बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 456, कुल 728 में से
संदर्भ में पढ़ें४१४ बृहत्संहिता
हुई और वृक्षों को तोड़ती हुई हवा चलती है एवं सूर्य के किरण मन्द हो जाते हैं। वायव्य
भूकम्प होने से धान्य, जल और वनौषधियों का नाश होता है तथा व्यापारियों को शोथ,
दमा, उन्माद, ज्वर और खाँसी से उत्पन्न पीड़ा होती है। यह वेश्या, शस्त्रजीवी, वैद्य,
कवि, गान विद्या जानने वाले, व्यापारी, शिल्पी तथा सौराष्ट्र, कुरु, मगध, दशार्ण और
मत्स्यदेशवासी मनुष्यों को पीड़ित करता है॥८-११॥
चत्वार्यार्यम्णाद्यानीति । आर्यम्णमुत्तरफल्गुनी तदाद्यानि चत्वारि नक्षत्राणि। उत्तर-
फल्गुनी हस्तश्चित्रा स्वातिरिति। आदित्यं पुनर्वसुः। मृगशिरः सौम्यम्। अश्वयुगश्विनीत्येतानि
सप्त नक्षत्राणि वायव्यमण्डलम्। एतेषामन्यतमर्क्षे यदि भूकम्पो भवति तदा तद्वायव्यं ज्ञेय-
मिति। अस्य रूपाणि सप्ताहात्। अस्य च मण्डलस्य सप्ताहात्पूर्वं वक्ष्यमाणानि रूपाणि
पूर्वलिङ्गानि भवन्ति।
तान्याह—धूमाकुलीकृताश इति । यदा वायव्यकम्पो भवति, तदा चैतानि प्राक्स्थितानि
लिङ्गान्युत्पद्यन्ते। नभस्याकाशे धूमाकुलीकृताशे। धूमेन आकुली कृता आशा दिशो यत्र
तथाभूते। नभस्वान् वायुर्भौमं भूमेरुत्थं रजो धूलिं क्षिपन् प्रेरयन् विचरति। तथा द्रुमान्
वृक्षान् विरुजन् विभञ्जयन् विचरति। रविरादित्यः। अपटुकरावभासी च भवति। अपटुभिरचतुरैः
करै रश्मिभिरवभासनं प्रकाशं करोति तच्छीलः। तथा च गर्गः—
प्रथमेऽह्नि चतुर्भागे निर्घातोल्कामहीचलाः।
सौम्यादित्यार्यम्णहस्तचित्रास्वात्यश्विनीषु च।।
भवन्त्यनिलजाः सर्वे लक्षणान्यवधारय।
धूमव्याप्ता दिशः सर्वा नभस्वान् प्रक्षिपन् रजः।।
द्रुमांश्च भञ्जंश्चरति रविस्तपति शीतलः।
सप्तमेऽहनि कम्पः स्याद् भूमेरनिलसम्भवः।। इति।
तस्मादस्य रूपाणि सप्ताहादिति यदुक्तं तत्र प्राप्तलिङ्गानीति बोद्धव्यम्। तत्र फला-
न्याह—
वायव्ये भूकम्पे सस्यानां शालीनामम्बुनो जलस्य वनानामरण्यानामौषधीनां च क्षयो
विनाशोऽभिहित उक्तः। तथा श्वयथुः शोफः। श्वासः। उन्मादो विचित्तता। ज्वरः। कासः।
एषां भवः सम्भवः। वणिजां क्रयविक्रयजीविनां च पीडा व्यथा।
तथा रूपायुधभृदिति। रूपभृतो वेश्याजनाः। आयुधभृतः शस्त्रोपजीविनः। वैद्याः
कायचिकित्सकाः। स्त्रियो योषितः। कवयः काव्यकर्तारः। गान्धर्वा गायकाः। पण्याः
पण्येन ये जीवन्ति जनाः। तथा शिल्पिनो लोहकारप्रभृतयः। अथवा पण्यमेव शिल्पं
येषां ते पण्यशिल्पिजनाः। एते सर्वे पीड्यन्ते। तथा सौराष्ट्रका जनाः। कुरवः। मगधाः।
दशार्णाः। मत्स्याः। एतेऽपि पीड्यन्ते।
एवमाचार्येण गर्गऋषिपुत्रयोर्मतमङ्गीकृतम्। वृद्धगर्गपराशरकश्यपैः सह मतभेदः।
तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA