सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 447, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 447

सन्ध्यालक्षणाध्यायः ४०५
यदि सन्ध्याकाल में सूर्य के सम्मुख स्थित हुये पक्षी, शृगाल और मृगों के शब्दों से
दण्ड, धूलि, परिघ आदि ( इन्द्रधनु, गन्धर्वनगर या हिम ) से अथवा प्रतिदिन विकारयुक्त
सूर्य से युक्त सन्ध्या हो तो देश, राजा और सुभिक्ष का नाश करती है।।३०।।
एवंविधा सन्ध्या देशस्य जनपदस्य नरेशस्य राज्ञः सुभिक्षस्य च बधाय नाशाय
भवति। कीदृशी? दीप्तैः सूर्याभिमुखैर्विहङ्गैः पक्षिभिस्तथा शिवाभिर्दीप्ताभिः। मृगैरारण्य-
प्राणिभिर्घृष्टा कृतशब्दा, तथा दण्डेन रजसा परिघेण च युता संयुक्ता। आदिग्रहणात् सुर-
चापगन्धर्वनगरनीहारा ज्ञेयाः। प्रत्यहं प्रतिदिनमर्कविकारयुता वा। सविकारार्कसंयुक्ता।
स्वरूपान्यत्वं विकारता। तथा च पराशरः—
‘अथ सन्ध्यासु द्वियोजनान्तरे देश सद्यः फलमादिशेत्। रश्मिसंयुक्तायां तु सप्त-
रात्रनिवाते निर्मलस्निग्धायां शान्तमृगद्विजायां प्रसन्नायामनुपहतायां सन्ध्यायां योगक्षेमं
विन्द्याद्विपर्ययं विपरीतायाम्। श्वेतायां वसुवृद्धिं तस्यामेव परिमण्डलायां रक्तायाम्। हरितायां
शस्त्रकोपम्। माञ्जिष्ठायामग्निं पीतायां चतुष्पाद्रोगं श्यावायां चौरतो भयम्। नीलपीतायामीतिं
गवाम्। हरितालवर्णायां प्रथमामात्यस्य शस्त्रेण बधम्। आम्रकोरकवर्णायां वर्षं नील-
रक्तायामवग्रहं च कृष्णायामवर्षम्। श्यावकृष्णागौर्य्यां पशुघातं विन्द्यात्। वातं कपिला-
यामस्तमितमात्रे सूर्ये यातिमात्रप्रकाशः स्यात् प्रभा सा नाम तस्यां वर्षं विन्द्यात्। प्रत्यूषसि
तद्रूपायामेव राज्ञः सेनापतेर्वा बधः स्यात्। महावर्षं रूप्यवर्णायां च तस्यामेव ताम्रमध्यायां
कृष्णायामनृतौ वर्षमृताववग्रहम्। तथा पीतमाञ्जिष्ठा अग्निजीविनां बधाय। लोहितश्यावा
चौरवृद्धये। सर्वा एव च त्रिरात्राः पञ्चरागा वा युद्धाय यच्चालोहितेनैव लिम्पेत्तस्य
बधाय। स्निग्धा तु गौरी योगक्षेमाय’। भवति चात्र—
प्रतिसूर्यः शक्रधनुर्दण्डकः परिवेषणम्।
तथैरावतमत्स्याश्च स्निग्धा ये चार्करश्मयः।।
विद्युतो भूरिकाराश्च वर्णा ये च प्रदक्षिणाः।
सन्ध्यासु यदि दृश्यन्ते सद्यो वर्षणलक्षणम्।। इति।
तथा च काश्यपः—
दिनरात्र्यन्तरं सन्ध्या सूर्यस्यार्द्धं प्रदृश्यते।
यावच्च तावदारभ्य शुभा वाप्यशुभापि वा।।
नभोऽमलं शुभदिशः पद्मारुणसमप्रभाः।
मारुतो वाति सुरभिः सुखदो मृदुशीतलः।।
एषा सन्ध्या शुभा ज्ञेया विपरीताऽशुभा स्मृता।
रूक्षा च सविकारार्का क्रव्यादखरनादिता।।
स्निग्धा दण्डपरिवेषा सुरचापविभूषिता।
क्षिप्रं वर्षप्रदा सन्ध्या जयाऽऽरोग्यविवृद्धिदा।। इति।।३०।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA