सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

सन्ध्यालक्षणाध्यायः ४०३
यदि भवति, तदा परभयाय भवति। परेषां शत्रूणां सम्बन्धि भयमुत्पद्यते। सितखपुरे
शुक्लवर्णे गन्धर्वनगरेऽर्काक्रान्ते, अर्कः सूर्य आक्रान्तो येन, आच्छादित इत्यर्थः। तस्मिन्
पुरलाभः, येन पुरं नगरमाक्रान्तं रुद्धं तस्य लाभो भवति। भेदने नाशः, अर्केण यदि
मध्यात् खपुरं भिद्यते तदा पुरस्य नाशः, परैर्लुण्ठनं भवति॥२३॥
अन्यदप्याह—
सितसितान्तघनावरणं रवेर्भवति वृष्टिकरं यदि सव्यतः ।
यदि च वीरणगुल्मनिभैर्घनैर्दिवसभर्तुरदीप्तदिगुद्भवैः ॥२४॥
शुक्ल और शुभ्र ( स्वच्छ ) किरण वाले या वीरण ( गांडर ) के समान कान्ति वाले
शान्त दिशा में उत्पन्न मेघ सूर्य के दक्षिण भाग को आच्छादित करे तो वृष्टि करता है।
सिताः शुक्लास्ते च सितान्ताः सितः शुक्लोऽन्तो येषां तैः सितैः सितान्तैर्घनैर्मेघै
रवेरादित्यस्य सव्यतो गच्छतो दक्षिणत आवरणमाच्छादनं यदि भवति, तदा वृष्टिकरं
भवति। यदि च दिवसभर्तुरादित्यस्य घनैर्मेघैर्वीरणगुल्मनिभैः, वीरणस्तृणविशेषस्तस्य
गुल्मः समूहस्तत्सदृशैः। अदीप्तदिगुद्भवैः शान्तदिक्सम्भूतैः सव्यतो दक्षिणेनावरणं
भवति तद्वृष्टिकरम्॥२४॥
अथ परिघवशेन शुभाशुभमाह—
नृपविपत्तिकरः परिघः सितः क्षतजतुल्यवपुर्बलकोपकृत्।
कनकरूपधरो बलवृद्धिदः सवितुरुद्गमकालसमुत्थितः ॥२५॥
सूर्योदयकाल में उत्पन्न मेघरेखा यदि शुक्ल वर्ण की हो तो राजा का नाश, रक्तवर्ण की
हो तो सेना का नाश और सुवर्ण की तरह कान्ति वाली हो तो सेनाओं की वृद्धि करती है।
सवितुरादित्यस्य परिघस्तिर्यक् स्थिता मेघरेखेत्यर्थः। उद्गमकाले उदयसमये समुत्थित
उत्पन्नः सितः शुक्लो यदि दृश्यते तदा नृपस्य राज्ञो विपत्तिकरो मृत्युदः। क्षतजतुल्यवपू
रक्तवर्णसदृशो बलस्य सेनायाः कोपकृद्भङ्गदः। बले स्वामिनो वा कुप्यन्ति। कनकरूपधरः
सुवर्णसदृशो बलस्य वृद्धिदो भवति॥२५॥
अथ परिधिवशेन शुभाशुभमाह—
उभयपार्श्वगतौ परिधी रवेः
प्रचुरतोयकरौ वपुषान्वितौ।
अथ स मस्तककुप्परिचारिणः
परिधयोऽस्ति कणोऽपि न वारिणः ॥२६॥
यदि सूर्य के दोनों तरफ परिधि ( प्रतिसूर्य ) दिखाई दे तो अधिक वृष्टि होती है तथा
यदि परिधि सभी दिशाओं को व्याप्त करके स्थित हो तो जल का एक कण भी नहीं गिरता
है अर्थात् अवृष्टि होती है॥२६॥

४०४ बृहत्संहिता
खेरादित्यस्य परिधी प्रतिसूर्यावुभयपार्श्वगतौ पार्श्वद्वयस्थौ तौ च वपुषा शरीरेणान्वितौ
सूर्यसंयुक्तौ। यतस्तयोः सूर्य एव शरीरम्। तथाभूतौ प्रचुरतोयकरौ बहुजलप्रदौ। अथ
परिधयः समस्तककुप्परिचारिणः सकलदिग्व्यापिनो भवन्ति, तदा वारिणो जलस्य कणो-
ऽपि नास्ति। न वर्षतीत्यर्थः॥२६॥
अथ सन्ध्याघनानां लक्षणमाह—
ध्वजातपत्रपर्वतद्विपाश्वरूपधारिणः ।
जयाय सन्ध्ययोर्घना रणाय रक्तसन्निभाः ॥२७॥
पलालधूमसञ्चयस्थितोपमा बलाहकाः ।
बलान्यरूक्षमूर्त्तयो विवर्धयन्ति भूभृताम् ॥२८॥
विलम्बिनो द्रुमोपमाः खरारुणप्रकाशिनः ।
घनाः शिवाय सन्ध्ययोः पुरोपमाः शुभावहाः ॥२९॥
यदि सन्ध्याकाल में ध्वज, छत्र, पर्वत, हाथी या घोड़े की तरह रक्त वर्ण का मेघ
दिखाई दे तो युद्ध के लिये होता है। यदि पलाल ( पुअरा = पुआल = भूस = भूसा ),
धुयें की तरह निर्मल शरीर वाला मेघ हो तो राजाओं के सेनाओं की वृद्धि करता है। यदि
दोनों सन्ध्याओं में लटके हुये, वृक्ष की तरह, अतिलोहित वर्णों से प्रकाशित और पुर की
तरह मेघ दिखाई दे तो शुभ करता है॥२७-२९॥
एवंविधा घना मेघाः सन्ध्ययोर्दृष्टा जयाय नृपाणां जनानां च भवन्ति। कीदृशाः?
ध्वजातपत्रेति । ध्वजः प्रसिद्धो विविधपटनिर्मितं चिह्नम्। आतपत्रं छत्रम्, पर्वतः शैलः,
द्विपो हस्ती, अश्वस्तुरगः, एतेषां सदृशरूपधारिणः, तदाकृतय इत्यर्थः। अथ रक्तसन्निभा
अतिलोहिता रणाय संग्रामाय भवन्ति।
पलालधूमेति । एवंविधा बलाहका मेघाः। अरूक्षमूर्तयः स्निग्धशरीराः। भूभृतां
राज्ञां बलानि सैन्यानि विवर्धयन्ति वृद्धिं नयन्ति। कीदृशाः ? पलालधूमसञ्चयस्थितोपमाः,
पलालस्य धूमः पलालधूमस्तस्य सञ्चयः समूहः, पलालधूमसञ्चयस्थिता इव। तदुप-
मास्तत्सदृशाः।
विलम्बिन इति । एवंविधा घना मेघाः सन्ध्ययोः शिवाय श्रेयसे भवन्ति। कीदृशाः ।
विलम्बिनो लम्बमानाः। द्रुमोपमा वृक्षाकृतयः। खरारुणप्रकाशिनः खरा अतीव याऽसा-
वरु णता लोहितता तयातिप्रकाशिनो दीप्तिजनकाः, तथा पुरोपमाः पुराकाराः। शुभावहाः
शुभमावहन्ति॥२९॥
अथ विशेषलक्षणमाह—
दीप्तविहङ्गशिवामृगघुष्टा दण्डरजःपरिघादियुता च ।
प्रत्यहमर्कविकारयुता वा देशनरेशसुभिक्षबधाय ॥३०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सन्ध्यालक्षणाध्यायः ४०५
यदि सन्ध्याकाल में सूर्य के सम्मुख स्थित हुये पक्षी, शृगाल और मृगों के शब्दों से
दण्ड, धूलि, परिघ आदि ( इन्द्रधनु, गन्धर्वनगर या हिम ) से अथवा प्रतिदिन विकारयुक्त
सूर्य से युक्त सन्ध्या हो तो देश, राजा और सुभिक्ष का नाश करती है।।३०।।
एवंविधा सन्ध्या देशस्य जनपदस्य नरेशस्य राज्ञः सुभिक्षस्य च बधाय नाशाय
भवति। कीदृशी? दीप्तैः सूर्याभिमुखैर्विहङ्गैः पक्षिभिस्तथा शिवाभिर्दीप्ताभिः। मृगैरारण्य-
प्राणिभिर्घृष्टा कृतशब्दा, तथा दण्डेन रजसा परिघेण च युता संयुक्ता। आदिग्रहणात् सुर-
चापगन्धर्वनगरनीहारा ज्ञेयाः। प्रत्यहं प्रतिदिनमर्कविकारयुता वा। सविकारार्कसंयुक्ता।
स्वरूपान्यत्वं विकारता। तथा च पराशरः—
‘अथ सन्ध्यासु द्वियोजनान्तरे देश सद्यः फलमादिशेत्। रश्मिसंयुक्तायां तु सप्त-
रात्रनिवाते निर्मलस्निग्धायां शान्तमृगद्विजायां प्रसन्नायामनुपहतायां सन्ध्यायां योगक्षेमं
विन्द्याद्विपर्ययं विपरीतायाम्। श्वेतायां वसुवृद्धिं तस्यामेव परिमण्डलायां रक्तायाम्। हरितायां
शस्त्रकोपम्। माञ्जिष्ठायामग्निं पीतायां चतुष्पाद्रोगं श्यावायां चौरतो भयम्। नीलपीतायामीतिं
गवाम्। हरितालवर्णायां प्रथमामात्यस्य शस्त्रेण बधम्। आम्रकोरकवर्णायां वर्षं नील-
रक्तायामवग्रहं च कृष्णायामवर्षम्। श्यावकृष्णागौर्य्यां पशुघातं विन्द्यात्। वातं कपिला-
यामस्तमितमात्रे सूर्ये यातिमात्रप्रकाशः स्यात् प्रभा सा नाम तस्यां वर्षं विन्द्यात्। प्रत्यूषसि
तद्रूपायामेव राज्ञः सेनापतेर्वा बधः स्यात्। महावर्षं रूप्यवर्णायां च तस्यामेव ताम्रमध्यायां
कृष्णायामनृतौ वर्षमृताववग्रहम्। तथा पीतमाञ्जिष्ठा अग्निजीविनां बधाय। लोहितश्यावा
चौरवृद्धये। सर्वा एव च त्रिरात्राः पञ्चरागा वा युद्धाय यच्चालोहितेनैव लिम्पेत्तस्य
बधाय। स्निग्धा तु गौरी योगक्षेमाय’। भवति चात्र—
प्रतिसूर्यः शक्रधनुर्दण्डकः परिवेषणम्।
तथैरावतमत्स्याश्च स्निग्धा ये चार्करश्मयः।।
विद्युतो भूरिकाराश्च वर्णा ये च प्रदक्षिणाः।
सन्ध्यासु यदि दृश्यन्ते सद्यो वर्षणलक्षणम्।। इति।
तथा च काश्यपः—
दिनरात्र्यन्तरं सन्ध्या सूर्यस्यार्द्धं प्रदृश्यते।
यावच्च तावदारभ्य शुभा वाप्यशुभापि वा।।
नभोऽमलं शुभदिशः पद्मारुणसमप्रभाः।
मारुतो वाति सुरभिः सुखदो मृदुशीतलः।।
एषा सन्ध्या शुभा ज्ञेया विपरीताऽशुभा स्मृता।
रूक्षा च सविकारार्का क्रव्यादखरनादिता।।
स्निग्धा दण्डपरिवेषा सुरचापविभूषिता।
क्षिप्रं वर्षप्रदा सन्ध्या जयाऽऽरोग्यविवृद्धिदा।। इति।।३०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४०६ बृहत्संहिता
अथैतेषां सन्ध्यालक्षणोक्तानां फलानां फलकालनियमार्थमाह—
प्राची तत्क्षणमेव नक्तमपरा सन्ध्या त्र्यहाद्वा फलं
सप्ताहात् परिवेषरेणुपरिघाः कुर्वन्ति सद्यो न चेत्।
तद्वत् सूर्यकरेन्द्रकार्मुकतडित्प्रत्यर्कमेघानिला-
स्तस्मिन्नेव दिनेऽष्टमेऽथ विहगाः सप्ताहपाका मृगाः॥३१॥
पूर्व सन्ध्या अपने फल को उसी समय में देती है। सायं सन्ध्या रात्रि या तीन दिन
में, परिवेष, धूलि, परिघ, अमोघ, सूर्य के किरण, इन्द्रधनु, प्रतिसूर्य, मेघ और वायु उसी
समय या सात दिन में, पक्षी उसी समय या आठ दिन में और मृग सात दिन में शुभाशुभ
फल करते हैं॥३१॥
प्राची पूर्वा सन्ध्या शुभमशुभं वा फलं तत्क्षणं तस्यामेव वेलायां करोति। नक्तमपरा,
अपरा पश्चिमा द्वितीया सन्ध्या शुभमशुभं वा फलं नक्तं रात्रौ करोति। त्र्यहाद्वा फलमिति।
सन्ध्याफलमुक्तकाले यदि न दृश्यते तदा त्र्यहाद्दिनत्रयेण भवति। सप्ताहादिति। परिवेषः
सूर्यचन्द्रयोः। रेणुर्धूलिः। परिघस्तिर्यक् स्थिता सूर्यस्योदयेऽस्तमये वा मेघरेखा। एते
दृष्टाः सद्यस्तस्मिन्नेवाहनि फलं कुर्वन्ति। चेच्छब्दो यद्यर्थे। यदि सद्यो न कुर्वन्ति तदा
सप्ताहाद्दिनसप्तकेन शुभमशुभं वा फलं कुर्वन्ति। तद्वदिति। सूर्यकराः सूर्यरश्मयः, अमोघा-
दिकाः, इन्द्रकार्मुकमिन्द्रधनुः, तडिद्विद्युत्, प्रत्यर्कः प्रतिसूर्यः। मेघा अभ्राणि, अनिलो
वातः, एते सर्व एव तद्वत् सद्यः शुभमशुभं वा फलं कुर्वन्ति। यदि सद्यो न कुर्वन्ति तदा
सप्ताहात्। तस्मिन्नेवेति। विहगाः पक्षिणः शुभमशुभं वा सन्ध्याकृतं फलं तस्मिन्नेव
दिने कुर्वन्ति। तत्र यदि न कुर्वन्ति तदाऽष्टमदिने। अथशब्दो विकल्पे। सप्ताहपाका मृगाः, मृगा
आरण्यप्राणिनः सप्ताहपाकाः सप्ताहमध्ये पाकं फलं शुभमशुभं वा कुर्वन्ति इति॥३१॥
अन्येष्वप्याह—
एकं दीप्त्या योजनं भाति सन्ध्या विद्युद्भासा षट् प्रकाशीकरोति ।
पञ्चाब्दानां गर्जितं याति शब्दो नास्तीयत्ता केचिदुल्कानिपाते ॥३२॥
सन्ध्या अपनी कान्ति से प्रकाश करती है और उतनी ही दूर तक फल देती है तथा
विद्युत् छः योजन तक और मेघों का गर्जन पाँच योजन तक प्रकाश करता है और उतनी
ही दूर तक फल देता है। किसी-किसी ( देवल आदि ) आचार्य का मत है कि उल्कापात
होने से फल में प्रदेश की इयत्ता नहीं है; अपितु सर्वत्र फल देने वाला होता है॥३२॥
सन्ध्या दीप्त्या कान्त्या एकं योजनं भाति प्रकाशयति, सा च तावन्मात्र एव फलदा,
योजनफलप्रदेत्यर्थः। तथा विद्युद्भासा तडिद्दीप्त्या षड् योजनानि प्रकाशीकरोति। षण्णां
योजनानां सा फलदेत्यर्थः। अब्दानां मेघानां गर्जितं शब्दः पञ्च योजनानि याति गच्छति।
योजनपञ्चके फलद इत्यर्थः। नास्तीयत्तेति, केचिद्देवलादय एवमाहुः। यथोल्कानिपाते
इयत्ता परिच्छित्तिर्नास्ति। सर्वत्र सा फलदेत्यर्थः। तथा च देवलः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सन्ध्यालक्षणाध्यायः ४०७
सन्ध्या तु योजनं याति विद्युद्भासा षडेव हि।
मेघशब्दस्तु पञ्चानां योजनानां फलप्रदः।।
उल्का सर्वत्र फलदा शुभा वाऽप्यशुभापि वा।। इति।।३२।।
अथान्येषामप्याह—
प्रत्यर्कसंज्ञः परिधिस्तु तस्य त्रियोजनाभः परिघस्य पञ्च।
षट्पञ्चदृश्यं परिवेषचक्रं दशामरेशस्य धनुर्विभाति ॥३३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां सन्ध्या-
लक्षणाध्यायस्त्रिंशत्तमः ॥३०॥
प्रतिसूर्य नामक परिधि का तीन योजन तक, परिघ का पाँच योजन तक, परिवेषचक्र
का पाँच या छः योजन तक और इन्द्रधनुष का दश योजन तक प्रकाश जाता है और उतनी
ही दूर तक ये सब फल भी देते हैं।।३३।।
इति 'विमला'हिन्दीटीकायां सन्ध्यालक्षणाध्यायस्त्रिंशत्तमः ॥३०॥
प्रत्यर्कसंज्ञो यः प्रतिसूर्यस्तस्य परिधिस्त्रियोजनाभः, त्रयाणां योजनानां तस्य कान्ति-
र्दृश्यते। योजनत्रये फलद इत्यर्थः। परिघस्य पञ्च, पञ्चसु योजनेषु परिघो दृश्यते। ताव-
त्स्वेव फलद इत्यर्थः। परिवेषचक्रं परिवेषमण्डलं षट्पञ्चदृश्यम्, षट्सु पञ्चसु वा योज-
नेषु दृश्यते। तावन्मात्र एव फलदम्। अमरेशस्येन्द्रस्य धनुरिन्द्रचापं च दशयोजनानि विभाति
प्रकटीकरोति। दशानां योजनानां फलप्रदमित्यर्थः।।३३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ सन्ध्यालक्षणं
नाम त्रिंशत्तमोऽध्यायः ॥३०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ दिग्दाहलक्षणाध्यायः
अथ दिग्दाहलक्षणं व्याख्यायते। तत्रादावेव वर्णभेदनं तस्यैव फलमाह—
दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः ।
यश्चारुणः स्यादपसव्यवायुः सस्यस्य नाशं स करोति दृष्टः ॥१॥
यदि दिग्दाह पीत वर्ण का हो तो राजभय के लिये, अग्नि वर्ण का हो तो देशनाश के
लिए और बायीं तरफ लोहित वर्ण का वायु दिखाई दे तो धान्यों का नाश करता है।।१।।
दिशां दाहो दिग्दाहः। पीतः पीतवर्णो राजभयाय नृपभीतये भवति। तथा हुताशवर्णो-
ऽग्निसमप्रभो देशस्य जनपदस्य नाशाय क्षयाय भवति। यश्चारुणो लोहितवर्णः स्याद्भवेत्
स चापसव्यवायुः, अपसव्यो वामो वायुर्यस्य स दृष्टोऽवलोकितः सस्यस्य नाशं क्षयं
करोतीति ।।१।।
अथान्यदप्याह—
योऽतीव दीप्त्या कुरुते प्रकाशं छायामपि व्यञ्जयतेऽर्कवद्यः ।
राज्ञो महद्वेदयते भयं स शस्त्रप्रकोपं क्षतजानुरूपः ॥२॥
जो दिग्दाह अपनी अत्यधिक कान्ति से प्रकाशित होता है और सूर्य की तरह
दृश्यमान द्रव्य की छाया को भी प्रकाशित करता है, वह राजा को अधिक भय देता है
तथा यदि वह रक्त वर्ण का हो तो शस्त्र का भय करता है।।२।।
यो दिग्दाहोऽतीव दीप्त्या अतिकान्त्या प्रकाशं कुरुते उद्योतं जनयति। तथा योऽर्कवदा-
दित्यवच्छायामपि व्यञ्जयते प्रकाशयति। दृश्यमाना ये भावास्तदीयां छायामुत्पादयतीत्यर्थः।
स च राज्ञो नृपस्य महद्भयं वेदयते आख्याति। क्षतजानुरूपो रक्तवर्णोऽतिलोहित इत्यर्थः।
स शस्त्रकोपं करोति।।२।।
अथ सर्वासु दिक्षु फलमाह—
प्राक्क्षत्रियाणां सनरेश्वराणां प्राग्दक्षिणे शिल्पिकुमारपीडा ।
याम्ये सहोग्रैः पुरुषैस्तु वैश्या दूताः पुनर्भूप्रमदाश्च कोणे ॥३॥
पश्चात्तु शूद्राः कृषिजीविनश्च चौरास्तुरङ्गैः सह वायुदिक्स्थे ।
पीडां व्रजन्त्युत्तरतश्च विप्राः पाखण्डिनो वाणिजकाश्च शार्व्याम् ॥४॥
यदि पूर्व दिशा में दिग्दाह दिखाई दे तो वह राजा के साथ-साथ सभी क्षत्रियों को पीड़ित
करता है। आग्नेय कोण में दिखाई दे तो शिल्पी (लुहार, सोनार आदि) और कुमारों को
पीड़ित करता है। दक्षिण में दिखाई दे तो क्रूर मनुष्य, वैश्य, दूत और पुनर्भू स्त्री (जो
अक्षतयोनि होकर पुनः शादी करती है) को पीड़ित करता है। पश्चिम दिशा में दिखाई दे
तो शूद्र और किसानों को पीड़ित करता है। वायव्य कोण में दिखाई दे तो घोड़े के साथ चोरों
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

दिग्दाहलक्षणाध्यायः ४०९
को भी पीड़ित करता है। उत्तर दिशा में दिखाई दे तो ब्राह्मणों को पीड़ित करता है तथा ईशान
कोण में दिग्दाह दिखाई दे तो पाखण्डी और व्यापारियों को पीड़ित करता है॥३-४॥
प्राक् पूर्वस्यां दिशि दिग्दाह दृष्टः क्षत्रियाणां क्षत्रियजातीनां सनरेश्वराणां नरेश्वरेण
नृपेण सहितानां पीडां करोति। तथा प्राग्दक्षिणे आग्नेय्यां दिशि शिल्पिनां लोहकार-
सुवर्णकारादीनां कुमाराणां च पीडां करोति। याम्ये दक्षिणे वैश्या वैश्यजातयः, उग्रैः क्रूरैः
पुरुषैः सह पीडां व्रजन्ति प्राप्नुवन्ति। दूता गमागमिकाः, पुनर्भूप्रमदाश्च पुनर्भूस्त्रियः। कोणे
नैर्ऋत्यां दिशि पीडां व्रजन्ति। अक्षतयोनित्वाद्या पुनरुह्यते सा पुनर्भूः। तथा च—
पुनर्भूः सोह्यते भूयो याऽक्षतत्वाद्यथाविधि।
पश्चात् शूद्रा इति। शूद्राः शूद्रजातयः, कृषिजीविनः कार्षिकाः पश्चात् पश्चिमायां
दिशि पीडां व्रजन्ति। वायुदिक्स्थे वायव्यां दिशि स्थिते दिग्दाहे चौरास्तुरङ्गैरश्वैः सह पीडां
व्रजन्ति। उत्तरत उत्तरस्यां दिशि विप्रा ब्राह्मणाः पीडां व्रजन्ति। पाखण्डिनो वेदबाह्या
वाणिजकाश्च क्रयविक्रयजीविनः शार्व्यामैशानीं दिशि पीडां व्रजन्ति। तथा च काश्यपः—
प्राच्यां दिशि प्रदीप्तायां श्रेणीनां भयमादिशेत्।
आग्नेय्यां तु कुमाराणां वैश्यानां दक्षिणे तथा॥
नैर्ऋत्यां च स्त्रियो हन्ति शूद्रान् पश्चिमस्तथा।
वायव्यां चौरभयं विप्राणामुत्तरे तथा॥
पाखण्डिवणिजां पीडा ह्यैशानी यदि दीप्यते॥ इति ॥३-४॥
अथ शुभलक्षणमाह—
नभः प्रसन्नं विमलानि भानि प्रदक्षिणं वाति सदागतिश्च।
दिशां च दाहः कनकावदातो हिताय लोकस्य सपार्थिवस्य ॥५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दिग्दाहलक्षणाध्याय एकत्रिशः ॥३१॥
प्रसन्न ( निर्मल ) आकाश, विमल, ( निर्मल ) नक्षत्र, दक्षिणावर्त्त क्रम से घूमता
हुआ वायु और सुवर्ण की तरह दिग्दाह हो तो राजा के साथ-साथ सब लोगों का हित
करने वाला होता है॥५॥
इति 'विमला' हिन्दीटीकायां दिग्दाहलक्षणाध्याय एकत्रिंशः ॥३१॥
नभ आकाशं प्रसन्नं निर्मलम्, तथा भानि नक्षत्राणि विमलानि स्निग्धानि। सदागतिर्वायुश्च
प्रदक्षिणं वाति प्रदक्षिणेन वहति। दिशां दाहो दिग्दाहः कनकावदातः कनकवत् सुवर्णवद-
वदातो निर्मलस्तथाभूतः सपार्थिवस्य सनृपस्य लोकस्य जनपदस्य हिताय श्रेयसे भवति।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ दिग्दाहलक्षणं नामैकत्रिंशोऽध्यायः ॥३१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ भूकम्पलक्षणाध्यायः
अथ भूकम्पलक्षणाध्यायो व्याख्यायते। तत्रादावेव तन्निमित्तार्थं मुनीनां मतभेदप्रदर्श-
नार्थमाह—
क्षितिकम्पमाहुरेके बृहदन्तर्जलनिवासिसत्त्वकृतम्।
भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये ॥१॥
किसी-किसी (कश्यप आदि) का मत है कि जल में रहने वाले बड़े प्राणियों के
धक्के से भूकम्प होता है तथा अन्य (गर्ग आदि) आचार्यों का मत है कि पृथ्वी के भार
से थके हुये दिग्गजों के विश्राम से भूकम्प होता है॥१॥
एके मुनयो बृहदन्तर्जलनिवासिसत्त्वकृतं क्षितिकम्पमाहुः कथयन्ति। बृहन्तो ये य
सत्त्वाः प्राणिनो झषमकरमत्स्यकूर्मनक्रशिशुमारप्रभृतयोऽन्तर्जले जलमध्ये निवसन्ति,
तत्कृतं क्षितिकम्पं भूचलनमाहुः। तेषां जलसंक्षोभणादुत्पद्यत इत्यर्थः। तथा च काश्यपः—
वारुणस्योपरि पृथ्वी सशैलवनकानना।
स्थिता जलजसत्त्वाश्च सक्षोभाक्षालयन्ति ताम्।।
भूभारखिन्नेति। तथा अन्ये गर्गादय एवमाहुः। भूभारेण क्षितिभारोद्वहनेन खिन्नाः
श्रान्ता ये दिग्गजा दिङ्नागास्तेषां विश्राम उच्छ्वसनं तदुद्भवं तदुत्पन्नं क्षितिकम्पमिति।
तथा च गर्गः—
चत्वारः पृथिवीं नागा धारयन्ति चतुर्दिशम्।
वर्धमानः सुवृद्धश्चातिवृद्धश्च पृथुश्रवाः।
वर्धमानो दिशं पूर्वा सुवृद्धो दक्षिणां दिशम्।।
पश्चिमामतिवृद्धस्तु सौम्याशां तु पृथुश्रवाः।
नियोगाद् ब्रह्मणो ह्येते धारयन्ति वसुन्धराम्।।
ते श्वसन्ति यदा श्रान्ताः स वायुः श्वसितो महान्।
वेगान्महीं चालयति भावाभावाय देहिनाम्।। इति।।१।।
अन्यन्मतान्तरमाह—
अनिलोऽनिलेन निहतः क्षितौ पतन् सस्वनं करोत्यन्ये।
केचित्त्वदृष्टकारितमिदमन्ये प्राहूराचार्याः ॥२॥
किसी (वसिष्ठ आदि) का मत है कि वायु एक-दूसरे से टकराकर पृथ्वी पर गिरते
हुये शब्द के साथ भूकम्प करता है। दूसरे (वृद्धगर्ग आदि) का मत है कि प्रजाओं के
अदृष्ट (धर्माधर्म) के द्वारा भूकम्प होता है॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

भूकम्पलक्षणाध्यायः ४११
अन्ये वसिष्ठादय एवमाहुः। अनिलो वायुः स च नभस्थोऽपरेणानिलेन निहतस्ताडितः
क्षितौ भूमौ पतति, स च पतन् सस्वनं शब्दं भूकम्पं करोति उत्पादयति। तथा च
वसिष्ठः—
यदा तु बलवान् वायुरन्तरिक्षानिलाहतः।
पतत्याशु स निर्घातो भवेदनिलसम्भवः॥
तस्य योगात्रिणपतच्छलत्यन्याहता क्षितिः।
सोऽभिघातसमुत्थः स्यात् सनिर्घातमहीचलः॥ इति।
केचित्त्वदृष्टकारितमिति। केचिद्वृद्धगर्गादय इदं भूकम्पमदृष्टकारितं प्राहुः। अदृष्ट-
शब्देन धर्माधर्मौ बुध्येते, ताभ्यां कारितं कृतमित्यर्थः। किल धर्मेण वृद्धेन प्रजानां शुभसं-
सूचनाय शुभं भूमिकम्पमुत्पद्यते। अधर्मेणाभिवृद्धेन प्रजानामशुभसंसूचनायाशुभं भूमि-
कम्पमुत्पद्यत इति। तथा च वृद्धगर्गः—
[L

४१२ वृहत्संहिता
समर्थ नहीं हूँ। उस ( पृथ्वी ) का गद्गद वाणी वाला, कुछ-कुछ फड़कते हुए अधर
वाला, नम्र और अश्रुयुत नेत्र वाला मुख देख कर ब्रह्माजी ने कहा—हे इन्द्र ! पृथ्वी की
आपत्ति का हरण करो और पर्वतों के पंख का नाश करने के लिये वज्र का प्रहार करो।
इन्द्र ने स्वीकार करके पृथ्वी से कहा—भय मत करो। किन्तु शुभाशुभ फल जानने के
लिये वायु, अग्नि, इन्द्र और वरुण दिन और रात के क्रम से प्रथम, द्वितीय, तृतीय और
चतुर्थ भाग में तुझे कम्पित करेंगे। जैसे कि दिन के पूर्वार्द्ध में वायु, उत्तरार्द्ध में अग्नि,
रात्रि के पूर्वार्द्ध में इन्द्र और उत्तरार्द्ध में वरुण तुझे कम्पित करेंगे।। ३-७।।
पुरा पूर्वं गिरिभिः पर्वतैः सपक्षैः पक्षसहितैर्वसुधा भूः प्रपतद्भिरुत्पतद्भिश्च आकाशाद्
भूर्भूम्याश्चाकाशमुत्पतद्भिराकम्पिता चाल्यमाना सती अमरसदसि देवसभायां गत्वा सव्रीडं
सलज्जं कृत्वा। केचित् सव्रीडेति पठन्ति। सव्रीडा सलज्जा पितामहं ब्रह्माण

भूकम्पलक्षणाध्यायः ४१३
याम्यनिलानम्बुपतिमदभिसृष्टाः कम्पाः कदाचिज्जगति हिताहितवेदिनो भविष्यन्तीत्यर्कचन्द्र-
ग्रहणविकृतचारजांश्च कम्पनाहुः' ।
अत्र केचित् प्राग्द्वित्रिचतुर्भागेषु दिननिशोरित्यन्यथा व्याख्यानं कुर्वन्ति। प्रत्येकं दिननिशोः
प्राग्द्वित्रिचतुर्भागेष्वनिलदहनसुरपतिवरुणाः कम्पयिष्यन्ति। तथा च शास्त्रान्तरे पठ्यते—
रात्रौ दिवा च पूर्वाह्णे वायव्यः कम्प उच्यते।
मध्याह्ने चार्द्धरात्रे च हौताशः कम्प उच्यते।।
दिवारात्रौ तृतीयेऽंशे माहेन्द्रश्चाभिगीयते।
चतेर्थे वर्तमानेऽंशे वारुणं निर्दिशेद् बुधः।।
एतन्न शोभनम्; यस्मात् पराशर आह—
'तत्र चतुर्षु चतुर्भागेषु दिवानक्तमनिलानलेन्द्रवरुणजं कम्पक्रमं विन्द्यात्' ।
एतत् स्पष्टतरं गर्ग आह—
कृत्वा चतुर्थाहोरात्रं द्विधाहोऽथ द्विधा निशाम्।
देवताश्रययोगाच्च चतुर्था भगणं तथा।।
पूर्वे दिनार्द्धे वायव्ये आग्नेयाऽर्द्धे तु पश्चिमे।
ऐन्द्रः पूर्वे च रात्र्यर्द्धे पश्चिमार्द्धे तु वारुणः।।
चत्वार एवमेते स्युरहोरात्रविकल्पजाः।
निमित्तभूता लोकानामुल्कानिर्घातभूचलाः।। इति।
एवं चतस्रो वेला इति सिद्धम्।।३-७।।
अथ वायव्यस्य कम्पस्य लक्षणं पूर्वरूपाणि चाह—
चत्वार्यार्यम्णाद्यान्यादित्यं मृगशिरोऽश्वयुक् चेति।
मण्डलमेतद्वायव्यमस्य रूपाणि सप्ताहात् ।।८।।
धूमाकुलीकृताशे नभसि नभस्वान् रजः क्षिपन् भौमम्।
विरुजन् द्रुमांश्च विचरति रविरपटुकरावभासी च ।।९।।
वायव्ये भूकम्पे सस्याम्बुवनौषधीक्षयोऽभिहितः।
श्वयथुश्वासोन्मादज्वरकासभवो वणिक्पीडा ।।१०।।
रूपायुधभृद्वैद्यास्त्रीकविगान्धर्वपण्यशिल्पिजनाः ।
पीड्यन्ते सौराष्ट्रकुरुमगधदशार्णमत्स्याश्च ।।११।।
उत्तरफल्गुनी, हस्त, चित्रा, स्वाती, पुनर्वसु, मृगशिरा, अश्विनी—ये सात नक्षत्र वायव्य
मण्डल के हैं। यदि इनमें से किसी भी नक्षत्र में भूकम्प हो तो इसके सात दिन पूर्व आगे
कथित लक्षण होते हैं। धूम से व्याप्त दिशा वाला आकाश होता है, पृथ्वी से धूलि उड़ाती
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

४१४ बृहत्संहिता
हुई और वृक्षों को तोड़ती हुई हवा चलती है एवं सूर्य के किरण मन्द हो जाते हैं। वायव्य
भूकम्प होने से धान्य, जल और वनौषधियों का नाश होता है तथा व्यापारियों को शोथ,
दमा, उन्माद, ज्वर और खाँसी से उत्पन्न पीड़ा होती है। यह वेश्या, शस्त्रजीवी, वैद्य,
कवि, गान विद्या जानने वाले, व्यापारी, शिल्पी तथा सौराष्ट्र, कुरु, मगध, दशार्ण और
मत्स्यदेशवासी मनुष्यों को पीड़ित करता है॥८-११॥
चत्वार्यार्यम्णाद्यानीति । आर्यम्णमुत्तरफल्गुनी तदाद्यानि चत्वारि नक्षत्राणि। उत्तर-
फल्गुनी हस्तश्चित्रा स्वातिरिति। आदित्यं पुनर्वसुः। मृगशिरः सौम्यम्। अश्वयुगश्विनीत्येतानि
सप्त नक्षत्राणि वायव्यमण्डलम्। एतेषामन्यतमर्क्षे यदि भूकम्पो भवति तदा तद्वायव्यं ज्ञेय-
मिति। अस्य रूपाणि सप्ताहात्। अस्य च मण्डलस्य सप्ताहात्पूर्वं वक्ष्यमाणानि रूपाणि
पूर्वलिङ्गानि भवन्ति।
तान्याह—धूमाकुलीकृताश इति । यदा वायव्यकम्पो भवति, तदा चैतानि प्राक्स्थितानि
लिङ्गान्युत्पद्यन्ते। नभस्याकाशे धूमाकुलीकृताशे। धूमेन आकुली कृता आशा दिशो यत्र
तथाभूते। नभस्वान् वायुर्भौमं भूमेरुत्थं रजो धूलिं क्षिपन् प्रेरयन् विचरति। तथा द्रुमान्
वृक्षान् विरुजन् विभञ्जयन् विचरति। रविरादित्यः। अपटुकरावभासी च भवति। अपटुभिरचतुरैः
करै रश्मिभिरवभासनं प्रकाशं करोति तच्छीलः। तथा च गर्गः—
प्रथमेऽह्नि चतुर्भागे निर्घातोल्कामहीचलाः।
सौम्यादित्यार्यम्णहस्तचित्रास्वात्यश्विनीषु च।।
भवन्त्यनिलजाः सर्वे लक्षणान्यवधारय।
धूमव्याप्ता दिशः सर्वा नभस्वान् प्रक्षिपन् रजः।।
द्रुमांश्च भञ्जंश्चरति रविस्तपति शीतलः।
सप्तमेऽहनि कम्पः स्याद् भूमेरनिलसम्भवः।। इति।
तस्मादस्य रूपाणि सप्ताहादिति यदुक्तं तत्र प्राप्तलिङ्गानीति बोद्धव्यम्। तत्र फला-
न्याह—
वायव्ये भूकम्पे सस्यानां शालीनामम्बुनो जलस्य वनानामरण्यानामौषधीनां च क्षयो
विनाशोऽभिहित उक्तः। तथा श्वयथुः शोफः। श्वासः। उन्मादो विचित्तता। ज्वरः। कासः।
एषां भवः सम्भवः। वणिजां क्रयविक्रयजीविनां च पीडा व्यथा।
तथा रूपायुधभृदिति। रूपभृतो वेश्याजनाः। आयुधभृतः शस्त्रोपजीविनः। वैद्याः
कायचिकित्सकाः। स्त्रियो योषितः। कवयः काव्यकर्तारः। गान्धर्वा गायकाः। पण्याः
पण्येन ये जीवन्ति जनाः। तथा शिल्पिनो लोहकारप्रभृतयः। अथवा पण्यमेव शिल्पं
येषां ते पण्यशिल्पिजनाः। एते सर्वे पीड्यन्ते। तथा सौराष्ट्रका जनाः। कुरवः। मगधाः।
दशार्णाः। मत्स्याः। एतेऽपि पीड्यन्ते।
एवमाचार्येण गर्गऋषिपुत्रयोर्मतमङ्गीकृतम्। वृद्धगर्गपराशरकश्यपैः सह मतभेदः।
तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

'वायव्याभिज्द्रासवाश्वार्य्यमणहस्तत्वाष्ट्रेष्वनिलोऽभिकम्पयन् परुषपवननिपातैस्तरु-
कुसुमशष्पसस्यान्युच्छेदयति। उन्मादश्वासश्वयथुविषमज्वरातङ्कद्रिशेषतो भिषग्वणिवपण्य-
स्त्रीशिल्पिशूरचित्रकारकविविद्याविवादशीलधूर्तकुरुसारदण्डकवात्समागधसाल्वसौव-
र्धनपुलिन्दवैदेहसौराष्ट्रनलदकदम्बदशार्णाङ्गवङ्गवर्तिमालवपौरवत्रिगर्तसौवीरयौधेयक्षुद्रक-
शिविकानभिहन्ति' ।।८-११।।
अथाग्नेयस्य मण्डललक्षणं पूर्वलिङ्गानि चाह—
पुष्याग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि ।
वर्गो हौतभुजोऽयं करोति रूपाण्यथैतानि ॥१२॥
तारोल्कापातावृतमादीप्तमिवाम्बरं सदिग्दाहम्।
विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः ॥१३॥
आग्नेयेऽम्बुदनाशः सलिलाशयसंक्षयो नृपतिवैरम्।
दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डुरोगश्च ॥१४॥
दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकाङ्गबाह्लीकाः।
तङ्गणकलिङ्गवङ्गद्रविडाः शबरा अनेकविधाः ॥१५॥
पुष्य, कृत्तिका, विशाखा, भरणी, मघा, पूर्वभाद्रपदा, पूर्वफाल्गुनी—ये सात नक्षत्र
आग्नेय मण्डल के हैं। यदि इनमें से किसी भी नक्षत्र में भूकम्प हो तो इसके सात दिन
पूर्व आगे कथित लक्षण होते हैं। सात दिन के मध्य में दिग्दाह के साथ तारा तथा उल्का
के गिरने से व्याप्त; अतः प्रज्वलित की तरह आकाश होता है तथा वायु की सहायता से
अग्नि विचरण करती है। आग्नेय भूकम्प में मेघ और जलाशयों ( वापी, कूप और तालाब )
का नाश, राजाओं में परस्पर द्वेष, दाह, विचर्चिका, ज्वर, विसर्पिका और पाण्डु रोग होता
है। यह तेजस्वी, क्रोधी मनुष्य, अश्मक, अङ्ग, बाह्लीक, तङ्गण, कलिङ्ग, वङ्ग, द्रविण
और शबर देशवासियों को अनेक प्रकार से पीड़ित करता है॥१२-१५॥
पुष्यः। आग्नेयं कृत्तिका। विशाखा। भरणी। पित्र्यं मघाः। अजशब्देनेकपादुच्यते।
एवमजं पूर्वभद्रपदा। भाग्यसंज्ञा पूर्वफल्गुनी। एतानि सप्त नक्षत्राणि। हौतभुजोऽयं वर्गः।
हुतं भुङ्क्ते हुतभुक्, तस्यायं हौतभुजः। आग्नेयं मण्डलम्। अथानन्तरम्। एतानि वक्ष्य-
माणानि रूपाणि चिह्नानि सप्ताहात् पूर्वं करोति।
तारोल्कापातावृतमिति। अम्बरमाकाशं तारोल्कापातावृतम्। तारापातैरुल्कापातैश्चा-
वृतं व्याप्तम्। सदिग्दाहं दिग्दाहसहितम्। आदीप्तमिवोज्ज्वलितमिव लक्ष्यते। सप्तदिव-
सान्तः सप्ताहमध्ये सप्तार्चिरग्निर्मरुत्सहायो वातसहितो विचरति वहन् दृश्यते। तथा च
गर्गः—
द्वितीयेऽह्नि चतुर्भागे निर्घातोल्का महीचलाः।
पित्र्यभाग्याजपुष्याग्निविशाखायमदैवतैः ॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४१६ बृहत्संहिता
भवन्त्यनिलजास्ते च लक्षणानि निबोध मे।
तारोल्कापातदिग्दाहैरादीप्तं लक्ष्यते नभः॥
मरुत्सहायः सप्तार्चिः सप्ताहान्तश्चरत्यपि।
सप्तमेऽहनि विज्ञेयः कम्पश्चानलसम्भवः।। इति।
अथ फलान्याह—आग्नेये भूकम्पे अम्बुदानां मेघानां नाशः क्षयः। सलिलाशयानां
जलधराणां वापीकूपतडागानां संक्षयः संशोषः। नृपतीनां राज्ञां परस्परं वैरं द्वेषः। दद्रू
त्वग्विकारः। विचर्चिका रोगविशेषः पादजस्त्वग्विकारः। ज्वरः। विसर्पिका अङ्गविकारः।
पाण्डुरोग उदरामयः। एते सम्भवन्ति।
दीप्तौजस इति। दीप्तमोजो येषां ते दीप्तौजसस्तेजस्विनः। प्रचण्डाः क्रोधिनः।
एते पीड्यन्ते पीडां प्राप्नुवन्ति। तथाश्मका जनाः। अङ्गाः। बाह्लीकाः। तङ्गणाः। कलिङ्गाः।
वङ्गाः। द्रविणाः। शबरः। एते अनेकविधा बहुप्रकाराः। सर्व एव पीड्यन्ते। अत्रापि
पराशरः—
'अग्नीन्द्राग्न्यजयमपितृगुरुभगदैवतेष्वनलोऽभिकम्पयन् वर्षसरित्सरःस्रोतसामपः क्षपयन्
सुखानि रोगारोचकपिटकपाण्डुरुग्ज्वरकिटिभदद्रुदाहकृद्विशेषाद्वातपादकाग्निवित्पुलिन्द-
यवनबाह्लीकवङ्गोष्ट्रसन्त्यश्मकेक्ष्वाकुकुलूततुखारशिबिकत्रिगर्तवैदेहद्रविडसुराष्ट्रमध्यदेश-
दाशार्णांश्च हिनस्ति' इति।।१२-१५।।
अथेन्द्रस्य मण्डलस्य लक्षणं पूर्वलिङ्गानि फलान्याह—
अभिजिच्छ्रवणधनिष्ठाप्राजापत्यैन्द्रवैश्वमैत्राणि ।
सुरपतिमण्डलमेतद्भवन्ति चाप्यस्य रूपाणि ॥१६॥
चलिताचलवर्ष्माणो गम्भीरविराविणस्तडिद्वन्तः।
गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ॥१७॥
ऐन्द्रं स्तुतकुलजातिख्यातावनिपालगणपविध्वंसि ।
अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ॥१८॥
काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
अर्बुदसुराष्ट्रमालवपीडाकरमिष्टवृष्टिकरम् ॥१९॥
अभिजित्, श्रवण, धनिष्ठा, रोहिणी, ज्येष्ठा, उत्तराषाढा, अनुराधा--ये सात नक्षत्र
इन्द्रमण्डल के हैं। यदि इनमें से किसी भी नक्षत्र में भूकम्प हो तो उसके सात दिन पूर्व
आगे कथित लक्षण होते हैं। जैसे कि पर्वत के समान शरीर वाले, गम्भीर शब्द करने
वाले, बिजली वाले, महिषशृङ्ग, भ्रमरकुल और सर्पों के समान कान्ति वाले मेघ वर्षा
करते हैं। ऐन्द्र कम्प में प्रधान कुल में उत्पन्न मनुष्य, यशस्वी, राजा और सङ्घियों में
प्रधान का नाश करता है तथा अतिसार, कण्ठरोग, मुखरोग और कफ के रोग होते हैं।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

काशी, युगन्धर, पौरव, किरात, कीर, अभिसार, हल, मद्र, अर्बुद, सुराष्ट्र और मालवदेशवासी
मनुष्यों को पीड़ित करता है एवं प्रयोजन के अनुसार वृष्टि करता है।।१६-१९।।
अभिभिच्छ्रवणं धनिष्ठा। प्राजापत्यं रोहिणी। ऐन्द्रं ज्येष्ठा। वैश्वमुत्तराषाढा। मैत्रमनु-
राधा। एतानि सप्त नक्षत्राणि सुरपतेरिन्द्रस्य मण्डलमेतत्। अस्यापि सप्ताहात् पूर्वं स्व-
रूपाणि भवन्ति।
पयोवाहा मेघाः पयः पानीयं विसृजन्त्युत्सृजन्ति। कीदृशाः? चलिताचलवर्म्माणः,
चलितानामचलानां पर्वतानामिव वर्ष्म शरीरं येषां ते तथाविधाः। तथा गम्भीरविरा-
विणः, गम्भीरो मधुरो विशेषेण रावः शब्दो येषाम्। तडिद्वन्तः, तडितो विद्युत्तस्ता विद्यन्ते
येषु। गवलं महिषशृङ्गम्। अलिकुलं भ्रमरकुलम्। अहयः सर्पास्तन्निभास्तत्सदृशाः।
तथा च गर्गः—
निशार्द्धे तु यदा पूर्वे उल्कानिर्घातभूचलाः।
मैत्रेन्द्वैश्वश्रवणाभिजिद्रोहिणिवासवैः ।।
स्यादिन्द्रसम्भवः कम्पो लक्षणानि च मे शृणु।
वर्षन्ति बहवो मेघा वराहमहिषोपमाः।।
धुन्वन्तो मधुरान् रावान् विद्युद्भासितभूतलाः।
सप्तमेऽहनि सम्प्राप्ते कम्पः स्यादिन्द्रसम्भवः।। इति।
फलान्याह—ऐन्द्रमित्यादि । ऐन्द्रं कम्पम्। स्तुतकुलजातयः। स्तुते स्तुतिसंयुक्ते
प्रधानकुले जातिर्जन्म येषां ते। तथा ख्याताः कीर्तियुक्ताः। अवनिपाला राजानः। गणपाः
समूहपतयः। एषां विध्वंसि नाशकम्। अतिसारोऽतीसारः। गलग्रहः कण्ठरोगः। वदनरोगो
मुखगदः। एतान् करोति। तथा छर्दिकोपाय भवति। छर्दिप्रकोपं करोति।
काशयो जनाः। युगन्धराः। पौरवाः। किराताः। कीराः। अभिसाराः। हलाः। मद्राः।
अर्बुदाः। सुराष्ट्राः। मालवाः। एषां पीडाकरम्। तथा इष्टवृष्टिकिरम्। इष्टामभिमतां वृष्टिं
करोति। अत्रापि पराशरः—
'ऐन्द्रवैश्वदेववैष्णवप्राजापत्यसौम्यादित्यमैत्रेषु सुरपतिरवनिमतिचालयन् प्रवृद्धाम्भोद-
यज्ञधर्मत्रिपानोत्सवो जात्यप्रथितकुलाधिपतिसुवास्तुनीचकाश्मीराभिसारप्राच्यशककिरा-
तपौरवाच्युतवास्वर्णविमालवपह्नवदण्डककाशिकार्षककैलासमल्ललहवहालानुपतापयति'
इति।।१६-१९।।
अथ वारुणस्य लक्षणं पूर्वलिङ्गानि फलमाह—
पौष्णाप्याद्र्रार्श्लेषामूलाहिर्बुध्न्यवरुणदेवानि ।
मण्डलमेतद्वारुणमस्यापि भवन्ति रूपाणि ॥२०॥
नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
तडिदुद्भासितदेहा धाराङ्कुरवर्षिणो जलदाः ॥२१॥
बृ० भ० प्र०-२७
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA

४१८ बृहत्संहिता
वारुणमर्णवसरिदाश्रितघ्नमतिवृष्टिदं विगतवैरम्।
गोनर्दचेदिकुकुरान् किरातवैदेहकान् हन्ति ॥२२॥
रेवती, पूर्वाषाढ़ा, आर्द्रा, आश्लेषा, मूल, उत्तरभाद्रपदा, शतभिषा—ये सात नक्षत्र
वरुणमण्डल के हैं। यदि इनमें से किसी भी नक्षत्र में भूकम्प हो तो इसके सात दिन पूर्व
आगे कथित लक्षण होते हैं। जैसे कि वारुण कम्प में समुद्र और नदी के तट पर रहने
वालों का नाश, अतिवृष्टि, परस्पर द्वेषरहित मनुष्य तथा गोनर्द, चेदी, कुकुर, किरात और
वैदेह देश में रहने वाले मनुष्यों का नाश करता है।।२०-२२।।
पौष्णं रेवती। आप्यं पूर्वाषाढा। आर्द्रा। आश्लेषा। मूलम्। अहिर्बुध्न्यमुत्तरभद्रपदा।
वरुणदेवं शतभिषक्। एतानि सप्त नक्षत्राणि। वारुणं मण्डलमस्र्यापि सप्ताहात् पूर्वं
रूपाणि चिह्नानि भवन्ति।
जलदा मेघा धाराङ्कुरवर्षिणः। धारा जलपात एवाङ्कुरो येषां तैर्वर्षन्ति। कीदृशाः?
नीलोत्पलालिभिन्नाञ्जनत्विषः, नीलोत्पलं कुवलयम्, अलिर्भ्रमरः, भिन्नाञ्जनमिति नीलवर्णं
कज्जलम्, एषां सदृशी त्विट् कान्तिर्येषाम्। मधुरराविणः, मधुरो रावः शब्दो येषाम्।
बहुलाः प्रभूतास्तडिदुद्भासितदेहाः। तडिद्भिर्विद्युद्भिरुद्भासिताः प्रकटीकृता देहाः शरीराणि
येषाम्। तथा च गर्गः—
निशायां पश्चिमे भागे निर्घातोल्कामहीचलाः।
पौष्णाप्याद्र्रोरगा मूलाहिर्बुध्न्यं वरुणं तथा।।
कम्पो वारुण एभिः स्याच्छृणु तस्यैव लक्षणम्।
वर्षन्ति जलदास्तत्र नीलाञ्जनचयोपमाः।।
विद्युद्भासितदेहाश्च मधुरस्वरभूषिताः।
सप्तमेऽहनि सम्प्राप्ते कम्पः स्याद्वारुणस्ततः।। इति।
फलान्याह—वारुणं कम्पमर्णवसरिदाश्रितघ्नम्। अर्णवः समुद्रः। सरितो नद्यः। तत्र
ये आश्रितास्तान् हन्ति। अतिवृष्टिदम्, प्रभूतां वृष्टिं ददाति। विगतवैरं नष्टद्वेषम्। गोनर्दा
जनाः। चेदयः। कुकुराः। एतान् किरातान् वैदेहांश्च हन्ति नाशयति। अत्रापि पराशरः—
'वारुणाहिर्बुध्न्यपुषारुद्रभुजगनैर्ऋत्यदैवतेषु कम्पोऽबुपतिकृतः प्रततजलधरः। धराभि-
न्त्रेकेदारपुरनगरप्रबद्धतरुणततजलताक्षुपशष्पसस्यातीसारहिक्काक्षिरोगकृदपि च विशेषतः
किरातकाश्मीरापरान्तककौकुरेयशौर्यरकचेदिवत्ससैन्धवोदकयात्रिकोदधिनदनदीसंश्रितांश्च
देशानुपहन्ति' इति॥२०-२२॥
अधुना फलकालनियमार्थमाह—
षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः।
अन्यानप्युत्पातान् जगुरन्ये मण्डलैरैतैः ॥२३॥
भूकम्प का फल छः महीने में और निर्घात का फल दो महीने में घटित होता है। गर्ग
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

भूकम्पलक्षणाध्यायः ४१९
आदि मुनियों का मत है कि अन्य ( निर्घात, उल्कापात आदि ) उत्पातों का फल मण्डल
के साथ ही होता है।।२३।।
षड्भिर्मासैः कम्पः पाकं याति फलं ददातीत्यर्थः। निर्घातो द्वाभ्यां मासाभ्यां पाकं
याति। अन्ये मुनयो गर्गादयोऽन्यानप्युत्पातान् ग्रहणनिर्घातोल्कापातादीनेतैरेव भूकम्पोक्तै-
र्मण्डलैर्जगुरक्तवन्तः। तथा च गर्गः—
निर्घातोल्कामहीकम्पाः स्निग्धगम्भीरनिःस्वनाः।
मेघाः स्तनितशब्दाश्च सूर्येन्दुग्रहणे तथा।।
परिवेषेन्द्रचापं च गन्धर्वनगरं तथा।
मण्डलैरेव बोद्धव्याः शुभाशुभफलप्रदाः।।
तथा च समाससंहितायामाचार्येणैवोक्तम्—
आर्यम्णपूर्वं भचतुष्टयं च शशाङ्कमादित्यमथाश्विनी च।
वायव्यमेतत्पवनोऽत्र चण्डो मासद्वयेनाशुभदः प्रजानाम्।।
अजैकपादं बहुला भरण्यो भाग्यं विशाखा गुरुभं मघा च।
क्षुदग्निशस्त्रामयकोपकारि पक्षैस्त्रिभिर्मण्डलमग्निसंज्ञम्।।
प्राजापत्यं वैष्णवं मैत्रमैन्द्रं विश्वेशं स्याद्वासवं चाभिजिश्च।
ऐन्द्रं ह्येतन्मण्डलं सप्तरात्रात् कुर्यात्तोयं हृष्टलोकं प्रशान्तम्।।
आहिर्बुध्न्यं वारुणं मूलमाप्यं पौष्णं सार्पं मन्मथारीश्वरं च।
सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम्।।
उल्काहरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः।
वातोऽतिचण्डो ग्रहणं रवीन्द्वोर्नक्षत्रतारागणवैकृतानि।।
व्यभ्रे वृष्टिर्वैकृतं चातिवृष्टिर्धूमोऽनग्निविस्फुलिङ्गार्चिषां वा।
वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा।।
सन्ध्याविकारः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादः।
अन्यच्च यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगद्यम्।। इति।।२३।।
उल्काद्युत्पातानां फलनियमः—
( उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः ।
वातोऽपिचण्डो ग्रहणं रवीन्द्वोर्नक्षत्रतारागणवैकृतानि ।।
व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमोऽनाग्निविस्फुलिङ्गार्चिषो वा ।
वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकंदृश्यते वा ।।
सन्ध्याविकारः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादः ।
अन्यच्च यत्स्यात्प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगाद्यम् ।।
उल्का, गन्धर्वपुर, धूलि, निर्घात, भूकम्प, दिग्दाह, भयङ्कर वायु, सूर्य-चन्द्र का
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

८२० बृहत्संहिता
ग्रहण, विकारयुक्त नक्षत्र और तारागण, बिना बादल की वर्षा, विकार युत वायु के
साथ वृष्टि, अग्नि की चिनगारीदार लपट, वन में रहने वाले पशुओं का गाँव में आना,
रात्रि में इन्द्रधनुष दिखाई देना, सन्ध्या में विकार, परिवेशखण्ड, नदियों की गति में
वैपरीत्य, आकाश में तुरही का बजना, और भी प्रकृति के विरुद्ध लक्षण होना, इन
सबों का फल उसके मण्डल से ही कहना चाहिये।)
अथ वेलामण्डलवशेन कम्पानां निष्फलत्वमाह—
हन्त्यैन्द्रो वायव्यं वायुश्चाप्यैन्द्रमेवमन्योऽन्यम्।
वारुणहौतभुजावपि वेलानक्षत्रजाः कम्पाः॥२४॥
इन्द्र के मण्डल में उत्पन्न कम्प वायव्य कम्प का, वायव्य मण्डल में उत्पन्न कम्प
इन्द्रकम्प का, वारुण मण्डल में उत्पन्न कम्प अग्निकम्प का, अग्निमण्डल में उत्पन्न कम्प
वारुण कम्प का, वेलाजात कम्प नक्षत्र कम्प का और नक्षत्रजात कम्प वेलाजात कम्प का
नाश करता है। यदि वायव्य मण्डलान्तर्गत वायव्य वेला में कम्प हो तो अपने फल को
पुष्ट करता है। इसी प्रकार मण्डल का अन्य भी फल जानना चाहिये; अन्यथा नहीं॥२४॥
ऐन्द्रः कम्पो वायव्यं हन्ति। ऐन्द्रमण्डलोत्पन्नो भूकम्पो वायुवेलाजं कम्पं नाशयति।
एवं वायुश्चाप्यैन्द्रं हन्ति। एवमनेनैव प्रकारेण। अन्योऽन्यं परस्परं वारुणहौतभुजावपि।
वारुणमण्डलमग्निजं हन्ति। अग्निर्वारुणजं हन्ति। वेलाजाता नक्षत्रजाताश्च कम्पाः परस्परं
नाशयन्तीत्यर्थः। तस्मान्न फलदाः। वेलामण्डलयोर्भेदा अभेदे त्वतिफलदाः। यथा वायव्ये
मण्डले वायव्यां च वेलायां यः कम्पः स स्वफलं पुष्टं ददात्येवमन्येऽपि बोद्धव्या इति।
अथ वेलामण्डलवशेन कम्पोक्तस्य विशेषमाह—
प्रथितनरेश्वरमरणव्यसनान्याग्नेयवायुमण्डलयोः ।
क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्चापि ॥२५॥
यदि आग्नेय मण्डल और वायव्य वेला में या वायव्य मण्डल और आग्नेय वेला में
भूकम्प हो तो विख्यात राजाओं को मरण या मरणतुल्य कष्ट होता है तथा मनुष्यगण
दुर्भिक्ष, मृत्यु और अवृष्टि से पीड़ित होते हैं॥२५॥
आग्नेयवायुमण्डलयोराग्नेये मण्डले वायव्यां च वेलायाम्। अथवा वायव्यमण्डले
आग्नेय्यां वेलायां भूकम्पस्तस्मिन् प्रथितनरेश्वरमरणव्यसनानि भवन्ति। प्रथिताः प्रख्याता
ये नरेश्वरा राजानस्तेषां मरणं व्यसनानि भवन्ति। मृत्युदुःखं च भवतीत्यर्थः। तथा जना
लोकाः क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते, क्षुद्भयं दुर्भिक्षम्, मरको मरणम्, अवृष्टिरवर्षणम्,
एतैरुपताप्यन्ते॥२५॥
पुनरप्याह—
वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्द्यो लोके।
गावोऽतिभूरिपयसो निवृत्तवैराश्च भूपालाः॥२६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

भूकम्पलक्षणाध्यायः ४२१
यदि वारुण मण्डल और ऐन्द्र वेला में या ऐन्द्र वेला और वारुण मण्डल में भूकम्प
हो तो लोगों में सुभिक्ष, कुशल, वृष्टि और चित्त में शान्ति होती है तथा गौ अधिक दूध देती
है और राजा लोग परस्पर द्वेषरहित होते हैं।।२६।।
वारुणो वरुणकृतः। पौरन्दर ऐन्द्रः। वारुणपौरन्दरयोर्वेलामण्डलयोः सुभिक्षम्।
शिवं श्रेयः। वृष्टिर्वर्षणम्। हार्दिर्चित्ततुष्टिः। एते लोके भवन्ति। तथा गावः। अतिभूरिपयसो
बहुक्षीराः। तथा भूपाला राजानो निवृत्तवैरा नष्टद्वेषा भवन्ति। तथा च काश्यपः—
ऐन्द्रश्चानिलजं हन्ति वायव्यश्चापि शक्रजम्।
आप्यो होतभुजं हन्ति चाग्निवारुणसम्भवम्।।
वाव्यग्निमिश्रितो यश्च वेलामण्डलसम्भवः।
दुर्भिक्षव्याधिरोगैस्तु पीड्यन्ते तत्र जन्तवः।।
माहेन्द्रवारुणे यत्र वेलामण्डलसम्भवः।
सुभिक्षक्षेमधर्माणां तत्र वृष्टिः प्रतिष्ठिता।।
एवमुक्तपरिशेषाणां विशेषफलं नास्ति पाराशरे तन्त्रे विशेषतरं पठ्यते। तथा च—
योऽन्यस्मिन्नक्षत्रे भागे चान्यत्र भूचलो भवति।
स भवेद् व्यामिश्रफलस्तन्मे गदतो निबोध त्वम्।।
कुरुशाल्वमत्स्यनैषधपुण्ड्रांश्चकलिङ्गविन्ध्यपादस्थान्।
वाव्याग्नेयः कम्पः सानलजीवान् भजति मैत्र्याम्।।
प्राच्यशकचीनपह्लवयौधेयकपर्दियक्षवद्गोमान् ।
शरदण्डमगधवन्धकविनाशनः शक्रवायव्यः।।
आवन्तिकाः पुलिन्दा विदेहकाश्मीरदरदवासान्ताः।
बाह्याश्रिताश्च वायव्यवारुणे प्राप्नुयुः पीडाम्।।
ऐक्ष्वाकवाऽश्मरथ्यान् पदच्चराभीरचीनमरुकुत्सान्।
ऐन्द्राग्नेयः कम्पो हिनस्ति राज्ञश्च समुदीर्णान्।।
सरितः सरः समुद्राश्रितांश्च गोनर्दमङ्गनाराज्यम्।
क्षत्रियगणांश्च हन्यात् कम्पो वरुणाग्निदैवत्यः।।
काश्याभिसारकाच्युतकच्छद्रीपार्यदेशजाः पुरुषाः।
गणपूजिताः कुलाग्र्या नृपाश्च वरुणेन्द्रवध्याः स्युः।। इति।।२६।।
अधुना कम्पव्यतिरिक्तानामन्येषामुत्पातानां येषां न कुत्रचित् कालनियमः कृतस्तेषां
कालनियमार्थमाह—
पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्दैवराट् च सप्ताहात्।
सद्यः फलति च वरुणो येषु न कालोऽद्भुतेषूक्तः ॥२७॥
अङ्गस्फुरण आदि उपद्रवों में जिसका फलकाल नहीं कहा गया है, वह यदि वायव्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४२२ बृहत्संहिता
मण्डल में हो तो दो मास में, आग्नेय मण्डल में हो तो तीन पक्ष ( डेढ़ मास ) में, इन्द्र
मण्डल में हो तो सात दिन में और वारुण मण्डल में हो तो उसी दिन फल देता है ॥ २७ ॥
येष्वद्भुतेषूत्पातेषु देहस्पन्दनपिटकप्रायेषु कालः समयो नोक्तो न कथितस्ते यद्यनिले
वायव्ये मण्डले भवन्ति तदा चतुर्भिः पक्षैर्मासद्वयेन फलन्ति। एवमाग्नेयैस्त्रिभिः पक्षैः।
देवराडिन्द्रः सप्ताहात् सप्तभिर्दिनैः। वरुणः सद्यस्तस्मिन्नेवाहनि फलति ॥ २७ ॥
अथ येन मण्डलेन यावन्ति योजनानि चलन्ति तत्प्रदर्शनार्थमाह—
चलयति पवनः शतद्वयं शतमनलो दशयोजनान्वितम्।
सलिलपतिरशीतिसंयुक्तं कुलिशधरोऽभ्यधिकं च षष्टितः ॥ २८ ॥
यदि वायुमण्डल में भूकम्प हो तो दो सौ योजन तक, अग्निमण्डल में हो तो दश
योजन तक, वारुण मण्डल में हो तो एक सौ अस्सी योजन तक और ऐन्द्र मण्डल में
भूकम्प हो तो साठ से अधिक योजन तक पृथ्‍वी को कम्पित करता है ॥ २८ ॥
पवनो वायुर्योजनानां शतद्वयं चलयति। एतदुक्तं भवति—वायव्ये मण्डले यो
भूकम्पो भवति स योजनानां शतद्वयं कम्पयति। एवमनलोऽग्निर्दशयोजनान्वितं दशाधिकं
योजनशतं चलयति। सलिलपतिर्वरुणोऽशीतिसंयुक्तं योजनशतं चलयति। कुलिशं वज्रं
तद्धारयतीति कुलिशधर इन्द्रः षष्टितोऽधिकं योजनशतं चलयति। तथा च काश्यपः—
वायव्ये मण्डले नित्यं योजनानां शतद्वयम्।
दशाधिकमथाग्नेय ऐन्द्रे षष्ठ्याधिकं शतम् ॥
शतं चाशीतिसंयुक्तं वारुणे मण्डले चलेत् ॥ इति ॥ २८ ॥
अथ भूकम्पे वृत्ते पुनर्यदि भूकम्प आसन्नो भवति तस्य फलप्रदर्शनार्थमाह—
त्रिचतुर्थसप्तमदिने मासे पक्षे तथा त्रिपक्षे च।
यदि भवति भूमिकम्पः प्रधाननृपनाशनो भवति ॥ २९ ॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां भूकम्प-
लक्षणाध्याय द्वात्रिंशः ॥ ३२ ॥
यदि भूकम्प होने के बाद तीसरे, चौथे, सातवें, पन्द्रहवें या पैंतालीसवें दिन में फिर
भूकम्प हो तो प्रधान राजा का नाश करता है ॥ २९ ॥
इति 'विमला'हिन्दीटीकायां भूमिकम्पलक्षणाध्यायो द्वात्रिंशः ॥ ३२ ॥
भूकम्पे वृत्ते पुनर्यदि तृतीये दिवसे चतुर्थे वा सप्तमे दिने मासे त्रिंशद्दिने पक्षे पञ्च-
दशाहे। त्रिपक्षे दिनपञ्चचत्वारिंशता भूकम्पो भवति तदा प्रधाननृपाणां प्रतिष्ठितानां राज्ञां
नाशनः क्षयावहो भवति। तथा च गर्गः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA