बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 451, कुल 728 में से
संदर्भ में पढ़ेंदिग्दाहलक्षणाध्यायः ४०९
को भी पीड़ित करता है। उत्तर दिशा में दिखाई दे तो ब्राह्मणों को पीड़ित करता है तथा ईशान
कोण में दिग्दाह दिखाई दे तो पाखण्डी और व्यापारियों को पीड़ित करता है॥३-४॥
प्राक् पूर्वस्यां दिशि दिग्दाह दृष्टः क्षत्रियाणां क्षत्रियजातीनां सनरेश्वराणां नरेश्वरेण
नृपेण सहितानां पीडां करोति। तथा प्राग्दक्षिणे आग्नेय्यां दिशि शिल्पिनां लोहकार-
सुवर्णकारादीनां कुमाराणां च पीडां करोति। याम्ये दक्षिणे वैश्या वैश्यजातयः, उग्रैः क्रूरैः
पुरुषैः सह पीडां व्रजन्ति प्राप्नुवन्ति। दूता गमागमिकाः, पुनर्भूप्रमदाश्च पुनर्भूस्त्रियः। कोणे
नैर्ऋत्यां दिशि पीडां व्रजन्ति। अक्षतयोनित्वाद्या पुनरुह्यते सा पुनर्भूः। तथा च—
पुनर्भूः सोह्यते भूयो याऽक्षतत्वाद्यथाविधि।
पश्चात् शूद्रा इति। शूद्राः शूद्रजातयः, कृषिजीविनः कार्षिकाः पश्चात् पश्चिमायां
दिशि पीडां व्रजन्ति। वायुदिक्स्थे वायव्यां दिशि स्थिते दिग्दाहे चौरास्तुरङ्गैरश्वैः सह पीडां
व्रजन्ति। उत्तरत उत्तरस्यां दिशि विप्रा ब्राह्मणाः पीडां व्रजन्ति। पाखण्डिनो वेदबाह्या
वाणिजकाश्च क्रयविक्रयजीविनः शार्व्यामैशानीं दिशि पीडां व्रजन्ति। तथा च काश्यपः—
प्राच्यां दिशि प्रदीप्तायां श्रेणीनां भयमादिशेत्।
आग्नेय्यां तु कुमाराणां वैश्यानां दक्षिणे तथा॥
नैर्ऋत्यां च स्त्रियो हन्ति शूद्रान् पश्चिमस्तथा।
वायव्यां चौरभयं विप्राणामुत्तरे तथा॥
पाखण्डिवणिजां पीडा ह्यैशानी यदि दीप्यते॥ इति ॥३-४॥
अथ शुभलक्षणमाह—
नभः प्रसन्नं विमलानि भानि प्रदक्षिणं वाति सदागतिश्च।
दिशां च दाहः कनकावदातो हिताय लोकस्य सपार्थिवस्य ॥५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां दिग्दाहलक्षणाध्याय एकत्रिशः ॥३१॥
प्रसन्न ( निर्मल ) आकाश, विमल, ( निर्मल ) नक्षत्र, दक्षिणावर्त्त क्रम से घूमता
हुआ वायु और सुवर्ण की तरह दिग्दाह हो तो राजा के साथ-साथ सब लोगों का हित
करने वाला होता है॥५॥
इति 'विमला' हिन्दीटीकायां दिग्दाहलक्षणाध्याय एकत्रिंशः ॥३१॥
नभ आकाशं प्रसन्नं निर्मलम्, तथा भानि नक्षत्राणि विमलानि स्निग्धानि। सदागतिर्वायुश्च
प्रदक्षिणं वाति प्रदक्षिणेन वहति। दिशां दाहो दिग्दाहः कनकावदातः कनकवत् सुवर्णवद-
वदातो निर्मलस्तथाभूतः सपार्थिवस्य सनृपस्य लोकस्य जनपदस्य हिताय श्रेयसे भवति।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ दिग्दाहलक्षणं नामैकत्रिंशोऽध्यायः ॥३१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA