स्पर्श करे तो पाँच लड़के, हाथ का
स्पर्श करे तो तीन लड़के, कनिष्ठा अंगुलि का स्पर्श करे तो एक लड़का, अनामिका का
स्पर्श करे तो दो लड़के, मध्यमा का स्पर्श करे तो तीन लड़के, तर्जनी का स्पर्श करे तो
चार लड़के, अगूठे का स्पर्श करे तो पाँच लड़के और पाँव के अंगूठे का या दोनों
एड़ियों का स्पर्श करे तो केवल एक कन्या कहनी चाहिये॥४०॥
वेणी केशकलापः। तन्मूले पृच्छायां स्पृष्टे त्रीन् सुतान् द्वे कन्यके जनयिष्यसीति
वक्तव्यम्। कर्णे कर्णयुग्मे पुत्रान् पञ्च। हस्ते हस्तयुग्मे त्रयम्। कनिष्ठाङ्गुलेनाऽऽरभ्याङ्गुष्ठान्तं
यावदानुपूर्व्या क्रमेण पुत्रपञ्चकं सूते। तत्र कनिष्ठास्पर्शने एकं पुत्रम्। सुतद्वयमनामास्पर्शने।
मध्यमायां त्रीन्। तर्जन्यां चतुरः। अङ्गुष्ठे पञ्च। पादाङ्गुष्ठस्पर्शे पार्ष्णियुग्मेऽपि स्पृष्टे
कन्यामेकां सूत इति॥४०॥
अन्यदप्याह—
सव्यासव्योरुसंस्पर्शे सूते कन्यासुतद्वयम् ।
स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनया भवेत् ॥४१॥
यदि पूर्वोक्त प्रश्नकाल में स्त्री दक्षिण ऊरु का स्पर्श करे तो दो लड़कियाँ, वाम ऊरु
का स्पर्श करे तो दो लड़के, ललाट के मध्य का स्पर्श करे तो चार लड़कियाँ और ललाट
के अन्त का स्पर्श करे तो तीन लड़कियाँ होती हैं॥४१॥
सव्यं दक्षिणमूरू, तत्संस्पर्शे कन्याद्वयं सुतद्वयं च जनयति। अपसव्ये वामेऽप्येवमेव।
ललाटमध्यान्ते स्पृष्टे यथासंख्यम्। ललाटमध्ये स्पृष्टे चतुस्तनया चतुष्पुत्रा। ललाटान्ते
स्पृष्टे त्रितनया भवेत् स्यादिति। तथा च पराशरः—
'तत्र जठरस्पर्शे गर्भिणीमेवमेव ब्रूयात्। अङ्गुष्ठेन नासास्रोतसि दक्षिणे कुर्याद्
मासान्तरेण गर्भग्रहणम्। वामाद् द्विवर्षान्तरेण। कर्णच्छिद्रे मासद्वयेन। वामे वर्षद्वयेन।
स्तनयोरङ्गुष्ठेनैव स्पर्शे चतुर्भिर्मासैः। पीठमर्दकं कृत्वा चानन्तरमुदरं कण्डूयेदग्रहस्तं
हस्तेनाभिगृह्य वा पृच्छेद् भग्नलौहिकपिठरकुद्दालककुठारश्रुतिचलितपतितभग्नदर्शनशब्दे
प्रादुर्भावे वा गर्भपतनं विन्द्यात्; तथात्रपानपुष्पफलपक्षिद्विचतुष्पदानामन्यद्रव्याणां पुंसंज्ञकानां
दर्शनशब्दप्रादुर्भावे पुंजन्म विद्यात्। स्त्रीसंज्ञानां स्त्रीजन्म। नपुंसकाख्ये नपुंसकानाम्।
पुंसंज्ञमङ्गं संस्पृश्य गर्भिणी पृच्छेत् पुञ्जन्म विन्द्यात्। स्त्रीसंज्ञानां स्त्रीजन्म। नपुंसकाख्येषु
नपुंसकानाम्'।
अथ विशेषः—'वेणीमूलमभिगृह्य पृच्छेत्तदा द्वे कन्यके त्रीन् पुत्रान् जनयिष्यसीति
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
अङ्गविद्याध्यायः ६१३
ब्रूयात्। ललाटमध्यं स्पृशन्ती चत्वार्यपत्यानि। ललाटान्तं त्रीणि। कर्णयोः संस्पर्शे
पञ्चापत्यानि। दक्षिणोरुसंस्पर्शे द्वौ पुत्रौ द्वे च कन्यके जनयिष्यसीति। वामस्य तिस्रः
कन्या द्वौ पुत्रौ। पादाङ्गुष्ठस्य कन्यकैका। पाष्ण्योः कन्यकैकैवेति' इति।।४१।।
अथ गर्भिण्याः कस्मिन्नक्षत्रे जन्तुर्जन्म भविष्यतीति ज्ञानार्थमाह—
शिरोललाटभ्रूकर्णगण्डं हनुरदा गलम्।
सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम् ।।४२।।
उरः कुचं दक्षिणमप्यसव्यं हृत्पार्श्वमेवं जठरं कटिश्च।
स्फिक्पायुसन्ध्यूरुयुगञ्च जानू जङ्गेऽथ पादाविति कृत्तिकादौ ।।४३।।
'सन्तान किस नक्षत्र में उत्पन्न होगी' इस तरह के प्रश्नकाल में यदि स्त्री शिर,
ललाट, भौं, कान, गाल, कनपटी, दाँत, गर्दन, दक्षिण स्कन्ध, वाम स्कन्ध, दोनों हाथ,
ठोढ़ी, कण्ठ, छाती, दक्षिण स्तन, वाम स्तन, हृदय, दक्षिण बगल, वाम बगल, पेट,
कमर, स्फिक् ( कुल्ला ) और गुदा की सन्धि, दक्षिण ऊरु, वाम ऊरु, जानु, जंघा और
पाँव का स्पर्श करे तो क्रम से कृत्तिका आदि नक्षत्र में जन्म कहना चाहिये। जैसे शिर
का स्पर्श करे तो कृत्तिका, ललाट का स्पर्श करे तो रोहिणी, भौं का स्पर्श करे तो
मृगशिरा इत्यादि में जन्म कहना चाहिये।।४२-४३।।
सूत इत्यनुवर्तते। पृच्छासमये गर्भिण्याः शिरःप्रभृतिसंस्पर्शे कृत्तिकादौ नक्षत्रे जन्म
विन्द्यात्। तत्र शिरो मूर्धा तत्संस्पर्शे कृत्तिकानक्षत्रे जन्म भवति गर्भिणी सूते। एवं ललाटे
रोहिण्याम्। भ्रुवौ मृगशिरसि। कर्णयोराद्रायाम्। गण्डयोः पुनर्वसौ। हन्वोस्तिष्ये। रदा दन्ता-
स्तेष्वाश्लेषायाम्। गले ग्रीवायां मघासु। सव्ये दक्षिणस्कन्धस्पर्शे पूर्वफल्गुन्याम्।
अपसव्ये वामस्कन्धसंस्पर्शे उत्तरफल्गुन्याम्। हस्तयोः संस्पर्शे हस्ते। चिबुके आस्याधः
चित्रायाम्। नालके कण्ठे स्वातौ। उरसि वक्षसि विशाखायाम्। कुचौ स्तनौ
तत्र दक्षिणस्तनसंस्पर्शने अनुराधायाम्, अपसव्ये वामे ज्येष्ठासु। हृदि मूले। पार्श्वद्वयमेवं
प्राग्वत्। तेन दक्षिणे पार्श्वे पूर्वाषाढायाम्। वाम उत्तराषाढायाम्। जठरे श्रवणे। कट्यां
धनिष्ठायाम्। स्फिग्गुदयोः सन्धिस्पर्शने शतभिषजि। दक्षिणोरुस्पर्शने पूर्वभद्रपदायाम्।
वामोरुस्पर्शने उत्तरभद्रपदायाम्। जान्वो रेवत्याम्। जङ्घयोरश्विन्याम्। पादयोर्भरण्यामिति।
तथा च पराशरः—
'शिरसि संस्पृष्टे कृत्तिकासु जन्म विन्द्यात्। ललाटे रोहिण्याम्। भ्रुवोर्मृगशिरसि।
कर्णयोराद्रायाम्। गण्डयोः पुनर्वसौ। हन्वोस्तिष्ये। दन्तयोराश्लेषासु। ग्रीवायां मघासु।
दक्षिणांसे प्राक्फल्गुन्याम्। वामांसे उत्तरफल्गुन्याम्। हस्ते हस्तयोः। चिबुके चित्रायाम्।
स्वातौ नालके। उरसि विशाखायाम्। दक्षिणस्तेऽनुराधासु। ज्येष्ठासु वामे। हृदि मूले।
दक्षिणपार्श्वे प्रागषाढासु। उत्तराषाढासु परपार्श्वे। जठरे श्रवणे। श्रोण्यां धनिष्ठासु। स्फिग्गु-
दयोर्वारुणे। दक्षिणोरुणा प्रा ष्ठपदायाम्। वामेनोत्तरपदायाम्। जानुभ्यां पौष्णे। जङ्घयोर-
श्विन्याम्। पादयोर्भरण्यामिति' ।।४२-४३।।
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
६१४ बृहत्संहिता
अथोपसंहारार्थमाह—
इति निगदितमेतद् गात्रसंस्पर्शलक्ष्म
प्रकटमभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् ।
विपुलमतिरुदारो वेत्ति यः सर्वमेत-
न्नरपतिजनताभिः पूज्यतेऽसौ सदैव ॥४४॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामङ्ग-
विद्याध्याय एकपञ्चाशत्तमः ॥५१॥
सब शास्त्रों को अच्छी तरह देख कर अभीष्ट-सिद्धि के लिये यह अति स्पष्ट
'अवयव-स्पर्शन-लक्षण' कहा गया है। जो अतिशय बुद्धिमान् उदार दैवज्ञ इसको पूर्ण
रूप से जान लेता है, वह सदा राजा और प्रजा से पूजित होता रहता है॥४४॥
इति 'विमला'हिन्दीटीकायामङ्गविद्याध्याय एकपञ्चाशत्तमः ॥५१॥
इतिशब्द उपसंहारे प्रकारे वा। एतद्गात्रसंस्पर्शलक्ष्म अवयवस्पर्शनलक्षणं प्रकटमतिस्फुटं
विरचितम्। किं कृत्वा सम्यगागमतः शास्त्राणि गर्गपराशरादिभिर्विरचितानि वीक्ष्य दृष्ट्वा।
किमर्थम्? अभिमताप्त्यै अभीष्टार्थसिद्धये। यो विपुलमतिर्विस्तीर्णबुद्धिरुदारो ह्यलुब्धं
सर्वं निरवशेषमेतद्वेत्ति जानाति असौ नरपतिभिर्नृपैर्जनताभिर्जनसमूहैर्दैवज्ञः सर्वदैव सर्वकालं
पूज्यते अभ्यर्च्यत इति॥४४॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावङ्गविद्या
नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥
अथ पिटकलक्षणाध्यायः
अतः परमपि केचित् पिटकलक्षणं पठन्ति। तदप्यस्माभिर्व्याख्यायते। तत्र ब्राह्मणादीनां
वर्णानां पिटकलक्षणमाह—
सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये।
ते क्रमशः प्रोक्तफला वर्णानां नाग्रजातानाम् ॥१॥
ब्राह्मण आदि चार वर्णों को क्रम से सफेद, लाल, पीली और काली फुन्सी आगे
कथित फल देने वाली होती है, किन्तु ब्राह्मणों को छोड़ कर अर्थात् केवल सफेद फुन्सी
ब्राह्मणों को; सफेद और लाल क्षत्रियों को; सफेद, लाल और पीली वैश्यों को तथा सफेद
लाल, पीली और काली फुन्सी शूद्रों को फल देने वाली होती है।।१।।
विप्रादीनां ब्राह्मणादीनां चतुर्णां वर्णानां क्रमेण परिपाट्या पिटकाः सितरक्तपीतकृष्णाः
श्वेतलोहितहारिद्रकृष्णाः। ब्राह्मणानां सिताः, क्षत्रियाणां रक्ताः, वैश्यानां पीताः, शूद्राणां
कृष्णा इति। एवं क्रमेण ये पिटका उक्तास्ते क्रमशोडनुक्रमेण वर्णानां प्रोक्तफलाः
कथितफलाः, किन्तु नाग्रजातानां ब्राह्मणवर्जितानाम्। एतदुक्तं भवति—सिता ब्राह्मणानां
फलदा नान्ये। सितरक्ताः क्षत्रियाणां नान्ये। सितरक्तपीता वैश्यानां नान्ये। सितरक्तपीतकृष्णाः
शूद्राणामिति।।१।।
अधुना विशेषेण फलमाह—
सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यमारा-
द्दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशीलतां च।
तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिं
प्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगा रान्ति चिन्ताम् ॥२॥
यदि सुन्दर, निर्मल और स्पष्ट कान्ति वाली फुन्सी शिर में हो तो धनसञ्चय, मस्तक
में हो तो शीघ्र सौभाग्य, भ्रूयुगल में हो तो दौर्भाग्य, भ्रूमध्य में हो तो शीघ्र इष्ट बन्धुओं का
संयोग और दुःशीलता, नेत्रपुट में हो तो शोक, दोनों नेत्रों में हो तो इष्टदर्शन, शंखस्थान में
हो तो प्रव्रज्या (संन्यास) तथा अश्रुपात के स्थान में हो तो चिन्ता प्रदान करती है।।२।।
शिरसि मूर्धनि पिटकाः सुस्निग्धा अरूक्षास्तथा व्यक्तशोभा व्यक्ता स्फुटा शोभा
कान्तिर्येषां ते तथाभूता धनचयं वित्तसमूहं कुर्वन्ति। मूर्ध्नि मुखपृष्ठे केशान्ते आराच्छीघ्रमेव
सौभाग्यम्। भ्रूयुगोत्था भ्रूयुगलोत्पन्ना दौर्भाग्यं दुर्भाग्यत्वम्। तन्मध्योत्था भ्रूसङ्गमजनिता
प्रियजनघटनामिष्टबन्धुसंयोगं दुःशीलतां दुष्टशीलत्वं चाशु शीघ्रमेव कुर्वन्ति। नयनपुटगता
अक्षिकोशजाताः शोकं ददति। नेत्रयोश्चक्षुषोरिष्टदृष्टिमिष्टदर्शनम्। शङ्खदेशे शङ्खस्थाने
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६१६ बृहत्संहिता
प्रव्रज्याम्। अश्रुजलनिपतनस्थानगा अश्रुजलं यत्र निपतति तत्र गताश्चिन्तां रान्ति ददति।
तथा च पराशरः—
‘अथ पिटकाः सितरक्तपीतकृष्णा द्विजादीनां वर्णानां क्रमात् स्थानवर्णविशेषणो-
त्तरोत्तरफलदा भवन्ति। तत्र मूर्ध्नि सुव्यक्तः सुस्निग्धः सुवर्णोऽभिषेकागमनं कुर्यात्।
शिरसि धनागमम्। केशान्ते सौभाग्यम्। ललाटे धनसञ्चयम्। भ्रुवोर्दौर्भाग्यम्। सङ्गमे
दौःशील्यमिष्टसङ्गमं च। नेत्रपुटयोः शोकम्। नेत्रयोरिष्टदर्शनम्। शङ्खदेशे प्रव्रज्याम्। चिन्ता-
मश्रुपाते' इति।।२।।
अन्यदप्याह—
घ्राणागण्डे वसनसुतदाश्चौष्ठयोरन्नलाभं
कुर्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाटे।
हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने
श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरूपम् ॥३॥
यदि नासिका में फुन्सी हो तो वस्त्रलाभ, गाल में हो तो पुत्रलाभ, ओंठ और ठोढ़ी
में हो तो अन्नलाभ, ललाट तथा हनु में हो तो अधिक धनलाभ, कण्ठ में हो तो भूषण,
अन्न और पान वस्तु का लाभ तथा कान में हो तो कान के आभूषणों का लाभ और
अध्यात्म ज्ञान होता है॥३॥
घ्राणागण्डे यथाक्रमं वसनसुतदाः। तेन घ्राणायां नासादेशे वसनदा वस्त्रलाभप्रदाः
पिटकाः। गण्डे सुतदाः पुत्रदाः। ओष्ठयोरन्नलाभमन्नागमं भोजनावाप्तिं कुर्युः।
चिबुकतलमास्याधोभागः। तत्र गताः स्थितास्तद्वदन्नदा एव। ललाटे भूरि वित्तं प्रभूतं
धनम्। हन्वोरेवं तत्र स्थिताः प्रभूतधनदा एव। गलकृतपदा गले कण्ठे कृतं पदं यैः।
तत्र स्थिता इत्यर्थः। भूषणानि आभरणानि अन्नपाने च शोभने ददति। श्रोत्रे कर्णप्रदेशे।
तद्भूषणगणमपि। तदिति कर्णपरामर्शस्तद्भूषणगणस्य कर्णालङ्कारसमूहस्यागमं तथा
आत्मस्वरूपमध्यात्मज्ञानं प्राप्नोतीति। तथा च पराशरः—
‘गण्डे सुतलाभम्। नासावंशे वस्त्रलाभम्। चिबुकाधरेष्वोष्ठाधरेष्वन्नम्। अभिहन्वो-
र्धनागमम्। गले चान्नपानमाभरणं च। शिरः सन्धौ ग्रीवायां चोपघातं शस्त्रेण कर्णयोस्त-
द्भूषणमात्मश्रवणं च' इति॥३॥
अन्यदप्याह—
शिरःसन्धौग्रीवाहृदयकुचपाश्र्वोरसि गता
अयोघातं घातं सुततनयलाभं शुचमपि।
प्रियप्राप्तिं स्कन्धेऽप्यटनमथ भिक्षार्थमसकृ-
द्दिनाशं कक्षोत्था विदधति धनानां बहुमुखम् ॥४॥
यदि शिर की सन्धि, गर्दन, हृदय, स्तन, बगल और छाती में फुन्सी हो तो क्रम से
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA